संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|रूपकालंकारः| लक्षण १२ रूपकालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २१ लक्षण २२ लक्षण २३ लक्षण २४ लक्षण २५ लक्षण २६ रूपकालंकारः - लक्षण १२ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरण लक्षण १२ Translation - भाषांतर अत्र विषयमालाकृतो न कश्चिच्चमत्कारविशेष इति न पृथग्भेदगणनायां गण्यते । आरोप्यमाणसाला तु चमत्कारविशेषशालित्वाद्नण्यत एव ।अथ कथं नाम श्लिष्टपरम्परिते ‘ कमलावासकासार ’ इत्यादावेकस्या-रोपस्यारोपान्तरोपायत्वम् । यत: श्लेषेण कमलानामावासस्य कमलाय़ा वासस्य चाभेदमात्रमत्र प्रतीयते, नैकत्रान्यारोप: । तस्य स्वतन्त्रविषय-निर्देशापेक्षत्वात् । न च शुद्धाभेदप्रत्यय एवारोप: । विषयनिगरणात्मि-कायामतिशयोक्तावपि तत्प्रसड्रात् । न च शुद्धाभेदप्रत्ययेनात्रार्थ: यत्संब-न्धिनि यत्संबन्प्यभेदस्तस्मिंस्तदभेद इति ‘ कमलावासकासार: ’ इत्यादौराजनि कासारारोपो राजसंबन्धिनि लक्ष्म्याश्रयत्वे कासारसंबन्धिसरोजा-श्रयत्वाभेदारोपेण समर्थयितुं शक्य: । श्लेषेण तु पुनर्लक्ष्म्याश्रयत्वसरोजा-श्रयत्वयोरभिन्नत्वेन प्रत्ययादभिन्नधर्मनिबन्धनो राजकासारयोरप्यभेद-प्रत्यय: स्यात्, न तु राजनि विषये कासारविषयिकस्यारोपस्य प्रकृतस्य सिद्धि: । इमावभिन्नावित्याद्याकारस्य शुद्धाभेदप्रत्ययस्याप्रकृतत्वात्प्रागुक्त आरोपो मृग्य: । स च न श्लेषसाध्य: इति । सत्यम् । श्लेषेण शुद्धाभेद-प्रतीतौ सत्यां प्रकृतारोपसमर्थनायान्तरा मानसस्य राजसंबन्धिनि N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP