संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारदपञ्चरात्रम्|प्रथमैकरात्रः| चतुर्थोऽध्यायः प्रथमैकरात्रः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमैकरात्रः - चतुर्थोऽध्यायः ‘श्रीनारदपञ्चरात्रम‘ हा ग्रंथ वाचल्याने सामान्यज्ञानात भर पडते. Tags : booknaradsnaskritपुस्तकश्रीनारदपञ्चरात्रम्संस्कृत चतुर्थोऽध्यायः Translation - भाषांतर ब्रह्मोवाचब्राह्मणस्य स्तवं श्रुत्वा परितुष्टो जनार्दनः ।कृपां चकार भगवान्भक्तेशो भक्तवत्सलः ॥१॥एतस्मिन्नन्तरे तत्र भगवान्नन्दनन्दनः ।नारायणर्षिः कृपया चाजगाम सरोवरं ॥२॥ददर्श ब्राह्मणवटुं तं एव मुनिपुङ्गवं ।तेजसा सुखदृश्येन सुन्दरं सुमनोहरं ॥३॥पीतवस्त्रपरीधानं नवीनजलदप्रभं ।चन्दनोक्षितसर्वाङ्गं वनमालाविभूषितं ॥४॥प्रसन्नवदनं शुद्धं सस्मितं सर्वपूजितं ।विभान्तं च जपन्तं शुद्धस्फटिकमालया ॥५॥दृष्ट्वा ननाम सहसा शिरसा विप्रपुङ्गवः ।शुभाशिषं ददौ तस्मै दत्वा शिरसि हस्तकं ॥६॥तं उवाच मुनिश्रेष्ठः कृपया दीनवत्सलः ।हितं तथ्यं नीतिसारं परिणामसुखावहं ॥७॥श्रीनारायणर्षिरुवाचअये विप्र महाभाग सफलं जीवनं तव ।यस्मिन्कुले च जातोऽसि तद्धन्यं सुप्रशंसितं ॥८॥भज त्वं परमानन्दं सानन्दं नन्दनन्दनं ।ध्रुवं यास्यसि गोलोकं परमानन्दं ईप्सितं ॥९॥तत्कुलं पावनं धन्यं यशस्यं च निरापदं ।यस्मिन्स्वयं भवान्जातः पुण्यः कृष्णपरायणः ॥१०॥नैवेद्यं पतितं मार्गे जीर्नं श्वापदभक्षितं ।भुक्त्वा तवैषा बुद्धिश्च कृष्णभक्तिर्बभूव च ॥११॥कृष्णनैवेद्यमाहात्म्यं को वत्स कथितुं क्षमः ।यद्वक्तुं न हि शक्ताश्च वेदाश्चत्वार एव च ॥१२॥वरं वृणुष्व भद्रं ते सुभद्र द्विजपुङ्गव ।सर्वं दातुं अहं शक्तो यत्ते मनसि वाञ्च्छितं ॥१३॥नारायणवचः श्रुत्वा तं उवाच शिषुः स्वयं ।पुनः कम्पितसर्वाङ्गः साश्रुनेत्रः पुटाञ्जलिः ॥१४॥सुभद्र उवाचदेहि मे कृष्णपादाब्जे दृढं भक्तिं सुदुर्लभं ।तद्दास्यं तत्पदे वासं जरामृत्युहरं परं ॥१५॥अन्यं वरं न गृह्णामि न मे किंचित्प्रयोजनं ।नाहं वरार्थी कामी च रागी वेतनभुग्यथा ॥१६॥नारायणर्षिरुवाचश्रीकृष्णो यस्य भक्तिश्च तस्यात्र किं सुदुर्लभं ।अणिमादिकद्वत्रिंशत्सिद्धिः करतले परा ॥१७॥निर्विकल्पो ददात्यस्य नैव गृह्णाति वैष्णवः ।अनिमित्तां हरेर्भक्तिं भक्ता वाञ्च्छन्ति सन्ततं ॥१८॥गृहाण मन्त्रं कृष्णस्य परं कल्पतरुं वरं ।भक्तिदं दास्यदं शुद्धं कर्ममूलनिकृन्तनं ॥१९॥लक्ष्मीर्मायाकामबीजं ङेऽन्तं कृष्णपदं तथा ।वह्निजायान्तमन्त्रं च मन्त्रराजं मनोहरं ॥२०॥इत्येवं उक्त्वा तत्कर्णे कथयां आस दक्षिणे ।वारत्रयं मुनिश्रेष्ठः शुद्धभावेन पुत्रक ॥२१॥येन स्तोत्रेण तुष्टाव सुभद्रः परमेश्वरं ।आज्ञां चकार स ऋषिस्तदेव पठितुं मुदा ॥२२॥कवचं च ददौ तस्मै जगन्मङ्गलमङ्गलं ।ध्यानं च सामवेदोक्तं सर्वपूजाविधिक्रमं ॥२३॥हरेर्दास्यं च तद्भक्तिर्गोलोकवासं ईप्सितं ।जन्मद्वयान्तरे चैव कर्मभोगक्षये सति ॥२४॥सुभद्र उवाचसत्यं कुरु महाभाग वरं मे यदि दास्यसि ।वरं वृणोमि तत्पश्चात्यन्मे मनसि वाञ्च्छितं ॥२५॥नारायणर्षिरुवाचओं सत्यं वत्स दास्यामि वरं वृणु यथेप्सितं ।ममाशक्यं नास्ति किंचित्दाताहं सर्वसम्पदां ॥२६॥सुभद्र उवाचकण्ठे ते किं च कवचं कस्य वा सर्वपूजितं ।अमूल्यरत्नगुटिकायुक्तं च सुमनोहरं ॥२७॥कवचं देहि मे देव स्वसत्यरक्षणं कुरु ।विप्रस्य वचनं श्रुत्वा शुष्ककण्ठौष्ठातालुकः ॥२८॥वक्तुं न शक्तस्तद्वाक्यं दध्यौ कृष्णपदाम्बुजं ।प्रददौ गुटिकां तस्मै नोवाच कवचं मुनिः ॥२९॥तं उवाच महर्षिश्च वितुष्टश्चोन्मनाः सुत ।वत्स क्रोधो हि देवस्य वरं तुल्यं च वाञ्च्छितं ॥३०॥नारायणर्षिरुवाचत्रिंषत्सहस्रवर्षं च भुङ्क्ष्व राज्यं सुदुर्लभं ।लभस्व दुर्लभां लक्ष्मीं मायया मोहितो भव ॥३१॥मदिष्टदेवकवचं गृहीतं येन हेतुना ।सप्तकल्पान्तजीवस्य परत्र च भविष्यति ॥३२॥सुचिरेणैव कालेन गोलोकं च प्रायस्यसि ।परे मृकण्डुपुत्रस्त्वं मार्कण्डेयो भविष्यसि ॥३३॥मया दत्तं च कवचं त्वां च रक्षति पुत्रक ।तव कण्ठे स्थितिश्चाश्य प्रति जन्मनि जन्मनि ॥३४॥पुनश्च गुटिकायुक्तं कृत्वा च कवचं मुनिः ।गले दधार भक्त्या च तद्भक्तो धर्मनन्दनः ॥३५॥वरं दत्वा च स मुनिर्ययौ गेहं स उन्मनाः ।विप्राय कवचं दत्वा नष्टवत्सा गौर्यथा ॥३६॥भ्रात्रा नरेण पित्रा च धर्मेण च महात्मना ।मात्रा मूर्त्या च पत्न्या च शान्त्या च भर्त्सितो मुनिः ॥३७॥विप्रः सम्प्राप्य कवचं मन्त्रं कल्पतरुं परं ।सरोवरात्समुत्थाय प्रज्वलन्ब्रह्मतेजसा ॥३८॥क्षणं तस्थौ सरस्तीरे वटमूले मनोहरे ।जजाप परमं मन्त्रं सम्पूज्य जगदीश्वरं ॥३९॥अथ तत्तातविप्रो हि समन्विष्य सुतं चिरं ।गत्वा च स्वगृहं दुःखी शोकार्तः स रुरोद च ॥४०॥समुद्यता तनुं त्यक्तुं तन्माता पुत्रवार्तया ।न तत्याज तनुं विप्रो दृष्ट्वा सुस्वप्नं उत्तमं ॥४१॥विप्रो विप्रा गृहं त्यक्त्वा पुत्रान्वेषणपूर्वकं ।प्रययौ काननं घोरं सर्वैश्च बान्धवैः सहः ॥४२॥सर्वं वनं समन्विष्य प्रययुस्ते सरोवरं ।ददृशुस्ते शिशुं गृह्यं सूर्याभं वटमूलके ॥४३॥चुचुम्ब गण्डं पुत्रस्य विप्रो विप्रा च सारदं ।आशिश्लेष क्रमेणैव माता तातः पुनः पुनः ॥४४॥पुत्रश्च सर्ववृत्तान्तं कथयां आस सादरं ।श्रुत्वा पुत्रस्य विप्रश्च विप्रा बान्धवस्तथा ॥ ४५॥ययुः सर्वे स्वदेशं च परमाह्लादमानसाः ।चन्द्रभागां समुत्तीर्य विवेश नगरं परं ॥४६॥नगरस्थो नृपेन्द्रश्च दृष्ट्वा तेजस्विनं शिशुं ।ददौ तस्मै स्वकन्यां च रत्नालङ्कारभूषितं ॥४७॥युवतीं सुन्दरीं श्यामां तप्तकञ्चनसंनिभां ।पतिव्रतां महाभागां सुन्दरीं कमलाकलां ॥४८॥गजेन्द्राणां सहस्रं च प्रददौ यौतुकं मुदा ।अश्वानां दशलक्षं च रत्नानां च सहस्रकं ॥४९॥दासीनां निष्ककण्ठीनां सौन्दरीणां सहस्रकं ।वस्त्ररत्नसहस्रं च बहुमूल्यं सुदुर्लभं ॥५०॥दासानां च सहस्रं च पदातीनां त्रिलक्षकं ।दशलक्षं सुवर्णं च रत्नमालां सुदुर्लभां ॥५१॥दत्वा तस्मै च कन्यां च रुरोद च सभार्यकः ।राजा च कन्यया सार्धं प्रययौ विप्रमन्दिरं ॥५२॥गत्वा चापि कियद्दूरं ददर्श नगरं नृपः ।अतीव सुन्दरं रम्यं विजित्य चामरावतीं ॥५३॥शुद्धस्फटिकसंकाशं रत्नसारविनिर्मितं ।त्रिकोटिचट्टालिकागेहं नवकोटिसुमन्दिरं ॥५४॥सप्तप्राकारयुक्तं च परिखात्रयसम्युक्तं ।दुर्लङ्घ्यं अतिदुर्गम्यं रिपूणां अपि पुत्रक ॥५५॥शिशोश्च स्वाश्रमं रम्यं सद्रत्नसारनिर्मितं ।स्फुरत्वज्रकपाटं च रत्नेन्द्रकलशान्वितं ॥५६॥सद्रत्नदर्पणाइर्दीपं रत्नकुम्भैर्विराजितं ।प्राङ्गणं रत्नसाराढ्यं रत्नसोपानशोभितं ॥५७॥मनोहरं राजमार्गं सिन्दूरादिपरिष्कृतं ।प्राकारं मणिभूषाढ्यं उच्चैराकाशस्पर्शि च ॥५८॥जगाम विस्मयं राजा दृष्ट्वा नगरं उत्तमं ।पित्रा मात्रा सह शिशुर्विस्मयं च ययौ मुदा ॥५९॥गजेन्द्राणां त्रिलक्षं च श्वानां शतलक्षकं ।चतुर्गुणं पदातीनां आययुस्तेऽप्यनुव्रजं ॥६०॥वारणेन्द्रं पुरस्कृत्य वेश्यां च नर्तकं तथा ।द्विजांश्च पूर्णकुम्भांश्च पतिपुत्रवतीं सतीं ॥६१॥महापात्रः शिशुं दृष्ट्वा गजेन्द्रोपरिसंस्थितं ।मूर्ध्ना ननाम वेगेनाप्यवरुह्य गजादपि ॥६२॥शिशुं प्रवेशयां आस रत्ननिर्माणमन्दिरं ।रत्नसिंहासनं तस्मै प्रददौ सादरं मुदा ॥६३॥कन्यादात्रे च पित्रे च मात्रे च सादरं मुदा ।रत्नसिंःआसनं रम्यं प्रददौ पात्र एव च ॥६४॥शिशुं सिषेव पात्रश्च स्वयं च श्वेतचामरैः ।दधार रत्नछत्रं च हीराहारपरिष्कृतं ॥६५॥उवास स सभार्यां च सुधर्म्यां महेन्द्रवथ् ।श्वसुरश्च ययौ गेहं शिशुना च पुरस्कृतः ॥६६॥त्रिंशत्सहस्रवर्षं च राजा राज्यं चकार सः ।कालान्तरे तत्पिता च वने व्याघ्रेण भक्षितः ॥६७॥पतिव्रता महाभागा माता सहमृता सुत ।रत्नयानेन रम्येण सस्त्रीकः कृष्णमन्दिरं ॥६८॥प्रययौ सादरं विप्रः कृष्णनैवेद्यभक्षणाथ् ।तदस्थि भुक्त्वा व्याघ्रश्च पूतः सद्यश्च सांप्रतं ॥६९॥ताभ्यां सार्धं च प्रययौ गोलोकं सुमनोहरं ।शिशुर्देहं परित्यज्य हिमाद्रौ स्वर्णदीतटे ॥७०॥दत्वा पुत्राय राज्यं च स्वर्गादपि सुदुर्लभं ।मृकण्डुपत्नीगर्भे च लेभे जन्म स्वकर्मणा ॥७१॥मार्कण्डेयो मुनिश्रेष्ठो बभूव परजन्मनि ।सप्तकल्पान्तजीवी च नारायणवरेण सः ॥७२॥बभूव सांप्रतं विप्रः कृष्णनैवेद्यभक्षणाथ् ।श्वभक्षितं च नैवेद्यं भुक्त्वा चेदीदृशी गतिः ।अकामतश्चाप्यज्ञातो जीर्णमार्गस्थितं सुत ॥७३॥यो भक्षेत्कामतो ज्ञातो नित्यं नैवेद्यं ईप्सितं ।न जानन्ति गतिस्तस्य वेदाश्चत्वार एव च ॥७४॥इति ते कथितं ब्रह्मन्नितिहासं पुरातनं ।आश्चर्यं मधुरं रम्यं किं भूयः श्रोतुं इच्छसि ॥७५॥श्रीनारद उवाचश्रुतं नैवेद्यमाहात्म्यं अतीव सुमनोहरं ।ईश्वरस्यापि हे तात कृष्णस्य परमात्मनः ॥७६॥अधुना श्रोतुं इच्छामि स्वात्मसन्देहभञ्जनं ।नारायणर्षेर्कण्ठे च कवचं तस्य तद्वद ॥७७॥अथ कवचप्रश्नःसनत्कुमार उवाचममाप्यस्तीति सन्देहो वचने प्रपितामह ।कस्य तत्कवचं ब्रह्मन्निदं वक्तुं त्वं अर्हसि ॥७८॥स पिता स गुरुः स्वच्छः करोति भ्रमभञ्जनं ।शीघ्रं ब्रूहि महाभाग नारदं मां सुतप्रिय ॥७९॥पुत्रयोश्च वचः श्रुत्वा शुष्ककण्ठौष्ठतालुकः ।उवाच वचनं ब्रह्मा स्मरन्कृष्णपदाम्बुजं ॥८०॥ब्रह्मोवाचनारायणेन मुनिना जगन्मङ्गलमङ्गलं ।विप्राय कवचं दत्तं ध्यानं च पर्मात्मनः ॥८१॥तद्ब्रवीमि महाभाग त्वां एव नारदं प्रति ।कण्ठस्थं कवचं वक्तुं नैव शक्नोमि सांप्रतं ॥८२॥मत्कण्ठे कवचं यस्य गोपनीयं सुदुर्लभं ।नारायणर्षिकण्ठे च तदेव परमाद्भुतं ॥८३॥तदेव धर्मकण्ठे च नरस्य च महात्मनः ।अगस्त्यस्य च कण्ठे च लोमशस्य महामुनेः ॥८४॥तुलस्याश्चापि संज्ञायाः सावित्र्याश्चापि पुत्रक ।अन्येषां च भाग्यवतां भारते च सुदुर्लभे ॥८५॥नारद उवाचपश्चात्श्रोष्यामि कवचं जगन्मङ्गलमङ्गलं ।ध्यानं पूजां विधानं च कृष्णस्य परमात्मनः ॥८६॥आदौ कथय भद्रं ते परं परमभद्रकं ।सुभद्रप्राप्तं कवचं माहात्म्यं यस्य दुर्लभं ॥८७॥ब्रह्मोवाचसुभद्रप्राप्तं कवचं पश्चात्श्रोष्यसि पुत्रक ।शङ्करस्य मुखाद्विप्र स्वगुरोर्ज्ञानिनस्तथा ॥८८॥इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे ब्रह्मसनत्कुमारसंवादे श्रीकृष्णमहिमोपालम्भनं नाम चतुर्थोऽध्यायः N/A References : N/A Last Updated : January 23, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP