संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|विशेषव्रतपूजादानादिविधि:| सुवर्णादिदानविधि: विशेषव्रतपूजादानादिविधि: सुवर्णादिदानविधि: कुम्भदानविधि: अधिमासनिमित्तदानविधि: षोडशफलदानविधि: ग्रहणे शुभाशुभफलविचार: श्रीसत्यनारायणपूजाविधि: सत्यनारायणव्रतकथाः बुधाष्टमीव्रताङ्गपूजाविधि: बुधाष्टमीव्रतकथाः हस्तगौरीव्रताङ्गपूजाविधि: प्रदक्षिणानुष्ठानविधि: विशेषव्रतपूजाः - सुवर्णादिदानविधि: सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत सुवर्णादिदानविधि: Translation - भाषांतर ॥ प्रतिमासं व्यतीपाते सुवर्णादिदानविधि: ॥आचम्य देशकालौ स्मृत्वा, मम समस्तपापक्षयपूर्वकपर्वततुल्यसुवर्णदानफलसमप्राप्तिद्वारा श्रीसूर्यनारायणदेवताप्रीत्यर्थं व्यतीपातयोगमहापर्वनिमित्तं ब्राह्मणाय अमुक परिमितसुवर्णदानमहं करिष्ये । तदङगत्वेन सूर्यपूजनं ब्राह्मणपूजनं च करिष्ये । सूर्यनारायणाय नम इति मन्त्रेण पूगफले पञ्चोपचारै: सम्पूज्य विप्रं सम्पूजयेत् । सूर्यनारायणस्वरूपिणे ब्राह्मणाय इदमासनमित्यादि । स्वस्त्यस्तु, दीर्घ० । शङ्कुर्ण प्रलम्बोष्ठ लम्बभ्रू दीर्घनासिक । अष्टनेत्र चतुर्वकत्र विस्तीर्णशतयोजन ॥१॥व्यतीपात नमस्तेऽस्तु सोमसूर्यसुत प्रभो । दास्यामि दानं यत्किञ्चित्तदक्षय्यमिहास्तु मे ॥२॥इदं क्षेत्रं कुरुक्षेत्रं साक्षान्नारायणो द्विज: । गुञ्जामात्रमपि स्वर्णं मेरुतुल्यं तवागमे ॥३॥पापं मे नश्यतु क्षिप्रं बहुजन्मार्जितं च यत् । दानेन सन्तु मे प्रीता: सोमसूर्यजनार्दना: ॥४॥हिरण्यगर्भगर्भ० ॥५॥इदं यथाशक्ति सुवर्णं दक्षिणासहित अमुक शर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे । प्रति०, प्रति० । ब्राह्मणस्तु कइदंक० इति कामस्तुतिं पठेत् । अनेन व्यतीपातयोगमहापर्वनिमित्तसुवर्णादानाख्येन कर्मणा तेन श्रीसवितासूर्यनारायण: प्रीयताम् । सुवर्णदानासम्भवे पदार्थां:, फलानि वा, त्रयो दशसङ्ख्याकानि दद्यात् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP