संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारदपञ्चरात्रम्|प्रथमैकरात्रः| चतुर्दशोऽध्यायः प्रथमैकरात्रः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमैकरात्रः - चतुर्दशोऽध्यायः ‘श्रीनारदपञ्चरात्रम‘ हा ग्रंथ वाचल्याने सामान्यज्ञानात भर पडते. Tags : booknaradsnaskritपुस्तकश्रीनारदपञ्चरात्रम्संस्कृत चतुर्दशोऽध्यायः Translation - भाषांतर श्रीशुक उवाचप्रयाते राधिकानाथे गोलोकं च निरामयं ।बभूव किं रहस्यं च गते गन्धर्वपुङ्गवे ॥१॥श्रीव्यास उवाचसर्वे देवाश्च मुनयः प्रयाते परमात्मनि ।सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥२॥उवाच शम्भुर्ब्रह्माणं नीतिसारविशारदं ।ज्ञानाधिदेवो भगवान्परिणामसुखं वचः ॥३॥श्रीमहादेव उवाचरक्षिता यस्य भगवान्कल्याणं तस्य सन्ततं ।स यस्य विघ्नकर्ता च रक्षितुं तं च कः क्षमः ॥४॥स्मृतिमात्रेण निर्विघ्ना ये च कृष्णपरायणः ।विघ्नं कर्तुं के समर्थास्तेषां च मुनयः सुराः ॥५॥कोपाग्निनां स्थलं कुत्र स्तम्भितानां च साम्प्रतं ।देवानां च मुनीनां च क्षणेनैवेश्वरेच्छया ॥६॥यदि तिष्ठन्ति भूमौ च दग्धशस्या वसुन्धरा ।जले यदि ततस्तप्तं नष्ठास्ते जलजन्तवः ॥७॥स्थाले दहन्ति लोकांश्च वृक्षांश्च प्रलयाग्नयः ।विधानं कर्तुं उचितं एषां च जगतां विधे ॥८॥त्वं एव धाता जगतां पिता च विष्णुरीश्वरः ।कालाग्निरुद्रः संहर्ता नेदानी प्रलयक्षमः ॥९॥एते विषयिणः सर्वे कृष्णस्य परमात्मनः ।आज्ञावहाश्च सततं दिक्पालाश्च दिगीश्वराः ॥१०॥तस्यैवाज्ञावहो धर्मः साक्षी च कर्मणां नृणां ।भ्रमन्ति विषये शश्वन्मोहिता मायया हरेः ॥११॥अहं न पाता न स्रष्टा न संहर्ता च जीवनां ।निर्लिप्तोऽ हं तपस्वी च हरेराराधनोन्मुखः ॥१२॥संहारविषयं मह्यं श्रीकृष्णश्च पुरा ददौ ।दत्वा रुद्राय तदहं तपस्यासु रतो हरेः ॥१३॥तदर्चनेन ध्यानेन तपसा पूजनेन च ।स्तवेन कवचनेनैव नाममन्त्रजपेन च ॥१४॥मृत्युञ्जयोऽ हं अधुना न च कालाद्भयं मम ।कालः संहरते सर्वं मां विना च तथेश्वरं ॥१५॥पुरा सर्वादिसर्गे च कस्यचित्स्रष्टुरेव च ।भालोद्भवाश्च ते रुद्रास्तेष्वेकोऽ हं शङ्करः ॥१६॥कल्पश्च ब्रह्मणः पाते लये प्राकृतिके तथा ।सर्वे नष्टा विषयिणो न भक्ताश्च यथेश्वरः ॥१७॥असंख्यब्रह्मणः पातः कल्पश्चासंख्य एव च ।समतीतः कतिविधो भविता या पुनः पुनः ॥१८॥श्रीकृष्णस्य निमेषेण ब्रह्मणः पतनं भवेथ् ।तत्र प्राकृतिकाः सर्वे तिरोभूताः पुनः पुनः ॥१९॥न प्राकृतो न विषयी नित्यदेही च वैष्णवः ।हरेर्वरेणामरोऽहं शिवाधारस्ततस्ततः ॥२०॥जलप्लुतं च विश्वौघं लये प्राकृतिके ध्रुवं ।आब्रह्मलोकपर्यन्तं परं कृष्णालयं विना ॥२१॥सर्वा देव्यो विलीनाश्च कृष्णः सत्यं सुनिश्चितं ।सर्वे पुमांसो लीनाश्च सत्ये नित्ये सनातने ॥२२॥अहं कृष्णश्च प्रकृतिः पार्षदप्रवरो हरेः ।नित्यं नित्या विद्यमाना गोलोके च निरामये ॥२३॥एक ईशो न द्वितीय इति सर्वादिसर्गतः ।नहि नश्यन्ति तद्भक्ताः प्रकृतिप्राकृते लये ॥२४॥तस्य भक्तोत्तमानां च सततं स्मरणेन च ।आयुर्व्ययो नहि भवेत्कथं मृत्युर्भविष्यति ॥२५॥न वासुदेवभक्तानां अशुभं विद्यते क्वचिथ् ।तेषां भक्तोत्तमानां च सततं स्मरणेन च ॥२६॥जन्ममृत्युजराव्याधिभयं नाप्युपजायते ।अत्र कल्पे भवान्ब्रह्मा व्यवस्थाता च कर्मसु ॥२७॥स्थलं कोपानलानां च विधानं यद्विधे कुरु ।शम्भोश्च वचनं श्रुत्वा कम्पितः कमलासनः ।स्थलं चकार वह्नीनां आज्ञया शङ्करस्य च ॥२८॥ब्रह्मोवचज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ।भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ॥२९॥भवे भवतु सर्वत्र भवकोपानलोऽधुना ।प्राकृतेषु च देहेषु व्यापारोऽस्य मया कृतः ॥३०॥मम कोपानलः शम्भो संस्कृताग्निर्द्विजस्य च ।भवे भवतु सर्वत्र व्यापारोऽस्य मया कृतः ॥३१॥शेषस्य कोपवह्निश्च शेषास्येऽस्त्वधुना शिव ।यतो विश्वं च प्रलये दहेद्गोमयपिण्डवथ् ॥३२॥वह्नेर्मुख्यानलो विश्वे व्यवहाराग्निरीश्वरः ।भ्वत्वेव हि सर्वत्र सर्वेषां उपकारकः ॥३३॥धर्मास्यकोपवह्निश्च कृष्णाग्निश्च भवत्वयं ।अधर्मं कुर्वतां सर्वं दाहनं च करिष्यति ॥३४॥सूर्यकोपानलश्चायं दावाग्निश्च वनेषु च ।स्थितिरस्य तरोः स्कन्धे तद्भक्ष्याः पशुपक्षिणः ॥३५॥चन्द्रकोपानलो विश्वे कामिनां विरहानलः ।दम्पत्योर्विरहे शश्वद्भक्ष्यति स्म द्वयोस्तनुं ॥३६॥इन्द्रकोपानलः सद्यो वज्राग्निश्च बभूव ह ।उपेन्द्रस्यानलश्चैव विद्युदेव भ्वत्वयं ॥३७॥रुद्राणां आस्यवह्निश्च महोल्काग्निर्भवत्वयं ।गणेशाग्निः पृथिव्यां तु यथास्थाने तु तिष्ठति ॥३८॥यत्र तिष्ठेत्तदुषरं एवं एवं विदुर्बुधाः ।स्कन्दकोपानलश्चैव रणास्त्राग्निर्बभूव ह ॥३९॥कामेतराणां देवानां मुनीनां च मुखानलः ।जग्राहौर्वमुनिस्तत्र तेजसि ब्रह्मणः सुतः ॥४०॥स्वदक्षिणोरौ स मुनिः संस्थाप्य वेदमन्त्रतः ।ब्रह्मणं च नमस्कृत्य शङ्करं तपसे ययौ ॥४१॥कालेन तस्मान्निःसृत्य समुद्रे वाडवानलः ।स बभूव पुरा पुत्र परमौर्वानलः स्वयं ॥४२॥कामाग्निं उल्वणं दृष्ट्वा विचिन्त्य मनसा विधिः ।समालोच्य सुरैः सार्धं मुनीन्द्रैः सह संसदि ॥४३॥अजुहाव स्त्रियः सर्वाः सुव्रताश्च पतिव्रताः ।आयुयुर्योषितः सर्वास्ता ऊचुः कमलोद्भवं ॥४४॥स्त्रिय ऊचुःकिं अस्मान्ब्रूहि भगवन्शाधि नः करवाम किं ।आलोच्य मनसा सर्वं देहि भारं वयं स्त्रियः ॥४५॥ब्रह्मोवाचगृहीत्वा मदनाग्निं च मैथुने सुखदायकं ।विश्वे च योषितः सर्वाः शश्वत्कामा भवन्तु च ॥४६॥ब्रह्मणश्च वचः श्रुत्वा कोपरक्तास्यलोचनः ।तं ऊचुः योषितः सर्वा भयं त्यक्त्वा च संसदि ॥४७॥स्त्रिय ऊचुःधिक्त्वां जगद्विधिं व्यर्थं चकार परमेश्वरः ।अपूज्यो मोहिनीशापात्पुत्रशापेन साम्प्रतं ॥४८॥गृहीत्वा मदनाग्निं च पुरुषाश्च तथा स्त्रियः ।नित्यं दहन्ति सततं वास्तवं दुःसहं परं ॥४९॥तदेकभागः पुरुषे त्रिभागश्चापि योषिति ।तेन दुग्धाः स्त्रियः सर्वाश्चास्माकं अपरेण किं ॥५०॥समर्पणं चेत्पुरुषे यद्यस्मासु स्मरानलः ।भस्मीभूतं करिष्यामो रक्षिता को भवेत्तव ॥५१॥पतिव्रतावचः श्रुत्वा तं उवाच शिवः स्वयं ।हितं सत्यं नितिसारं परिणामसुखावहं ॥५२॥अथ कुलटोत्पत्तिःश्रीमहादेव उवाचत्यज द्वन्द्वं महाभाग सुव्रताभिः सहाधुना ।पतिव्रतानां तेजश्च सर्वेभ्यश्च परं भवेथ् ॥५३॥निर्माणं कुरु देवेन्द्र कृत्यां स्त्रीजातिं ईश्वर ।तस्यै देहि दुःखबीजं कामकोपानलं परं ॥५४॥शङ्करस्य वचः श्रुत्वा सत्वरं जगतां विधिः ।ससृजे तत्क्षणं मूर्तिं स्त्रीरूपां सुमनोहरां ॥५५॥अहो रूपं अहो वेशं अहो अस्या नवं वयः ।अहो चक्षुः कटाक्षं च मुनीनां मोहयन्मनः ॥५६॥अहो कठिनं चारु स्तनयुग्मं सुवर्तुलं ।विचित्रं कठिनं स्थूलं श्रोणियुग्मं च सुन्दरं ॥५७॥नितम्बयुग्मं वलितं चक्राकारं सुकोमलं ।श्वेतचम्पकवर्णाभं सर्वावयं ईप्सितं ॥५८॥शरत्पार्वणकोटीन्दुविनिन्दास्यं सुशोभनं ।ईषद्धास्यप्रसन्नास्यं वस्त्रेणाच्छादितं मुदा ॥५९॥वपुः सुकोमलं चालं नातिदीर्घं न वखरं ।वह्निशुद्धांशुकं रत्नभूषणैर्भूषितं सदा ॥६०॥दाडिम्बकुमुदाकारं सान्द्रं सिन्दूरसुन्दरं ।कस्तूरीविन्दुना सार्धं स्निग्धचन्दनविन्दुभिः ॥६१॥पक्वबिम्बफलाकारं अधरौष्ठपुटं परं ।दन्तपंक्तियुगं चैव दाडिम्बबीजसन्निभं ॥६२॥सुचारु कवरीभारं मालतीमाल्यमण्डितं ।तस्यै ददौ च कामाग्निं दृष्ट्वा तां कमलोद्भवः ॥६३॥दृष्ट्वा सा चन्द्ररूपं च कामोन्मत्ता विचेतना ।कृत्वा कटाक्षं स्मेराश्या मां भजस्वेत्युवाच सा ॥६४॥सस्पितः प्रययौ चन्द्रो लज्जया च सभातलाथ् ।कामं दृष्ट्वा च चकमे कामार्ता सा गतत्रपा ॥६५॥दुद्राव कामस्तस्माच्च तत्पश्चात्सा दधाव च ।जहसुर्देवताः सर्वा मुनयश्चापि संसदि ॥६६॥लज्जिता योषितह्सर्वास्तां वारयितुं अक्षमाः ।सर्वे चक्रुः परीहासं स्त्रीवर्गं शङ्करादयः ॥६७॥कामं न लब्ध्वा सा च स्त्री निवृत्यागत्य संसदि ।तं अश्विनीकुमारं चाप्युवाच सुरसन्निधौ ॥६८॥कृत्याकामिन्युवाचमां भजस्व रवेः पुत्र प्रियां रसवतीं मुदा ।शृङ्गारे सुखदां शान्तां परां कामातुरां वरां ॥६९॥त्वया शार्धं भ्रमिष्यामि सुन्दरे गहने वने ।रहसि रहसि क्रीडां करिष्यामि दिवानिशं ॥७०॥मधुपानं च दास्यामि वासितं चामलं जलं ।सकर्पूरं च ताम्बूलं भोगवस्तु मनोहरं ॥७१॥शय्यां मनोरमां कृत्वा सपुष्पचन्दनार्चितां ।भगवन्तं करिष्यामि पुष्पचन्दनचर्चितं ॥७२॥कुमार उवाचवचनं वद वामे मां आत्मनो हृदयङ्गम ।विहाय कपटं कान्ते कपटं धर्मनाशनं ॥७३॥स्त्रीधर्मं स्त्रीमनस्कामं स्त्रीस्वभावं च कीदृशं ।तदाचारं कतिविधं तन्मां व्याख्यातुं अर्हसि ॥७४॥अश्विनीजवचः श्रुत्वा कामार्ता तं उवाच सा ।कामार्तानां क्व लज्जा च क्व भयं मानं एव च ॥७५॥अथ कुलटास्वभावकथनम्कामिन्युवाचस्थानं नास्ति क्षणं नास्ति नास्ति दूती तदुत्तमा ।तेनैव युवतीनां च सतीत्वं उपजायते ॥७६॥सुवेशं कामुकं दृष्ट्वा कामिनी मदनातुरा ।तद्रात्रं च पुलकितं योनौ कण्डूयनं परं ॥७७॥विचेतना भवेत्सा च कामज्वरप्रपीडिता ।सर्वं त्यजति तद्धेतोः पुत्रं कान्तं गृहं धनं ॥७८ ।॥लब्ध्वा युवानं पुरुषं देशत्यागं करोति सा ।तदुत्तमं पुनर्लब्ध्वा तं त्यजेत्सा क्षणेन च ॥७९॥विषं दातुं समर्था सा स्वामिनं गुणिनां वरं ।म्लेच्छं युवानं सम्प्राप्य सर्वस्वं दातुं उत्सुका ॥८०॥त्यजेत्कुलभयं लज्जां धर्मं बन्धुं यशः श्रियं ।सम्प्राप्य रतिशूरं च युवानं सुरतोन्मुखं ॥८१॥सुदृश्यं सुन्दरमुखं शश्वन्मधुरितं वचः ।हृदयं क्षुरधाराभं को वा जानाति तन्मनः ॥८२॥विद्युच्छटा जले रेखा चास्थिरा च यथाम्बरे ।तथास्थिरा च कुलटाप्रीतिः स्वप्नं च तद्वचः ॥८३॥कुलटानां न सत्यं च न च धर्मो भयं दया ।न लौकिकं न लज्जा स्याज्जारजिन्ता निरन्तरं ॥८४॥स्वप्ने जागरणे चैव भोजने शयने सदा ।निरन्तरं कामचिन्ता जारे स्नेहो न चान्यतः ॥८५॥कुलटा नरघातिभ्यो निर्दया दुष्टमानसाः ।जारार्थे च सुतं हन्ति बान्धवस्य च का कथा ॥८६॥न हि वेदा विदन्त्येवं कुलताहृदयङ्गमं ।कथं देवास्च मुनयः सन्तो जानन्ति निश्चयं ॥८७॥रतिशूरं प्रियं दृष्ट्वा क्षीरं घृतं इवाचरेथ् ।गते वयसि जीर्णं तं विषं दृष्ट्वा त्यजेत्क्षणाथ् ॥८८॥न विश्वसेयुस्तां दुष्टो तस्मात्सन्तो हि सन्ततं ।न रिपुः पुरुषाणां च दुष्टस्त्रीभ्यः परो भुवि ॥८९॥विषं मन्त्रादुपशमं जलाद्वह्निश्च निश्चितं ।अग्नेश्च कण्ठकोच्छन्नं दुर्जनः स्तवनाद्वशः ॥९०॥लुब्धो धनेन राजा च सेवया सततं वशः ।मिश्रं स्वच्छस्वभावेन भयेन च रिपुर्वशः ॥९१॥आदरेण वशो विप्रो यौवती प्रेमभारतः ।बन्धुर्वशः समतया गुरुः प्रणतिभिः सदा ॥९२॥मूर्खो वशः कथायां च विद्वान्विद्याविचारतः ।न हि दुष्टा च कुलटा पुंसश्च वशगा भवेथ् ॥९३॥स्वकार्ये तत्परा शश्वत्प्रीतिः कार्यानुरोधतः ।न सर्वस्य वशीभूता विना शृङ्गारं उल्वणं ॥९४॥न प्रीत्या न धनेनैव न स्तवान्न सेवया ।न प्राणदानतो वेश्या वशीभूता भवेत्क्षणं ॥९५॥आहारो द्विगुणस्तासां बुद्धिस्तासां चतुर्गुणा ।षड्गुणा मन्त्रणा तासां कामश्चाष्टगुनः स्मृतः ॥९६॥शश्वत्कामा च कुलटा न च तृप्तिश्च क्रीडया ।हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥९७॥दिवानिशं च शृङ्गारं कुरुते तत्पुमान्यदि ।न तृप्तिः कुलटानां च पुमांसं ग्रस्तुं इच्छति ॥९८॥नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।नान्तकः सर्वभूतानां नासां तृप्यति सम्पदां ॥९९॥न श्रेयसां मनस्तृप्तं वाडवाग्निर्न पाथसां ।वसुन्धरा न रजसां न पुंसां कुलटा तथा ॥१००॥इत्येवं कथितं किंचिथ्सर्वं वक्तुं च नोचितं ।लज्जा बीजं योषितां च निबोध भास्करात्मज ॥१०१॥श्रुत्वा च कृत्यास्त्रीवाक्यं जहसुर्मुनयः सुराः ।चुकुपुर्योषितः सर्वाः पद्माद्या लज्जिताः सुत ॥१०२॥लज्जानतानना लक्ष्मीर्निर्ययौ देवमण्डलाथ् ।तत्पश्चात्पार्वती सार्धं सरस्वत्या नतानना ॥१०३॥सावित्री रोहिनी स्वाहा वारुणी च रतिः शची ।सर्वा बभूवुरेकत्र प्रचक्रुर्मन्त्रणां च ताः ॥१०४॥कृत्यास्त्रियः समाहूय ता ऊचुश्च क्रमेण च ।रोधयां आसुरिष्टां तां सुगोप्यां अपि योषितः ॥१०५॥तस्या मुखे ददौ हस्तं सुशीला कमलालया ।सलज्जिता भव सुते शान्ता चेति शुभाशिषं ॥१०६॥सरस्वती ददौ तस्यै चाभिमानं च धैर्यतां ।मौखर्यं वावदूकत्वं मन्त्रणां आत्मरक्षणं ॥१०७॥सावित्री च ददौ तस्यै सौशील्यं चातिदुर्लभं ।आत्मसंगोपनं चैव गाम्भीर्यं कुलतो भयं ॥१०८॥पार्वत्युवाचधिक्त्वां स्वभावकुलटां लज्जिता भव सुन्दरि ।स्वमानं गौरवं रक्ष ह्यस्माकं च स्मरातुर ॥१०९॥जनि लभ पृथिव्यां च कायव्यूहं विधाय च ।पुंसां अष्टगुणं कामं लभस्व च पृथक्प्रृथक् ॥११०॥लज्जां चतुर्गुणां चापि द्विगुणां धैर्यतां तथा ।अभोगेच्छधमे गच्छ दूरं गच्छ ममान्तिकाथ् ॥१११॥पुंसां च द्विगुणः कामो वास्तवीणां च योषितां ।लज्जा चाष्टगुणा चापि धैर्यता च चतुर्गुणा ॥११२॥कुलधर्मः कुलभयं सौशील्यं मानं ऊर्जितं ।शश्वत्तिष्ठतु पुंस्येव स्त्रीषु च ममाज्ञया ॥११३॥यस्मात्सदसि सर्वेभ्यो लज्जाहीनः सुराधमः ।स्त्रीस्वभावं च पप्रच्छ यज्ञभाक्न भवेत्ततः ॥११४॥अद्यप्रभृति विश्वेषु नाग्राह्यं पापसंयुतं ।चिकित्सकानां विदुषां न भक्ष्य ममाज्ञया ॥११५॥इत्येवं उक्त्वा प्रययुर्देव्यश्च सर्वयोषितः ।देवाश्च मुनयश्चापि ये चान्ये च समागतः ॥११६॥देवाश्च मुनयश्चापि ये चान्ये सर्वतः सुत ।पतिव्रताणां स्त्रीणां च लज्जा बीजस्वरूपिणी ॥११७॥इति श्रीनारदपञ्चरात्रे ज्ञाणामृतसारे प्रथमैकरात्रे कुलटोत्त्पतिर्नाम चतुर्दशोऽध्यायः N/A References : N/A Last Updated : January 23, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP