विशेषव्रतपूजाः - बुधाष्टमीव्रतकथाः

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ अथ बुधाष्टमीव्रतकथाप्रारम्भं: ॥

श्रीकृष्ण उवा० ॥ बुधाष्टमीव्रतं भूप वक्ष्यामि श्रृणुपाण्डव । येन चीर्णेन नरकं नर: पश्यति न क्वचित् ॥ युधिष्ठिर उवा० ॥ बुधाष्टमीव्रतं किं तत् कस्मात्पापाच्च मुञ्चति । तत्सर्वं वद निश्चित्य मम देव दयानिधे ॥ श्रीकृष्ण उवा० ॥ पुरा कृतयुगस्यादौ इलो राजा बभूव ह । बहुभृत्यसुहृन्मित्रैर्मन्त्रिभि: परिवारित: ॥ जगाम हिमवत्पार्श्चं महादेवेन शापितम् । योऽस्यां प्रविशते भूमौ स स्त्री भवति निश्चितम् ॥ स राजा मृगयाऽऽसक्त: प्रविष्टस्तदुमावनम् । एकाकी हृयमारूढ: क्षणात्स्त्रीत्वं जगाम ह ॥ सा बभ्राम वनेशून्ये पीनोन्नतपयोधरा । क्वाऽहं कस्य कुत: प्राप्ता न सा बुध्यत किञ्चन । ददर्श तां बुधस्तन्वीं रूपौदार्यगुणान्विताम् । अष्टम्यां बुधवारे च तस्यास्तुष्टो बुधग्रह: ॥ ददौ गृहाश्रमं रम्यमात्मीयं रूपतोषित: । पुत्रमुत्पादयामास योऽसौ ख्यात: पुरूरवा: । चन्द्रवंशकरो राजा आद्य: सर्वमहीभृताम् । तत:प्रभृति पूज्येयं साष्टमी बुधसंयुता ॥ सर्वपापप्रशमनी सर्वोपद्रवनाशिनी । अथान्यदपि ते वच्मि धर्मराज कथानकम् ॥१०॥
कृष्ण उवा० ॥ आसीद्राजा विदेहायां निमिर्नाम स वैरिभि: सङ्ग्रामे निहतो राजा तस्य भार्यातिनिर्धना ॥ ऊर्मिला नाम बभ्राम महीं बालकसयुता । अवन्तिनगरं प्राप्य ब्राह्मणस्य निकेतने ॥ चकारोदरपूत्यर्थं नित्यं कण्डनपेषणे । हृत्वा सा सप्तगोधूमान्ददौ बालकयोस्तदा ॥ कारुण्यात्पुत्रवात्सल्यात्क्षुधां सम्पीडयमानयो: । कालेन बहुना साध्वी पञ्चत्वमगमत्तदा ॥ पुत्रस्तस्या विदेहायां गत्वा स्वपितुराश्रमे । उपविष्ट: सत्ययोगाद बुभुजे गामनाकुलाम् ॥ अन्विष्य धर्मराजेन सा कन्या निमिवंशजा । शामला नाम चार्वङ्गी सर्वलक्षणसंयुता ॥ गान्धर्वेणोपयित्वा च नीता स्वनगरं प्रति । तामुवाच वरारोहां धर्मराज: स्वकां प्रियाम् ॥ वहस्व सर्वव्यापारं श्यामले त्वं गृहे मम । कुरुष्व सर्वभृत्यानां दानशिक्षां यथोचिताम् ॥ किं त्वेते प्रवरा: सप्त कीलकैरतियन्त्रिता: । कदाचिदपि नोदघाटयास्त्वया वैदेहिनन्दिनि ॥ एवमस्त्विति वै प्रोक्ता निजकर्म चकार ह । ततो भुक्त्वा बुधस्याग्रे बान्धवै: प्रीतिपूर्वकम् ॥२०॥
तावदेव हि भोक्तव्यं यावत्सा कथ्यते कथा । कदाचिद्वयाकुली भूत्वा धर्मराज वि देहजा ॥ उदधाटयित्वा प्रवरं ददर्श जननीं स्वकाम् । पच्यमानां च रुदतीं भीषणैर्यमकिङ्किरै: ॥ लीलयाऽऽक्षिप्य ते बध्वा तप्ततैलेषु सा पुन: । तथैव तलकां बध्वा पीडिता सा मनस्विनी ॥ द्वितीये नरके तद्वतां ददर्श स्वमातरम् । यन्त्रे निष्पीड्यमाना सा शिलायां लोष्टकेन च ॥ तृतीये प्रवरे तद्वत्तामेव च ददर्श सा । करिभि: पीडयमाना सा घण्टायुक्तश्चकल्पितै: ॥ श्वभिश्चतुर्थे प्रवरे भीषणैर्दारुणाननै: । अभक्ष्यभक्षणाद्यैश्च क्रदन्तीं तां पुन: पुन: ॥ पञ्चमे प्रवरे भूमौ कण्ठे पादेन ताडिताम् । संदंशैर्धनपातैश्च च्छिद्यमानां सहस्रश: ॥ षष्ठे तामिक्षुयन्त्रस्थां मस्तके मुदगराहताम । सम्पीङ्यमानामनिशं सुभृशं दारुखण्डवत् ॥ सप्तमे प्रवरे चैव कृमिरूपै: सुदारुणै: । द्दष्ट्वा तथागतां तां तु मातरं दुःखकर्षिताम् ॥ श्यामला म्लानवदना किञ्चिन्नोवाच भामिनी । किमर्थं म्लानवदना तिष्ठसि त्वमनिन्दिते ॥३०॥
कारणं तत्र मे ब्रूहि किञ्चिन्नोदघाटितास्त्वया । एते प्रवरका: सप्तनिषिद्धा ये पुरा मया ॥ इत्युक्ता श्यामला प्राह भर्तारं विनयान्विता । किं नु पापं कृतं राजन् मम मात्रा सुदारुणम् ॥ येनेत्थं विविधैर्घोरैर्बाध्यते बहुशस्त्वया । इत्युक्त: प्रियया प्राह तां यम: प्रहसन्निव ॥ तव मात्रा सुतस्नेहाद गोधुमा वै हृता: किल । किं न जानासि तद्भद्रे येन पृच्छसि मामिह ॥ ब्रह्मस्वं प्रणस्वं प्रणयाद भुक्तं दहत्यासप्तमं कुलम् । तदेव कृमिरूपेण क्लिशत्यासप्तमं कुलम् ॥ गोधूमास्त इमे भूत्वा कृमिरूपा: सुदारुणा: । ये पुरा ब्राह्मणगृहे हृतास्ते त्वत्कृते तया ॥ जानाम्येतदहं सर्वं पत्ते मात्रा कृतं पुरा ॥ श्यामलोवा० ॥ तथापि त्वां समासाद्य देवं जामातरं विभुम् ॥ मुच्यते तेन पापेन यथा त्वमधुना कुरु । तच्छुत्वा चिन्तयाविष्टश्चिरं ध्यात्वा जगाद ताम् ॥ धर्मराज: सुखासीन: प्रियां प्राणहरेश्वरीम् । इतस्त्वं सप्तमेऽतीते जन्मनि ब्राह्मणी शुभा ॥ आसीत्तस्मिन् तदा सङ्गात्सखीनां पर्युपोषिता । बुधाष्टमी तु सम्पूर्णा यथोक्तफलदायिनी ॥४०॥
तस्या: पुण्यं ददस्व त्वं यदि सत्यं ममाग्रत: । तेन मुच्येत नरकात्ते माता पापसङघकृत ॥ तच्छुत्वा त्वरितं स्नात्वा ददौ पुण्यं त्रिवाचकम् । स्वमात्रे श्यामला तुष्टा तेन मोक्षं जगाम सा ॥ ऊर्मिला रूपसम्पन्ना दिव्यदेहाबरांशुका । विमानवरमारूढा दिव्यमाल्याम्बरावृता ॥ भर्तु:समीपे स्वर्गस्था द्दश्यतेऽद्यापि सा जनै: । बुधस्य पार्श्वे नभसि निमिराजसमीपगा ॥ विस्फुरन्ती महाराज बुधाष्टम्या: प्रभावत: । युधिष्ठिर उवा० ॥ यद्येवं प्रवरा कृष्ण तिथिर्वै तु बुधाष्टमी ॥ तस्या एव विधिं ब्रूहि यदि तुष्टोऽसि माधव ॥ श्रीकृष्ण उवा० ॥ श्रृणा पाण्डव यत्नेन बुधाष्टम्या विधिं शुभम् ॥ यदा यदा सिताष्टम्यां बुधवारो भवेद्यदि । तदा तदा हि सा ग्राह्या एकभक्ता जनैर्नृभि: ॥ स्नात्वा नद्यां तु पूर्वाह्णे गृहीत्वा करकं नवम् । जलपूर्णं लसद्रत्नै: कृत्वानर्ध्यै: समन्वितम् ॥ पूजयेच्च गृहं नीत्वा बुधमेकं क्रमेण तु । एकमाषसुवर्णेन तदर्धार्धेन वा पुन: ॥ कारयेद बुधरूपं तु स्वशक्त्या चा प्रयत्नत: । अङ्गष्ठमात्रं पुरुषं चतुर्बाहुं सुलक्षणम् ॥५०॥
पद्ममध्येऽव्रणं कुम्भं पूजयेत्सिततण्डुलै:अ । हेमपात्रे च संस्थाप्य पीतवस्त्नयुगेन च ॥ वस्त्नोपरि स्थितं देवं पीतवस्त्नाक्षतादिभि: । पञ्चामृतेन संस्नाप्य तत्तन्मन्त्रै: क्रमेण तु ॥ नैवेद्यं गुग्गुलं धूपं दशाङ्गेन सुगन्धितम् । पायसैर्घृतपूपैश्च मोदकाशोकवर्तिकै: ॥ फलैश्च विविधैश्चैव शर्कराभिर्गुडै: शुभै: । तत: पुष्पाक्षतै: पीतैर्वक्ष्यमाणैश्च नामभि: ॥ नमो बुधाय पादौ तु सोमपुत्राय जानुनी । तारकाय कटी चैव राजपुत्राय चोदरम् ॥ इलाप्रियाय ह्रदयं कुमारायेति वक्षसि । बाहू पुरुरव: पित्रे अंसौ सोमसुताय च ॥ मुखं तु पीतवर्णाय ज्ञानाय च स्तनद्वयाम् । मूर्धानं तु बुधायेति एषु स्थानेपु पूजयेत् ॥ सौवर्णं राजतं ताम्रं पात्रमादाय शोभनम् । गन्धपुष्पाक्षतै: पीतैर्गुडमिश्राम्बुपुरितै: ॥ जानुभ्यामवनिं गत्वा तेन चार्घ्यं निवेदयेत् । उर्वश्या: श्वशुरो यस्तु य: पुरूरवस: पिता ॥ यो ग्रहाणामधिपतिर्धुधोन: सम्प्रसीदतु । वरांश्च विष्णुना दत्तान्सकलान्न:  प्रसीदतु ॥६०॥
मन्त्रेणानेन दत्वार्घ्यं जप्त्वा मन्त्रमिमं बुध: । प्रथमे मोदकान् दद्याद द्वितीये फेणिकास्तथा ॥ तृतीये घृतपूर्णं च चतुर्थे वटकांस्तथा । पञ्चमे मण्डकान्दद्यात्पष्ठे सोहालिकाकास्तथा ॥ अशोककवर्तिका चैव सप्तमे मासि कारयेत् । अष्टमे शर्करामिश्रै: खाण्डवैश्च युधिष्ठिर ॥ विप्राय वायनं दद्याद व्रती भोजनमाचरेत् । एवं क्रमेण कर्तव्यं बुधाष्टम्यां युधिष्ठिर ॥ बांन्धवै: सह मित्रैश्च भोक्तव्यं प्रीतिपूर्वकम् । सौम्यमाख्यानकं श्रृणवन्नरकेभ्यो विमुच्यते ॥ सोमात्मजात्मकमशेषसुखप्रदं तं य: पूजयेत्सकलनीरयुतं च कुम्भम् । पक्वान्नपात्रसहितं सहिरण्यवस्त्रं पश्यत्यसौ यमपुरीं न कदाचिदेव॥६६॥
इति श्रीभविष्योत्तरपुराणे बुधाष्टमीव्रतकथा समाप्ता ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP