इन्द्राणीसप्तशती - सप्तमं जागतं शतकम्
‘ इन्द्राणीसप्तशती ’ गाथेचा पाठ केल्याने इंद्राची स्तुती केल्याचे पुण्य मिळते.
॥प्रथमो द्रुतविलम्बितपादः ॥
सुरमहीरमणस्य विलासिनी जलचरध्वजजीवितदायिनी ।
हरतु बोधदृगावरणं तमो हृदयगं हसितेन सितेन मे ॥६०१॥
नमदमर्त्यकिरीटकृतैः किणैः कमठपृष्ठनिभे प्रपदेऽङ्किता ।
परिधुनोतु शची भरतक्षितेर्वृजिनजालमजालमकम्पनम् ॥६०२॥
अतितरां नतपालनलोलया विबुधनाथमनोहरलीलया ।
किरिमुखीमुखशक्त्युपजीव्यया विदितयादितया गतिमानहम् ॥६०३॥
घनहिरण्यमदापहरोचिषा वनरुहाननयाऽवनदक्षया ।
गतिमदिन्द्रमनोरथनाथया भुवनमेव न मे कुलमात्रकम् ॥६०४॥
तनुषु वामनमूर्तिधरे विभौ तमनुयाच विराजति वामनी ।
शरणवाननयाम्बिकया लसत् करुणयाऽरुणया पदयोरहम् ॥६०५॥
सकरुणा कुशलं मम रेणुकातनुरजा तनुतादुदितो यतः ।
युधि मुनिर्विदधौ परशुं दधज्जनपतीनपतीव्रभुजामदान् ॥६०६॥
सुजनशत्रुरमाथि घनध्वनिः शचि सरात्रिचरस्तव तेजसा ।
जननि रामसहोदरसायकं प्रविशताऽविशतादधिकौजसा ॥६०७॥
तव महःकलयाबलमाप्तया जननि शुम्भनिशुम्भमदच्छिदा ।
जगदरक्ष्यत गोपकुलेशितुस्तनुजयाऽनुजयार्जुनसारथेः ॥६०८॥
न विनिरूपयितुं प्रबभूव यां कविजनो विविधं कथयन्नपि ।
मुनिहृदम्बुजसौधतलेन्दिरा जयति सा यतिसाधुजनावनी ॥६०९॥
इममयि त्रिदिवेश्वरि कल्किनं रुषमपोह्य सवित्रि विलोकितैः ।
सुरपतेर्द्विषतोऽघवतो लसन् मदनकैरवकैरवलोचने ॥६१०॥
स्मरदमर्त्यनृपालविलासिनीं प्रबलपातकभीतिविनाशिनीम् ।
प्रवणयान्तरनन्यधिया लसद्विनययानययामवतीर्मनः ॥६११॥
भगवतीगगनस्थलचारिणी जयति सङ्गररङ्गविहारिणी ।
सुकृतशत्रुमतिभ्रमकारिणी हरिहयारिहयादिविदारिणी ॥६१२॥
शरणवानहमर्जुनहासया भुवनभूपतिहारिविलासया ।
दिवि पुलोमजया धवलाचले गिरिजयाऽरिजयावितदेवया ॥६१३॥
चरणयोर्धृतया विजयामहे वयमशेषजगन्नृपजायया ।
दिवि पुलोमजया धवलाचले नगजया गजयानविलासया ॥६१४॥
अरिवधाय विधाय बुधाधिपं पटुभुजाबलभीषणमाजिषु ।
न भवती शचि गच्छति दुर्गतः क्वचन काचन कातरधीरिव ॥६१५॥
सपदि मानसधैर्यहृतो जगज्जननि वज्रतनोर्ज्वलितार्चिषः ।
अरिजने प्रथमं तव वीक्षया सुरपतेरपतेजसि वि क्रमः ॥६१६॥
न मननोचितमस्ति परं नृणां विबुधराजवधूपदपद्मतः ।
जगति दर्शनयोग्यमिहापरं न रमणी रमणीयमुखाब्जतः ॥६१७॥
शरणवानहमस्मि पुरातनप्रमदया मुनिगेयचरित्रया ।
स्वबलचालितनाकजगन्नभो वसुधया सुधया सुरराड्दृशाम् ॥६१८॥
अयमहं गतिमानतिशान्तया त्रिदिवभूमिपतिप्रियकान्तया ।
मनसि मौनिजनैरतिभक्तितो निहितया हितया सुकृतात्मनाम् ॥६१९॥
विनयतः स्तुतया गमयाम्यहं जनिमतां जनयित्रि निशास्त्वया ।
प्रसृतया कुलकुण्डधनञ्जयाद्धृततनूततनूतनवेगया ॥६२०॥
सकृदमोघसरस्वतिसाधुधी हृदयवेद्यपदाम्बुजसौष्ठवे ।
मम शिवं सुमनः पृथिवीपतेः सुवदने वद नेत्रलसद्दये ॥६२१॥
दुरवगाहपथे पतितं चिराज्जननि गम्यविलोकनलालसम् ।
स्वयममर्त्यनृपालमनोरमे सुनयने नयनेयमिमं जनम् ॥६२२॥
अवतु नः स्वयमेव पटून् विपद्विमथनाय विधाय बुधेश्वरी ।
सकलमर्मसुवीतदयैः परैर्विनिहतानिह तापवतः शची ॥६२३॥
सुरधरापतिजीवितनाथया स्वजननक्षितिरक्षणकर्मणि ।
पटुतमो जन एष विधीयतामिह तया हतया तु समूहया ॥६२४॥
गणपतेः शृणुयादिममुज्वलं द्रुतविलम्बितवृत्तगणं शची ।
सलिलराशिसुताभवनीभवद्भुवनपावनपादसरोरुहा ॥६२५॥
॥द्वितीयो जलोद्धतगतिपादः ॥
हरित्सु परितः प्रसादमधिकं दधानममलत्विषां प्रसरणैः ।
महेन्द्रमहिलाविलासहसितं मदन्तरतमो धुनोतु विततम् ॥६२६॥
प्रसूस्त्रिजगतः प्रिया मघवतः कृपाकलितया कटाक्षकलया ।
नितान्तमगतेर्विकुण्ठितमतेर्धुनोतु भरतक्षितेरकुशलम् ॥६२७॥
पुरा शचि मतिस्त्वमीशितुरथो नभस्तनुमिता पृथङ्मतिमती ।
अनन्तरमभूः सरोजनयना तनुः सुरपतेर्विलोचनसुधा ॥६२८॥
परत्र विगुणा सतोऽसि धिषणा नभस्तनुरिह प्रपञ्चमवसि ।
असि स्वरबला प्रिया सुरपतेरियत्तव शचि स्वरूपकथनम् ॥६२९॥
प्रजापतिपदे पुराणपुरुषे स्मृता त्वमदितिः सुरासुरनुते ।
जनार्दनपदे रमासि परमे सदाशिवपदे शिवा त्वमजरे ॥६३०॥
उषा इनपदे स्वधाऽनलपदे पुरन्दरपदे त्वमीश्वरि शची ।
यथा रुचिविदुः पदानि कवयश्चितैश्च चितिमान्युवामृजुगिरा ॥६३१॥
अमेयममलं पुराणपुरुषं तदीयविभवाभिधायिभिरिमे ।
वदन्ति कवयः पदैर्बहुविधैस्तथैव भवतीं ततो मतभिदाः ॥६३२॥
नभश्च पवनः स्वरश्च परमस्तटिच्च वितता पतिश्च महसाम् ।
सुधांशुरनलो जलं च पृथिवी सवित्रि युवयोर्विभूतिपटली ॥६३३॥
अपारबहुलप्रमोदलहरी सतः किलचितिः परत्र वितता ।
पुनर्वियदिदं परीत्य निखिलं जगन्ति दधती परा विजयते ॥६३४॥
न यद्यपि परात्परे नभसि ते सरोजनयना वपुः पृथगजे ।
तथापि नमतां मतीरनुसरन्त्यमेयविभवे दधासि च तनूः ॥६३५॥
सह त्रिभुवनप्रपालनकृता समस्तमरुतां गणस्य विभुना ।
सदा शशिमुखी शरीरभृदजा जगत्यदुरिते शची विजयते ॥६३६॥
कुलं बहुभिदं बलं न भुजयोः कथं नु विपदस्तरेम भरताः ।
समर्थमधुना विपद्विधुतये तवाम्ब चरणं व्रजामि शरणम् ॥६३७॥
समस्तमपि च स्वदेशविदुषां विधानपटलं बभूव विफलम् ।
अभाग्यदमनक्षमं तदधुना तवाम्ब चरणं व्रजामि शरणम् ॥६३८॥
निजो मम जनो नितान्तमगतिर्न कुक्षिभरणेऽप्ययं प्रभवति ।
महेश्वरि कृपामरन्दमधुना तवाम्ब चरणं व्रजामि शरणम् ॥६३९॥
अदृष्टकनकं कुलं मम चिरान्निरायुधमिदं निराशमभितः ।
स्वभावत इव प्रबद्धमभवत्तवाम्ब चरणं व्रजामि शरणम् ॥६४०॥
अवीरचरितं विपालककथं निरार्षविभवं चिरान्मम कुलम् ।
इदं मम मनो निकृन्तति मुहुस्तवाम्ब चरणं व्रजामि शरणम् ॥६४१॥
चिरात्स्मृतिपथादपि च्युतमजे तपोबलभवं तमार्षविभवम् ।
स्वदेशमधुना पुनर्गमयितुं तवाम्ब चरणं व्रजामि शरणम् ॥६४२॥
हतं च विहतं धुतं च विधुतं रुदन्तमभितो विशिष्टकरुणे ।
इमं स्वविषयं शिवं गमयितुं तवाम्ब चरणं व्रजामि शरणम् ॥६४३॥
क्षयाय सुकृतद्विषां विहरतां शिवाय च सतां प्रपञ्चसुहृदाम् ।
निजस्य मनसो बलाय च परे तवाम्ब चरणं व्रजामि शरणम् ॥६४४॥
जयत्सु सुकृतं द्विषत्सु परितः सतामपि कुले बलेन रहिते ।
खलप्रिययुगे कलौ परिणते तवाम्ब चरणं व्रजामि शरणम् ॥६४५॥
अभाति सुकृते निगूढविभवे विभाति दुरिते फलानि दिशति ।
विधानविकले मनस्यभयदे तवाम्ब चरणं व्रजामि शरणम् ॥६४६॥
पटौ प्रतिभटे गदे प्रतिभये नतावनविधावतीव निपुणम् ।
सुपर्वभुवनक्षितीशदयिते तवाम्ब चरणं व्रजामि शरणम् ॥६४७॥
अमर्त्यपटलीकिरीटमणिभाभुजङ्गकिरणं नितान्तमरुणम् ।
विपत्तिदमनं तमः प्रशमनं तवाम्ब चरणं व्रजामि शरणम् ॥६४८॥
विनष्टविभवामिमां पुनरपि श्रियाविलसितां विधातुमजरे ।
स्वजन्मपृथिवीं स्वरीशदयिते दिशेर्गणपतेः कराय पटुताम् ॥६४९॥
सुपर्ववसुधाधिनाथसुदृशो जलोद्धतगतिस्तवोऽयमनघः ।
कृतिर्गणपतेः करोतु विधुतिं भयस्य भरतक्षमातलजुषाम् ॥६५०॥
॥तृतीयः प्रमिताक्षरपादः ॥
उदितं महेन्द्रमहिलावदने प्रसृतं करैर्दिशि दिशि प्रगुणैः ।
अहितं तमः प्रशमयद्यमिनां हसितं करोतु मम भूरि शिवम् ॥६५१॥
भरतक्षितेस्तिमिरमाशु हरत्वरिचातुरीकृतविमोहमतेः ।
रविलक्षतोऽप्यधिकमंशुमती पविपाणिचित्तदयिता वनिता ॥६५२॥
शशिलक्षशीतलकटाक्षसुधा तरुणार्ककोटिरुचिपादयुगा ।
हृदि मे विभातु मुनिगेयगुणा विबुधेन्द्रचित्तरमणी तरुणी ॥६५३॥
कमनीयदीप्तसुकुमारतनुर्मननीयपावनपदाम्बुरुहा ।
विदधातु मे शिवमसद्विमुखी विबुधेन्द्रजीवितसखी सुमुखी ॥६५४॥
अनुमानमूढपितृवाक्यवशात्तनयेन देवि विनिकृत्तशिराः ।
तव रेणुका विलसिता कलया गणनीयशक्तिरभवद्दशसु ॥६५५॥
सकलामयप्रशमनं दुरितक्षयकारिकाङ्क्षितकरं च भवेत् ।
सुरसुन्दरी जनसमर्चतयोर्हृदि रेणुकाचरणयोः करणम् ॥६५६॥
विनिहन्ति पापपटलं स्मरणाद्विधुनोति रोगनिवहं भजनात् ।
विदघाति वाञ्छिततफलं स्तवनान्मनुजस्य रामजननी चरणम् ॥६५७॥
शरणं व्रजामि नवरव्यरुणं चरणं तवाम्ब नृपजातिरिपोः ।
भरतक्षितेरवनतः प्रथमं मरणं ममेह न भवत्वधमम् ॥६५८॥
स्मरणं चिरादविरतं विदधच्चरणस्य ते तरुणभानुरुचः ।
अयमस्तु रामजनयित्रिपटुः सुरकार्यमार्यविनुते चरितुम् ॥६५९॥
अव भारतक्षितिममोघदये करणं भवत्विह तवैष जनः ।
निजयोः सवित्रि चरणाम्बुजयोर्न विहातुमर्हसि चिराद्भजकम् ॥६६०॥
अविशस्त्वमिन्द्रदयिते किलतामपि यज्ञसेनतनयां कलया ।
अनघव्रतासु कवयः प्रथमां प्रवदन्ति यां बहुलवन्द्यगुणाम् ॥६६१॥
भुवि भारतं पठति यः सुकृती कलुषं धुनोति सकलं किल सः ।
इयमम्ब शक्तिकुलराज्ञि तव द्रुपदस्य नन्दिनि कथामहिमा ॥६६२॥
अभिमन्युमातरमनल्पगुणामतिलङ्घ्य चैक्षत हरिर्भवतीम् ।
अतिसौहृदेन यदिहार्यनुते तव हेतुरीड्यतमशक्तिकला ॥६६३॥
गृहकार्यतन्त्रचतुरा गृहीणी सकलेएन्द्रियामृतझरी रमणी ।
वरनीतिमार्गकथने सचिवोऽप्यभवस्त्वमम्ब कुरु वंशभृताम् ॥६६४॥
न युधिष्ठिरस्य वरघोरतपो न धनञ्जयस्य पटु बाहुबलम् ।
अरिसङ्क्षयं कृतवती बहुलं तव वेणिकाऽपचरिता फणिनी ॥६६५॥
असितापि कान्तिवसतिर्महती वनिताजनस्य च विमोहकरी ।
कुशलं ममाभ्रपतिशक्तिकला द्रुपदक्षितीन्द्रदुहिता दिशतु ॥६६६॥
शिरसा समस्तजनपापभरं वहतो भवाय भुवि यामवृणोत् ।
अमराधिपः पतितपावनि तां भुवि कन्यकां तव विवेश कला ॥६६७॥
कलया तवातिबलया कलिता पुरुषस्य योगमखिलाम्ब विना ।
अखिलेश्वरप्रहिततेज इयं सुतजन्मने किल दधावनघा ॥६६८॥
सुररक्षकस्य मदयित्रि दृशां नररक्षकस्य जनयित्रि परे ।
कुलरक्षणाय कृतबुद्धिमिमं कुरु दक्षमद्भुतपवित्रकथे ॥६६९॥
मुमुचुः कुले मम सुपर्वपतेस्तव चाभिधेयमिह मन्दधियः ।
अपराधमेतमतिघोरतरं जननि क्षमस्व मम वीक्ष्य मुखम् ॥६७०॥
इह शारदेति यतिभिर्विनुता प्रथिता सुरेश्वरमनोदयिता ।
भुवि भाति कीर्तिवपुषा शचि या सुकथापि सा तव सवित्रि कला ॥६७१॥
अरुणाचलेश्वरदरीवसतेस्तपतो मुनेर्गणपतेः कुशलम् ।
विविधावतारविलसच्चरिता वितनोतु सा विबुधराड्वनिता ॥६७२॥
अरुणाचलस्य वरकन्दरया प्रतिघोषितं कलुषहारि यशः ।
विबुधाधिनाथरमणी शृणुयाद्गणनाथगीतमतिचारुनिजम् ॥६७३॥
भरतक्षितेः शुभविधायिषु सा विबुधक्षितीशदयिता दयया ।
धनशक्तिबन्धुबलहीनमपि प्रथमं करोतु गणनाथमुनिम् ॥६७४॥
मुदितामिमा विदधतु प्रमदां त्रिदिवाधिपस्य निपुणश्रवणाम् ।
अमितप्रकाशगुणशक्तिमजां प्रमिताक्षराः सुकविभूमिपतेः ॥६७५॥
॥चतुर्थस्तामरसपादः ॥
दिशतु शिवं मम चन्द्रवलक्षस्तिमिरसमूहनिवारणदक्षः ।
कृतगतिरोधकपातकनाशः सुरधरणीशवधूस्मितलेशः ॥६७६॥
अविदितमार्गतयातिविषण्णां गतिमपहाय चिराय निषण्णाम् ।
भरतधरामनिमेषधरत्री पतिगृहिणी परिपातु सवित्री ॥६७७॥
भुवनमिदं भवतः किल पूर्वं यदमलरूपमनाकृतिसर्वम् ।
प्रकृतिरियं कुरुताददरिद्रामतिमतिशाततरां मम भद्रा ॥६७८॥
सृजति जगन्ति विभौ परमे या सुबहुलशक्तिरराजत माया ।
प्रदिशतु सा मम कञ्चन योगं झटिति निराकृतमानसरोगम् ॥६७९॥
प्रतिविषयं विकृतीतर सत्ता विलसति या मतिमद्भिरुपात्ता ।
इयमनघा परिपालितजातिं वितरतु मे विविधां च विभूतिम् ॥६८०॥
प्रतिविषयग्रहणं परिपूतामतिरखिलस्य जनस्य च माता ।
मम विदधातु शुभं शुभनामा त्रिदिवनिवासिनरेश्वररामा ॥६८१॥
गगनतनुर्जगतो विपुलस्य प्रभुपदमग्रय्मिता सकलस्य ।
प्रतिजनदेहमजा प्रवहन्ती मम हृदि नन्दतु सा विहरन्ती ॥६८२॥
पटुकुलकुण्डधनञ्जयकीला समुदितहार्दविभाकरलीला ।
द्रुतशिर इन्दुकलामृतधारा जनमवतान्निजभक्तमुदारा ॥६८३॥
विषयसमाकृतिरत्र पुरस्ताद्विमलतमा किल तत्र परस्तात् ।
भुवनमयी भुवनाच्च विभक्तामतिरनघाऽवतु मामतिशक्ता ॥६८४॥
विषयपरिग्रहणेष्वतिसक्ता विषयविभूतिषु कापि विविक्ता ।
अखिलपतेर्मयि दीव्यतु शक्तिर्विमलतमा विधुतेतरशक्तिः ॥६८५॥
दृशि दृशि भाति यदीयमपापं दिशि दिशि गन्तृ च वेत्तृ च रूपम् ।
भवतु शिवाय ममेयमनिन्द्या भुवनपतेर्गृहिणी मुनिवन्द्या ॥६८६॥
जडकुलकुण्डदरीषु शयाना बुधकुलवह्निषु भूरिविभाना ।
हरिहयशक्तिरमेयचरित्र मम कुशलं विदधातु पवित्र ॥६८७॥
दहरगताखिलमाकलयन्ती द्विदलगता सकलं विनयन्ती ।
दशशतपत्रगता मदयन्ती भवतु मयीन्द्रवधूर्विलसन्ती ॥६८८॥
गृहयुगलीश्रिय आश्रितगम्या पदकमलद्वितयी बहुरम्या ।
मम हृदि भात्वविकुण्ठितयाना हरिसुदृशस्तरुणारुणभाना ॥६८९॥
उपरि तता कुलकुण्डनिशान्ताज्ज्वलितधनञ्जयदीधितिकान्तात् ।
हरिहयशक्तिरियं मम पुष्टा द्रवयतु मस्तकचन्द्रमदुष्टा ॥६९०॥
नभसि विराजति या परशक्तिर्मम हृदि राजति या वरशक्तिः ।
उभयमिदं मिलितं बहुवीर्यं भवतु सुखं मम साधितकार्यम् ॥६९१॥
त्रिभुवनभूमिपतेः प्रिययोषा त्रिमलहरी सुरविष्टपभूषा ।
मम वितनोतु मनोरथपोषं दुरितविपत्तिततेरपि शोषम् ॥६९२॥
पवनजगत्प्रभुपावनमूर्तिर्जलधरचालनविश्रुतकीर्तिः ।
मम कुशलाय भवत्वरिभीमा जननवतां जननी बहुधामा ॥६९३॥
मम सुरराजवधूकलयोग्रा खलजनधूननशक्तनखाग्रा ।
दमयतु कृत्तशिराः कलुषाणि प्रकटबला हृदयस्य विषाणि ॥६९४॥
कुलिशिवधूकलया परिपुष्टा बुधनुतसन्नुणजालविशिष्टा ।
मम परितो विलसद्विभवानि द्रुपदसुता विदधातु शिवानि ॥६९५॥
सुरजनराड्दयितांशविदीप्ते पदकमलाश्रितसाधुजनाप्ते ।
दुरितवशादभितो गतभासं मनुजकुमारजनन्यवदासम् ॥६९६॥
अमरनरेश्वरमन्दिरनेत्री सुमशरजीवनसुन्दरगात्री ।
भवतु शची विततस्वयशस्सु प्रतिफलिता गणनाथवचस्सु ॥६९७॥
विकसतु मे हृदयं जलजातं विलसतु तत्र शचीस्तुतिगीतम् ।
स्फुरतु समस्तमिहेप्सितवस्तु प्रथिततमं मम पाटवमस्तु ॥६९८॥
कुरु करुणारससिक्तनिरीक्षे वचनपथातिगसन्नुणलक्षे ।
शचि नरसिंहजमाहितगीतं भरतधरामवितुं पटुमेतम् ॥६९९॥
सुललिततामरसैः प्रसमाप्तं वरनुतिबन्धमिमं श्रवणाप्तम् ।
जननि निशम्य सुसिद्धमशेषं हरिललने मम कुर्वभिलाषम् ॥७००॥
॥इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः गणपतेः कृतौ इन्द्राणीसप्तशती समाप्ता ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP