इन्द्राणीसप्तशती - षष्ठं त्रैष्टुभं शतकम्
‘ इन्द्राणीसप्तशती ’ गाथेचा पाठ केल्याने इंद्राची स्तुती केल्याचे पुण्य मिळते.
॥प्रथम उपजातिपादः ॥
मन्दोऽपि बोधं विदधन्मुनीनां स्वच्छोऽपि रागं त्रिदशेश्वरस्य ।
अल्पोऽपि धुन्वन्हरितां तमांसि स्मिताङ्कुरो भातु जयन्तमातुः ॥५०१॥
अशेषपापौघनिवारणाय भाग्यस्य पाकाय च देवराज्ञी ।
शोकाकुलां भारतभूमिमेतां लोकस्य माता हृदये करोतु ॥५०२॥
धर्मद्विषामिन्द्रनिरादराणां संहारकर्मण्यतिजागरूकाम् ।
देवीं परां देवपथे ज्वलन्तीं प्रचण्डचण्डीं मनसा स्मरामि ॥५०३॥
व्याप्ता तटिद्वा गगने निगूढा नारी सुरेशानमनोरमा वा ।
शक्तिः सुषुम्णापथचारिणी वा प्रचण्डचण्डीति पदस्य भावः ॥५०४॥
समस्तलोकावनिनायिकायाः सुपर्वमार्गेण शरीरवत्याः ।
मातुर्महोंशं महनीयसारं विज्ञानवन्तस्तटितं भणन्ति ॥५०५॥
निगूढतेजस्तनुरम्बिकेयं प्रचण्डचण्डी परितो लसन्ती ।
अव्यक्त्शब्देन शरीरवत्याः काल्याः कवीनां वचनेषु भिन्ना ॥५०६॥
शब्दं विना नैव कदापि तेजस्तेजो विना नैव कदापि शब्दः ।
शक्तिद्वयं सन्ततयुक्तमेतत्कथं स्वरूपेण भवेद्विभक्तम् ॥५०७॥
एकैव शक्तिर्ज्वलति प्रकृष्टा स्वरत्यपि प्राभवतः समन्तात् ।
क्रियाविभेदादिह पण्डितानां शक्तिद्वयोक्तिस्तु समर्थनीया ॥५०८॥
एकक्रियायाश्च फलप्रभेदात्पुनर्विभागः क्रियते बहुज्ञैः ।
कालीं च तारां स्वरमग्र्यमाहुः प्रचण्डचण्डीं ललितां च तेजः ॥५०९॥
सम्पद्यते शब्दगतेर्हि कालः शब्दो वरेण्यस्तदभाणि काली ।
ध्यातेन शब्देन भवं तरेद्यद्सुधास्ततः शब्दमुशन्ति ताराम् ॥५१०॥
यदक्षरं वेदविदामृषीणां वेदान्तिनां यः प्रणवो मुनीनाम् ।
गौरी पुराणेषु विपश्चितां या सा तान्त्रिकाणां वचनेन तारा ॥५११॥
सम्पद्यते संहृतिरोजसा यत्प्रचण्डचण्डी तदुदीरितौजः ।
सिध्येदशेषोऽनुभवो यदोजस्यतो बुधास्तां ललितां वदन्ति ॥५१२॥
प्रचण्डचण्डीं लघुना पदेन चण्डीं विदुः केचन बुद्धिमन्तः ।
एके विदः श्रेष्ठमहोमयीं तां लक्ष्मीं महत्पूर्वपदां वदन्ति ॥५१३॥
अतीव सौम्यं ललितेति शब्दं प्रचण्डचण्डीति पदं च भीमम् ।
देवी दधाना सुतरां मनोज्ञा घोरा च नित्यं हृदि मे विभातु ॥५१४॥
प्रचण्डचण्डीं तु शरीरभाजां तनूषु योगेन विभिन्नशीर्षाम् ।
शक्तिं सुषुम्णासरणौ चरन्तीं तां छिन्नमस्तां मुनयो वदन्ति ॥५१५॥
कपालभेदो यदि योगवीर्यात्सम्पद्यते जीवत एव साधोः ।
तमेव सन्तः प्रवदन्ति शीर्षच्छेदं शरीरान्तरभासि शक्तेः ॥५१६॥
उदीर्यसे निर्जरराजपत्नि त्वं छिन्नमस्ता यमिनां तनूषु ।
उज्जऋम्भणे विश्वसवित्रि यस्याः कायं भवेद्वैद्युतयन्त्रतुल्यम् ॥५१७॥
पितुर्नियोगात्तनयेन कृत्ते मस्ते जनन्याः किल रेणुकायाः ।
त्वमाविशः पावनि तत्कबन्धं तद्वा त्वमुक्तासि निकृत्तमस्ता ॥५१८॥
छिन्नं शिरः कीर्णकचं दधानां करेण कण्ठोद्गतरक्तधाराम् ।
रामाम्बिकां दुर्जनकालरात्रिं देवीं पवित्रं मनसा स्मरामि ॥५१९॥
ध्रुवो रमा चन्द्रधरस्य रामा वाग्वज्रवैरोचसदीर्घनिर्ये ।
कूर्चद्वयं शस्त्रकृशानुजाये विद्यानृपार्णा सुरराजशक्तेः ॥५२०॥
मायाद्विवारं यदि सैकवर्णा विद्यैकवर्णा यदि धेनुरेका ।
धेन्वादि सम्बोधनमस्त्रमग्नेर्विलासिनी चेति धरेन्दुवर्णा ॥५२१॥
चतुष्टयेत्रन्यतमं गृहीत्वा मन्त्रं महेन्द्रस्य मनोधिनाथाम् ।
भजेत यस्तान्त्रिकदिव्यभावमाश्रित्य सिद्वीः सकलाः स विन्देत् ॥५२२॥
संहोत्रमित्यद्भुतशक्तियुक्तं वृषाकपेर्दर्शनमम्ब मन्त्रम् ।
यो वैदिकं ते मनुजो भजेत किञ्चिन्न तस्येह जगत्यसाध्यम् ॥५२३॥
प्रचण्डचण्डि प्रमदे पुराणि पुराणवीरस्य मनोधिनाथे ।
प्रयच्छ पातुं पटुतां परां मे पुण्यामिमामार्यनिवासभूमिम् ॥५२४॥
प्रपञ्चराज्ञीं प्रथितप्रभावां प्रचण्डचण्डीं परिकीर्तयन्त्यः ।
एताः प्रमोदाय भवन्तु शक्तेरुपासकानामुपजातयो नः ॥५२५॥
॥द्वितीयो रथोद्धतापादः ॥
क्षालनाय हरितां विभूतये विष्टपस्य मदनाय वज्रिणः ।
तज्जयन्तजननीमुखाब्जतो निर्गतं स्मितमघं धुनोतु नः ॥५२६॥
अन्नलोपकृशभीरुकप्रजां भिन्नभावबलहीननेतृकाम् ।
वासवस्य वरवर्णिनी परैरर्दितामवतु भारतावनिम् ॥५२७॥
पाणिपादमनिमेषराज्ञि ते पारिजातनवपल्लवोपमम् ।
अक्षपाविरहमङ्गभासरिद्वासिचक्रमिथुनं कुचद्वयम् ॥५२८॥
पूर्णचन्द्रयशसोऽपहारकं सम्प्रसादसुषमास्पदं मुखम् ।
ज्ञानशक्तिरुचिशेवधीदृशौ रक्त्वर्णकसुधाघनोऽधरः ॥५२९॥
मर्दयत्तिमिरमुद्धतं दिशां अल्पमप्यधिकवैभवं स्मितम् ।
प्रावृडन्तयमुनातरङ्गवन्नत्न्लचारुरतिपावनः कचः ॥५३०॥
वल्लकीं च परुषध्वनिं वदन् दुःखितस्य च मुदावहः स्वरः ।
चारु हावशबलाऽलसा गतिः कायधामवचसां न पद्धतौ ॥५३१॥
योगसिद्धिमतुलां गता मतिश्चातुरी च बुधमण्डलस्तुता ।
विष्टपत्रितयराज्यतोऽप्यसि त्वं सुखाय महते बिडौजसः ॥५३२॥
त्वामुदीक्ष्य धृतदेवतातनुं दीप्तपक्ष्मलविशाललोचनाम् ।
आदितो जननि जन्मिनामभूद् वासवस्य रतिरादिमे रसे ॥५३३॥
आदिमं रसमनादिवासना वासितौ प्रथममन्वगृह्णताम् ।
सम्मदस्य निधिमादिदम्पती सोऽचलत्त्रिभुवने ततः क्रमः ॥५३४॥
ज्यायसा दिविषदां पुरातनी नीलकञ्जनयना विलासिनी ।
यद्विहारमतनोत्प्ररोचनं तत्सतामभवदादिमे रसे ॥५३५॥
न त्वदम्ब नलिनाननाऽधिका नापि नाकपतितोऽधिकः पुमान् ।
नाधिकं च वनमस्ति नन्दनान्नादिमादपि रसोऽधिको रसात् ॥५३६॥
नायिका त्वमसमानचारुता नायकः स मरुतां महीपतिः ।
नन्दनं च रसरङ्गभूः कथं मन्मथस्य न भवेदिहोत्सवः ॥५३७॥
देवि वां मृतिकथैव दूरतो जातुचिद्गलति नैव यौवनम् ।
काङ्क्षितः परिकरो न दुर्लभः किं रसः परिणमेदिहान्यथा ॥५३८॥
विष्टपस्य युवराजकेशवे त्राणभारमखिलं निधाय वाम् ।
क्रीडतोरमरराज्ञि नन्दने क्रीडितानि मम सन्तु भूतये ॥५३९॥
यद्युवाममरराज्ञि नन्दने कुर्वतो रहसि देवि मन्त्रणम् ।
तत्र चेन्मम कृतिर्मनागियं स्पर्शमेति भुवि को नु मत्कृती ॥५४०॥
क्रन्दनं यदि ममेह वन्दिनो नन्दने विहरतोः सवित्रि वाम् ।
अन्तरायकृदथाब्जकान्ति ते सम्प्रगृह्य चरणं क्षमापये ॥५४१॥
योषितामपि विमोहनाकृतिर्मोहनं तु पुरुषसंहतेरपि ।
इन्द्रमम्बरमयां बभूविथ त्वं रसार्द्रहृदया लसद्रसम् ॥५४२॥
दिव्यचन्दनरसानुलेपनैः पारिजातसुमतल्पकल्पनैः ।
चारुगीतकृतिभिश्च भेजिरे नाकलोकवनदेवताश्च वाम् ॥५४३॥
स्वर्णदीसलिलशीकरोक्षिताः पारिजातसुमगन्धधारिणः ।
नन्दने त्रिदशलोकराज्ञि वां केपि भेजुरलसाः समीरणाः ॥५४४॥
आदधासि सकलाङ्गनाधिके पद्मगन्धिनि सुधाधराधरे ।
मञ्जुवाणि सुकुमारि सुन्दरि त्वं सुरेन्द्रसकलेन्द्रियार्चनम् ॥५४५॥
आदिदेवि वदनं तवाभवत् कान्तिधाम मदनं दिवस्पतेः ।
आननादपि रसामृतं किरन्निष्क्रमं विलसितं कलं गिराम् ॥५४६॥
चारुवाग्विलसिताच्च निस्तुलप्रेमवीचिरुचिरं विलोकितम् ।
वीक्षितादपि विलासविश्रमस्थानमल्पमलसं शुचिस्मितम् ॥५४७॥
भासुरेन्द्रदृढबाहुपञ्जरे लज्जया सहजया नमन्मुखी ।
तद्विलोचनविकर्षकालका पातु मां त्रिदिवलोकनायिका ॥५४८॥
भारतक्षितिविषादवारणे तत्सुतं गणपतिं कृतोद्यमम् ।
आदधातु पटुमर्जुनस्मिता दुर्जनप्रमथनक्षमा शची ॥५४९॥
चारुशब्दकलिताः कृतीरिमाः सत्कविक्षितिभुजो रथोद्धताः ।
सा शृणोतु सुरमेदिनीपतेर्नेत्रचित्तमदनी विलासिनी ॥५५०॥
॥तृतीयो मौक्तिकमालापादः ॥
निर्मलभासां दिशि दिशि कर्ता पुण्यमतीनां हृदि हृदि धर्ता ।
पालयतान्मामनघविलासः शक्रमहिश्याः सितदरहासः ॥५५१॥
पुण्यचरित्रा मुनिजनगीता वासवकान्ता त्रिभुवनमाता ।
वत्सलभावादवतु विदूनां भारतभूमिं धनबलहीनाम् ॥५५२॥
कोटितटिद्वत्तव तनुकान्तिः पूर्णसमाधेस्तव हृदि शान्तिः ।
वासवभामे भगवति घोरः शत्रुविदारी तव भुजसारः ॥५५३॥
आश्रयभूतं सुमधुरताया आलयभूतं जलधिसुतायाः ।
वासवदृष्टेस्तवमुखमब्जं किङ्क्रदृष्टेस्तव पदमब्जम् ॥५५४॥
पादसरोजं वृजिनहरं ते यो भजते ना सुरपतिकान्ते ।
तत्र कटाक्षा अयि शतशस्ते तस्य समस्तं भगवति हस्ते ॥५५५॥
ज्ञापकशक्तिः प्रतिनरमस्तं कारकशक्तिः प्रतिनरहस्तम् ।
वासवचक्षुस्सुकृतफलश्रीर्भातु ममान्तः सुरभुवनश्रीः ॥५५६॥
मन्त्रपराणां वचसि वसन्ती ध्यानपराणां मनसि लसन्ती ।
भक्तिपराणां हृदि विहरन्ती भाति पराम्बा नभसि चरन्ती ॥५५७॥
सेवकपापप्रशमननामा दिक्तिमिरौघप्रमथनधामा ।
उज्ज्वलशस्त्रा रणभुवि भीमा पातु नतं मां हरिहयरामा ॥५५८॥
योगिनि शक्तिर्विलससि दान्तिः योषिति शक्तिर्विलससि कान्तिः ।
ज्ञानिनि शक्तिर्विलससि तुष्टिः धन्विनि शक्तिर्विलससि दृष्टिः ॥५५९॥
सङ्गिनि शक्तिर्विलससि निद्रा ध्यातरि शक्तिर्विलससि मुद्रा ।
वासवकान्ते गगननिशान्ते भाषितुमीशः क्व नु विभवं ते ॥५६०॥
यद्दितिजानां दमनमवक्रं केशवहस्ते विलसति चक्रम् ।
तत्र कला ते भगवति भद्रा काचन भारं वहति विनिद्रा ॥५६१॥
दुष्टनिशाटप्रशमनशीलं यत् सितभूभृत्पतिकरशूलम् ।
तत्र मर्महोंशस्तव जगदीशे राजति कश्चित्पटुररिनाशे ॥५६२॥
यन्निजरोचिक्र्ततरिपुसारं वासवहस्ते कुलिशमुदारम् ।
तत्र तवांशो विलसति दिव्यः कश्चन भासो भगवति भव्यः ॥५६३॥
अम्बरदेशे सुमहति गुप्ता पङ्क्जबन्धौ विलसति दीप्ता ।
राजसि मातर्हिमरुचिशीता वेदिकृशानौ क्रतुभृतिपूता ॥५६४॥
सूक्ष्मरजोभिर्विहितमुदारं यज्जगदेतन्न्गगनमपारम् ।
तत्तववेदः प्रवदति कायं पावनि भानुस्तव तनुजोऽयम् ॥५६५॥
ईश्वरि नैकस्तव खरतेजाः तेऽपि च सर्वे जननि तनूजाः ।
उज्वलखेटाः कुवदति कायाः पावनि कस्ते प्रवदतु मायाः ॥५६६॥
या महिमानं प्रथयति भूमिः पावनकीर्तिर्जलनिधिनेमिः ।
सेयमपीशे भवति सुपुत्री वासवजाये तव जनधात्री ॥५६७॥
अङ्ग सखायो विरमतसङ्गाश्वष्ठ्हर्विषयाणां कृतमतिभङ्गात् ।
ध्यायत चित्ते धुतभयबीजं वासवजायाचरणसरोजम् ॥५६८॥
पापमशेषं सपदि विहातुं शक्तिमनल्पामपि परिधातुम् ।
चेतसि साधो कुरु परिपूतं वासवजायापदजलजातम् ॥५६९॥
ईश्वरि वन्द्यद्युतिभृतिमेधे काङ्क्षितनीराण्यसृजति मोघे ।
निर्मलकीर्तेस्तव शचि गानं शक्ष्यति कर्तुं तदुदकदानम् ॥५७०॥
आमयवीर्याद्विगलति सारे जीवति किञ्चिद्रिसनगनीरे ।
रक्षति जन्तुं तव शचि नाम प्राज्ञजनैरप्यगणितधाम ॥५७१॥
मध्यमलोके स्यति शुचिरुग्रा राजसि नाके विभवसमग्रा ।
प्राणिशरीरे भवसि विचित्र वासवजाये विविधचरित्र ॥५७२॥
व्योम्नि वपुस्ते विनिहतपापं विश्रुतलीलं तव दिवि रूपम् ।
कर्मवशात्ते भवति स भोगः प्राणिशरीरे भगवति भागः ॥५७३॥
भारतभूमेः शुचमपहन्तुं श्रेष्ठमुपायं पुनरवगन्तुम् ।
वासवजाये दिश मम बुद्धिं पावनि माये कुरु कुरु सिद्धिम् ॥५७४॥
सम्मदयन्तीर्बुधजनमेताः स्वर्गधरित्रीपतिसतिपूताः ।
मौक्तिकमालाः शृणु नुतिकर्तुर्भक्तिनिबद्धाः कविकुलभर्तुः ॥५७५॥
॥चतुर्थः सुमुखीपादः ॥
अजितमिनाग्नितटिच्छशिभिः मम हृदयस्य तमः प्रबलम् ।
अमरपतिप्रमदाहसितं विमलघृणिप्रकरैर्हरतु ॥५७६॥
सुरनृपतेर्दयिता विनताहितशमनी लुलितामितरैः ।
वरकरुणावरुणालयदृङ्मम जननीमवतादवनिम् ॥५७७॥
पटुतपसो जमदग्निमुनेरिह सहधर्मचरीं भुवने ।
तनयनिकृत्तशिरः कमलां वरमतिमाविशदिन्द्रवधूः ॥५७८॥
यदुकुलकीर्तिविलोपभिया बतविनिगूह्य ऋतं कवयः ।
मुनिगृहिणी वधहेतुकथामितरपथेन भणन्ति मृषा ॥५७९॥
न सुरभिरर्जुनभूमिपतिर्भृगुतिलकस्य जहार स याम् ।
इयममृतांशुमनोज्ञमुखी परशुधरस्य जनन्यनघा ॥५८०॥
अतिरथमर्जुनभूमिपतिं सहपृतनं जमदग्निसुतः ।
युधि स विजित्य विशालयशाः पुनरपि मातरमाहृतवान् ॥५८१॥
परगृहवासकलङ्कवशान्निजगृहिणीं जमदग्निमुनिः ।
बतविनिहन्तुमना कलयंस्तनुभवमादिशदुग्रमनाः ॥५८२॥
पितृवचनादतिभक्तिमताप्यसुरवदात्मसुतेन हताम् ।
मुनिगृहिणीमनघेतिवदंस्तव वरदेऽविशदंश इमाम् ॥५८३॥
इदमविकम्प्यमतिप्रबलं प्रभवति कारणमार्यनुते ।
मुनिगृहिणीमनघां भणितुं शचि कलया यदि मामविशः ॥५८४॥
खलजनकल्पितदुष्टकथाश्रवणवशाद्व्यथितं हृदयम् ।
अथ चरितेऽवगते विमलस्मृतिवशतो मम याति मुदम् ॥५८५॥
तव महसा विशता कृपया मम शचि सूक्ष्मशरीरमिदम् ।
नृपरिपुमातृपवित्रकथा स्मरणपथं गमिता सपदि ॥५८६॥
विदधतुरासुरकृत्यमुभौ बहुलगुणामपि यद्गृहिणीम् ।
स मुनिरघातयदच्छकथां दशरथजश्च मुमोच वने ॥५८७॥
अपि विनिकृत्तशिराः शचि ते वरमहसा विशता सपदि ।
अलभत जीवितमम्ब पुनर्भुवनशुभाय मुनेस्तरुणी ॥५८८॥
यदि शिरसा रहिते वपुषि प्रकटतया विलसन्त्यसवः ।
यदि हृदयं सहभाति धिया किमिव विचित्रमितश्चरितम् ॥५८९॥
परशुधरस्य सवित्रि कला त्वयि पुरुहूतसरोजदृशः ।
स शिरसि काचिदभूद्रुचिरा विशिरसि भीमतमा भवति ॥५९०॥
परशुधरोऽर्जुनभूमिपतिं यदजयदम्ब तपोऽत्र तव ।
अभजत कारणतामनघे वरमुनिगेयपवित्रकथे ॥५९१॥
भगवति कृत्तशिरो भवती मथितवती नृपतीनशुभान् ।
प्रथनभुवि प्रगुणं भुजयोः परशुधराय वितीर्य बलम् ॥५९२॥
शुभतमकुण्डलपूर्वसतिः पदनतपातकसंशमनी ।
दिशतु निकृत्तशिराः कुशलं मम सुरपार्थवशक्तिकला ॥५९३॥
निजसुतरङ्गपतेर्निकटे कृतवसतिर्नतसिद्धिकरी ।
दलितशिराः प्रतनोतु मम श्रियममरेश्वरशक्तिकला ॥५९४॥
भुवि ततसह्यनगान्तरगे शुभतमचन्द्रगिरौ वरदा ।
कृतवसतिः कुरुतान्मम शं भृगूकुलरामजनन्यजरा ॥५९५॥
अवतु विकृत्तशिराः पदयोर्भजकमनिन्द्यविचित्रकथा ।
दिनकरमण्डलमध्यगृहा सुरधरणीपतिशक्तिकला ॥५९६॥
गगनचरार्चितपादुकया पदनतसन्मतिबोधिकया ।
मम सततं शुचिरेणुकया परवदिदं कुलमम्बिकया ॥५९७॥
शमयितुमुग्रतमं दुरितं प्रथयितुमात्मनिगूढबलम् ।
गमयितुमग्रय्दशां स्वकुलं तव चरणाम्बुजमम्ब भजे ॥५९८॥
परवशगामशिवेन वृतां भरतधरां परिपातुमिमाम् ।
पटुमतिवाक्क्रियमातनुताद्गणपतिमभ्रहयप्रमदा ॥५९९॥
गणपतिदेवमर्महोंशजुषो गणपतिनामकविप्रकवेः ।
सुरपतिजीवसखीशृणुयाद्दशशतपत्रमुखी सुमुखीः ॥६००॥
॥षष्ठं त्रैष्टुभं शतकं समाप्तम् ॥
Last Updated : November 11, 2016
TOP