संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारदपञ्चरात्रम्|प्रथमैकरात्रः| एकादशोऽध्यायः प्रथमैकरात्रः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमैकरात्रः - एकादशोऽध्यायः ‘श्रीनारदपञ्चरात्रम‘ हा ग्रंथ वाचल्याने सामान्यज्ञानात भर पडते. Tags : booknaradsnaskritपुस्तकश्रीनारदपञ्चरात्रम्संस्कृत एकादशोऽध्यायः Translation - भाषांतर अथ महोत्सवदर्शनम्श्रीव्यास उवाचअथ गन्धर्वराजस्तु भगवानाज्ञया विधेः ।संगीतं च जगौ तत्र कृष्णरासमहोत्सवं ॥१॥सुसमं तालमानं च सुतानं मधुरं श्रुतं ।वीणामृदङ्गमुरजयुक्तं ध्वनिसमन्वितं ॥२॥रागिणीयुक्तरागेण समयोक्तेन सुन्दरं ।माधुर्यं मूर्च्छ्नायुक्तं मनसे हर्षकारणं ॥३॥विचित्रं नृत्यरुचिरं रूपवेशं उत्तमं ।लोकानुरागबीजं च नाट्योपयुक्तहस्तकं ॥४॥दृष्ट्वा श्रुत्वा सुराः सर्वे मुनयः सर्वयोषितः ।मूर्च्छां प्रायुश्च सहसा चेतनां च पुनः पुनः ॥५॥गोपीनां वस्त्रहरणं गोपीगणविलापनं ।ताभ्यो वस्त्रप्रदानं च संमानं वरदानकं ॥६॥कात्यायनीव्रतं चापि विप्रदारान्नभोजनं ।महेन्द्रदर्पपूजादि भञ्जनं शैलपूजनं ॥७॥पुनश्च शुश्रुवुः सर्वे श्रीवृन्दावनवर्णनं ।संप्रापुश्च पुनर्मूर्च्छां पुनः प्रापुश्च चेतनां ॥८॥तस्मै ददौ पुरो ब्रह्मा वह्निशुद्धांशुकं परं ।परं शुभाशीर्वचनं यत्तन्मानसवाञ्छितं ॥९॥अमूल्यरत्ननिर्माणं चारुकुण्डालयुग्मकं ।मणीन्द्रसारमुकुटं परं रत्नाङ्गुरीयकं ॥१०॥सुगन्धि चन्दनं पुष्पं स्वपादरेणुं ईप्सितं ।अमूल्यरत्नतिलकं रत्नभूषणं उज्ज्वलं ॥११॥प्रत्येकं वस्तु रुचिरं तद्योषिद्भ्यश्च संददौ ।विश्वकर्मा च निर्माणमणिं भूषणं उत्तमं ॥१२॥प्रत्येकं शङ्खसिन्दूरं कस्तूरीयुक्तचन्दनं ।सकर्पूरं च ताम्बूलं रत्नेन्द्रसारदर्पणं ॥१३॥मणिनिर्माणामञ्जोरं श्वेतचामरशोभनं ।मनोयायि रथं दिव्यं ईस्वरेच्छाविनिर्मितं ॥१४॥मुक्तामाणिक्यहीरेन्द्रैर्मणीन्द्रैश्च परिष्कृतं ।सद्रत्नमालाजालैश्च श्वेतचामरदर्पणैः ॥१५॥सुशोभितं च परितो लक्षैः सुन्दरमन्दिरैः ।मणिमानिक्यहीराढ्यं सद्रत्नकलशोज्ज्वलं ॥१६॥सहस्रचक्रसंसक्तं योजनायतसम्मितं ।धनुर्लक्षोच्छ्रितं चैव सहस्राश्वेन योजितं ॥१७ ।एतदेव ददौ ब्रह्मा प्रहृष्टस्तुष्ट एव च ।शम्भुस्तुष्टो ददौ हृष्टो हरिभक्तिं च निश्चलां ॥१८॥ज्ञानं अध्यात्मिकं चैव योगज्ञानं सुदुर्लभं ।नानाजन्मस्मृतिज्ञानं नैपुण्यं सर्वसिद्धिषु ॥१९॥हरेश्चर्चाविधानं च स्तवनं पूजनं तथा ।माणिक्यहीराहारं च रत्नलक्षं सुदुर्लभं ॥२०॥नागहारं ददौ शेषो नागेन्द्रमौलिमण्डनं ।नागकन्याशतं चैव वरभूषणभूषितं ॥२१॥नागेभ्यश्चाभ्यं नित्यं हिस्रजन्तुभ्य एव च ।नृपालयगतिज्ञानं सर्वलोकविलोकनं ॥२२॥निर्विघ्नत्वं ददौ तस्मै विघ्न्राजश्च संसदि ।सुदुर्लभं पादपद्मयुग्मरेणुं अभीप्सितं ॥२३॥अमूल्यं च निरुपमं ग्रीष्मसूर्यप्रभोपमं ।मणिराजं सुदीप्तं च त्रिषु लोकेषु दुर्लभं ॥२४॥सर्वत्र विजयं चैव वाञ्च्छितं निर्मलं यशः ।संगीतविद्याविज्ञानं तन्नैपुण्यं मनोहरं ॥२५॥लक्षस्वर्णं धनेशश्च दासानां च शतं शतं ।धर्मः कीर्तिमयीं मालां स्कन्दो धैर्यं ददौ तथा ॥२६॥विषयजीर्णापहरणं ददौ धन्वन्तरिर्मनुं ।सूर्यः स्यमन्तकमणिं स्वर्णाभाराष्टकप्रसुं ॥२७॥चन्द्रः श्वेताश्वरत्नं च ह्यमूल्यं उत्तमं ददौ ।वह्निशुद्धांशुकयुगं ददौ वह्निश्च संसदि ॥२८॥उपेन्द्रो रत्नकोटिं च तदेवेन्द्रो ददौ पुरा ।वीणाशिल्पं विश्वकर्मा वरुणश्च मणिस्रजं ॥२९॥स्मरः शृङ्गारनैपुण्यं वीर्यस्तम्भनं एव च ।कामसन्दीपनं ज्ञानं कामिनीप्रेममूर्छनं ॥३०॥कामिनीवशगं शिल्पं रतितत्त्वं ददौ तथा ।पापदाहनमन्त्रं च रत्नछत्रं समीरणः ॥३१॥यमश्च धर्मतत्त्वं च नरकत्राणकारणं ।वसवश्च वसून्दिव्यान्रुद्रस्तेभ्योऽभयं ददौ ॥३२॥मधुपात्रं सुधापात्रं जयन्तो नलकूवरः ।शुक्लपुष्पं शुक्लधान्यं पादरेणुं अभीप्सितं ॥३३॥मनोभिरां मनुयो ददौ तस्मै शुभाशिषं ।लक्ष्मीश्च परमैश्वर्यं भारती हारं उत्तमं ॥३४॥रत्नमालां ददौ दुर्गा सर्वत्राभयं ईप्सितं ।तत्पत्नीभ्यश्च रत्नानि सिन्दूराभरणानि च ॥३५॥क्रीडापद्मं रोहिनी च रतिः सद्रत्नदर्पणं ।तुलसी चातुलं माल्यं दिव्यं वसु वसुन्धरा ॥३६॥गङ्गा च विपुलं पुण्यं स्वाहा सद्रत्नपाशकं ।यमुना जलजं पद्मं अम्लानं सार्वकालिकं ॥३७॥वारुणीं वारुणी तुष्टा रत्नपात्रं शची ददौ ।मनसा प्रददौ तस्मै नागानां मौलिमण्डनं ॥३८॥गन्धर्वाश्चापि तत्पत्न्यः स्वशिल्पं प्रददुस्तथा ।परमानन्दयुक्ताश्च मुनिपत्न्यः शुभाशिषं ॥३९॥इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे महोत्सवदर्शनं नाम एकादशोऽध्यायः N/A References : N/A Last Updated : January 23, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP