विशेषव्रतपूजाः - हस्तगौरीव्रताङ्गपूजाविधि:
सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.
॥ हस्तगौरीव्रताङ्गपूजाविधि: ॥
यस्मिन्दिवसे हस्तनक्षत्रे सूर्यस्तद्दिनमारभ्य चतुर्दशदिनपर्यन्तं पूजनं कार्यम् । आचम्य देशकालौ सङ्कीर्त्य, मम इह जन्मनि जन्मान्तरे च अखण्डसौभाग्यप्राप्तये पुत्रपौत्रराज्यकामनया हस्तगौरीव्रताङ्गत्वेन यथामिलितषोडशोपचारद्रव्यै: पुगणोक्तमन्त्रेण श्रीगौरीमहेश्वरप्रीत्यर्थं हेरम्बशम्भुसहितगजगौरीपूजनं च करिष्ये । तदङ्गत्वेन गणपतिपूजनं आसनविधिं कलशघण्टापूजनं च करिष्ये । महागणपतये नम: इति मन्त्रेण गणपतिं सम्पूज्य वक्रतुण्डेति प्रार्थयेत् ॥ आसनविधि: ॥ पृथ्वि त्वया० । अपसर्पं० । अपक्रा० । कलशपूजनादिसम्भारप्रोक्षणान्तं कृत्वा, ध्यायेत्-हस्तगौरीं सदा वन्दे हृदये भक्तवत्सलाम् । शिवाङ्गार्धस्थितामेकदन्तपुत्रेण शोभिताम् ॥ ध्यायामि ॥ आगच्छ भो हस्तगौरि ऐरावतगजोपरि । शम्भुनात्र गणेशेन पार्पदै: स्वसखीगणै: ॥ हेरम्बं शम्भुं गौरीं साङ्गां सपरिवारां सायुधां सशक्तिकां आवाहयामि ॥ आवाहनं० ॥ आसने स्वर्णरत्नाढये सर्वशोभासमन्विते । उपविश्य जगन्मात: प्रसादाभिमुस्वी भव ॥ गजगौर्याद्यावाहितदेवताभ्यो नम: । आसनं० ॥ इदं गङ्गाजलं सम्यक् सुवर्णकलशे स्थितम् । पाद्यार्थं ते प्रयच्छामि क्षालयामि पदाम्बुजे ॥ पाद्यं० ॥ गन्धपुष्पाक्षतारक्तपुष्पैस्तोयं समन्वितम् । सुवर्णपात्रे सर्वाङ्गी गृहाणार्ध्यं नमोऽस्तु ते ॥ अर्ध्यं० ॥ कर्पूरैलामृगमदै: सुवासैरुपशोभितम् । आचम्यतां महादेविशिशिर विमलं जलम् ॥ आचमनं० ॥ नादीनदसमुदभूतं पवित्रं निर्मलं जलम् । स्नानार्थं ते प्रयच्छामि प्रसीद जगदम्बिके ॥ स्नानं० ॥ पञ्चामृतेन स्नपनं करिष्ये भक्तवत्सले । पयो दधि घृतं चैव माक्षिकं शर्करायुतम् ॥ पञ्चामृतस्नानं० ॥ मन्दाकिन्या: ॥ समानीतं हेमाम्भोरुहवासितम् । स्नानार्थं ते मयाऽऽनीतं गृहाण जगदम्बिके ॥ शुद्धोदकस्नानं० ॥ नाममन्त्रेण पञ्चोपचारपूजां कृत्वा अभिषेक: ॥ अभिषेकान्ते आचमनं० ॥ कौशेयं वसनं दिव्यं कञ्चुक्या च समन्वितम् । उपवस्त्नेण संयुक्तं गृहाण परमेश्वरि ॥ वस्त्रं० ॥ मृत्युञ्जय नमस्तेऽस्तु त्राहि मां भवसागरात् । ब्रह्मसूत्रं सोत्तरीयं गृहाण परमेश्वर ॥ यज्ञोपवीतं० ॥ आचमनं० ॥ इदं गन्धं महद्दिव्यं कुङ्कुमेन समन्वितम् । विलेपनं मया दत्तं गृहाण वरदा भव ॥ चन्दनं० ॥ अक्षताश्च सु० अक्षतान् स० ॥ कज्जलं चैव सिन्दूरं हरिद्राकुङ्कुमानि च । भक्त्यार्पितं मया गौरि सौभाग्यं च गृहाण भो: ॥ सौभाग्यद्रव्याणि सम० ॥ नानाविधानि माल्यानि सुगन्धीनि शिवप्रिये । गृहाण सुमनानीत प्रसादाभिमुखी भव ॥ पुष्पाणि स० ॥ धूपं मनोहरं दिव्यं सुगन्धं सुमनोहरम् ॥ दशाङ्गसहितं देवि धूपं मे प्रतिगृह्यताम् ॥ धूपमा० ॥ दीपं तमोहरं ज्योत्स्नं ज्ञानसम्बोधकं सदा । दीपं गृहाण मातस्त्वमपराधशतापहे ॥ दीपं द० ॥ नानाविधानि भक्ष्याणि व्यञ्जनानि शिवप्रिये । गृहाण देवि नैवेद्यं सुखदं सर्वदेहिनाम् ॥ नैवेद्यं० ॥ गङ्गोदकं समानीतं मयाऽऽचमनहेतवे । तेनाचम्य महादेवि वरदा भव चण्डिके ॥ मध्ये आचमनं० ॥ करोद्वर्तनं० ॥ रम्भाफलं दाडिमं च मातुलिङ्गं च खर्जुरम् । नारीकेरं च जम्बीरं फलान्येतानि गृह्यताम् ॥ फलानि० ॥ पूगीफलमिति ताम्बूलं० ॥ हिरण्यगर्भ० दक्षिणां० ॥ नीराजयामि देवेशि: कर्पूराद्यैश्च दीपकै: । गृहाण मङ्गलान्दीपान् वरदा भव शोभने ॥ नीराजनं द० । कर्पूरदीपं द० ॥ यानि कानि च० प्रदक्षिणा:० ॥ नानाविधानि दिव्यानि बिल्वपत्रयुतानि च । दूर्वाङ्कुरै: संयुतानीत्यञ्जलिस्थानि गृह्यताम् ॥ मन्त्रपुष्पं० ॥ अपराधस० नमस्कार: ॥ यस्य स्मृ० प्रार्थनां० ॥ अनेन हस्तगौरीपूजनाख्येन कर्मणा श्रीगौर्यादिदेवता: प्रीयन्ताम् । अद्य० पूजासाङ्गतासिध्यर्थं ब्राह्मणाय अमुक पक्वान्नवायनदानं करिष्ये । तदङ्गब्राह्मणपूजनं करिष्ये । आसनादिना विप्रं सम्पूज्य, वायनदानमन्त्र:-उपायनमिदं तुभ्यं० इदं त्रयोदशसङ्ख्याकं अपूपपक्वान्नवायनदानं धान्यदक्षिणाताम्बूलसहितं सघृतं अमुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे । प्रति०, प्र० । अनेन वायनदानेन श्रीगौरीदेवता प्रीयताम् ॥
॥ अथ हस्तगौरीव्रतकथाप्रारम्भ: ॥
कुन्त्यां वनादुपेतायां करिणापुरमुत्तमम् । मानितायां नरेन्द्रेण तनयै: पञ्चभि: सह ॥ तस्या: कुशलमन्वेष्टुमाजगाम स माधव: । अभिवन्द्य सुखासीनं देवदेवं जनार्दनम् ॥ उवाच कुन्ती सानन्दा सम्यक प्रश्नमिदं वच: । कुन्त्युवाच । धन्यास्मि कृतकृत्यास्मि सनाथास्मि परन्तप ॥ अहं सम्भाविता यस्मात्त्वया यदुकुलेश्वर । यदि मे सुप्रसन्नोऽसि तदाचक्ष्व व्रतं प्रभो ॥ यद्विधानात् सुखं राज्यं प्राप्नुयां तनयै: सह । कृष्ण उवा० कुन्ति ते कथयिष्यामि व्रतानामुत्तमं व्रतम् ॥ यत्कृत्वा सुखसन्तानधनधान्यसमन्विता । विधूय दुष्कृता पुण्या सपुत्रा राज्यमाप्स्यसि ॥ हस्तगौरीव्रतं भद्रे कुरुष्व स्वस्थमानसा । यत्कृत्वा भक्तिभावेन लभ्यते वाञ्छितं फलम् ॥ कुन्त्युवाच ॥ यदुक्तं ते व्रतं नाथ विधानं तस्य कीद्दशम् । केन पूर्वं कृतं वीर तन्मे ब्रहि जनार्दन । श्रीकृष्ण उवा० । कैलासशिखरे पूर्वं हस्तसंस्थे दिवाकरे ॥ दिवा प्रस्वपिता गौरी स्वप्ने शम्भुं ददर्श ह । अर्धदेहं वृषार्धेन अर्धचन्द्रकलान्वितम् ॥ प्रवुद्धा सा तदा गौरी शिवसन्निधिमागमत् । प्रणम्य देवदेवेशमिदमाह शुचिस्मिता ॥ देव खण्डितदेहोऽयं स्वप्ने द्दष्टस्तव प्रभो । किमिदं तन्ममाचक्ष्व तप्यते मानसं मम ॥ ईश्वर उवा० ॥ देवि पूर्वं निषिद्धोऽस्ति हस्तरिक्षगते रवौ । स्वापस्सुविहितो तत्र द्दष्टं तस्य फलं त्वया ॥ श्रृणु देवि त्वयानेन खण्डितोऽहं विलोकित: । त्वयाऽऽरब्धव्रतं देवि ममाराधनकाम्यया ॥ अपूर्णं च त्वया त्यक्तं मम नापि समर्पितम् । अपूर्णव्रतभावेन द्दष्टोऽहं ताद्दशस्त्वया ॥ तत्कुरुष्वाधुना देवि हस्तगौरीव्रतं शुभे । येन पूर्णव्रता नारी सम्पूर्णव्रततामियात् ॥ लभते सर्वसम्पत्तिं पुत्रपौव्रसुखानि च । देव्युवा० । आरभ्यते व्रतं नाथ विधानेन महेश्वर ॥ आरम्भोऽस्य कदा कार्य: को विधि: कस्य पूजनम् । ईश्वर उवाच । यस्मिन्नहनि हस्तर्क्षे उदयं प्राप्यते रवि: ॥ तस्मिन् कुर्यात प्रयत्नेन सौवर्णं कुञ्जरोत्तमम् । काञ्चनी प्रतिमा गौर्या हेरम्बस्य हरस्य च ॥ तस्योपरि निधातव्या सर्वालङ्कारभूषिता । अन्वहं काञ्चनै: पुष्यै: पूजा मुक्ताफलै, शुभै: ॥ नैवेद्यैश्चन्दनैश्चैत्र श्रृणुयात्प्रत्यहं कथाम् दिने चतुर्दशे प्राप्ते सुस्नाता शुचिमानसा ॥ शुक्लवस्त्रधरा दान्ता भानवेऽर्ध्यं निवेद्य च । पूजागृहे सुसंलिप्ते स्थापयेत्प्रतिमां शुभाम् ॥ स्वर्णभाजनयुग्मं च पक्वान्नै: पाचितै: शुभै: । सार्द्धत्रयोदशमितैर्नैवेद्यमुपकल्पयेत् ॥ फलमूलानि चान्यानि शुभानि समुदाहरेत् । पूजयेत्स्वर्णकुसुमै: पुष्पैश्चान्यै: सुगन्धिभि: ॥ देवीं चन्दनपुष्पैश्च तथा पत्राक्षतै: शुभै: । ध्यायेच्च हृदये गौरी हरहेरम्बसंयुताम् ॥ दक्षिणां च ततो दत्वा नत्वा देवीं विसर्जयेत् । सार्धत्रयोदशशतं दीपिका: श्रद्धयान्विता: ॥ पतिवत्यै स्त्रियै दद्यात्तावती: स्वयमाहरेत् । व्रतं समाचरेदेवं यावद्वर्षं त्रयोदश ॥ स्वर्णभाजनयुग्मं च प्रतिवर्षं विसर्जयेत् । ततश्चतुर्दशे वर्षे तदुद्यापनमाचरेत् ॥ हेरम्बशम्भुगौरी च काञ्चनी गजपृष्टके । पूर्वोक्तविधिना पूज्या वासराणि त्रयोदश चतुर्दशदिने प्राप्ते संयुता प्रातरूत्थिता । कृतोपवासनियमा सुस्नाता शुद्धवेश्मनि ॥ स्थापयित्वा ततो देवीं नक्तं कुर्यात्ततोऽर्चनम् । सप्तविंशतिपात्राणि पूर्वोक्तेन विधानत: ॥ पूर्वोक्तमेव पक्वान्नं विन्यसेच्च प्रथक पृथक । अन्यानि फलमूलानि पक्वान्नानि च कक्पयेत् ॥ धूपदीपाक्षतै: पुष्पैश्चन्दनैर्वरवाससा । भक्त्या समर्चयेद देवी प्रतिमां प्रतिपादयेत ॥ स्वं कथं पूजयामीति मा त्वं चित्ते कथां कुरु । अनादिव्रतमेतद्धि नात्र कार्या विचारणा ॥ देव्युवा० ॥ सौवर्णीं प्रतिमां हस्तिपात्रपुष्पाणि कल्ययेत् । यस्या न शक्ति: सा नारी कथं कुर्याद व्रतं विभो ॥ ईश्वर उवा० । अशक्तौ मृदगज: कार्य: प्रतिमा चापि मृन्मयी । पात्राणि वैणवान्येव पुष्पाणि ऋतुजानि च ॥ अक्षतैस्तण्डुलैश्चैव श्रद्धया फलमाप्यते । श्रीकृष्ण उवाच । ततश्चक्रे व्रतं गारी ह्यलभद्वाञ्छितं फलम् । पूर्णव्रता च सा जाता भाग्यसौभाग्यसंयुता । त्वमप्येतद् व्रतं कुन्ति कुरु श्रद्धासमन्विता ॥ अथ हस्तिव्रतं कुन्ती साभिमानाऽकरोद व्रतम् । गांधारी चापि तच्छुत्वा चक्रे तदव्रतमादरात् ॥ तस्या: पुत्रशतैश्चापि आनीता शुभमृत्तिका । कृत्वा वारणगां गौरीं सपुत्रां सशिवां तथा ॥ व्रतं त्वरितमारेभे निशाम्य च विषादिनी । तच्छुत्वा शोकसन्तापो कुन्त्याऽभून्मानसो ज्वर: ॥ कुन्ती वाक्यमुवाचेदं गान्धारी पुण्यकारिणी । यस्या: पुत्रशतं शक्तं शासने वर्तते सदा ॥ मम पञ्चसुतास्तेऽपि न शक्ता: क्वापि कर्मणि । श्रुत्वा तदर्जुन: प्राह मा मातर्विमना भव ॥ किं मृद; प्रतिमा कार्या त्वरया समुपाहरेत् । साक्षादिह हरं गौरिं ऐरावतमिभाननम् ॥ कृत्वा तं पूजनं मात: सम्यक फलमवाप्त्यति । इत्युक्त्वा त्वरितं पार्थो गङ्गातीरं समाहित: ॥ तत्र तुष्टाव गौरीशं सूक्त्तै: स्तुतिसमीरितै: । तस्य तुष्टोऽभवच्छम्भु: समायाचे वरं तत: ॥ अर्जुन उवा० ॥ देवदेव गजासीनगौरीहेरम्बसंयुत: । गृहाण पूजामागत्य मम मातुर्गृहे भव ॥ तथेत्युक्त्वा हरस्तस्य तद्विधो हर आगत: । साष्टाङ्गं प्रणता गौरीं कुन्ती पूजामथाकरोत् ॥ पञ्चोपचारै: सम्पूज्य नैवेद्यादिभिरुत्तमै: । तुष्टा च भक्तिभावेन सा गौरी च ततोऽब्रवीत् ॥ कुन्ति ते परितुष्टास्मि वरं वरय सुव्रते । कुन्त्युवा० । देहि मे सर्वसम्पत्तिं सर्वसौख्यं सदोत्सवम् ॥ प्रयच्छ मम पुत्राणां सदा राज्यमनामयम् । ममास्त्वव्याहता भक्तिस्त्वयि जन्मनि जन्मनि ॥ व्रतमेतत्तु य: कुर्यात्तव लोकमवाप्स्यति । न दारिद्यं न वैधव्यं न शोको नापि दुष्कृतम् ॥ कृछं नापदगतमिदं कदाचित्सम्भविष्यति । तथेत्युक्त्वा ततो गौरी सगजान्तरधीयत ॥ एतद व्रतं सकलदुःखविनाशदु:खं सौभाग्यराज्यफलसाधनमाचरन्त्य: । या योषित: सुखमनन्तमिहोपभुञ्ज्य गौरीसमीपमुपयान्ति हि देहनाशे ॥५३॥
इति श्रीभविष्योत्तरपुराणे हस्तगौरीकथा समाप्ता ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP