संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारदपञ्चरात्रम्|प्रथमैकरात्रः| द्वितीयोऽध्यायः प्रथमैकरात्रः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमैकरात्रः - द्वितीयोऽध्यायः ‘श्रीनारदपञ्चरात्रम‘ हा ग्रंथ वाचल्याने सामान्यज्ञानात भर पडते. Tags : booknaradsnaskritपुस्तकश्रीनारदपञ्चरात्रम्संस्कृत द्वितीयोऽध्यायः Translation - भाषांतर शुक उवाचकुत्र वा पञ्चरात्रं च नारदस्य च धीमते ।प्रदत्तं शम्भुना तात तन्मे व्याख्यातुं अर्हसि ॥१॥अथ नारदस्य तपोवर्णनम्व्यास उवाचअधीत्य सर्वान्वेदांश्च वेदाङ्गाण्पितुरन्तिके ।जगाम तीत्र्हं केदारं सुप्रशस्तं च भारते ॥२॥हिमालयस्य पूर्वे य गङ्गातीरे मनोहरे ।सिद्धे नारायणक्षेत्रे सर्वेषां अभिवाञ्च्छिते ॥३॥तपश्चकार स मुनिर्दिव्यं वर्षसहस्रकं ।पित्रोक्तेनैव विधिना सततं संयुतः शुचिः ॥४॥शुश्रावाकाशवाणीं च तपसोऽन्ते महामुनिः ।स्वल्पाक्षरां च बह्वर्थां परिणामसुखावहां ॥५॥अथ नारदं प्रति दैववाणीअशरीरिष्युवाचआधारितो यदि हरिस्तपसा ततः किं ।नाधारितो यदि हरिस्तपसा ततः किं ।अन्तर्बहिर्यदि हरिस्तपसा ततः किं ।नान्तर्बहिर्यदि हरिस्तपसा ततः किं ॥६॥विरम विरम ब्रह्मन्किं तपस्यासु वत्स ।व्रज व्रज द्विज शीघ्रं शङ्करं ज्ञानसिन्धुं ।लभ लभ हरिभक्तिं वैष्णवोक्तां सुपक्वां ।भवनिगडनिबन्धछेदिनीं कर्तनीं च ॥७॥इति श्रुत्वा च स मुनिर्विमनाः स्वर्णदीतटे ।चकारार्थानुसन्धानं न प्रसन्नं च तन्मनः ॥८॥रुरोद स्वर्णदीतीरे स्मारं स्मारं हरेः पदं ।ददर्श पुरतस्तातं ब्रह्माणं सकुमारकं ॥९॥ननाम सहसा मूर्ध्ना पितरं तं सहोदरं ।पाद्यं अर्घ्यं च प्रददौ जवेन सादरं मुनिः ॥१०॥श्लोकद्वयार्थं पप्रच्छ कुमारं जगतां विधिं ।सुखासीनं सुस्थिरं च सस्मितं च गतश्रमं ॥११॥स्वात्मारामं पूर्णकामं ज्ञानिनां च गुरोर्गुरुं ।साश्रुनेत्रः पुलकितो भक्त्या प्रणतकन्धरं ॥१२॥नारदस्य वचः श्रुत्वा दृष्ट्वा तं कातरं विधिः ।पुत्रेण सार्द्धं आलोच्य व्याख्यां कर्तुं समारेभे ॥१३॥अथ दैववाण्यर्थःब्रह्मोवाचहे वत्स पूर्वश्लोकार्थं निगूढं श्रुतिसम्मतं ।वेदार्थं द्विविधं शुद्धं व्याख्यां कुर्वन्ति वैदिकाः ॥१४॥आराधितो यदि हरिर्येन पुंसा स्वभक्तितः ।किं तस्य तपसा व्यर्थं तीर्थपूतस्य नारद ॥१५॥कृष्णमन्त्रोपासकस्य जीवन्मुक्तस्य भारते ।तपश्चोपहासबीजं तथा चर्वितचर्वणं ॥१६॥मन्त्रग्रहणमात्रेण पुरुषाणां शतं सुत ।पुनाति स्वस्वभक्तं च चान्धवंश्चावलीलया ॥१७॥नहि धर्मो नहि तपः श्रीकृष्णसेवनात्परं ।परिश्रमं च विफलं तपसा वैष्णवस्य च ॥१८॥कृष्णमन्त्रोपासकस्य तीर्थपूतस्य पुत्रक ।तीर्थस्नानं अनशनं वेदेषु च विडम्बनं ॥१९॥पूर्वकर्मानुरोधेन यत्पापं वैष्णवस्य च ।मन्त्रग्रहणमात्रेण नष्टं वह्नौ यथा तृणं ॥२०॥पवित्रः परमो वह्निः पवित्रं चामलं जलं ।पवित्रं भारतं वर्षं तीर्थं यत्तुलसीदलं ॥२१॥पुनाति लीलयैतानि शुद्धः कृष्णपरायणः ।उपस्पर्श च भक्तस्याप्येते वाञ्च्छन्ति सादरं ॥२२॥भक्तस्य पादरजसा सद्यः पूता वसुन्धरा ।नहि पूतस्त्रिभुवने श्रीकृष्णसेवकात्परः ॥२३॥शालिग्रामशिलाचक्रे करोति कृष्णपूजनं ।तत्पादोदकनैवेद्यं नित्यं भुङ्क्ते च यः पुमान् ॥२४॥स वैष्णवो महापूतस्तन्मन्त्रोपासकः शुचिः ।पुनाति पुंसां शतकं जन्ममात्रात्सबान्धवं ॥२५॥वत्स श्लोकस्यैकपादं व्याख्यातं च यथागमं ।व्याख्यातं करोम्यन्यपादं यथाज्ञानं मिशामय ॥२६॥नाराधितो यदि हरिर्येन पुंसाधमेन च ।किं तस्य तपसा व्यर्थं निष्फलं तत्परिश्रमः ॥२७॥व्रतान्येव हि दानानि तपांस्यनशनानि च ।वेदोपयुक्ता यज्ञाश्च कर्माणि च शुभानि च ।न निष्पुनात्यभक्तं च सुराकुम्भं इवापगा ॥२८॥अभक्तस्पर्शमात्रेण तीर्थानि कम्पितानि च ।अभक्तभारदुःखेन कम्पिता सा वसुन्धरा ॥२९॥श्लोकार्धं कथितं वत्स किंचिदेव यथागमं ।तस्यार्धस्यापि व्याख्यानं करोमीति निशामय ॥३०॥वेदसारं कृष्णमतं ममापि नहि कल्पना ।अन्तर्बहिर्यदि हैर्येषां पुंसां महात्मनां ॥३१॥स्वप्ने जागरणे शश्वत्तपस्तेषां च निष्फलं ।स एव विष्णुतुल्यो हि तदंशो भारते मुने ॥३२॥तस्य रक्षानिबन्धेन तदभ्यासे सुदर्शनं ।ध्यानमात्रेण निष्पापः पुनाति भुवनत्रयं ॥३३॥दत्वा चक्रं च रक्षार्थं न निश्चिन्तो जनार्दनः ।स्वयं तन्निकटं याति द्रष्टुं रक्षणाय च ॥३४॥तत्परो हि प्रियो नास्ति कृष्णस्य परमात्मनः ।नहि भक्तात्परश्चात्मा प्राणाश्चावयवादयः ।न लक्ष्मी राधिका वाणी स्वयंभुः शम्भुरेव च ॥३५॥भक्तप्राणो हि कृष्णश्च कृष्णप्राणा हि वैष्णवाः ।ध्यायन्ते वैष्णवाः कृष्णं कृष्णश्च वैष्णवांस्तथा ॥३६॥व्याख्यातं च त्रिपादं च हे मुनीन्द्र यथागमं ।शेषपादस्य व्याख्यानं करोमीति निशामय ॥३७॥नान्तर्बहिर्यदि हरिर्येषां पुंसां च नारद ।तेषां अपि तपो व्यर्थं अन्तर्मलिनचेतसां ॥३८॥किं तज्ज्ञानेन तपसा व्रतेन नियमेन च ।तीर्थस्नानेन पुण्येनापि अभक्तमूढचेतसां ॥३९॥कृष्णभक्तिविहीनेभ्यो द्विजेभ्यः श्वपचो महान् ।शूकरो म्लेच्छनिवहः स्वधर्माचरेण च ॥४०॥स्वधर्महीना विप्राश्चाप्यभक्ष्यभक्षणेन च ।नित्यं नित्यं विधर्मेण पतिताः श्वपचाधमाः ॥४१॥ब्रह्मणानां स्वधर्मश्च सन्ततं कृष्णसेवनं ।नित्यं ते भुञ्जते सन्तस्तन्नैवेद्यं पादोदकं ॥४२॥न दत्वा हरये यस्तु यदि भुङ्क्ते द्विजाधमः ।अन्नं विष्ठासमं मूत्रसमं तोयं विदुर्बुधाः ॥४३॥भुङ्क्ते स्वभक्ष्यं कोलश्च म्लेच्छश्च श्वपचाधमः ।विप्रो नित्यं अभक्ष्यं च भुङ्क्ते च पतितस्ततः ॥४४॥श्लोकं एकं च व्याख्यातं यथाज्ञानं च नारद ।सन्निबोध परस्यार्धं व्याख्यानं च यथोचितं ॥४५॥तपसो विरम ब्रह्मन्व्यर्थं भक्ततपो ध्रुवं ।शङ्करश्च गुरुं कृत्वा हरिभक्तिं लभाचिरं ॥४६॥सुपक्वा हरिभक्तिश्च तरणी भवतारणे ।गुरुरेव परं ब्रह्म कर्णधारस्वरूपकः ॥४७॥इत्येवं उक्त्वा त्वां देवी प्रजगाम सरस्वती ।व्याख्यातस्तदभिप्रायः किं भूयः कथयामि ते ॥४८॥ब्रह्माणश्च वचः श्रुत्वा जहास योगिनां गुरुः ।सनत्कुमारो भगवानुवाच पितरं शुक ॥४९॥सनत्कुमार उवाचपूर्वश्लोकस्य व्याख्यानं न बुद्धं शिशुना मया ।पुत्रं शिष्यं अबोधं च युक्तं बोधयितुं पुनः ॥५०॥आराधितो हरिर्येन तस्य व्यर्थं तपो यदि ।नाराधितो हैर्येन तस्य व्यर्तं तपो यदि ॥५१॥तस्यारहितौ तौ द्वौ तपसश्च स्थलं कुतः ।तपः कुर्वन्ति ये तात त्वं मां बोधय बालकं ॥५२॥पुत्रस्य वचनं श्रुत्वा सन्दिग्धो जगतां गुरुः ।दध्यौ कृष्णपदाम्भोजं परं कल्पतरुं शुक ॥५३॥क्षणं संचित्य पादाब्जं प्राप राद्धान्तं ईप्सितं ।व्याख्यां कर्तुं समारेभे विधाता जगतां अपि ॥५४॥अथ नैवेद्यप्रशंसाब्रह्मोवाचधन्योऽहं भवतः पुत्रात्ज्ञानिनां च गुरोर्गुरोः ।विष्णुभक्ताच्च धर्मिष्ठात्सत्पुत्राच्च पिता सुखी ॥५५॥धन्योऽसि पण्डितोऽसि त्वं हरिभक्तोऽसि पुत्रक ।ममापि सफलं जन्म जीवनं च त्वया बुध ॥५६॥निबोध पूर्वश्लोकार्थं पुनर्व्याख्यां करोमि च ।तथापि चेन्न सन्तोषो भवान्व्याख्यां करिष्यति ॥५७॥आशब्दः सम्यगर्थे च राधितः प्राप्तवाचकः ।संप्राप्तश्च हरिर्येन व्यर्थस्तस्य तपःश्रमः ॥५८॥येन सम्यक्प्रकारेण संप्राप्तो हरिरीश्वरः ।स्वप्ने ज्ञाने च ज्ञातस्तेषां व्यर्थस्तपःश्रमः ॥५९॥श्रीकृष्णविमुखं मूढं द्विजं एव नराधमं ।तीर्थं दानं तापः पुण्यं व्रतं नैव पुनाति तं ॥६०॥यश्च मूढतमो लोके यश्च भक्तिं परां गतः ।तावुभौ सुखसेधेते तपः कुर्वन्ति मध्यमाः ॥६१॥देवानन्यांश्च भजते हरिं जानाति तत्परः ।तपः करोति तं प्राप्तुं आकाङ्क्षन्मध्यमो जनः ॥६२॥प्राक्तनादनुरागी च गृही संसारसंवृतः ।तपः करोति श्रीकृष्णपादपद्मार्थं ईप्सितं ॥६३॥परं श्रीकृष्णभजनं ध्यानं तन्नामकीर्तनं ।तत्पादोदकनैवेद्यभक्षणं सर्ववाञ्च्छितं ॥६४॥अतीव मूढो विप्रश्च प्राक्तनाद्गुरुदोषतः ।तामसो हि न जानाति श्रीकृष्णं त्रिगुणात्परं ॥६५॥अज्ञानादथ वा ज्ञानात्सत्सङ्गादेव प्राक्तनाथ् ।भुङ्क्ते नैवेद्यं ईशस्य कृष्णस्य परमात्मनः ॥६६॥स च मुक्तो भवेत्पुत्र मुच्यते सर्वपातकाथ् ।स याति दिव्ययानेन गोलोकं लोकं उत्तमं ॥६७॥शृणु वत्स प्रवक्ष्यामि पूर्वाख्यानं पुरातनं ।अतीव सुश्रवं चारु मधुरं मुक्तिदं परं ॥६८॥कान्यकुब्जः सुक्षुब्धश्च ब्राह्मणो ग्रामयाजकः ।देवलो वृषवाहश्च महामूढश्च पातकी ॥६९॥स्वप्ने ज्ञाने न जानाति पुण्यं वा कृष्णपूजनं ।कृष्णभक्तसहालापदर्शनस्पर्शनं शुभं ॥७०॥बभूव प्राक्तनात्तस्य क्षणमात्रं सुदुर्लभं ।तेन पुण्येन नैवेद्यं लेभे कृष्णस्य ब्राह्मणः ॥७१॥पितुः पुण्येन पुत्रश्च मार्गे पतितं अल्पकं ।स्वयं भुक्तावशेषं च पतितं वैष्णवाज्जनाथ् ॥७२॥सुस्निग्धाक्षतजीर्णं च रजसा मिश्रितं परं ।गच्छतस्तत्र विप्रस्य पतितं भक्ष्यवस्तु च ॥७३॥नैवेद्योपरि कृष्णस्य त्वरायुक्तस्य पुत्रक ।तद्वस्तु भुक्तं विप्रेण कृष्णनैवेद्यमिश्रितं ॥७४॥सपुत्रेण क्षुधार्तेन तौ ययतुर्गृहं ।विप्रोच्छिष्टं च बुभुजे तस्य पत्नी पतिव्रता ॥७५॥परम्परानुसंबन्धात्पवित्रा सा बभूव ह ।जीवन्मुक्तो ब्राह्मणश्च बभूव स सपुत्रकः ॥७६॥कालेन तेन पुण्येन व्याघ्रभुक्तश्च कानने ।सार्धं च व्याघ्रपुत्राभ्यां गोलोकं प्रययौ द्विज ।पतिव्रता सहमृता भर्ता सार्धं जगाम सा ॥७७॥इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे ब्रह्मसनत्कुमारसंवादे नैवेद्यप्रशंसनं नाम द्वितीयोऽध्यायः N/A References : N/A Last Updated : January 23, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP