संस्कृत सूची|संस्कृत साहित्य|पुराण|इन्द्राणीसप्तशती| प्रथमं गायत्रं शतकम् इन्द्राणीसप्तशती प्रथमं गायत्रं शतकम् द्वितीयमौष्णिहं शतकम् तृतीयमानुष्टुभं शतकम् चतुर्थं बार्हतं शतकम् पञ्चमं पाङ्क्तं शतकम् षष्ठं त्रैष्टुभं शतकम् सप्तमं जागतं शतकम् इन्द्राणीसप्तशती - प्रथमं गायत्रं शतकम् ‘ इन्द्राणीसप्तशती ’ गाथेचा पाठ केल्याने इंद्राची स्तुती केल्याचे पुण्य मिळते. Tags : godgoddessindranistotraइन्द्राणीदेवतादेवीसंस्कृतस्तोत्र प्रथमं गायत्रं शतकम् Translation - भाषांतर ॥प्रथमः शशिवदनापादः ॥हरिललने मे पथि तिमिराणि । हरदरहासद्युतिभिरिमानि ॥१॥अगतिमवीर्यामपगतधैर्याम् । अवतु शची मे जनिभुवमार्याम् ॥२॥शृणु करुणावत्यलघुमखर्वे । स्तवमहमार्यस्तव शचि कुर्वे ॥३॥त्रिजगदतीतो विलसति नित्यः । अणुरणुतो यो भगवति सत्यः ॥४॥त्वमखिलकार्येष्वयि धृतसक्तिः । उरुगतिरस्य प्रभुतमशक्तिः ॥५॥विदुरिममेके जगति महेन्द्रम् । जगुरयि केचिज्जननि महेशम् ॥६॥अवगतवेदो वदति महेन्द्रम् । परिचिततन्त्रो भणति महेशम् ॥७॥जननि शचि त्वं प्रथमदलस्य । भगवति दुर्गास्यपरदलस्य ॥८॥न शचि शिवातस्त्वमितरदैवम् । बहुमुनिवाणीसमरसतैवम् ॥९॥दिवि च सिताद्रौ शचिवपुषोर्वाम् । पृथगुपलम्भादयि भिदयोक्तिः ॥१०॥तनुयुगमूलं वपुरतिमायम् । करचरणाद्यैर्वियुतममेयम् ॥११॥त्वमुदरवर्तित्रिभुवनजीवा । भवसि शची सा जननि शिवा वा ॥१२॥विभुशुचिकीलाततिरयि धूमम् । त्वममरमार्गं बत वमसीमम् ॥१३॥जयसि नभस्थो जननि परस्तात् । नभसि च भान्ती भवसि पुरस्तात् ॥१४॥त्वमतनुरम्ब ज्वलसि परस्तात् । इह खशरीरा लससि पुरस्तात् ॥१५॥जननि परस्तान्मतिरसि भर्तुः । असि खशरीरा पृथगवगन्त्री ॥१६॥अणुचयरूपं भगवति शान्तम् । न भवति शून्यं तदिदमनन्तम् ॥१७॥दिवि दधतीशे पुरुषशरीरम् । जननि पुरन्ध्री तनुरभवस्त्वम् ॥१८॥दृशि विलसन्तं प्रभुमुपयान्ती । भवसि विराट् त्वं नृतनुषु भान्ती ॥१९॥तव गुणगानं जननि विधातुम् । भवति पटुः को वियदिव मातुम् ॥२०॥भगवति तृप्तिर्भवतु न वा ते । अभिलषिताप्तिर्भवतु न वा मे ॥२१॥भजति तवाङ्घ्रिं मम खलु भाषा । पति मनुरागात् प्रियमिव योषा ॥२२॥अघमपहर्तुं शुभमपि कर्तुम् । अलमजरे ते गुणगणगानम् ॥२३॥अवसि जगत्त्वं कुलिशिभुजस्था । अव मुनिभूमिं गणपतिधीस्था ॥२४॥शशिवदनाभिर्गणपतिजाभिः । शशिवदनाद्या परिचरिताऽस्तु ॥२५॥॥द्वितीयस्तनुमध्यापादः ॥ध्वान्तं परिहर्तुं तेजांस्यपि भर्तुम् । अन्तर्जगदम्बा हासं कुरुतान्मे ॥२६॥भीतामरिधूतामार्यावनिमेताम् । सम्राज्ञि बुधानां दूनामव दीनाम् ॥२७॥ईशस्य सहायां विश्वस्य विधाने । आकाशशरीरामम्बां प्रणमामः ॥२८॥कर्तुर्भुवनानां मायासि शचि त्वम् । सत्यस्य तपोऽसि ज्ञस्यासि मनीषा ॥२९॥आज्ञासि विनेतुस्तेजोऽसि विभातः । निर्यत्नसमाधेरानन्दरसोऽसि ॥३०॥तस्य त्वमनन्याऽप्यन्येव खकाया । अत्यद्भुतमाया जायाऽसि सहाया ॥३१॥आकाशशरीरां जायामशरीरः । आलिङ्ग्य विभुस्त्वां नन्दत्ययि चित्रम् ॥३२॥वज्रेश्वरि घस्रे यद्वन्मुकुटेन । दीप्तेन सवित्र मूर्धा तव भाति ॥३३॥नक्षत्रसहस्रैश्शुभ्रद्युतिभिस्ते । पुष्पायितमेतैर्मातर्निशिमस्ते ॥३४॥घस्रः खलु कालो राज्यं ननु कर्तुम् । रात्रिः खलु कालो रन्तुं रमणेन ॥३५॥निःशब्दतरङ्गास्वग्लौषु निशासु । नूनं खशरीरे कान्तं रमयन्ती ॥३६॥सान्द्रोडुसुमस्रग्विभ्राजितकेशा । ध्वान्तासितचेला शान्ताऽप्यसि भीमा ॥३७॥राजन्मिततारामन्दारवतंसाम् । मातस्सितभासा स्मेरां हसितेन ॥३८॥ज्योत्स्ना घनसारद्रावैरनुलिप्ताम् । त्वां वीक्ष्य न शान्तिः कस्य क्षणदासु ॥३९॥बालारुणरोचिः काश्मीररजोभिः । आलिप्तमुखीं त्वां प्रातः प्रणमामि ॥४०॥सायं समयश्री लाक्षारसरक्तम् । प्रत्यक् प्रसृतं ते वन्दे वरदेऽङ्घ्रिम् ॥४१॥दीप्तार्ककिरीटां सर्वान् विनयन्तीम् । वन्दे भुवनानां राज्ञीमसमानाम् ॥४२॥धूताखिलरोगाः श्वासास्तव वाताः । मातर्वितरन्तु प्राणस्य बलं नः ॥४३॥प्राञ्चस्तव वाताः स्वासाः शमुशन्तु । प्रत्यञ्च एमे नः पापं शमयन्तु ॥४४॥मन्मातरवाञ्चो वीर्यं वितरन्तु । सन्तापमुदञ्चः सर्वं च हरन्तु ॥४५॥अस्या इव भूमेर्भूतप्रसवायाः । एकैकश आहुर्येषां महिमानम् ॥४६॥अद्रेरुपलानां नद्याः सिकतानाम् । येषां च न कध्च्छिक्तो गणनायाम् ॥४७॥रोमायितमेतैर्गोलैस्तव काये । व्याख्यातमनेन श्लाघ्यं तव भाग्यम् ॥४८॥विश्वं वहसीदं जम्भारिभुजस्था । आर्यान्वहमातर्वासिष्ठमतिस्था ॥४९॥आद्यां भुवनानां भर्तुस्तनुमध्याम् । भक्त्स्य भजन्तामेतास्तनुमध्याः ॥५०॥॥तृतीयो मुकुलपादः ॥हासाः शक्रगृहेश्वर्याश्चन्द्ररुचः । भूयासुर्विमलप्रज्ञायै हृदि मे ॥५१॥इन्द्राण्याः करुणा लोकाश्शोकहृतः । भूयासुर्भरतक्ष्मायै क्षेमकृतः ॥५२॥व्यक्तिर्व्योमतनुः शक्तित्वाद्वनिता । ज्ञातृत्वात्पुरुषः केषाञ्चिद्विदुषाम् ॥५३॥व्यक्तिं व्योमतनुं ये प्राहुः पुरुषम् । तेषां तत्त्वविदां कल्पस्स्यात् त्रिविधः ॥५४॥रुद्रं केऽपि जगुः शक्रं केऽपि विदुः । भाषन्ते भुवनप्राणं केऽपि विदः ॥५५॥व्यक्तिं व्योमतनुं प्राहुर्ये वनिताम् । तेषां च त्रिविधः कल्पश्शास्त्रविदाम् ॥५६॥दुर्गा सूरिवरैः कैश्चित्सा गदिता । शच्यन्यैर्विबुधैर्ज्ञैरन्यैरदितिः ॥५७॥एकेषां विदुषां व्यक्तिर्व्योमतनुः । न स्त्री नो पुरुषो ब्रह्मैतत्सगुणम् ॥५८॥त्वं विश्वस्य महान् प्राणः कः परमे । त्वं रुद्रः प्रणवस्त्वं शक्रोऽभ्रशिखी ॥५९॥त्वं कस्यास्यदितिस्त्वं रुद्रस्य शिवा । त्वं शक्रस्य शची शक्तिर्देवनुते ॥६०॥प्राणश्च प्रणवो ज्योतिश्चाम्बरगम् । वस्त्वेकं त्रिगुणं नो वस्तु त्रितयम् ॥६१॥शक्तेरम्बपरे शक्त्स्यापि भिदा । ज्वाला पावकवद्भाषा भेदकृता ॥६२॥सर्वं दृश्यमिदं भुञ्जाने परमे । पुंनामस्तुतयो युज्यन्ते खलु ते ॥६३॥कुर्वाणेम्बसतस्सन्तोषं सततम् । स्त्रीनामस्तुतयः शोभां ते दधते ॥६४॥सद्ब्रह्म ब्रुवते विद्वांसो विगुणम् । त्वं मातस्सगुणं ब्रह्मासि प्रथिते ॥६५॥शब्दाद्यैर्वियुतं सद्ब्रह्मामलिनम् । शब्दाद्यैः सहिता त्वं देव्यच्छहिता ॥६६॥साक्षि ब्रह्म परं त्वं मातः कुरुषे । सर्वेषां जगतां कार्यं सर्वविधम् ॥६७॥द्यौर्माता जगतो द्यौरेवास्य पिता । व्याप्तं भाति जगद्द्यावा सर्वमिदम् ॥६८॥आकाशाद्रजसो द्यौरन्या विरजाः । आकाशेऽस्ति पुनस्तत्पारे च परा ॥६९॥द्यावं तां जगतो रङ्गे व्योमतनुम् । पारे शुद्धतमां विद्मस्त्वां परमे ॥७०॥त्वां पूर्णामदितिं शक्तिं देवि शचीम् । नित्यं शब्दवतीं गौरीं प्रब्रुवते ॥७१॥पुंनामा भवतु स्त्रीनामास्त्वथवा । व्यक्तिर्व्योमतनुर्लोकं पात्यखिलम् ॥७२॥नाके सा किल भात्यैन्द्री राज्यरमा । विभ्राणा ललितं स्त्रीरूपं परमा ॥७३॥शक्तां देवि विधेह्यार्तानामवने । इन्द्रस्येव भुजां वासिष्ठस्य मतिम् ॥७४॥पूजाशक्रतरुण्यैतैस्सिध्यतु ते । गातृणां वरदे गायत्रौर्मुकुलैः ॥७५॥॥चतुर्थो वसुमतीपादः ॥मोहं परिहरन् योगं वितनुताम् । देवेन्द्रदयिता हासो मम हृदि ॥७६॥आभातु करुणा सा भारतभुवि ।सुत्रामसुदृशो यद्वन्निजदिवि ॥७७॥वन्दारुजनतामन्दारलतिकाम् ।वन्दे हरिहयप्राणप्रियतमाम् ॥७८॥शोकस्य दमनीं लोकस्य जननीम् ।गायामि ललितां शक्रस्य दयिताम् ॥७९॥रम्या सुमनसां भूपस्य महिषी ।सौम्या जनिमतां माता विजयते ॥८०॥वीर्यस्य च धियस्त्रैलोक्यभरणे ।दात्री मघवते देवी विजयते ॥८१॥व्याप्ता जगदिदं गुप्ता हृदि नृणाम् ।आप्ता सुकृतिनां दैवं मम शची ॥८२॥खे शक्तिरतुला पारे चिदमला ।स्वश्चारुमहिला दैवं मम शची ॥८३॥शस्त्रं मघवतः शास्त्रं यमवताम् ।वस्त्रं त्रिजगतो दैवं मम शची ॥८४॥युक्त्स्य भजतः शर्मान्तरतुलम् ।वर्मापि च बहिर्दैवं मम शची ॥८५॥वीर्यं बलवतां बुद्धिर्मतिमताम् ।तेजो द्युतिमतां दैवं मम शची ॥८६॥एकैव जनयन्त्येकैव दधती ।एकैव लयकृद्दैवं मम शची ॥८७॥शक्तीरवितथाः क्षेत्रोषु दधती ।बीजेषु च परा दैवं मम शची ॥८८॥चिन्वन्त्यपि पचन्त्येका पशुगणम् ।खादन्त्यपि भवे दैवं मम शची ॥८९॥दृष्टौ धृतचितिर्दृश्ये ततगुणा ।विश्वात्ममहिषी दैवं मम शची ॥९०॥राकाशशिमुखी राजीवनयना ।स्वः कापि ललना दैवं मम शची ॥९१॥स्थाणावपि चरे सर्वत्र वितता ।साक्षाद्भवतु मे स्वर्नाथदयिता ॥९२॥यन्मातरनृतं ध्यातं च गदितम् ।जुष्टं च हर मे तद्देवि दुरितम् ॥९३॥मां मोचय ऋणादिन्द्राणि सुभुजे ।मामल्पमतयो मा निन्दिषुरजे ॥९४॥शत्रुश्च शचि मे सख्याय यतताम् ।दृप्तश्च इमनुजो मामम्ब भजताम् ॥९५॥कष्टं शचि विधूयेष्टं विदधती ।आनन्दय जनं प्रेयांसमयि मे ॥९६॥अस्त्रं मम भव ध्वंसाय रटताम् ।सुत्रामरमणि श्रीमातरसताम् ॥९७॥सम्पूरयतु मे सर्वं सुरनुता ।स्वर्गक्षितिपतेश्शुद्धान्तवनिता ॥९८॥संवर्धय शचि स्वं देशमवितुम् ।बाहोरिव हरेर्बुद्धेर्मम बलम् ॥९९॥एतैर्वसुमतीवृत्तैर्नवसुमैः ।भूयाच्चरणयोः पूजा जननि ते ॥१००॥॥प्रथमं गायत्रं शतकं समाप्तम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP