संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|नारद स्मृतिः|व्यवहारपदानि| दत्ताप्रदानिकम् व्यवहारपदानि ऋणादानम् निक्षिपः संभूयसमुत्थानम् दत्ताप्रदानिकम् अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म अस्वामिविक्रयः क्रीतानुशयः विक्रीयासंप्रदानम् समयस्यानपाकर्म क्षेत्रजविवादः स्त्रीपुंसयोगः दायभागः साहसम् वाग्दण्डपारुष्ये द्यूतसमाह्वयम् प्रकीर्णकम् स्तेयम् दिव्यानि व्यवहारपदानि - दत्ताप्रदानिकम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmanaradasmritiधर्मनारदनारद स्मृतिःसंस्कृतस्मृतिः दत्ताप्रदानिकम् Translation - भाषांतर दत्त्वा द्रव्यं असम्यग्यः पुनरादातुं इच्छति ।दत्ताप्रदानिकं नाम तद्विवादपदं स्मृतम् ॥१॥अदेयं अथ देयं च दत्तं चादत्तं एव च ।व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विधः ॥२॥तत्र ह्यष्टावदेयानि देयं एकविधं स्मृतम् ।दत्तं सप्तविधं विद्याददत्तं षोडशात्मकम् ॥३॥अन्वाहितं याचितकं आधिः साधारणं च यत् ।निक्षेपः पुत्रदारं च सर्वस्वं चान्वये सति ॥४॥आपत्स्वपि हि कष्टासु वर्तमानेन देहिना ।अदेयान्याहुराचार्या यच्चान्यस्मै प्रतिश्रुतम् ॥५॥कुटुम्बभरणाद्द्रव्यं यत्किंचिदतिरिच्यते ।तद्देयं उपहृत्यान्यद्ददद्दोषं अवाप्नुयात् ॥६॥पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात्प्रत्युपकारतः ।स्त्रीशुल्कानुग्रहार्थं च दत्तं दानविदो विदुः ॥७॥अदत्तं तु भयक्रोध शोकवेगरुजान्वितैः ।तथोत्कोचपरीहास व्यत्यासच्छलयोगतः ॥८॥बालमूढास्वतन्त्रार्त मत्तोन्मत्तापवर्जितम् ।कर्ता ममायं कर्मेति प्रतिलाभेच्छया च यत् ॥९॥अपात्रे पात्रं इत्युक्ते कार्ये चाधर्मसंहिते ।यद्दत्तं स्यादविज्ञानाददत्तं तदपि स्मृतम् ॥१०॥गृह्णात्यदत्तं यो लोभाद्यश्चादेयं प्रयच्छति ।अदत्तादायको दण्ड्यस्तथादेयस्य दायकः ॥११॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP