व्यवहारपदानि - दिव्यानि
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
यदा साक्षी न विद्यते विवादे वदतां नृणाम् ।
तदा दिव्यैः परीक्षेत शपथैश्च पृथग्विधैः ॥१॥
सत्यं वाहनशस्त्राणि गोबीजरजतानि च ।
देवतापितृपादाश्च दत्तानि सुकृतानि च ॥२॥
महापराधे दिव्यानि दापयेत्तु महीपतिः ।
अल्पेषु च नरः श्रेष्ठः शपथैः शापयेन्नरम् ॥३॥
एते हि शपथाः प्रोक्ताः सुकरास्स्वल्पसंशये ।
साहसेष्वभिशापे च विधिर्दिव्यः प्रकीर्तितः ॥४॥
संदिग्धेऽर्थेऽभियुक्तानां प्रच्छन्नेषु विशेषतः ।
दिव्यः पञ्चविधो ज्ञेय इत्याह भगवान्मनुः ॥५॥
धटोऽग्निरुदकं चैव विषं कोशश्च पञ्चमः ।
उक्तान्येतानि दिव्यानि दूषितानां विशोधने ॥६॥
संदिग्धेष्वभियुक्तानां विशुद्ध्यर्थं महात्मना ।
नारदेन पुनः प्रोक्ताः सत्यानृतविभावनाः ।
वादिनोऽनुमतेनैनं कारयेन्नान्यथा बुधः ॥७॥
चतुर्हस्तौ तुलापादावुच्छ्रयेण प्रकीर्तितौ ।
षड्ढस्तं तु तयोर्दृष्टं प्रमाणं परिमाणतः ॥८॥
पादयोरन्तरं हस्तं भवेदध्यर्धं एव च ।
शिक्यद्वयं समासज्य धटे कर्कटके दृढे ॥९॥
तुलयित्वा नरं पूर्वं चिह्नं कुर्याद्धटस्य तु ।
कक्षास्थानेन तं तुल्यं अवतार्य ततो धटात् ॥१०॥
समयैः परिगृह्यैनं पुनरारोपयेन्नरः ।
तस्मिन्नेवं कृते सा चेत्कक्षे स्थाप्य सुनिश्चला ॥११॥
तुलितो यदि वर्धेत शुद्धः स्यान्नात्रे संशयः ।
समो वा हीयमानो वा न विशुद्धो भवेन्नरः ॥१२॥
धर्मपर्यायवचनैर्धट इत्यभिधीयसे ।
त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ।
त्वं एव धट जानीषे न विदुर्यानि मानुषाः ॥१३॥
व्यवहाराभिशस्तोऽयं मानुषस्तुल्यते तथा ।
तदेव संशयापन्नं धर्मतस्त्रातुं अर्हसि ॥१४॥
अत ऊर्ध्वं प्रवक्ष्यामि लोहस्य विधिं उत्तमम् ।
द्वात्रिंशदङ्गुलानि तु मण्डलान्मण्डलान्तरम् ॥१५॥
अष्टाभिर्मण्डलैरेवं अङ्गुलानां शतद्वयम् ।
चतुर्विंशत्समाख्यातं संख्यातत्त्वार्थदर्शिभिः ॥१६॥
कल्पितैर्मण्डलैरेवं उषितस्य शुचेरपि ।
सप्ताश्वत्थस्य पत्त्राणि सूत्रेणावेष्ट्य हस्तयोः ॥१७॥
विदध्यात्तप्तलोहस्य पञ्चाशत्पलं संमितम् ।
हस्ताभ्यां पिण्डं आदाय शनैः सप्तपदं व्रजेत् ॥१८॥
न मण्डलं अतिक्रामेन्नाप्यर्वाक्पादयेत्पदम् ।
न च पातयेताप्राप्तः यावद्भूमिर्प्रकल्पिता ॥१९॥
तीर्त्वानेन विधानेन मण्डलानि समाहितः ।
अदग्धः सर्वतो यस्तु स विशुद्धो भवेन्नरः ॥२०॥
भयाद्वा पातयते यस्त्वदग्धो यो विभाव्यते ।
पुनस्तं हारयेल्लोहं स्थितिरेषा पुरातनी ।
अनेन विधिना कार्यो हुताशसमयः स्मृतः ॥२१॥
त्वं अग्ने सर्वभूतानां अन्तश्चरसि साक्षिवत् ।
सुकृतं दुःकृतं लोकेन्(अ) अज्ञातं विद्यते त्वया ॥२२॥
प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च ।
यथावदेव जानीषे न विदुर्यानि मानुषाः ॥२३॥
व्यवहाराभिशस्तोऽयं पुरुषः शुद्धिं इच्छति ।
तदेनं संशयापन्नं धर्मतस्त्रातुं अर्हसि ॥२४॥
अतः परं प्रवक्ष्यामि तोयस्य विधिं उत्तमम् ।
नातिक्रूरेण धनुषा प्रेरयेत्सायकत्रयम् ॥२५॥
मध्यमस्तु शरो ग्राह्यः पुरुषेण यवीयसा ।
प्रत्यानीतस्य तस्याथ स विशुद्धो भवेन्नरः ॥२६॥
अन्यथा न विशुद्धः स्यादेकाङ्गं अपि दर्शयेत् ।
स्थानादन्यत्र वा गच्छेद्यस्मिन्पूर्वं निवेषितः ॥२७॥
स्त्रियस्तु न बलात्कार्या न पुमानपि दुर्बलः ।
भीरुत्वाद्योषितो मृत्युः कृशस्यापि बलात्कुर्यात् ।
सहसा प्राप्नुयात्सर्वांस्तस्मादेतान्न मज्जयेत् ॥२८॥
तोयमध्ये मनुष्यस्य गृहीत्वोरू सुसंयतः ॥२९॥
सत्यानृतविभागस्य तोयाग्नी स्पष्टकृत्तमौ ।
यतश्चाग्निरभूदस्मात्ततस्तोयं विशिष्यते ॥३०॥
क्रियते धर्मतत्त्वज्ञैर्दूषितानां विशोधनम् ।
तस्मात्सत्येन भगवञ् जलेश त्रातुं अर्हसि ॥३१॥
अतः परं प्रवक्ष्यामि विषस्य विधिं उत्तमम् ।
तुलयित्वा विषं पूर्वं देयं एतद्धिमागमे ॥३२॥
न पूर्वाह्णे न मध्याह्ने न संध्यायां तु धर्मवित् ।
शरद्ग्रीष्मवसन्तेषु वर्षासु च न दापयेत् ॥३३॥
भग्नं च दारितं चैव धूपितं मिश्रितं तथा ।
कालकूटं अलंबुं च विषं यत्नेन वर्जयेत् ॥३४॥
शार्ङ्गहैमवतं शस्तं गन्धवर्णरसान्वितम् ।
महादोषवते देयं राज्ञा तत्त्वबुभुत्सया ॥३५॥
न बालातुरवृद्धेषु नैव स्वल्पापराधिषु ।
विषस्य तु यवान्सप्त दद्याच्छोद्ये घृतप्लुतान् ॥३६॥
विषस्य पलषड्भागाद्भागो विंशतिमस्तु यः ।
तं अष्टभागहीनं तु शोध्ये दद्याद्घृतप्लुतम् ॥३७॥
यथोक्तेन विधानेन विप्रान्स्प्र्ष्ट्वानुमोदितः ।
सोपवासश्च खादेत देवब्राह्मणसंनिधौ ॥३८॥
विषं वेगक्लमापेतं सुखेन यदि जीर्यते ।
विशुद्धं इति तं ज्ञात्वा राजा सत्कृत्य मोक्षयेत् ॥३९॥
त्वं विष ब्रह्मणः पुत्रः सत्यधर्मरतौ स्थितः ।
शोधयैनं नरं पापात्सत्येनास्यामृतीभव ॥४०॥
अतः परं प्रवक्ष्यामि कोशस्य विधिं उत्तमम् ॥४१॥
पूर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्य च ।
सशूकस्याव्यसनिनः कोशपानं विधीयते ॥४२॥
यद्भक्तः सोऽभियुक्तः स्यात्तद्दैवत्यं तु पाययेत् ।
सप्ताहाद्यस्य दृश्यते द्विसप्ताहेन वा पुनः ।
प्रत्यात्मिकं तु यत्किंचित्सैव तस्य विभावना ॥४३॥
द्विसप्ताहात्परं यस्य महद्वा वैकृतं भवेत् ।
नाभियोज्यः स विदुषां कृतकालव्यतिक्रमात् ॥४४॥
महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते ।
नास्तिकव्रात्यदासेषु कोशपानं विवर्जयेत् ॥४५॥
यथोक्तेन प्रकारेण पञ्च दिव्यानि धर्मवित् ।
दद्याद्राजाभियुक्तानां प्रेत्य चेह च नन्दति ॥४६॥
न विषं ब्राह्मणे दद्यान्न लोहं क्षत्रियो हरेत् ।
न निमज्ज्याप्सु वैश्यश्च शूद्रः कोशं न पाययेत् ॥४७॥
वर्षासु न विषं दद्यात्हेमन्ते नाप्सु मज्जयेत् ।
न लोहं हारयेद्ग्रीष्मे न कोशं पाययेन्निशि ॥४८॥
नारदीयधर्मशास्त्रमं समाप्तम् ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP