संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|विशेषव्रतपूजादानादिविधि:| ग्रहणे शुभाशुभफलविचार: विशेषव्रतपूजादानादिविधि: सुवर्णादिदानविधि: कुम्भदानविधि: अधिमासनिमित्तदानविधि: षोडशफलदानविधि: ग्रहणे शुभाशुभफलविचार: श्रीसत्यनारायणपूजाविधि: सत्यनारायणव्रतकथाः बुधाष्टमीव्रताङ्गपूजाविधि: बुधाष्टमीव्रतकथाः हस्तगौरीव्रताङ्गपूजाविधि: प्रदक्षिणानुष्ठानविधि: विशेषव्रतपूजाः - ग्रहणे शुभाशुभफलविचार: सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत ग्रहणे शुभाशुभफलविचार: Translation - भाषांतर ॥ ग्रहणे शुभाशुभफलविचार: ॥ग्रहणं च जन्मराशौ जन्मनक्षत्रे तत्पूर्वोत्तरनक्षत्रे च जन्मराशित: ४।८।१२ स्थानेषु अशुभम् । २।७।५।६ स्थाने मध्यम् । ३।६।१०।११ स्थाने शुभम् ।॥ अशुभग्रहणे नागविम्बदानविधि: ॥चन्द्रग्रहे रौप्यमयं चन्द्रबिम्बं, सौवर्णं राहुं सर्पाकारं, सुर्यग्रहे सौवर्णं सूर्यबिम्बं, सर्पाकारं राहुं च पलेन तदर्धेन तदर्धेन तदर्धेन वा यथाशक्ति सम्पाद्य, फणायां मौक्तिकं न्यस्य घृतपूरितताम्रपात्रे कांस्यपात्रे वा निधाय दक्षिणायुतं ब्राह्मणाय दद्यात् ॥ अथ प्रयोग: । ग्रहणप्रयुक्तं स्नानजपादिकं कृत्वा, ग्रहणान्ते आचम्य देशकालौ स्मृत्वा, अमुकगोत्रो० अमुकश० मम अमुकजन्मनक्षत्रे तत्पूर्वोत्तरनक्षत्रे वा जन्मराशे: सकाशात् अमुकस्याने वा चन्द्र सूर्य ग्रहणसुचितसकलारिष्टनिरसनपूर्वकशुभफलप्राप्त्यर्थं ब्राह्मणाय घृतपूरितताम्रपात्रनिहितरौप्यमयचन्द्रबिम्बसहितसुवर्णमयनागदानं करिष्ये । सूर्यग्रहे तु, सुवर्णमयसूर्यबिम्बसहितसुवर्णमयनागदानमित्यूह: । तदङ्गं नागपूजनं ब्राह्मणपूजनं च करिष्ये । नागं ब्राह्मणं च सम्पूज्य । स्वस्त्यस्तु, दीर्घ० । दानमन्त्र:तमोमय महाभीम सोमसूर्यविमर्दन । हेमताराप्रदानेन मम शान्तिप्रदो भव ॥ विधुन्तुद नमस्तुभ्यं सिंहिकानन्दनाच्युत । दानेनानेन नागस्य रक्ष मां वेधजाद्भयात् ॥२॥इदं घृतपूर्णतामपात्रनिहितरौप्यमयचन्द्रबिम्बसहितसुवर्णमयनागदानं सदक्षिणाकं सफलं सताम्बूलं अमुकश० तुभ्यम० । अनेन बिम्बसहितनागदानाख्येन कर्मणा तेन श्रीपरमेश्वर: प्रीयताम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP