अधिकरणम् २ - अध्यायः ८
महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.
नायकस्य संतताभ्यासात्प्रैश्रमं उपलभ्य रागस्य चानःउपशमं अनुमता तेन तं अधोऽवपात्य पुरुषायितेन साहाय्यं दद्यात् ॥१॥
स्वाभिप्रायाद्वा विकल्पयोजनार्थिनी ॥२॥
नयककुतूहलाद्वा ॥३॥
तत्र युक्तयन्त्रेणैवेतरेणोत्थाप्यमाना तं अधः पातयेत् । एवं च रतं अःविछिन्नरसं तथा प्रवृत्तं एव स्यात् । इत्येकोऽप्ययं मार्गः ॥४॥
पुनरारम्भेणादित एवोपक्रमेत् । इति द्वितीयः ॥५॥
सा प्रकीर्यमाणकेशकुसुमा श्वासविच्छिन्नहासिनी वक्त्रसंसर्गार्थं स्तनाभ्यां उरः पीडयन्ती पुनः पुनः शिरो नामयन्ती याश्चेष्टाः पूर्वं असौ दर्शितवांस्ता एव प्रकुर्वीत । पातिता प्रतिपातयामीति हसन्ती तर्जयन्ती प्रतिघ्नती च ब्रूयात् । पुनश्च व्रीडां (२७) दर्शयेत् । श्रमं विरामाभीप्सां च । पुरुषोपसृप्तैरेवोपसर्पेत् ॥६॥
तानि च वक्ष्यामः (२८)॥ २ ।८ ।७॥
प्रकरण)१८
पुरुषः शयनस्थाया योषितस्तद्वचनव्याक्षिप्तचित्ताया इव नीवीं विश्लेषयेत् । तत्र विवदमानां कपोलचुम्बनेन पर्याकुलयेत् ॥८॥
स्थिरलिङ्गश्च तत्रैनां परिस्पृशेत् ॥९॥
प्रथमसंगता चेत्संहतोर्वोरन्तरे घट्टनम् ॥१०॥
कन्यायाश्च ॥११॥
तथा स्तनयोः संहतयोर्हस्तयोः कक्षयोरंसयोर्ग्रीवायां इति च ॥१२॥
स्वैरिण्यां यथाःसात्म्यं यथायोगं च । अलके चुम्बनार्थं एनां निर्दयं अवलम्बेत्हनुदेशे चाङ्गुलिसंपुतेन ॥१३॥
तत्रेतरस्य व्रीडा निमीलनं च । प्रथमसमागमे कन्यायाश्च ॥१४॥
रतिसंयोगे चैनां कथं अनुरज्यत इति प्रवृत्त्या परीक्षेत ॥१५॥
युक्तयन्त्रेणोपसृप्यमाना यतो दृष्टिं आवर्तयेत्तत एवैनां पीडयेत् । एतद्रहस्यं युवतीनां इति सुवर्णनाभः ॥१६॥
गात्राणां स्रंसनं नेत्रनिमीलनं व्रीडानाशः समधिका च रतियोजनेति स्त्रीणां भावलक्षणम् हस्तौ विधुनोति स्विद्यति दशत्युत्थातुं न ददाति पादेनाहन्ति रतावमाने च पुरुषातिवर्तिनी ॥१७॥
तस्याः प्राग्यन्त्रयोगात्करेण संबाधं गज इव क्षोभयेत् । आ मृदुभावात् । ततो यन्त्रयोजनम् ॥१९॥
उपसृप्तकं [१]मन्थनं [२]हुलो (२९) [३]अवमर्दनं [४]पीडितकं [५]निर्घातो [६]वराहघातो [७]वृषघातश्[८]चटकविलसितं [९]संपुट इति पुरुषोपसृप्तानि ॥२०॥
न्याय्यं ऋजुसंमिश्रणं उपसृप्तकम् ॥२१॥
हस्तेन लिङ्गं सर्वतो भ्रामयेदिति [१]मन्थनम् ॥२२॥
नीचीकृत्य जघनं उपरिष्टाद्घट्टयेदिति [२]हुलः ॥२३॥
तदेव विपरीतं सःरभसं [३]अवमर्दनम् ॥२४॥
लिङ्गेन समाहत्य पीडयंश्चिरं अवतिष्ठेतेति [४]पीडितकम् ॥२५॥
सुःदूरं उत्कृष्य वेगेन स्वजघनं अवपातयेदिति [५]निर्घातः ॥२६॥
एकत एव भूयिष्ठं अवलिखेदिति [६]वराहघातः ॥२७॥
स एवोभयतः पर्यायेण [७]वृषाघातः ॥२८॥
सकृन्मिश्रितं अःनिष्क्रमय्य द्विस्त्रिश्चतुरिति घट्टयेदिति [८]चटकविलसितम् ॥२९॥
रागावसानिकं व्याख्यातं करणं [९]संपुटं इति (३०) ॥३०॥
तेषां स्त्रीसात्म्याद्विकल्पेन प्रयोगः ॥३१॥
(प्रकरण)१७ (३१)
पुरुषायिते तु [१]संदंशो [२]भ्रमरकः [३]प्रेङ्खोलितम् (३२) इत्यधिकानि ॥३२॥
बाडवेन लिङ्गं अवगृह्य निष्कर्षन्त्याः पीडयन्त्या वा चिरावस्थानं [१]संदंशः ॥३३॥
युक्तयन्त्रा चक्रवद्भ्रमेदिति [२]भ्रमरक आभ्यासिकः ॥३४॥
तत्रेतरः स्वजघनं उत्क्षिपेत् ॥३५॥
जघनं एव दोलायमानं सर्वतो भ्रामयेदिति [३]प्रेङ्खोलितकम् ॥३६॥
युक्तयन्त्रैव ललाटे ललाटं निधाय विश्राम्येत ॥३७॥
विश्रान्तायां च पुरुषस्य पुनरावर्तनम् । इति पुरुषायितानि ॥३८॥
भवन्ति चात्र श्लोकाः ॥३९॥
व्प्रच्छादितस्वभावापि गूढाकारापि कामिनी । विवृणोत्येव भावं स्वं रागादुपरिवर्तिनी ॥३९॥
व्यथाशीला भवेन्नारी यथा च रतिलालसा । तस्या एव विचेष्टाभिस्तत्सर्वं उपलक्षयेत् ॥४०॥
व्न त्वेव र्तौ न प्रसूतां न मृगीं न च गर्भिणीम् । न चातिःव्यायतां (३३) नारीं योजयेत्पुरुषायिते ॥४१॥
चिति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे पुरुषोपसृप्तानि पुरुषायितं चाष्टमोऽध्यायः । आदितस्त्रयोदशः ॥८॥
N/A
References : N/A
Last Updated : June 27, 2014
TOP