सूर्य गीता - अथ पञ्चमोऽध्यायः
गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.
अथ पञ्चमोऽध्यायः॥
सूर्य उवाच -
अथातः सम्प्रवक्ष्यामि कर्मिश्रेष्ठस्य लक्षणम् । यच्छ्रुत्वा नैव भूयोऽन्यच्छ्रोतव्यं तेऽवशिष्यते ॥१॥ यस्य देहः स्वकीयोऽपि सर्वथा न प्रतीयते । नेन्द्रियाणि च सर्वाणि स कर्मिश्रेष्ठ उच्यते ॥२॥ यस्य प्राणाः प्रशान्ताः स्युर्मन आदीनि च स्वयम् । अव्यक्तान्तानि सर्वाणि स कर्मिश्रेष्ठ उच्यते ॥३॥ बालोन्मत्तपिशाचादि चेष्टितान्यपि यत्र नो । निष्ठाऽजगरवद्यस्य स कर्मिश्रेष्ठ उच्यते ॥४॥ नाहम्भावश्च यस्यास्ति नेदम्भावश्च कुत्रचित् । सर्वद्वन्द्वविहीनात्मा स कर्मिश्रेष्ठ उच्यते ॥५॥ प्राग्बद्धोऽहं विमुक्तोऽद्येत्येवं यस्य स्मृतिर्न च । नित्यमुक्तस्वरूपः सन् स कर्मिश्रेष्ठ उच्यते ॥६॥ विदेहमुक्तो यः प्रोक्तो वरिष्ठो ब्रह्मवेदिनाम् । अरूपनष्टचित्तासुः स कर्मिश्रेष्ठ उच्यते ॥७॥ कर्माणि यस्य सर्वाणि वासनात्रयजानि च । अभवन्नपशान्तानि स कर्मिश्रेष्ठ उच्यते ॥८॥ कर्माणि कर्मभिः शुद्धैरशुद्धान्युपमृद्य यः । स कर्मब्रह्ममात्रोऽभूत् स कर्मिश्रेष्ठ उच्यते॥९॥ ज्ञानिनामपि यः श्रेष्ठः सप्तमीं भूमिकां गतः । उपासकानां यश्चैकः स कर्मिश्रेष्ठ उच्यते ॥१०॥ यः सर्वैः पीडितोऽपि स्यान्निर्विकारोऽपि पूजितः । सुखदुःखे न यस्य स्तः स कर्मिश्रेष्ठ उच्यते ॥११॥ यः सर्वैर्मनुजैः पूज्यो यः सर्वैश्च सुरासुरैः । ब्रह्मविष्णुशिवैर्यश्च स कर्मिश्रेष्ठ उच्यते ॥१२॥ त्यक्त्वा कर्माणि सर्वाणि स्वात्ममात्रेण तिष्ठतः । कथं कर्मित्वमित्येवं मा शंकिष्ठा महामते ॥१३॥ कर्मणां फलमेषा हि स्वात्ममात्रेण संस्थितिः । अतः सफलकर्मैष कर्मिश्रेष्ठो भवेद्ध्रुवम् ॥१४॥ ज्ञानेन ज्ञायते यद्वा उपास्त्या चोपलभ्यते । तत्स्थिरं प्राप्यतेऽनेन कर्मणा.आतोऽस्य कर्मिता ॥१५॥ देहेऽस्मिन् वर्तमानेऽपि देहस्मृतिविवर्जनात् । विदेहमुक्त इत्युक्तः कथं कर्मीति चेच्छृणु ॥१६॥ देहविस्मृतिमत्त्वेऽपि कर्मदेहे स्थितत्वतः । अन्यदृष्ट्याऽस्य देहित्वात्कर्मित्वमुपपद्यते ॥१७॥ देहस्थत्वादपूर्णः स्यादिति शक्यं न किंचन । तटाकमप्रकुम्भस्थं जलं पूर्णं हि दृश्यते ॥१८॥ प्रारब्धकर्ममुक्तोऽपि भोगान्मुक्तोऽपि चाखिलात् । कर्माकार्ये स्थितः कर्मी देहे स्याद्भोगसाधने ॥१९॥ साधने सति देहेऽपि साध्यो भोगो न सिध्यति । देहविस्मृतिमत्त्वेन देहहीनसमत्वतः ॥२०॥ आहिताग्नित्वसंसिद्ध्यै ज्योतिष्टोमे कृतेऽपि च । यथा न स्वर्गमाप्नोति निष्कामः पुरुषर्षभः ॥२१॥ जाग्रस्वप्नसुषुप्त्यात्मसन्धित्रयकृतामृतः । सर्वसन्ध्यादिरहितः सन्धिभिर्वन्द्यते सदा ॥२२॥ यः सर्वकर्मभिर्वन्द्यो नित्यं सर्वैरकर्मिभिः । स कर्मिप्रवरोऽकर्मिप्रवरश्चेति कथ्यते ॥२३॥ सर्वसाम्यमुपेत्यस्य स्वात्मारामस्य योगिनः । सहस्रशः कृतैः किं वा वन्दनैरकृतेश्च वा ॥२४॥ देहादिषु विकारेषु स्वीयत्वं स्वत्वपूर्वकम् । विहाय नित्यनिष्ठाभिः स्वमात्रः स विराजते ॥२५॥ इन्द्रियार्थैर्विमूढानां दुष्कर्मत्वं निगद्यते । तैरपेतः सुकर्म्येष विदेह इति कथ्यते ॥२६॥ यः सर्वद्वन्द्वनिर्मुक्तः सर्वत्रिपुटिवर्जितः । सर्वावस्थाविहीनः स विदेह इति कथ्यते ॥२७॥ लौकिकं वैदिकं कर्म सर्वं यस्मिन्क्षयं गतम् । यस्मान्नैवाणुमात्रं च विदेह इति कथ्यते ॥२८॥ यस्येन्द्रियाणि सर्वाणि न चलन्ति कदाचन । भित्तिस्थचित्रांगानीव विदेह इति कथ्यते ॥२९॥ आत्मानं सत्यमद्वैतं केवलं निर्गुणामृतम् । सम्पश्यतः सदा स्वान्यविकारस्फुरणं कुतः ॥३०॥ आत्मेतरदसत्यं च द्वैतं नानागुणान्वितम् । अपश्यतः सदानन्दस्वरूपास्फुरणं कुतः ॥३१॥ आदिमध्यान्तरहितचिदानन्दस्वरूपिणः । स्थितप्रज्ञस्य को बाधः शरीरेण स्वयोगिनः ॥३२॥ कर्माणि कर्मणा त्यक्त्वा ब्रह्मणा ब्रह्मणि स्थितः । कर्मणा शर्म सततं सम्प्राप्तः स विराजते ॥३३॥ बुद्धेस्तैक्ष्ण्यं च मौढ्यं च यस्य नैवास्ति किंचन । बुद्धेः पारंगतः सोऽयं प्रबुद्धः शोभतेतराम् ॥३४॥ मनस्तथैव संलीनं चितीव लवणं जले । यथा निरन्तरात्मीयनिष्ठया सोऽद्वयोऽभवत् ॥३५॥ समनस्त्वान्महद्दुःखममनस्कस्य तत्कुतः । समनस्को हि संकल्पान् करुते दुःखकारिणः ॥३६॥ प्रारब्धकर्मजं दुःखं जीवन्मुक्तस्य कथ्यते । कर्मत्रयविहीनस्य विदेहस्य कथं नु तत् ॥३७॥ कर्म कर्तव्यमिति वा न कर्तव्यमितीह वा । यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥३८॥ समाधिर्वाऽथ कर्तव्यो न कर्तव्य इतीह वा । यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥३९॥ पूर्वं बद्धोऽधुना मुक्तोऽस्म्यहमित्येव बन्धनात् । यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥४०॥ पूर्वमप्यभवन्मुक्तो मध्ये भ्रान्तिस्तु बन्धवत् । यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥४१॥ वन्ध्यापुत्रादिवत्सर्वं मय्यभूदसदित्यपि । यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥४२॥ आविद्यकं तमो ध्वस्तं स्वप्रकाशेन वा इति । यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥४३॥ स्वप्नेऽपि नाहम्भावोऽस्ति मम देहेन्द्रियादिषु । यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥४४॥ अरूपनष्टमनसो विदेहत्वं प्रकीर्त्यते । तत्कथं मन्यमानस्य यत्किंचित्स्यादनात्मनः ॥४५॥ मनो नश्यति निःशेषं मननस्य विसर्जनात् । अमनस्कस्वभावं तत्पदं तस्यावशिष्यते ॥४६॥ मननेन विनिश्चित्य वैदेहीं मुक्तिमात्मनः । नैष्कर्म्यसिद्धिं वदतां का तृप्तिरविवेकिनाम् ॥४७॥ श्रुत्वा वेदान्तवाक्यानि मोदन्तेऽनुभवं विना । लीढेन ताडपत्रेण गुडाक्षरयुतेन किम् ॥४८॥ स्वानुभूतिं विना शास्त्रैः पण्डिताः समलंकृताः । कचहीनेव विधवा भूषणैर्भूषितोत्तमैः ॥४९॥ स्वानुभूतिं विना कर्माण्याचरन्त्यखिलान्यपि । स्वर्णयःकुम्भकारादितुल्या एवोपवीतिनः ॥५०॥ स्वानुभूतिं विना वेदान् पठन्ति विविधा द्विजाः । प्रावृण्णिशायां परितो मण्डूका इव दुस्स्वराः ॥५१॥ स्वानुभूतिं विना देहं बिभ्रत्यध्यासदार्ढ्यतः । शाकल्यस्य मृतं देहं धनबुद्ध्येव तस्कराः ॥५२॥ स्वानुभूतिं विना ध्यानं कुर्वन्त्यासनसंयुताः । बका इवाम्भसस्तीरे मत्स्यवंचनतत्पराः ॥५३॥ स्वानुभूतिं विना श्वासान्निरुन्धन्ति हठात्सदा । अयस्कारोऽनिलं बाह्यं द्रुतिकायामिवाधिकम् ॥५४॥ स्वानुभूतिं विना योगदण्डपट्टादिधारिणः । जीर्णकन्धाभरं भग्नदण्डभाण्डादि पित्तवत् ॥५५॥ स्वानुभूतिं विना यद्यत्कुर्वन्ति भुवि मानवाः । तत्तत्सर्वं वृथैव स्यान्मरुभूमौ कृषिर्यथा ॥५६॥ स्वानुभूत्यर्थकं कर्म निकृष्टमपि सर्वथा । उत्तमं विबुधैः श्लाघ्यं श्वेव चोरनिवर्तकः ॥५७॥ स्वानुभूत्युपयुक्तेभ्य इतराणि बहून्यपि । कर्मादीन्याचरन्मर्त्यो भ्रान्तवद्व्यर्थचेष्टितः ॥५८॥ श्रुतिस्मृतिपुराणेषु काम्यकर्माण्यनेकधा । प्रोच्यन्ते तेषु संसक्तस्त्याज्यः शिष्टैर्विटो यथा ॥५९॥ काम्यकर्मसमासक्तः स्वनिष्ठां स्वस्य मन्यते । जात्यन्धः स्वस्य रत्नादिपरीक्षादक्षतामिव ॥६०॥ अवशेन्द्रियमात्मार्थगुरुबुद्ध्यैव सेवते । बालातन्तुसुतं लोकेऽगणितं भुक्तये यथा ॥६१॥ यस्तु वश्येन्द्रियं शान्तं निष्कामं सद्गुरुं सदा । स्वात्मैकरसिकं मुक्त्यै स धीमानुपगच्छति ॥६२॥ काम्यकर्माणि चोत्सृज्य निष्कामो यो मुमुक्षया । शान्त्यादिगुणसंयुक्तं गुरुं प्राप्तः स मुच्यते ॥६३॥ इति श्रुत्वाऽरुणः सूर्यात्संतुष्टः स्वात्मनिष्ठया । कृतकृत्य इदं प्राह भास्करं विनयान्वितः ॥६४॥ अरुण उवाच - श्रीमन्गुरुवर स्वामिंस्त्वन्मुखात्पारमार्थिकम् । निष्कामकर्ममाहात्म्यं श्रुत्वा धन्योऽस्म्यसंशयम् ॥६५॥ सकर्मत्वमकर्मत्वं विदेहस्य च लक्षणम् । श्रुतं रहस्यं नातोऽन्यत्किंचिदप्यवशिष्यते ॥६६॥ तथाऽपि मम साक्षात्त्वं कर्तव्यं ब्रूहि निश्चितम् । मच्चित्तपरिपाकं हि षेत्सि सर्वज्ञ सद्गुरो ॥६७॥ इति पृष्ट उवाचेदं भगवान्भास्करोऽरुणम् । स्वसारथिं निजग्रस्थं बद्धबाहुं नताननम् ॥६८॥ सूर्य उवाच - अरुण त्वं परं ब्रह्म साक्षाद्दृष्ट्वाऽधुना कृती । तथाऽप्यादेहपतनाद्ब्रह्माभिध्यानमादरात् ॥६९॥ स्वाधिकारोचितं शुद्धं कर्माप्याचर सत्तम । प्रमादो माऽस्तु ते स्वप्नेऽप्युक्तयोर्ब्रह्मकर्मणोः ॥७०॥ संवादमावयोरेतं सर्वपापहरं शुभम् । यः शृणोति सकृद्वा स कृतार्थो नात्र संशयः ॥७१॥ श्रीगुरुमूर्तिरुवाच - इति दिनकरवक्त्राद्ब्रह्मकर्मैनिष्ठां स्फुटतरमवगम्य प्राज्ञ एकोऽरुणः सः । अभवदखिललोकैः पूजनीयः कृतार्थ- स्त्वमपि भव तथैव क्षिप्रमम्भोजजन्मन् ॥७२॥ विमलविगुणयोगाभ्यासदार्ढ्येन युक्तः सकलगतचिदात्मन्यद्वितीये बुधोऽपि । सततमपि कुरुष्वारब्धदुःखोपशान्त्यै रहसि निजसमाधीन्स्वोक्तकर्मापि धातः ॥७३॥
इति तत्त्वसारायणकर्मकाण्डोक्तश्रीसूर्यगीतायां पंचमोऽध्यायः॥
॥इति सूर्यगीता समाप्ता॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP