संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|नारद स्मृतिः|व्यवहारपदानि| अस्वामिविक्रयः व्यवहारपदानि ऋणादानम् निक्षिपः संभूयसमुत्थानम् दत्ताप्रदानिकम् अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म अस्वामिविक्रयः क्रीतानुशयः विक्रीयासंप्रदानम् समयस्यानपाकर्म क्षेत्रजविवादः स्त्रीपुंसयोगः दायभागः साहसम् वाग्दण्डपारुष्ये द्यूतसमाह्वयम् प्रकीर्णकम् स्तेयम् दिव्यानि व्यवहारपदानि - अस्वामिविक्रयः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmanaradasmritiधर्मनारदनारद स्मृतिःसंस्कृतस्मृतिः अस्वामिविक्रयः Translation - भाषांतर निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा ।विक्रीयतेऽसमक्षं यद्विज्ञेयोऽस्वामिविक्रयः ॥१॥द्रव्यं अस्वामिविक्रीतं प्राप्य स्वामी समाप्नुयात् ।प्रकाशं क्रयतः शुद्धिः क्रेतुः स्तेयं रहः क्रयात् ॥२॥अस्वाम्यनुमताद्दासादसतश्च जनाद्रहः ।हीनमूल्यं अवेलायां क्रीणंस्तद्दोषभाग्भवेत् ॥३॥न गूहेतागमं क्रेता शुद्धिस्तस्य तदागमात् ।विपर्यये तुल्यदोषः स्तेयदण्डं च सोऽर्हति ॥४॥विक्रेता स्वामिनेऽर्थं च क्रेतुर्मूल्यं च तत्कृतम् ।दद्याद्दण्डं तथा राज्ञे विधिरस्वामिविक्रये ॥५॥परेण निहितं लब्ध्वा राजन्युपहरेन्निधिम् ।राजगामी निधिः सर्वः सर्वेषां ब्राह्मणादृते ॥६॥ब्राह्मणोऽपि निधिं लब्ध्वा क्षिप्रं राज्ञे निवेदयेत् ।तेन दत्तं च भूञ्जीत स्तेनः स्यादनिवेदयन् ॥७॥स्वं अप्यर्थं तथा नष्टं लब्ध्वा राज्ञे निवेदयेत् ।गृह्णीयात्तत्र तं शुद्धं अशुद्धं स्यात्ततोऽन्यथा ॥८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP