सूर्य गीता - अथ चतुर्थोऽध्यायः
गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.
॥अथ चतुर्थोऽध्यायः॥
सूर्य उवाच -
अथातः सम्प्रवक्ष्यामि तस्यान्तर्यामिणो गुरोः । जगत्सृष्ट्यादिकर्माणि लीलारूपाणि सुव्रत ॥१॥ आदौ जगत्ससर्जेदं पंचीकरणकर्मणा । यः स ईशो महामायः सर्वज्ञः सर्वशक्तिमान् ॥२॥ चतुर्विधेषु भूतेषु निजमायावशीकृतान् । जीवान् प्रवेशयित्वाननुप्रविवेश स्वयं वशी ॥३॥ लीलारूपमपीदं च कर्म तस्य महेशितुः । प्रारब्धकर्मजं ज्ञेयमाधिकारिकतावशात् ॥४॥ स ह्यादिकारिकः श्रेष्ठः पूर्वं जीवत्वमागतः । समुच्चयादभूदीशो ज्ञानोपासनकर्मणाम् ॥५॥ प्राक्कल्पाधिकृतो देवः स्वारब्धक्षपणात्स्वयम् । अपहाय निजां मायां प्राप्तवान् परमं पदम् ॥६॥ अथ तामाश्रितो जीवः कल्पादौ पूर्ववत्क्रमात् । सृष्ट्वा सर्वाधिकारी सन् जगत्पाति च हन्ति च ॥७॥ क्रियमाणतया तेन नियमेनैव कर्मणाम् । त्रयाणां तस्य कर्मित्वमीशस्याप्युपपद्यते ॥८॥ जीवन्मुक्तसमानत्वं यतस्तस्यावगम्यते । अतः प्रारब्धकर्मित्वं अवश्यं तस्य सिध्यति॥९॥ ब्रह्मवित्त्वं हि तस्य स्यान्न तु ब्रह्मत्वमीशितुः । सृष्ट्यादिकर्मकर्तृत्वदर्शनान्माययाऽपि वा ॥१०॥ जीवसृष्ट्यादिकर्तृत्वं ब्रह्मणोऽपि वर्तते । तथापि पूर्वकर्मित्वं तस्य न श्रूयते क्वचित् ॥११॥ कर्मणः प्रागभावत्वाद्भावत्वाद्ब्रह्मणो विभोः । पूर्वकर्मवतो हि स्यात्कर्म प्रारब्धसञ्ज्ञितम् ॥१२॥ सृष्ट्यादिकर्मबद्धत्वे तस्य मायावशत्वतः । वश्यमायत्ववचनं व्यर्थमेवेति चेन्न च ॥१३॥ स्वाधिकारावसने हि कैवल्यं नोपरुध्यते । अतस्तस्य प्रसिद्धं तद्वश्यमायत्वमर्थवत् ॥१४॥ स्थितौ तु तस्य मायित्वं कामित्वादिवदिष्यते । न धनित्वादिवत्कर्म पारवश्यान्निरन्तरम् ॥१५॥ जाग्रद्वत्सृष्टिकर्म स्यात्स्वप्नवत्स्थितिकर्म च । जगत्प्रलयकर्म स्यात् सुप्तिवत्तस्य मायिनः ॥१६॥ अवस्थात्रयवत्त्वेन कर्मत्रितयवत्तया । शरीरत्रयवत्त्वेन जीवः सोऽपीति केचन ॥१७॥ तदयुक्तं पुरा जीवोऽप्यद्य ब्रह्मात्मवित्तया । सर्वज्ञत्वादिसम्पत्त्या स हि जीवविलक्षणः ॥१८॥ जीवन्मुक्तसमानत्वान्न कर्मत्रयमीशितुः । प्रारब्धमात्रबद्धत्वादधिकारवशादिह ॥१९॥ अधिकारावसाने तद्ब्रह्मत्वं सम्भविष्यति । इति वेदान्तसिद्धेऽर्थे व्यभिचारः कुतो भवेत् ॥२०॥ ब्रह्मैवैकमकर्मोक्तं श्रुतिभिः स्मृतिभिश्च तत् । ईशस्य कर्मतोक्तिस्तु श्रूयते ह्यौपचारिकी ॥२१॥ स कर्मत्वेऽपि तस्य स्यात्कर्ममोचकतेशितुः । संचितागामिहीनत्वात्सर्वज्ञत्वाच्च सत्तम ॥२२॥ ईश्वरब्रह्मणोर्भेदं सकर्माऽकर्मतादिभिः । सुप्रसिद्धमपह्नोतुं कः समर्थोऽस्ति मानतः ॥२३॥ ईश्वरस्याप्यकर्मत्वं यदि ब्रूयान्निरंकुशम् । स द्वैती न कदाप्यस्मात्संसारान्मुक्तिमाप्नुयात् ॥२४॥ यतस्तत्पदवाच्योऽर्थः स हेय इति कथ्यते । अतस्तस्य न नित्यत्वं नाकर्मत्वं च युज्यते ॥२५॥ अनध्यस्तात्मभावेन न देहेनैव कश्चन । व्याप्रीयेत ततश्च स्याद्देहीशो ध्यानसंयुतः ॥२६॥ स्वदेहेऽपीश्वरस्यास्ति नाध्यासः पारमार्थिकः । प्रातिभासिकमाश्रित्य स्रष्टृत्वादि निगद्यते ॥२७॥ देहाध्यासस्य सत्यस्य न कदाप्यस्ति संगतिः । प्रागीशदेहाभावेन देहाभावेन चाऽप्यये ॥२८॥ जगत्प्रलयकाले स निर्व्यापारोऽपि सुप्तवत् । अध्यासबीजवत्त्वेन पुनः सृष्टौ प्रवर्तते ॥२९॥ चतुर्युगसहस्रान्ते विधातुर्हि निशोच्यते । तदा सुप्तस्य तस्यापि जीवस्येव सबीजता ॥३०॥ तथा विष्णोर्युगाः प्रोक्तास्तस्माच्छतगुणाधिकाः । तथा शिवस्य तस्माच्च विष्णोः शतगुणाधिकाः ॥३१॥ एवं कालैरवच्छिन्नांस्तारतम्येन जीववत् । ईश्वरांस्तान् कथं ब्रूयां देहकर्मादिवर्जितान् ॥३२॥ व्यष्टिदेहत्रयं स्वीयं मत्वा जीवत्रयं यथा । पारमार्थिकसंसारनिबद्धं कर्मितामगात् ॥३३॥ समष्टिदेहत्रितयं तथा मत्वेश्वरत्रयम् । प्रातिभासिकसंसारनिबद्धं कर्मितामगात् ॥३४॥ शुद्धसत्त्वप्रधानायां मायायां प्रतिबिम्बितः । ईश इत्युच्यते तस्य निरुपाधिकता कथम् ॥३५॥ औपाधिकस्य नित्यत्वं कथं वाच्यं मनीषिभिः । अनित्यस्य च नैष्कर्म्यं कथं भवितुमर्हति ॥३६॥ ब्रह्मण्यारोपितो भ्रान्तैरीशाख्यः सर्वसृष्टिकृत् । आत्मयोगिभिरभ्रान्तैः स भवत्यवरोपितः ॥३७॥ अविद्यातिमिरान्धस्य स्थाणौ चोरवदीश्वरः । प्रतिभाति परब्रह्मण्यमले स्वात्मरूपिणि ॥३८॥ सद्यो मुमुक्षुदृष्ट्या हि नेश्वरस्यास्ति सत्यता । अतो विवर्तवादोऽयं सुतरामुपयुज्यते ॥३९॥ परिणामेऽप्यनित्यत्वसंसिद्धेरीश्वरस्य च । अद्वैतब्रह्मनिष्ठत्वं श्रोतुर्जीवस्य सम्भवेत् ॥४०॥ अधिकारिविभेदेन वादास्ते मतात्रयः । तत्रोत्तमाधिकारी स्याच्छृण्वन्नीशे विवर्तताम् ॥४१॥ जीवे तु परिणामित्वं शृण्वन्नेवोत्तमोत्तमः । कीटवद्भृङ्गरूपेण परिणामे विमोक्षतः ॥४२॥ जीवस्येश्वरताऽवाप्तौ क्रममुक्तिर्हि सिध्यति । अतोऽस्य सद्यो मुक्त्यर्थं ब्रह्मतावाप्तिरीर्यते ॥४३॥ तुरीयः पंचमो वाऽऽस्तामीश्वरः षष्ठ एव वा । तस्मादतीतं ब्रह्मेति सिद्धान्ते कोऽनुसंशयः ॥४४॥ ईश्वरे तिष्ठति ब्रह्म ब्रह्मणीशश्च तिष्ठति । अत एकत्वमेव स्याद्द्वयोरिति न तर्क्यताम् ॥४५॥ ब्रह्मण्येवेश्वरः प्रोक्तो न तु ब्रह्मेश्वरे क्वचित् । विभोरविभुसंस्थत्वासम्भवात्परमात्मनः ॥४६॥ ब्रह्मक्षत्रमुभे यस्य श्रुत्या भवत ओदनः । यस्योपसेचनं मृत्युः स यत्र ब्रह्मणीर्यते ॥४७॥ तदेतादृशमित्यत्र को वेदेदन्तयाव्ययम् । अखण्डं निर्गुणं ब्रह्म निराधारं परं महत् ॥४८॥ परब्रह्मांशभूतोऽपि परमः पुरुषोत्तमः । ईश्वरादधिकः प्रोक्तः किं पुनर्ब्रह्म केवलम् ॥४९॥ कारणं जगतामीशो जीवानां ब्रह्म कारणम् । एवं सतीशब्रह्मैक्यं व्यवहारे कथं भवेत् ॥५०॥ ईशस्य कर्मितायां हि पुण्यं पापं च सम्भवेत् । सुखं दुःखं च तेनैव जीवत्वमिति चेच्छृणु ॥५१॥ ईशः प्रवर्तते पुण्यपापयोर्लोकसंग्रहात् । तथाऽपि सुखदुःखे स्तो नैवात्मज्ञानवत्तया ॥५२॥ भ्रूणहत्यादिपापानि ह्यकरोद्विष्णुरीदृशः । न तैर्दुःखमभूत्तस्य सम्प्राप्तं पारमार्थिकम् ॥५३॥ लोकक्षेमार्थकत्वेन तत्कृताघस्य निन्द्यता । न वाच्या न च तेनास्ति जीवत्वं तस्य सर्वथा ॥५४॥ ऋगादिवेदकर्ताऽपि स यथोक्तं समाचरेत् । अन्यथा सम्प्रसज्येत ह्यप्रामाणिकतेशितुः ॥५५॥ संसिद्धे शास्त्रकर्तृत्वे न कारयितृता वचः । व्यर्थमेवेति चेन्नैष दोष एव विचारणे ॥५६॥ जीवस्य कर्तृतायां हि स्यात्कारयितृतेशितुः । शास्त्रस्य कर्मतायां तु महेशस्यास्ति कर्तृता ॥५७॥ नैतेन शास्त्रयोनित्वं निर्गुणस्यैव हीयते । निर्गुणोद्भूतशास्त्रस्य सगुणाद्व्यक्तिदर्शनात् ॥५८॥ उपचर्यत ईशस्य गुणिनः शास्त्रयोनिता । यद्वाऽस्तामुभयोर्वेदवेदान्ताभ्यां च बीजता ॥५९॥ न चैतेनास्ति कर्मित्वसाम्यं ब्रह्मेशयोस्तयोः । कर्तुश्च कृतकर्तुश्च भेदोऽस्ति स्पष्ट एव हि ॥६०॥ कर्तृत्वं यस्य संसिद्धं कर्मित्वं तस्य सिद्ध्यति । इत्यत्र संशयः को वा तद्ब्रह्मेशौ च कर्मिणौ ॥६१॥ इति चेत्कर्मितेशस्य कामित्वादिवदिष्यते । ब्रह्मणोऽपि तु कर्मित्वं धनित्वादिवदित्यतः ॥६२॥ परतन्त्रो महेशः स्यात्स्वतन्त्रं ब्रह्म निर्गुणम् । आधाराधेयभावेन कार्यकारणतया द्वयोः ॥६३॥ कर्मित्वे ब्रह्मणः सिद्धे कथं नैर्गुण्यमीर्यते । इति चेन्नैष दोषोऽस्ति मायागुणविवर्जनात् ॥६४॥ अदृश्यादिभिर्विद्यागुणैरानन्दतादिभिः । सगुणव्यपदेशः स्याद्ब्रह्मणस्त्विष्ट एव सः ॥६५॥ जगत्संसारकर्तृत्वं यथा जीवेशयोर्मतम् । तथा जीवेशकर्तृत्वं परस्य ब्रह्मणो मतम् ॥६६॥ ब्रह्मणोऽन्यो न कर्ताऽस्ति प्राक्कर्मादिविवर्जनात् । अनाद्यनन्तं ब्रह्मैकमकर्माकर्तृ हीर्यते ॥६७॥ कालत्रयेऽप्यकर्तृत्वं ब्रह्मणः सम्मतं यदि । जीवेशरचना न स्यात् जगत्संसारयोरपि ॥६८॥ प्रत्यक्षसिद्धा रचना कर्तारं समपेक्षते । अतोऽद्य कर्मकर्तृत्वाद्ब्रह्मणः कर्मितोचिता ॥६९॥ कर्मित्वे ब्रह्मणोऽप्येवं किं वाच्यं ब्रह्मवेदिनः । ब्रह्मीभूतो न कर्मी स्यादित्येतच्च न सिद्ध्यति ॥७०॥ यादृशं ब्रह्म निर्णीतं तद्भूतोऽपि च तादृशः । इति निर्णय एव स्याद्युक्तेरपि समंजसः ॥७१॥ कालत्रयेऽप्यकर्मित्वमकर्तृत्वमकालता । कस्य चिद्ब्रह्मणोऽन्यस्य नीरूपस्यास्ति वस्तुनः ॥७२॥ तत्र कालत्रयातीतं नेह ज्ञेयं विवक्षितम् । प्रमेयत्वप्रमाणत्वप्रमातृत्वादिवर्जनात् ॥७३॥ ये तु ब्रह्मेशजीवाः सम्प्रोक्ताः कर्तृत्वसंयुताः । विद्यया मायया ते हि कर्मिणोऽविद्ययापि च ॥७४॥ कर्मिषु त्रिषु चोक्तेषु ब्रह्मणः श्रैष्ठ्यदर्शनात् । अकर्मत्वं श्रुतिस्मृत्योः प्रोच्यते युक्तमेव तत् ॥७५॥ एतेन कर्मिणः श्रैष्ठ्यं संसिद्धमिति ये विदुः । औदासीन्यं न तेषां स्याच्छ्रुतिस्मृत्युक्तकर्मसु ॥७६॥ ज्ञानादुपास्तिरुत्कृष्टा कर्मोत्कृष्टमुपासनात् । इति यो वेद वेदान्तैः स एव पुरुषोत्तमः ॥७७॥
इति सूर्यगीतायां चतुर्थोऽध्यायः ॥४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP