संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|नारद स्मृतिः|व्यवहारपदानि| क्रीतानुशयः व्यवहारपदानि ऋणादानम् निक्षिपः संभूयसमुत्थानम् दत्ताप्रदानिकम् अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म अस्वामिविक्रयः क्रीतानुशयः विक्रीयासंप्रदानम् समयस्यानपाकर्म क्षेत्रजविवादः स्त्रीपुंसयोगः दायभागः साहसम् वाग्दण्डपारुष्ये द्यूतसमाह्वयम् प्रकीर्णकम् स्तेयम् दिव्यानि व्यवहारपदानि - क्रीतानुशयः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmanaradasmritiधर्मनारदनारद स्मृतिःसंस्कृतस्मृतिः क्रीतानुशयः Translation - भाषांतर विक्रीय पण्यं मूल्येन क्रेतुर्यन्न प्रदीयते ।विक्रीयासंप्रदानं तद्विवादपदं उच्यते ॥१॥लोकेऽस्मिन्द्विविधं द्रव्यं जङ्गमं स्थावरं तथा ।क्रयविक्रयधर्मेषु सर्वं तत्पण्यं उच्यते ॥२॥षड्विधस्तस्य तु बुधैर्दानादानविधिः स्मृतः ।गणिमं तुलिमं मेयं क्रियया रूपतः श्रिया ॥३॥विक्रीय पण्यं मूल्येन क्रेतुर्यो न प्रयच्छति ।स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥४॥अर्घश्चेदपहीयेत सोदयं पण्यं आवहेत् ।स्थायिनां एष नियमो दिग्लाभो दिग्विचारिणाम् ॥५॥उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।विक्रेतुरेव सोऽनर्थो विक्रीयासम्प्रयच्छतः ॥६॥निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति ।मूल्यं तद्द्विगुणं दाप्यो विनयं तावदेव च ॥७॥तथान्यहस्ते विक्रीय योऽन्यस्मै संप्रयच्छति ।सोऽपि तद्द्विगुणं दाप्यो विनेयस्तावदेव च ॥८॥दीयमानं न गृह्णाति क्रीतं पण्यं च यः क्रयी ।विक्रीणानस्तदन्यत्र विक्रेता नापराध्नुयात् ॥९॥दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्तितः ।अदत्तेऽन्यत्र समयान्न विक्रेतुरतिक्रमः ॥१०॥लाभार्थे वणिजां सर्व पण्येषु क्रयविक्रयः ।स च लाभोऽर्घं आसाद्य महान्भवति वा न वा ॥११॥तस्माद्देशे च काले च वणिगर्घं पराक्रमेत् ।न जिह्मेन प्रवर्तेत श्रेयानेवं वणिक्पथः ॥१२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP