अधिकरणम् २ - अध्यायः ७

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


कलहरूपं सुःरतं आचक्षते । विवादात्मकत्वाद्वामशीलत्वाच्च कामस्य ॥१॥

तस्मात्प्रहणनन्स्थानं अङ्गम् । स्कन्धौ शिरः स्तनान्तरं पृष्ठं जघनं पार्श्व इति स्थानानि ॥२॥

तच्चतुर्विधं ण् [१] अपहस्तकं [२] प्रसृतकं [३] मुष्टिः [४] समतलकं इति ॥३॥

तदुद्भावं च सीत्कृतम् । तस्यातिःरूपत्वात् । तदनःएकविधम् ॥४॥

विरुतानि चाष्टौ ॥५॥

[आ]हिंकार[अ२]स्तनित[अ३]कूजित[अ४]रुदित[अ५]सूत्कृत[अ६]दूत्कृत[अ७]फूत्कृतानि ॥६॥

अम्बार्थाः शब्दा वारणार्था मोक्षणार्थाश्चालमर्थास्ते ते [अ८] चाथयोगात् ॥७॥

[ब्१]पारावत[ब्२]परभृत[ब्३]हारीत[ब्४]शुक[ब्५]मधुकर[ब्६]दात्यूह[ब्७]हंस[ ब्८]कारण्डव[ब्९]लावकविरुतानि सीत्कृतभूयिष्ठानि विकल्पशः प्रयुञ्जीत ॥८॥

उत्सङ्गोपविष्टायाः पृष्ठे मुष्टिना प्रहारः ॥९॥

तत्र सासूयाया इव [अ२]स्तनित[अ४]रुदित[अ३]कूजितानि प्रतिघातश्च स्यात् ॥१०॥

युक्तयन्त्रायाः स्तनान्तरे [१] अपहस्तकेन प्रहरेत् ॥११॥

मन्दोपक्रमं वर्धमानरागं आ परिसमाप्तेः ॥१२॥

तत्र [अ८]हिंकारादीनां अःनियमेनाभ्यासेन विकल्पेन च तत्कालं एव प्रयोगः ॥१३॥

शिरसि किं चिदाकुञ्चितागुलिना करेण विवदन्त्याः [अ७]फूत्कृत्य प्रहणनं तत्[२] प्रसृतकम् ॥१४॥

तत्रान्तर्मुखेन [अ३]कूजितं [अ७]फूत्कृतं च ॥१५॥

रतान्ते च श्वासितरुदिते ॥१६॥

फेणोरिव स्फुटतः शब्दानुकरणं [अ६]दूत्कृतम् ॥१७॥

अप्सु बदरस्येव (२२) निपततः [अ७]फूत्कृतम् ॥१८॥

सर्वत्र चुम्बनादिष्वपक्रान्तायाः सःसीत्कृतं तेनैव प्रत्युत्तरम् ॥१९॥

रागवशात्प्रहणनाभ्यासे [अ८]वारणमोक्षणालं अर्थानां शब्दानां अम्बार्थानां च सःतान्तश्वासितरुदितस्तनितमिश्रीकृतप्रयोगा विरुतानां च । रागावसानकाले जघनपर्श्वयोस् (२३) ताडनं इत्यःत्वरया चा परिसमाप्तेः ॥२०॥

तत्र [ब्९]लावक[ब्७]हंसविकूजितं त्वरयैव । इति स्तननप्रहणनयोगाः ॥२ ।७ ।२२ भवतश्चात्र श्लोकौ ॥२१॥

व्पारुष्यं रभसत्वं च पौरुषं तेज उच्यते । अःशक्तिरार्तिर्व्यावृत्तिरःबलत्वं च योषितः ॥२२॥

व्रागात्प्रयोगसात्म्याच्च व्यत्ययोऽपि क्व चिद्भवेत् । न चिरं तस्य चैवान्ते प्रकृतेरेव योजनम् ॥२३॥

कीलां उसरि कर्तरीं शिरसि विद्धां कपोलयोः संदंशिकां स्तनयोः पार्श्वयोश्चेति पूर्वैः सह प्रहणनं अष्टविधं इति दाक्षिणात्यानाम् । तद्युवतीनां उसरि कीलानि दृश्यन्ते । देशसात्म्यं एतत् ॥२४॥

कष्टं अनःआर्यवृत्तं अनःआदृतं इति वात्स्यायनः ॥२५॥

तथान्यदपि देशसात्म्यात्प्रयुक्तं अन्यत्र न प्रयुञ्जीत ॥२६॥

आत्ययिकं तु तत्रापि परिहरेत् ॥२७॥

रतियोगे हि कीलया गणिकां चित्रसेनां चोलराजो जघान ॥२८॥

कर्तर्या कुण्टलः शातकर्णिः शातवाहनो महादेवीं मलयवतीम् ॥२९॥

नरदेवः कुपाणिर् (२४) विद्धया नाटीं काणां चकार (२५) ॥३०॥

भवन्ति चात्र श्लोकाः ॥३१॥

व्नास्त्यत्र का चिन्न च शास्त्रपरिग्रहः । प्रवृत्ते रतिसंयोगे राग एवात्र कारणम् ॥३१॥

व्स्वप्नेषु न दृश्यन्ते ते भावास्ते च विभ्रमाः । सुरतव्यवहारेषु ये स्युस्तत्क्षणकल्पिताः ॥३२॥

व्यथा हि पञ्चमीं धारां आस्थाय तुरगः पथि । स्थानुं श्वभ्रं दरीं वापि वेगान्धो न समीक्षते ॥३३॥

व्२ एवं सुःरतसंमर्दे रागान्धौ कामिनावपि । चण्डवेगौ प्रवर्तेते समीक्षेत न चात्ययम् ॥३३॥

तस्मान्मृदुत्वं चण्डत्वं युवत्या बलं एव च । आत्मनश्च बलं ज्ञात्वा तथा युञ्जीत शास्त्रवित् ॥३४॥

न सरवदा न सर्वासु प्रयोगाः सांप्रयोगिकाः । स्थाने देशे च काले च योग एषां विधीयते ॥३५॥

चिति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे प्रहणनप्रयोगास्तद्युक्ताश्च सीत्कृतक्रमाः सप्तमोऽध्यायः । आदितो द्वादशः ॥७॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP