सूर्य गीता - अथ तृतीयोऽध्यायः
गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.
॥अथ तृतीयोऽध्यायः॥
अथातः सम्प्रवक्ष्यामि ममान्तर्यामिणं शिवम् । यः सर्वकर्मणां साक्षी निर्लेपः प्रभुरीश्वरः ॥१॥ त्रिनेत्रं नीलकण्ठं यं साम्बं मृत्युंजयं हरम् । ध्यात्वा संसृतिमोक्षः स्यात्तं नमामि महेश्वरम् ॥२॥ सर्वेषां कर्मणामेकः फलदाता य उच्यते । स एव मृड ईशानः सर्वज्ञः सर्वशक्तिमान् ॥३॥ यस्य स्मरणमात्रेण निवर्तन्तेऽखिलापदः । सम्पदश्चेह लभ्यन्ते सोऽन्तर्यामी शिवो हरः ॥४॥ येनैव सृष्टमखिलं जगदेतच्चराचरम् । यस्मिंस्तिष्ठति नश्यत्यप्येष एको महेश्वरः ॥५॥ यं नमन्ति सुराः सर्वे स्वस्वाभीष्टप्रसिद्धये । स्वातन्त्र्यं यस्य सर्वत्र सोऽन्तर्यामि महेश्वरः ॥६॥ उमार्धविग्रहः शम्भुः त्रिनेत्रः शशिशेखरः । गंगाधरो महादेवः सोऽन्तर्यामि दयानिधिः ॥७॥ श्रुतिस्मृतिपुराणेषु यस्यैवाधिक्यमिष्यते । यस्याधिक्यस्मृतेर्मुक्तिः सोऽन्तर्यामी पुरातनः ॥८॥ यन्नामजपमात्रेण पुरुषः पूज्यते सुरैः । यमाहुः सर्वदेवेशं सोऽन्तर्यामी गुरूत्तमः॥९॥ यदाख्यामृतपानेन संतृप्ता मुनयोऽखिलाः । न वाञ्छन्ति महाभोगान् सोऽन्तर्यामी जगत्पतिः ॥१०॥ अरुण उवाच - सद्गुरो भास्कर श्रीमन् सर्वतत्त्वार्थकोविद । श्रुतिस्मृतिपुराणेषु ह्यन्तर्याम्यन्यथा श्रुतः ॥११॥ सत्यं ज्ञानमनन्तं यत्प्रसिद्धं ब्रह्म निष्कलम् । निर्गुणं निष्क्रियं शान्तं केवलं सर्वगं परम् ॥१२॥ तदेव सर्वान्तर्यामी श्रुतं सर्वान्तरत्वतः । वरेण्यं सवितुस्ते च गायत्र्यां तद्धि कथ्यते ॥१३॥ अशरीरस्य तस्यैव ह्यादिमध्यान्तवर्जनात् । आकाशवद्विभूतेन सर्वान्तर्यामितोचिता ॥१४॥ शिवस्य सशरीरस्य साम्बस्य सगुणस्य तु । अविभुत्वेन सा नैव युज्यते भास्कर प्रभो ॥१५॥ सगुणैकप्रधानैश्च विशिष्टाद्वैतवादिभिः । कैश्चिद्ब्रह्महरीशानामन्तर्यामित्वमुच्यते ॥१६॥ सर्वज्ञत्वादिधर्माणां समत्वं च त्रिमूर्तिषु । मत्वैवोपासते विप्राः ते गायत्रीपरायणाः ॥१७॥ केचिद् द्रुहिण एव स्यादन्तर्यामी वाक्पतिः । नान्यौ हरिहरौ कर्मप्रसिद्धेरिति वै विदुः ॥१८॥ केचित्तु विष्णुरेव स्यादन्तर्यामी रमापतिः । न विधीशौ परोपास्तिप्रसिद्धेरिति वै विदुः ॥१९॥ केचिच्च शिव एकः स्यादन्तर्यामी ह्युमापतिः । नान्यौ ब्रह्महरी ज्ञानप्रसिद्धेरिति संविदुः ॥२०॥ त्वदुक्तरीत्या त्वाधिक्यं ज्ञानोपासनकर्मसु । कर्मणोऽवगतं तेन विधेरेव प्रसिध्यति ॥२१॥ एष पक्षः समीचीनस्तव नैव भविष्यति । तस्मादनिश्चितार्थं मां कुरुष्वासंशयं प्रभो ॥२२॥ सूर्य उवाच - सम्यक्पृष्टं त्वया धीमन्नरुण शृणु सादरम् । वक्ष्यामि निश्चितार्थं ते श्रुतिस्मृत्यादिभिः स्फुटम् ॥२३॥ अन्तर्यामी द्विधा प्रोक्तः सगुणो निर्गुणोऽपि च । चरस्य केवलं त्वाद्यश्चरस्यान्योऽचरस्य च ॥२४॥ अहं हि चर एवास्मि मदन्तर्यामिणावुभौ । गायत्र्यां चावगन्तव्यौ देवौ सगुणनिर्गुणौ ॥२५॥ निर्गुणश्चावगन्तव्यः सगुणद्वारतोऽखिलैः । अतोऽब्रुवं शिवं साक्षान्मदन्तर्यामिणं तव ॥२६॥ कारणत्वं यथा सिद्धं ब्रह्मणः परमात्मनः । यथा शिवस्य साम्बस्य कार्यत्वं च सतां मतम् ॥२७॥ तथा शिवस्य हेतुत्वं विष्णोः कार्यत्वमप्यथ । विष्णोश्च हेतुतां तद्वद्विधेर्विद्धि च कार्यताम् ॥२८॥ ब्रह्मा विष्णुः शिवो ब्रह्म ह्युत्तरोत्तरहेतवः । इति जानन्ति विद्वांसो नेतरे मायया वृताः ॥२९॥ विशिष्टाद्वैतिनो वाऽन्ये सगुणैकाभिमानिनः । अशरीरानभिज्ञत्वान्मायापरवशा ध्रुवम् ॥३०॥ सर्वज्ञत्वादिधर्माणां कथं साम्यं त्रिमूर्तिषु । त्रयाणां च गुणानां हि वैषम्यं सर्वसंमतम् ॥३१॥ गुणत्रयवशात्तेषां वैषम्यं विद्धि सुस्थितम् । ब्रह्मा हि राजसः प्रोक्तो विष्णुस्तामस उच्यते ॥३२॥ रुद्रः स सात्त्विकः प्रोक्तः मूर्तिवर्णैश्च तादृशाः । चित्स्वरूपानुभूत्या च तारतम्यं निगद्यते ॥३३॥ निर्विशेषपरब्रह्मानन्यत्वेन तु ते समाः । तथाऽपि शिवशब्दस्य परब्रह्मात्मकत्वतः ॥३४॥ साक्षिणा निर्विकारेण चिन्मात्रेण महात्मना । सदाशिवेन नित्येन केवलेन समो न हि ॥३५॥ साम्बस्य चन्द्रचूडस्य नीलकण्ठस्य शूलिनः । उत्कर्षोऽस्ति स्वतःसिद्धः किं मया प्रतिपाद्यते ॥३६॥ आदौ मां जनयामास ब्रह्मा साक्षाच्चतुर्मुखः । यथा तथा विरिंचिं तं श्रीमान्नारायणो हरिः ॥३७॥ यतोऽभवन्महाविष्णुर्ममारुण पितामहः । ततो मे सुप्रसिद्धभूत्सूर्यनारायण अभ्धा ॥३८॥ नैतेन सकलेशस्य प्रपितामहतावशात् । सर्वोत्कृष्टत्वसंसिद्ध्या लुप्यते ह्यान्तरात्मना ॥३९ अथ वा योगवृत्या स्याच्छिवो नारायणाभिधः । तद्दृष्टिर्मयि कर्तव्योपासकरिति सन्मतम् ॥४०॥ कर्मोपासनबोधेषु ब्रह्मविष्णुशिवाः क्रमात् । प्रसिद्धा इति संत्यज्य धियं शृणु वचो मम ॥४१॥ त्रिषु त्रयः प्रसिद्धाः स्युस्तारतम्येन चारुण । काम्यकर्मप्रधानोऽस्ति स्वयम्भूश्चतुराननः ॥४२॥ नैमित्तिकप्रधानस्तु विष्णुः कमललोचनः । नित्यकर्मप्रधानः स शिवः साक्षात्त्रिलोचनः ॥४३॥ मूर्त्युपास्तौ विधिमुख्यस्त्वंशोपास्तौ हरिर्मतः । निरंशोपासने मुख्यो नीलकण्ठो हरो मतः ॥४४॥ ज्ञाने श्रवणजे ब्रह्मा विज्ञाने मननोदिते । विष्णुः स सम्यग्ज्ञाने तु निदिध्यासनजे शिवः ॥४५॥ अत्रैवं सति कस्याभूदाधिक्यमरुणाधुना । त्वमेव सम्यगालोच्य विनिश्चिनु महामते ॥४६॥ पुरा कश्चिन्महाधीरः शिवभक्ताग्रणीर्द्विजः । शिवाख्याजपसंसक्तश्चचार भुवि निस्पृहः ॥४७॥ स्वाश्रमाचारनिरतो भस्मरुद्राक्षभूषणः । सर्वशास्त्रार्थतत्त्वज्ञः कामक्रोधादिवर्जितः ॥४८॥ शमादिषट्कसम्पन्नः शिवभक्तजनादरः । शिवस्य वैभवं स्मृत्वा श्रुतिस्मृतिपुराणगम् ॥४९॥ सर्वेश्वरस्य साम्बस्य त्रिनेत्रस्य दयानिधेः । सदाशिवस्य माहात्म्यं स्वत एवेदमब्रवीत् ॥५०॥ पश्वादिभ्यो वरिष्ठाः क्षितिगतमनुजास्तेभ्य एवेन्द्रमुख्यः देवास्तेभ्यो विधाता हरिरपि च ततः शङ्करो यस्त्रिनेत्रः । नान्योऽस्माच्छंकरात्तु श्रुतिषु निगदितो वा वरिष्ठः समो वा सर्वान्विष्ण्वादिकांस्तं न हि वयमधुना नूनमेवाश्रयामः ॥५१॥ मूलाधारे गणेशस्तदुपरि तु विधिर्विष्णुरस्मात्ततोऽयं रुद्रस्थाने चतुर्थे श्रुतिरपि च तथा प्राह शान्तं चतुर्थम् । अस्मादन्यः शिवोऽस्ति त्रिपुरहर इतो वा सदाद्यः शिवोऽस्ति स्वस्थोऽयं द्वादशान्तप्रबलनटनकृच्चापि साक्षात्सभेशः ॥५२॥ रौद्री शक्तिस्तथा स्यादयमपि च हरिः शाक्त एवं विरिंचो मन्तव्यो वैष्णवोऽमी सनकमुखमहाब्राह्मणा ब्राह्मणाश्च । तस्मादेवं विभक्ते न हि भवति हरेरंशितांशांशिभावे साक्षादप्यत्र नित्यं परमशिवमहं चांशिनं तं नमामि ॥५३॥ शम्भोरन्यन्न पश्याम्यहमिह परमे व्योम्नि सोमाच्छ्रुतौ वा यस्यैवैतेन भासा जगदखिलमिदं भासते चैत्यरूपम् । यच्छीर्षाङ्घ्री दिदृक्षु द्रुहिणमुररिपु सर्वशक्त्याप्य दृष्ट्वा खेदन्तौ जग्मतुस्तं परमशिवममुं त्वां विना कं नु वन्दे ॥५४॥ यं विष्णुर्नावपश्यत्यखिलजनभयध्वंसकं काशिकायां लिंगं चोपास्त इत्यप्यधिकभसितरुद्राक्षसम्भूषितः सन् । जाबालेये बृहत्यप्यथ हरिजनिता श्रूयते सोम एकः पायाच्छ्रुत्यन्तसिद्धो जनिमृतिभयभृत्संसृतेस्तारको माम् ॥५५॥ मध्ये को वाऽधिकः स्याद्द्रुहिण हरिहराणामिति प्रश्नपूर्वं ब्रह्मादौ पैप्पलादं खलु वदति महान्रुद्र एवाधिकः स्यात् । इत्युक्त्वा शारभाख्ये श्रुतिशिरसि नमश्चास्तु रुद्राय तस्मै स्तुत्वैवं ध्येयमाह त्रिपुरहरमुमाकांतमेकं भजेऽहम् ॥५६॥ ध्याता रुद्रो रमेशो हरिरपि तु तथा ध्यानमेकः शिवस्तु ध्येयोऽथर्वश्रुतेः सा निखिलरसवती या समाप्ता शिखाभूत् । ध्येयश्चिन्मात्र एकः परमशिव इतो वा चिदंदशत्व- मस्य ध्यातुः स्यान्न त्वमुष्य प्रकृतिभवमनोवृत्तिरूपस्य विष्णोः ॥५७॥ एको रुद्रो महेशः शिव इति च महादेव एवैष सर्व व्यापी यः श्रूयतेऽस्मिंच्छ्रुतिशिरसि तथाथर्वशीर्षाभिधे च । देवाः सर्वे यदन्तस्थितिजुष इह ते विष्णुपूर्वास्ततोन्यः को वाऽस्याद्व्यापकोऽस्मान्निरतिशयचिदाकाशरूपान्महेशात् ॥५८॥ नाभौ ब्रह्माणमुक्त्वा हरिमपि हृदये रुद्रमेनं भ्रुवोस्त- न्मध्ये श्रुत्यन्त एवं प्रणवविवरणे नारसिंहाभिधे च । विज्ञेयः सोऽयमात्मा शिव इति च चतुर्थोऽद्वितीयः प्रशान्तश्चेत्याहान्ते प्रजेशस्त्रिदशपरिपदस्तत्स ईशः प्रपूज्यः ॥५९॥ कैवल्यं प्राप्नुयात्कः पुरुष इह शिवं केवलं त्वां विहाय स्वामिन्नीशं तथान्यं जगति सदसतोरत्र विष्णोर्विधेर्वा । चिन्मात्रः प्रत्यगात्मा त्वमसि खलु सदा पूर्व एकः शिवोऽत- स्त्वामेवैकं भजेऽहं सततमपि जगत्साक्षिणं निर्विशेषम् ॥६०॥ सूर्य उवाच - एवं शिवस्य माहात्म्ये सर्वश्रुत्यन्तनिश्चिते । उद्भवेत्संशयः कस्य को मुच्येत संशयात् ॥६१॥ अतोरुण महाप्राज्ञ मुख्यान्तर्यामिणं मम । त्रिनेत्रं भज कैवल्यसंसिध्यै परमेश्वरम् ॥६२॥
॥इति सूर्यगीतायां तृतीयोऽध्यायः॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP