संस्कृत सूची|शास्त्रः|कामसूत्रम्|अधिकरणम् २| अध्यायः ४ अधिकरणम् २ अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अधिकरणम् २ - अध्यायः ४ महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे. Tags : kamasutrashastraकामसूत्रशास्त्र अध्यायः ४ Translation - भाषांतर रागवृद्धौ संघर्षात्मकं नखविलेखनम् ॥१॥तस्य प्रथमसमागमे प्रवासप्रत्यागमने प्रवासगमने क्रुद्धप्रसन्नायां मत्तायां च प्रयोगः । न नित्यं अःचण्डवेगयोः ॥२॥तथा दशनच्छेद्यस्य सात्म्यवशाद्वा ॥३॥तद्[१] आच्छुरितकं [२] अर्धचन्द्रो [३] मण्डलं [४] रेखा [५] व्याघ्रनखं [६] मयूरपदकं [७] शशप्लुतकं [८] उत्पलपत्त्रकं इति रूपतोऽष्टविकल्पम् ॥४॥कक्षौ स्तनौ गलः पृष्ठं जघनं ऊरू च स्थानानि ॥५॥प्रवृत्तरतिचक्राणां न स्थानं अःस्थानं वा विद्यत इति सुवर्णनाभः ॥६॥तत्र सव्यहस्तानि प्रत्यःअग्रशिखराणि द्वित्रिशिखराणि चण्डवेगयोर्नखानि स्युः ॥७॥अनुगतराजि समं उज्ज्वलं अःमलिनं अःविपाटितं विवर्धिष्णु मृदु स्निग्धदर्शनं इति नखगुणाः ॥८॥दीर्घाणि हस्तशोभीन्यालोके च योषितां चित्तग्राहीणि गौडाणां नखानि स्युः ॥९॥ह्रस्वानि कर्मसहिष्णूनि विकल्पयोजनासु च स्वेच्छापातीनि दाक्षिणत्यानाम् ॥१०॥मध्यमान्युभयभाञ्जि महाराष्ट्रकाणां इति ॥११॥तैः सुःनियमितैर्हनुदेशे स्तनयोरधरे वा लघुकरणं अनःउद्गतलेखं स्पर्शमात्रजननाद्रोमाञ्चकरं अन्ते संनिपातवर्धमानशब्दं [१] आच्छुरितकम् ॥१२॥प्रयोज्यायां च तस्याङ्गसंवाहने शिरसः कण्डूयने पिटकभेदने व्याकुलीकरणे भीषणेन प्रयोगः ॥१३॥ग्रीवायां स्तनपृष्ठे च वक्रो नखपदनिवेशो [२] अर्धचन्द्रः ॥१४॥तावेव द्वौ पर्सपराभिमुखौ मण्डलम् ॥१५॥नाभिमूलककुन्दरवंक्षणेषु (१०) तस्य प्रयोगः ॥१६॥सर्वस्थानेषु नातिःदीर्घा [४] लेखा (११) ॥१७॥सैव वक्रा [५] व्याघ्रनखकं आ स्तनमुखम् ॥१८॥पञ्चभिरभिमुखैर्लेखा चूचुकाभिमुखी (१२) [६] मयूरपदकम् ॥१९॥तत्संप्रयोगश्लाघायाः स्तनचूचुके संनिकृष्टानि पञ्चनखपदानि [७] शशप्लुतकम् ॥२०॥स्तनपृष्ठे मेखलापथे चोत्पलपत्त्राकृतीत्य्[८] उत्पलपत्त्रकम् ॥२१॥ऊर्वोः स्तनपृष्ठे च प्रवासं गच्छतः स्मारणीयकं संहताश्चतस्रस्तिस्रो वा लेखाः ॥२२॥चिति नखकर्माणि ॥२२॥आकृतिविकारयुक्तानि चान्यान्यपि कुर्वीत ॥२३॥विकल्पानां अनःअन्तत्वादानन्त्याच्च कौशलविधेरभ्यासस्य च सर्वगामित्वाद्रागात्मकत्वाच्छेद्यस्य प्रकारान्कोऽभिसमीक्षितुं अर्हतीत्याचार्याः भवति हि रागेऽपि चित्रापेक्षा । वैचित्र्याच्च परस्परं रागो जनयितव्यः । वैचक्षण्ययुक्ताश्च गणिकास्तत्कामिनश्च परस्परं प्रार्थनीया भवन्ति । धनुर्वेदादिष्वपि हि शस्त्रकर्मशास्त्रेषु वैचित्र्यं एवापेक्ष्यते किं पुनरिहेति वात्स्यायनः ॥२४॥न तु परपरिगृहीतास्वेवं कुर्यात् । प्रच्छन्नेषु प्रदेशेषु तासां अनुस्मरणार्थं रागवर्धनाच्च विशेषान्दर्शयेत् ॥२६॥व्नखक्षतानि पश्यन्त्या गूढस्थानेषु योषितः । चिरोत्सृष्टाप्यभिनवा प्रीतिर्भवति पेशला (१३) ॥२७॥व्चिरोसृष्टेषु रागेषु प्रीतिर्गच्छेत्पराभवम् । रागायतनसंस्मारि यदि न स्यान्नखक्षतम् ॥२८॥व्पश्यतो युवतिं दूरान्नखोच्छिष्टपयोधराम् । बहुमानः परस्यापि रागयोगश्च जायते ॥२९॥व्पुरुषश्च प्रदेशेषु नखचिह्नैर्विचिह्नितः । चित्तं स्थिरं अपि प्रायश्चलयत्येव योषितः ॥३०॥व्नान्यत्पटुतरं किं चिदस्ति रागविवर्धनम् । नखदन्तसमुत्थानां कर्मणां गतयो यथा ॥३१॥चिति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे चतुर्थोऽध्यायः । आदितो नवमः ॥४॥ N/A References : N/A Last Updated : June 27, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP