संस्कृत सूची|संस्कृत साहित्य|पुराण|इन्द्राणीसप्तशती| चतुर्थं बार्हतं शतकम् इन्द्राणीसप्तशती प्रथमं गायत्रं शतकम् द्वितीयमौष्णिहं शतकम् तृतीयमानुष्टुभं शतकम् चतुर्थं बार्हतं शतकम् पञ्चमं पाङ्क्तं शतकम् षष्ठं त्रैष्टुभं शतकम् सप्तमं जागतं शतकम् इन्द्राणीसप्तशती - चतुर्थं बार्हतं शतकम् ‘ इन्द्राणीसप्तशती ’ गाथेचा पाठ केल्याने इंद्राची स्तुती केल्याचे पुण्य मिळते. Tags : godgoddessindranistotraइन्द्राणीदेवतादेवीसंस्कृतस्तोत्र चतुर्थं बार्हतं शतकम् Translation - भाषांतर ॥प्रथमो हलमुखीपादः ॥क्षीरवीचिपृषतसितं प्रेमधारिदरहसितम् ।नाकराजनलिनदृशः शोकहारि मम भवतु ॥३०१॥अध्वनो गलितचरणामध्वरक्षितिमविभवाम् ।आदधातु पथि विमले वैभवे च हरितरुणी ॥३०२॥ब्रह्मणश्वितिरथनभः कायभागवगतिमती ।या तदा पृथगिव बभौ धर्मितां स्वयमपि गता ॥३०३॥मोदबोधविभवकृतप्राकृतेतरवरतनु ।सर्वसद्गुणगणयुतं या ससर्ज सुरमिथुनम् ॥३०४॥पुंसि दीप्तवपुषि तयोर्ब्रह्म सोऽहमिति लसति ।योषिते किल धियमदात्तस्य शक्तिरहमिति या ॥३०५॥याभिमानबलवशतस्तामुदारतमविभवाम् ।मन्यते स्म वरवनितां स्वाधिदैविकतनुरिति ॥३०६॥आदिपुंसि गगनतनुर्या तनोति तनुजमतिम् ।आदधाति युवतितनुः प्राणनायक इति रतिम् ॥३०७॥तां परां भुवनजननीं सर्वपापततिशमनीम् ।तन्त्रजालविनुतबलां स्तौमि सर्वमतिममलाम् ॥३०८॥सा मतिर्विदितविषया सा रुचिर्विततविषया ।सा रतिर्विनुतविषया सा स्थितिर्विधुतविषया ॥३०९॥यत्र यत्र मम धिषणा ग्राह्यवस्तुनि गतिमती ।तत्र तत्र विलसतु सा सर्वगा सकलचरिता ॥३१०॥दुर्बलस्य बहुलबलैरर्दितस्य जगति खलैः ।आदिदेवि तव चरणं पावनं भवति शरणम् ॥३११॥पौरुषे भवति विफले त्वामयं जननि भजते ।किं नुते यदि विमुखता पौरुषं कथय भजताम् ॥३१२॥कर्तुरप्रतिहतगिरः पौरुषाच्छतगुणमिदम् ।ध्यातुरस्खलितमनसः कार्यसिद्धिषु तव पदम् ॥३१३॥पौरुषं विदितमफलं काङ्क्षिते मम सुरनुते ।शक्तमीदृशि तु समये श्रद्दधामि तव चरणम् ॥३१४॥पौरुषं यदि कविमतं देवि तेऽपि पदभजनम् ।दैववादपटुवचसो मूकतैव मम शरणम् ॥३१५॥पूर्वजन्मसुकृतफलं दैवमम्ब निगदति यः ।भक्तिपौरुषविरहिणो भावितस्य रिपुदयितम् ॥३१६॥उद्यतस्य तव चरणं संश्रितस्य च सुरनुते ।पूर्वजन्मसुकृतबलश्रद्धयाऽलमहृदयया ॥३१७॥अस्तु पूर्वभवसुकृतं मास्तु वा जननि जगताम् ।साम्प्रतं तव पदयुगं संश्रितोस्म्यव विसृज वा ॥३१८॥नास्ति सम्प्रति किमपि किं भूतिमाप्स्यसि किमु ततः ।अन्यजन्मनि वितरणे का प्रसक्तिरमरनुते ॥३१९॥नान्यजन्मनि बहुशिवं नापि नाकभुवनसुखम् ।कामये फलमभिमतं देहि सम्प्रति शचि न वा ॥३२०॥मेदिनी भुवनतलतो निस्तुलादुत गगनतः ।भास्करादुत रुचिनिधेः काम्यमीश्वरि वितर मे ॥३२१॥विष्टपे क्वचन वरदे दातुमीश्वरि कृतमतिम् ।वारयेज्जननि न परस्त्वां जनस्तव पतिमिव ॥३२२॥देहि वा भगवति न वा पाहि वा शशिमुखि न वा ।पावनं तव पदयुगं न त्यजानि हरिदयिते ॥३२३॥रक्षितुं भरतविषयं शक्तमिन्द्रहृदयसखी ।चन्द्रबिम्बरुचिरमुखी सा क्रियाद्भुवि गणपतिम् ॥३२४॥सम्प्रहृष्यतु हलमुखीर्भास्वतीर्गणपतिमुनेः ।सा निशम्य सुरनृपतेर्मोहिनी सदयहृदया ॥३२५॥॥द्वितीयो भुजगशिशुभृतापादः ॥मरुदधिपमनोनाथा मधुकरचिकुरास्माकम् ।वृजिनविधुतिमाधत्तां विशदहसितलेशेन ॥३२६॥अखिलनिगमसिद्धान्तो बहुमुनिवरबुद्धान्तः ।सुरपरिबृढशुद्धान्तो भरतवसुमतीमव्यात् ॥३२७॥भगवति भवतीचेतो रतिकृदभवदिन्द्रस्य ।स तव जननि सन्तानद्रुमवनमतिरम्यं वाम् ॥३२८॥पतिरखिलयुवश्रेष्ठः किमपि युवतिरत्नं त्वम् ।वनविहृतिषु वां चेतो हरणमभवदन्योन्यम् ॥३२९॥मधुरललितगम्भीरैस्तव हृदयमुपन्यासैः ।वनविहरणलीलायामहरदयि दिवो राजा ॥३३०॥कलवचनविलासेन प्रगुणमुखविकासेन ।भुवनमपिमनोऽहार्षीर्जननि वनविहारे त्वम् ॥३३१॥कनककमलकान्तास्या धवलकिरणवक्त्रेण ।असितजलजपत्राक्षी सितनलिनदलाक्षेण ॥३३२॥अलिचयनिजधम्मिल्ला नवजलधरकेशेन ।मृदुलतमभुजावल्ली दृढतमभुजदण्डेन ॥३३३॥अमृतनिलयबिम्बोष्ठी रुचिरधवलदन्तेन ।अतिमुकुरलसद्गण्डा विकचजलजहस्तेन ॥३३४॥युवतिरतितरां रम्या सुललितवपुषा यूना ।भगवति शचि युक्ता त्वं त्रिभुवनविभुनेन्द्रेण ॥३३५॥विकचकुसुममन्दारद्रष्ठ्हमवनवरवाटीषु ।विहरणमयि कुर्वाणा मनसिजमनुगृह्णासि ॥३३६॥तव शचि चिकुरे राजत्कुसुमममरवृक्षस्य ।नव सलिलभृतो मध्ये स्फुरदिव नवनक्षत्रम् ॥३३७॥अभजततरुरौदार्यं विभवमपि महान्तं सः ।विकचकुसुमसम्पत्त्या भगवति भजते यस्त्वाम् ॥३३८॥अमरनृपतिना साकं कुसुमितवनवाटीषु ।भगवति तव विश्रान्तेः स जयति समयः कोऽपि ॥३३९॥अमरतरुवरच्छायास्वयि मुहुरुपविश्य त्वम् ।शचि कृतिजनरक्षायै मनसि वितनुषु चर्चाम् ॥३४०॥किमु वसु वितराण्यस्मै सुमतिमुत ददान्यस्मै ।क्षमतममथवाऽमुष्मिन् बलमुरुघटयानीति ॥३४१॥हरितरुणि कदा वामे विनमदवनचर्चासु ।स्मरणसमय आयास्यत्यमलहृदयरङ्गे ते ॥३४२॥शचि भगवति साक्षात्ते चरणकमलदासोऽहम् ।इह तु वसुमतीलोके स्मर मम विषयं पूर्वम् ॥३४३॥न यदि तव मनो दातुं स्वयमयि लघवे मह्यम् ।उपवनतरुकर्णे वा वद मदभिमतं कर्तुम् ॥३४४॥निजविषयमतिश्रेष्ठं विपदि निपतितं त्रातुम् ।स्वकुलमपि सदध्वानं गमयितुमपथे श्रान्तम् ॥३४५॥अखिलभुवनसम्राजः प्रियतरुणि भवत्यैव ।मतिबलपरिपूर्णोएऽयं गणपतिमुनिराधेयः ॥३४६॥न किमु भवति शं देशे गतवति कलुषे काले ।तव भजनमघं सद्यो हरिहयललने जेतुम् ॥३४७॥त्रिजगति सकलं यस्य प्रभवति पृथुले हस्ते ।स बहुलमहिमा कालो मम जननि विभूतिस्ते ॥३४८॥अनवरतगलद्बाष्पां भरतवसुमतीं त्रातुम् ।वितरतु दयिताजिष्णोर्गणपतिमुनये शक्तिम् ॥३४९॥भुजगशिशुभृता एताः कविगणपतिना गीताः ।विदधतु मुदितां देवीं विबुधपतिमनोनाथाम् ॥३५०॥॥तृतीयो मणिमध्यापादः ॥मङ्गलधायी पुण्यवतां मन्मथधायी देवपतेः ।विष्टपराज्ञीहासलवो विक्रमधायी मे भवतु ॥३५१॥दृष्टिविशेषैश्शीततरैर्भूर्यनुकम्पैः पुण्यतमैः ।भारतभूमेस्तापततिं वासवकान्ता सा हरतु ॥३५२॥पावनदृष्टिर्योगिहिता भासुरदृष्टिर्देवहिता ।शीतलदृष्टिर्भक्थिता मोहनदृष्टिश्शक्रहिता ॥३५३॥उज्ज्वलवाणी विक्रमदा वत्सलवाणी सान्त्वनदा ।मञ्जुलवाणी सम्मददा पन्नगवेणी सा जयति ॥३५४॥शारदराकाचन्द्रमुखी तोयदमालाकारकचा ।मेचकपाथोजातदलश्रीहरचक्षुर्वासिकृपा ॥३५५॥चम्पकनासागण्डविभामण्डलखेलत्कुण्डलभा ।उक्तिषु वीणाबिम्बफलश्रीहरदन्तप्रावरणा ॥३५६॥निर्मलहासक्षालितदिग्भित्तिसमूहा मोहहरी ।काञ्चनमालाशोभिगला सन्ततलीला बुद्धिकला ॥३५७॥विष्टपधारि क्षीरधरस्वर्णघटश्रीहारिकुचा ।कापि बिडौजो राज्यरमा चेतसि माता भातु मम ॥३५८॥दिव्यसुधोर्मिर्भक्तिमतां पावककीला पापकृताम् ।व्योम्नि चरन्ती शक्रसखी शक्तिरमोघा मामवतु ॥३५९॥सम्मदयन्ती सर्वतनुं संशमयन्ती पापततिम् ।सम्प्रथयन्ती सर्वमतीस्सङ्घटयन्ती प्राणबलम् ॥३६०॥निर्जितशोकाधूततमास्संस्कृतचित्ता शुद्धतमा ।वासवशक्तेर्व्योमजुषः काचन वीचिर्मां विशतु ॥३६१॥उद्गतकीलं मूलमिदं भिन्नकपालं शीर्षमिदम् ।उज्झित मोहं चित्तमिदं वासवशक्तिर्मां विशतु ॥३६२॥दृश्यविरक्तं चक्षुरिदं भोगविरक्तं कायमिदम् ।ध्येयविरक्ता बुद्धिरियं वासवशक्तिर्मां विशतु ॥३६३॥चक्षुरदृश्यज्वालभृता व्यापकखेन प्रोल्लसता ।विस्मृतकायं सन्दधती वासवशक्तिर्मां विशतु ॥३६४॥कायमजस्रं वज्रदृढं बुद्धिमशेषे व्याप्तिमतीम् ।दिव्यतरङ्गैरादधती वासवशक्तिर्मां विशतु ॥३६५॥मूर्ध्नि पतन्ती व्योमतलात्सन्ततमन्तः सर्वतनौ ।सम्प्रवहन्ती दिव्यझरैर्वासवशक्तिर्मां विशतु ॥३६६॥भानुविभायां भासकता दिव्यसुधायां मोदकता ।काऽपि सुरायां मादकता वासवशक्त्यां तत्त्रितयम् ॥३६७॥भासयतान्मे सम्यगृतं मोदमुदारं पुष्यतु मे ।साधुमदं मे वर्धयतान्निर्जरभर्तुः शक्तिरजा ॥३६८॥कश्चन शक्तिं योगबलादात्मशरीरे वर्धयति ।एषि विवृद्धिं भक्तिमतः कस्यचिदेशे त्वं वपुषि ॥३६९॥साधयतां वा योगविदां कीर्तयतां वा भक्तिमताम् ।वत्सलभावादिन्द्रवधूर्गर्भभुवां वा याति वशम् ॥३७०॥यस्य समाधिः कोऽपि भवेदात्ममनीषा तस्य बलम् ।यस्तव पादाम्भोजरतस्तस्य खलु त्वं देवि बलम् ॥३७१॥द्वादशवर्षी योगबलाद्या खलु शक्तिर्युक्तमतेः ।तां शचि दातुं भक्तिमते कापि घटी ते मातरलम् ॥३७२॥योगबलाद्वा ध्यानकृतो भक्तिबलाद्वा कीर्तयतः ।यातु विवृद्धिं विश्वहिता वासवशक्तिर्मे वपुषि ॥३७३॥दुःखितमेतच्छ्रीरहितं भारतखण्डं सर्वहितम् ।त्रातुमधीशा स्वर्जगतः सुक्षमबुद्धिं मां कुरुताम् ॥३७४॥सन्तु कवीनां भर्तुरिमे सुन्दरबन्धाशुद्धतमाः ।सन्मणिमध्याः स्वर्जगतो राजमहिष्याः कर्णसुखाः ॥३७५॥ ॥चतुर्थो मात्रसमकपादः ॥शुक्ल्ज्योतिः प्रकरैर्व्याप्तः सूक्ष्मोऽप्यन्तान् हरितां हासः ।जिष्णोः पत्न्यास्तिमिरारातिर्निश्शेषं मे हरतान्मोहम् ॥३७६॥शृण्वत्कर्णा सदयालोका लोकेन्द्रस्य प्रियनारी सा ।नित्याक्रोशैर्विरुदद्वाणीं पायादेतां भरतक्षोणीम् ॥३७७॥देवेषु स्वः परिदीप्यन्ती भूतेष्विन्दौ परिखेलन्ती ।शक्तिर्जिष्णोर्द्वपदां सङ्घे हन्तैतस्यां भुवि निद्राति ॥३७८॥निद्राणाया अपि ते ज्योतिर्गन्धादेते धरणीलोके ।मर्त्याः किञ्चत्प्रभवन्तीशे त्वं बुद्धा चेत्किमु वक्त्व्यम् ॥३७९॥मेघच्छन्नोऽप्यरुणस्तेजो दद्यादेव प्रमदे जिष्णोः ।अत्रस्थानां भवतीग्रन्थिच्छन्नाप्येवं कुरुते प्रज्ञाम् ॥३८०॥ध्यायामो यत्कथयामो यत्पश्यामो यच्छृणुमो यच्च ।जीवामो वा तदिदं सर्वं निद्राणाया अपि ते भासा ॥३८१॥नाडीबन्धादभिमानाच्च च्छन्ना मातर्भवती देहे ।एकापायादितरो नश्येत्तस्माद्द्वेधा तपसः पन्थाः ॥३८२॥चित्तं यस्य स्वजनिस्थाने प्रज्ञा बाह्या न भवेद्यस्य ।आधत्से त्वं भुवनाधीशे बुद्धा क्रीडां हृदये तस्य ॥३८३॥वाणी यस्य स्वजनिस्थाने दूरे कृत्वा मनसा सङ्गम् ।मातस्तत्र प्रतिबुद्धा त्वं श्लोकैर्लोकं कुरुषे बुद्धम् ॥३८४॥हित्वा दृश्यान्यतिसूक्ष्मायां चक्षुर्यस्य स्वमहो वृत्तौ ।विश्वाऽलिप्ता जगतां मातर्जाग्रत्यस्मिन्नचला भासि ॥३८५॥शृण्वन् कर्णो दयिते जिष्णोरन्तः शब्दं ध्रियते यस्य ।बुद्धा भूत्वा वियता साधोरेकीभावं कुरुषे तस्य ॥३८६॥यातायातं सततं पश्येद्यः प्राणस्य प्रयतो मर्त्यः ।विश्वस्येष्टां तनुषे क्रीडां तस्मिन् बुद्धा तरुणीन्द्रस्य ॥३८७॥स्वान्तं यस्य प्रभवेत्कार्येष्वम्बैतस्मिन्नयि निद्रासि ।आत्मा यस्य प्रभवेत्कार्येष्वम्बैतस्मिन्नयि जागर्षि ॥३८८॥यस्याऽहन्ता भवति स्वान्ते तस्य स्वान्तं प्रभवेत्कर्तुम् ।यस्याऽहन्ता भवति स्वात्मन्यात्मा तस्य प्रभवेत्कर्तुम् ॥३८९॥स्वान्तं यस्य प्रभवेत्कर्तुं तत्कर्माल्पं भवति व्यष्टेः ।आत्मा यस्य प्रभवेत्कर्तुं तच्छ्लाध्यं ते बलजित्कान्ते ॥३९०॥एतत्स्वान्तं हृदयाज्जातं शीर्षे वासं पृथगाधाय ।हार्दाहन्तां स्वयमाक्रम्य भ्रान्तानस्मान् कुरुते मातः ॥३९१॥अस्माकं भोः कुरुते बाधामस्मज्योतिर्जननि प्राप्य ।स्वान्ते नैतत्कृतमन्याय्यं कान्ते जिष्णोः शृणु राज्ञि त्वम् ॥३९२॥स्वान्ते तेजो हृदयादायाच्चन्द्रे तेजो दिनभर्तुर्वा ।आश्रान्तं यो मनुते धीरस्तस्य स्वान्तं हृदि लीनं स्यात् ॥३९३॥मूलान्वेषिस्फुरदावृत्तं नीचैरायात्कबलीकृत्य ।जानन्त्येका हृदयस्थाने युञ्जानानां ज्वलसीशाने ॥३९४॥शीर्षे चन्द्रो हृदये भानुर्नेत्रो विद्युत्कुलकुण्डेऽग्निः ।सम्पद्यन्ते महसाऽशैस्ते जिष्णोः कान्ते सुतरां शस्ते ॥३९५॥मन्वानां त्वां शिरसि स्थाने पश्यन्तीं वा नयनस्थाने ।चेतन्तीं वा हृदयस्थाने राजन्तीं वा ज्वलनस्थाने ॥३९६॥यो ना ध्यायेज्जगतां मातः कश्चिच्छ्रेयानवनौ नाऽतः ।पूतं वन्द्यं चरणं तस्य श्रेष्ठं वर्ण्यं चरितं तस्य ॥३९७॥दोग्ध्रीं मायां रसनां वा यो मन्त्रं मातर्जपति प्राज्ञः ।सोऽयं पात्रं करुणायास्ते सर्वं काम्यं लभते हस्ते ॥३९८॥छिन्नां भिन्नां सुतरां सन्नामन्नाभावादभितः खिन्नाम् ।एतां पातुं भरतक्षोणीं जाये जिष्णोः कुरु मां शक्तम् ॥३९९॥क्लृप्तैः सम्यग्बृहतीछन्दस्येतैर्मात्रसमकैर्वृत्तैः ।कर्णाध्वानं प्रविशद्भिस्सा पौलोम्यम्बापरितृप्तास्तु ॥४००॥॥चतुर्थं बार्हतं शतकं समाप्तम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP