अधिकरणम् २ - अध्यायः ९
महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.
द्विविधा तृतीयप्रकृतिः स्त्रीरूपिणी पुरुषरूपिणी च ॥१॥
तत्र स्त्रीरूपिणी स्त्रिया वेषं आलापं लीलां भावं मृदुत्वं भीरुत्वं मुग्धतां अःसहिष्णुतां व्रीडां चानुकुर्वीत ॥२॥
तस्य वदने जघनकर्म । तदौपरिष्टकं आचक्षते ॥३॥
सा ततो रतिं आभिमानिकीं वृत्तिं च लिप्सेत् ॥४॥
वेश्यावच्चरितं प्रकाशयेत् । इति स्त्रीरूपिणी ॥५॥
पुरुषरूपिणी तु प्रछन्नकामा पुरुषं लिप्समाना संवाहकभावं उपजीवेत् ॥६॥
संवाहने परिष्वजमानेव गात्रैरूरू नायकस्य मृद्नीयात् ॥७॥
प्रसृतपरिचया चोरुमूलं सःजघनं इति संस्पृशेत् ॥८॥
तत्र स्थिरलिङ्गतां उपलभ्य चास्य पाणिमन्थेन परिघट्टयेत् । चापलम् (३४) अस्य कुत्सयन्तीव हसेत् ॥९॥
कृतलक्षणेनाप्युपलब्धवैकृतेनापि न चोद्यत इति चेत्स्वयं उपक्रमेत् ॥१०॥
पुरुषेण च चोद्यमाना विवदेत् । कृच्छ्रेण चाभ्युपगच्छेत् ॥११॥
तत्र कर्माष्टविधं समुच्चयप्रयोज्यम् ॥१२॥
[१]निमितं [२]पार्श्वतोदष्टं [३]बाहिःसंदंशो [४]अन्तःसंदंशश्[५]चुम्बितकं [६]परिमृष्टकं [७]आम्रचूषितकं [८]संगर इति ॥१३॥
तेष्वेकैकं अभ्युपगम्य विरामाभीप्सां दर्शयेत् ॥१४॥
इतरश्च पूर्वस्मिन्नभ्युपगते तदुत्तरं एवापरं निर्दिशेत् । तस्मिन्नपि सिद्धे तदुत्तरं इति ॥१५॥
करावलम्बितं ओष्ठयोरुपरि विन्यस्तं अपविध्य (३५) मुखं विधुनुयात् (३६) । तन्[१]निमितं ॥१६॥
हस्तेनाग्रं अवच्छाद्य पार्श्वतो निर्दशनं ओष्ठाभ्यां अवपीड्य भवत्वेतावदिति सान्त्वयेत् । तत्[२]पार्श्वतोदष्टम् भूयश्चोदिता संमीलितौष्ठी तस्याग्रं निष्पीड्य कर्षयन्तीव चुम्बेत् । इति [३] बाहिःसंदंशः ॥१७॥
तस्मिन्नेवाभ्यर्थनया किं चिदधिकं प्रवेशयेत् । सापि चाग्रं ओष्ठाभ्यां निष्पीड्य निष्ठीवेत् (३७) । इति [४]अन्तःसंदंशः ॥१९॥
करावलम्बितस्यौष्ठवद्ग्रहणं [५]चुम्बितकम् ॥२०॥
तत्कृत्वा जिह्वाग्रेण सर्वतो घट्टनं अग्रे च व्यधनं इति [६]परिमृष्टकम् ॥२१॥
तथाःभूतं एव रागवशादर्धप्रविष्टं निर्दयं अवपीड्यावपीड्य मुञ्चेत् । इत्य्[७] आम्रचूषितकम् ॥२२॥
पुरुषाभिप्रायादेव गिरेत्पीडयेच्चापरिसमाप्तेः । इति [७]संगरः ॥२३॥
यथार्थं चात्र स्तननप्रहणनयोः प्रयोगः । इत्यौपरिष्टकम् ॥२४॥
कुलटाः (३८) स्वैरिण्यः परिचारिकाः संवाहिकाश्चाप्येतत्प्रयोजयन्ति ॥२५॥
तदेतत्तु न कार्यम् । समयविरोधाद् (३९) अःसभ्यत्वाच्च । पुनरपि ह्यासां वदनसंसर्गे स्वयं एवार्तिं प्रपद्येत । इत्याचार्याः ॥२६॥
वेश्याकामिनोऽयं अःदोषः (४०) । अन्यतोऽपि परिहार्यः स्यात् । इति वात्स्यायनः ॥२७॥
तस्माद्यास्त्वौपरिष्टकं आचरन्ति न ताभिः सह संसृज्यन्ते प्राच्याः ॥२८॥
वेश्याभिरेव न संसृज्यन्ते आहिच्छत्रिकाः संसृष्टा अपि मुखकर्म तासां परिहरन्ति ॥२९॥
निरःअपेक्षाः साकेताः (४१) संसृज्यन्ते ॥३०॥
न तु स्वयं औपरिष्टकं आचरन्ति नागरकाः ॥३१॥
सर्वं अःविशङ्कया प्रयोजयन्ति सौरसेनाः ॥३२॥
एवं ह्याहुः ण् को हि योषितां आचारं चरित्रं प्रत्ययं वचनं वा श्रदःधातुं अर्हति । निसर्गादेव हि मलिनदृष्टयो भवन्त्येता न परित्याज्याः । तस्मादासां स्मृतित एव शौचं अन्वेष्टव्यम् । एवं ह्याहुः॥ २ ।९ ।३३॥
व्वत्सः प्रस्रवणे मेध्यः श्वा मृगग्रहणे शुचिः । शकुनिः फलपाते तु स्त्रीमुखं रतिसंगमे ॥इति ॥३३॥
शिष्टविप्रतिपत्तेः स्मृतिवाक्यस्य च सावकाशत्वाद्देशस्थितेरात्मनश्च वृत्तिप्रत्ययानुरूपं प्रवर्तेत । इति वात्स्यायनः ॥३४॥
भवन्ति चात्र श्लोकाः प्रमृष्टकुण्डलाश् (४२) चापि युवानः परिचारकाः । केषां चिदेव कुर्वन्ति नराणां औपरिष्टकम् ॥३५॥
तथा नागरकाः के चिदन्योन्यस्य हितैषिणः । कुर्वन्ति रूढविश्वासाः परस्परपरिग्रहम् ॥३६॥
पुरुषाश्च तथा स्त्रीषु कर्मैतत्किल कुर्वते । व्यासस्तस्य च विज्ञेयो मुखचुम्बनवद्विधिः ॥३७॥
परिवर्तितदेहौ तु स्त्रीपुंसौ यत्परस्परम् । युगपत्संप्रयुज्येते स कामः काकिलः (४३) स्मृतः ॥३८॥
तस्माद्गुणवतस्त्यक्त्वा चतुरांस्त्यागिनो नरान् । वेश्याः खलेषु रज्यन्ते दासहस्तिपकादिषु ॥३९॥
न त्वेतद्ब्राह्मणो विद्वान्मन्त्री वा राजधूर्धरः । गृहीतप्रत्ययो वापि कारयेदौपरिष्टकम् ॥४०॥
न शास्त्रं अस्तीत्येतावत्प्रयोगे कारणं भवेत् । शास्त्रार्थान्व्यापिनो विद्यात्प्रयोगांस्त्वेकदेशिकान् ॥४१॥
रसवीर्यविपाका हि श्वमांसस्यापि वैद्यके । कीर्तिता इति तत्किं स्याद्भक्षणीयं विचक्षणैः ॥४२॥
सन्त्येव पुरुषाः केचित्सन्ति देशास्तथाःविधाः । सन्ति कालाश्च येष्वेते योगा न स्युर्निरःअर्थकाः ॥४३॥
तस्माद्देशं च कालं च प्रयोगं शास्त्रं एव च । आत्मानं चापि संप्रेक्ष्य योगान्युञ्जीत वा न वा ॥४४॥
अर्थस्यास्य रहस्यत्वाच्चलत्वान्मनसस्तथा । कः कदा किं कुतः कुर्यादिति को ज्ञातुं अर्हति ॥४५॥
चिति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे औपरिष्टकं नवमोऽध्यायः । आदितश्चतुर्दशः ॥९॥
N/A
References : N/A
Last Updated : June 27, 2014
TOP