सूर्य गीता - अथ प्रथमोऽध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


॥श्री गणेशाय नमः॥
॥अथ सूर्यगीता प्रारभ्यते॥
ब्रह्मा उवाच -
प्रपञ्चसृष्टिकर्मेदं मम श्रीगुरुनायक । अहार्यं द्विपरार्धान्तमाधिकारिकतावशात् ॥१॥ इति त्वद्वदनाम्भोजात्सम्यग्विदितवानहम् । तथाप्यत्र न मे चिन्ता जायते त्वत्कृपाबलात् ॥२॥ त्वयि प्रसन्ने मय्येवं बोधानन्दः स्वरूपतः । पुनर्जन्मभयाभावाद्धीर एवास्मि वृत्तिषु ॥३॥ तथाऽपि कर्मभागेषु श्रोतव्यमवशिष्यते । तत्सर्वं च विदित्वैव सर्वज्ञः स्यामहं प्रभो ॥४॥ जगज्जीवेश्वरादीनां प्रागुत्पत्तेर्निरंजनम् । निर्विशेषमकर्मैकं ब्रह्मैवासीत्तदद्वयम् ॥५॥ तस्य जीवेश स्रष्टृत्वं प्रोच्यते वेदवादिभिः । अकर्मणः कथं सृष्टिकर्मकर्तृत्वमुच्यते ॥६॥ सकर्मा सेन्द्रियो लोके दृश्यते न निरिन्द्रियः । ब्रह्मणोऽतीन्द्रियत्वं च सर्वशास्त्रेषु घुष्यते ॥७॥ नश्यमानतयोत्पत्तिमत्वादाद्यस्य कर्मणः । न मुख्यमवकल्पेताप्यनादित्वोपवर्णनम् ॥८॥ ब्रह्म चेत्कर्मकुर्वीत यनेकेनापि हेतुना । तथा च संसृतिस्तस्य प्रसज्येत तु नात्मनः॥९॥ तस्मादाद्यस्य पुण्यस्य पापस्य च दयानिधे । कर्मणो ब्रूहि मे स्पष्टमुपपत्तिं गुरूत्तम ॥१०॥ इत्युक्तो विधिना देवो दक्षिणामूर्तिरीश्वरः । विचित्रप्रश्नसन्तुष्ट इदं वचनमब्रवीत् ॥११॥ श्रीगुरुमूर्तिरुवाच - ब्रह्मन्साधुरयं प्रश्नस्तव प्रश्नविदां वर । शृणुष्व सावधानेन चेतसाऽस्योत्तरं मम ॥१२॥ प्रागुत्पत्तेरकर्मैकमकर्तृ च निरिन्द्रियम् । निर्विशेषं परं ब्रह्मैवासीन्नात्रास्ति संशयः ॥१३॥ तथाऽपि तस्य चिच्छक्तिसंयुतत्वेन हेतुना । प्रतिच्छायात्मिके शक्ती मायाविद्ये बभूवतुः ॥१४॥ अद्वितीयमपि ब्रह्म तयोर्यत्प्रतिबिम्बितम् । तेन द्वैविध्यमासाद्य जीव ईश्वर इत्यपि ॥१५॥ पुण्यपापादिकर्तृत्वं जगत्सृष्ट्यादिकर्तृताम् । अभजत्सेन्द्रियत्वं च सकर्मत्वं विशेषतः ॥१६॥ यः स्वशक्त्या समुल्लास उदभूत्परमात्मनः । स्वबन्धजनकं सूक्ष्मं तदाद्यं कर्म कथ्यते ॥१७॥ न तेन निर्विशेषत्वं हीयते तस्य किंचन । न च संसारबन्धश्च कश्चिद्ब्रह्मन्प्रसज्यते ॥१८॥ पारमार्थिकसंसारी जीवः पुण्यादिकर्मवान् । प्रातिभासिकसंसारी त्वीशः सृष्ट्यादिकर्मवान् ॥१९॥ असंसारि परं ब्रह्म जीवेशोभयकारणम् । ततोऽप्यतीतं नीरूपं अवाङ्मनसगोचरम् ॥२०॥ कर्मवन्तौ परित्यज्य जीवेशौ ये महाधियः । अकर्मवत्परं ब्रह्म प्रयान्त्यत्र समाधिभिः ॥२१॥ ते विदेहविमुक्ता वा जीवन्मुक्ता नरोत्तमाः । कर्माकर्मोभयातीतास्तद्ब्रह्मारूपमाप्नुयुः ॥२२॥ कर्मणा संसृतौ बद्धा मुच्यन्ते ते ह्यकर्मणा । बन्धमोक्षोभयातीताः कर्मिणो नाप्यकर्मिणः ॥२३॥ जीवस्य कर्मणा बन्धस्तस्य मोक्षश्च कर्मणा । तस्माद्धेयं च कर्म स्यादुपादेयं च कर्म हि ॥२४॥ त्यक्ते कर्मणि जीवत्वमात्मनो गच्छति स्वयम् । गृहीते कर्मणि क्षिप्रं ब्रह्मत्वं च प्रसिध्यति ॥२५॥ आविद्यकमशुद्धं यत्कर्म दुःखाय तन्नृणाम् । विद्यासम्बन्धि शुद्धं यत् तत्सुखाय च कथ्यते ॥२६॥ विद्याकर्मक्षुरात्तीक्ष्णात् छिनत्ति पुरुषोत्तमः । अविद्याकर्मपाशांश्चेत्स मुक्तो नात्र संशयः ॥२७॥ सर्वस्य व्यवहारस्य विधे कर्मैव कारणम् । इति निश्चयसिद्ध्यै ते सूर्यगीतां वदाम्यहम् ॥२८॥ कर्मसाक्षिणमादित्यं सहस्रकिरणं प्रभुम् । सप्ताश्वं सर्वधर्मज्ञमपृच्छदरुणः पुरा ॥२९॥ अरुण उवाच - भगवन् केन संसारे प्राणिनः सम्भ्रमन्त्यमी । केनैतेषां निवृत्तिश्च संसाराद्वद सद्गुरो ॥३०॥ इति पृष्टः स सर्वज्ञः सहस्रकिरणोज्वलः । सूर्योऽब्रवीदिदं शिष्यमरुणं निजसारथिम् ॥३१॥ सूर्य उवाच - अरुण त्वं भवस्यद्य मम प्रियतमः खलु । यतः पृच्छसि संसारभ्रमकारणमादरात् ॥३२॥ भ्रमन्ति केवलं सर्वे संसारे प्राणिनोऽनिशम् । न तु तत्कारणं केनाप्यहो किंचिद्विचार्यते ॥३३ । तज्जिज्ञासुतया त्वं तु श्लाघ्योऽसि विबुधोत्तमैः । शृणुश्वारुण वक्ष्यामि तव संसारकारणम् ॥३४॥ पुण्यपापात्मकं कर्म यत्सर्वप्राणिसंचितम् । अनादिसुखदुःखानां जनकं चाभिधीयते ॥३५॥ शास्त्रैः सर्वैश्च विहितं प्रतिषिद्धं च सादरम् । कामादिजनितं तत्त्वं विद्धि संसारकारणम् ॥३६॥ पश्वादीनामभावेऽपि तयोर्विधिनिषेधयोः । संसारस्य न लोपोऽस्ति पूर्वकर्मानुसारतः ॥३७॥ पूर्वं मनुष्यभूतानां पापकर्मावशादिह । श्वखरोष्ट्रादिजन्मानि निकृष्टानि भवन्त्यहो ॥३८॥ पापकर्मसु भोगेन प्रक्षीणेषु पुनश्च ते । प्राप्नुवन्ति मनुष्यत्वं पुनश्च श्वादिजन्मिताम् ॥३९॥ जननैर्मरणैरेवं पौनःपुन्येन संसृतौ । भ्रमन्त्यब्धितरंगस्थदारुवद्धीमतां वर ॥४०॥ अरुण उवाच - प्रक्षीणपापकर्माणः प्राप्तवन्तो मनुष्यताम् । पुनश्च श्वादिजन्मानि केन गच्छन्ति हेतुना ॥४१॥ न हि दुर्जन्महेतुत्वं पुण्यानां युक्तमीरितुम् । न च पुण्यवतां भूयः पापकर्मोपपद्यते ॥४२॥ पुण्यैर्विशुद्धचित्तानां ज्ञानयोगादिसाधनैः । संसारमोक्षसंसिद्ध्या पापकर्माप्रसक्तितः ॥४३॥ जीवेषु पौनःपुन्यं चेदुत्तमाधमजन्मनाम् । नियमेनाभिधीयेत येन केनापि हेतुना ॥४४॥ मोक्षशास्त्रस्य वैयर्थ्यमापतत्येव सर्वथा । तस्मादपापिनां जन्म पुनश्चेति न युज्यते ॥४५॥ इत्युक्तो भगवानाह सर्वज्ञः करुणानिधिः । रविः संशयविच्छेदनिपुणोऽरुणमादरात् ॥४६॥ रविरुवाच - प्रक्षीणेष्वपि भोगेन पापकर्मसु देहिनः । पुनश्च पापकर्माणि कुर्वन्तो यान्ति दुर्गतिम् ॥४७॥ तानि दुर्जन्मबीजानि कामात्पापानि देहिनाम् । पुनरप्युपपद्यन्ते पूर्वपुण्यवतामपि ॥४८॥ सकामानां च पुण्यानां भोगहेतुतया नृणाम् । न चित्तशुद्धिहेतुत्वं क्वचिद्भवितुमर्हति ॥४९॥ कुतश्चाशुद्धचित्तानां ज्ञानयोगादिसम्भवः । ज्ञानयोगादिहीनानां कुतो मोक्षश्च संसृतेः ॥५०॥ कामेन हेतुना सत्स्वप्युत्तमाधमजन्मसु । मोक्षशास्त्रस्य सार्थक्यं नैष्काम्योदयहेतुकम् ॥५१॥ सुखदुःखोपभोगेन यदा निर्वेदमागतः । निष्कामत्वमवाप्नोति स्वविवेकपुरस्सरम् ॥५२॥ ततःप्रभृति कैश्चित्स्याज्जन्मभिर्ज्ञानयोगवान् । श्रवणादिप्रयत्नैर्हि मुक्तिः स्वात्मन्यवस्थितिः ॥५३॥ कर्माध्यक्षं परात्मानं सर्वकर्मैकसाक्षिणम् । सर्वकर्मविदूरन्तं कर्मवान्कथमाप्नुयात् ॥५४॥ पुण्येष्वपि च पापेषु पौर्विकेषु तु भोगतः । क्षपितेषु परात्मा स स्वयमाविर्भविष्यति ॥५५॥ कर्तृभिर्भुज्यते जीवैः सर्वकर्मफलं न तु । साक्षिणा निर्विकल्पेन निर्लेपेन परात्मना ॥५६॥ जीवानां तदनन्यत्वत्भोगस्यावसरः कुतः । इति केचन शंकन्ते वेदान्तापातदर्शिनः ॥५७॥ परमार्थदशायां हि तदनन्यत्वमिष्यते । व्यवहारदशायां नानुपपत्तिश्च काचन ॥५८॥ परमार्थदशारूढे जीवन्मुक्तेऽपि कर्मणाम् । भोगोऽङ्गीक्रियते सम्यक् दृश्यते च तथा सति ॥५९॥ अज्ञानां व्यवहारैकनिष्ठानां तदनन्यता । अभोक्तृता च केनैव वक्तुं शक्या मनीषिणा ॥६०॥ ज्ञानिनः कर्मकर्तृत्वं दृश्यमानमपि स्फुटम् । उत्पादयेत्फलं नेति मन्यन्ते स्वप्नकर्मवत् ॥६१॥ तदयुक्तं न हि स्वप्ने पापकर्तुः स्वतन्त्रता । जाग्रति प्राणिनः कर्म स्वातन्त्र्यं वर्तते खलु ॥६२॥ तिरश्चां जागरावस्था यथा भोगैककारणम् । तथा स्वप्नदशा नॄणां फलभोगैककारणम् ॥६३॥ नृणां च जागरावस्था बालानां स्यात्तथा न तु । यूनां वृद्धतमानां वा किमुत स्वात्मवेदिनाम् ॥६४॥ भाविभोगार्थकं कर्म जाग्रत्येव नृणां भवेत् । फलं तु कर्मणः स्वप्ने जाग्रत्यपि च युज्यते ॥६५॥ कर्मण्यध्यस्य भोगं ये भोगेऽध्यस्याथ कर्म च । कर्म तद्भोगयोर्भेदमज्ञात्वाहुर्यथेप्सितम् ॥६६॥ तेषां मन्दधियां ज्ञानवादिनां पापकारिणाम् । कथं कृतार्थतां ब्रूयामध्यासक्षयसम्भवाम् ॥६७॥ कर्मण्यकर्मधीर्येषामकर्मणि च कर्मधीः । ते चाध्यासवशा मन्दा ज्ञानिनः स्वैरचारिणः ॥६८॥ वर्णाश्रमादिधर्माणामद्वैतं कर्मणैव ये । अनुतिष्ठन्ति ते मूढाः कर्माकर्मोभयच्युताः ॥६९॥ स्वानुभूतिं वरिष्ठां तां सर्वानुष्ठानवर्जिताम् । सर्वानुष्ठानवन्तोऽपि सिद्धामाहुर्बतात्मनाम् ॥७०॥ अभेदध्यानसाध्यां तां स्वानुभूतिं महत्तमाम् । विचारसाध्यां मन्यन्ते ते महापापकर्मिणः ॥७१॥ निदिध्यासनमप्यात्मा भेदाभिध्यानलक्षणम् । उपेक्षन्ते वृथाद्वैतज्ञानवादैकमोहतः ॥७२॥ आश्रित्यैव विचारं ये वाक्यार्थमननात्मकम् । मन्यन्ते कृतकृत्यत्वमात्मनां ते हि मोहिताः ॥७३॥ आद्यज्ञानोदये काम्यकर्मत्याग उदीर्यते । द्वितीयसम्यग्ज्ञाने तु नैमित्तिकनिराकृतिः ॥७४॥ तृतीयपूर्णज्ञाने च नित्यकर्मनिराकृतिः । चतुर्थाद्वैतबोधे तु सोऽतिवर्णाश्रमी भवेत् ॥७५॥ नित्यनैमित्तिकोपेतज्ञानान्मुक्तिः क्रमाद्भवेत् । सम्यग्ज्ञानात्तु सा जीवन्मुक्तिर्नित्यैकसंयुतात् ॥७६॥ पूर्णज्ञानाद्विदेहाख्या शाश्वती मुक्तिरिष्यते । यथा नैष्कर्म्यसंसिद्धिर्जीवन्मुक्ते निरंकुशा ॥७७॥ अत्रैवं सति नैष्कर्म्यं ज्ञानकर्मसमुच्चयात् । सिध्येत्क्रमेण सद्यो वा नान्यथा कल्पकोटिभिः ॥७८॥ यावद्विदेहमुक्तिः सा न सिध्यति शरीरिणः । तावत्समुच्चयः सिद्धो ज्ञानोपासनकर्मणाम् ॥७९॥ तस्माद् ज्ञात्वा परात्मानं ध्याननिष्ठो महामतिः । भूयान्निजाश्रमाचारनिरतः श्रेयसे सदा ॥८०॥ ज्ञानोपास्ती कर्मसापेक्षके ते कर्मोपास्ती ज्ञानसापेक्षके च । कर्मज्ञाने चान्यसापेक्षके तन्- मुक्त्यै प्रोक्तं साहचर्यं त्रयाणाम् ॥८१॥ ज्ञानोपास्ती स्वीयकर्मस्वपास्यापेकं मुक्तिर्नैव कस्यापि सिध्येत् । तस्माद्धीमानाश्रयेदप्रमत्तस्त्री- ण्युक्तानि श्रद्धयाऽऽदेहपातात् ॥८२॥
॥इति सूर्यगीतायां प्रथमोऽध्यायः॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP