अधिकरणम् २ - अध्यायः ६
महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.
रागकाले विशालयन्त्येव जघनं मृगी संविशेदुच्चरते ॥१॥
अवह्रासयन्तीव हस्तिनी नीचरते ॥२॥
न्याय्यो यत्र योगस्तत्र समपृष्ठम् ॥३॥
आभ्यां बडवा व्याख्याता ॥४॥
तत्र जघनेन नायकं प्रतिगृह्णीयात् ॥५॥
अपद्रव्याणि च सःविशेषं नीचरते ॥६॥
[१] उत्फुल्लकं [२] विजृम्भितकं [३] इन्द्राणिकं चेति त्रितयं मृग्याः प्रायेण ॥७॥
शिरो विनिपात्योर्ध्वं जघनं [१] उत्फुल्लकम् ॥८॥
तत्रापसारं दद्यात् ॥९॥
अःनीचे सक्थिनी (१९) तिर्यगवसज्य प्रतीछेदिति [२] विजृम्भितकम् ॥१०॥
पार्श्वयोः समं ऊरू विन्यस्य पार्श्वयोर्जानुनी निदध्यादित्यभ्यासयोगाद्[३] इन्द्राणी ॥११॥
तयोच्चतररतस्यापि परिग्रहः ॥१२॥
संपुटेन प्रतिग्रहो नीचरते ॥१३॥
एतेन नीचतररतेऽपि हस्तिन्याः ॥१४॥
[१] संपुटकं [२] पीडितकं [३] वेष्टितकं [४] बाडवकं इति ॥१५॥
ऋजुप्रसारितावुभावप्युभयोः चरनाविति [१] संपुटः ॥१६॥
स द्विविधः ण् पार्श्वसंपुट उत्तानसंपुटाश्च । तथा कर्मयोगात् ॥१७॥
पार्श्वेण तु शयानो दक्षिणेन नारीं अधिशयीतेति सार्वत्रिकं एतत् ॥१८॥
संपुटकप्रयुक्तयन्त्रेणैव दृढं ऊरू पीडयेदिति [२] पीडितकम् ॥१९॥
ऊरू व्यत्यस्येदिति [३] वेष्टितकम् ॥२०॥
बडवेव निष्ठुरं अवगृह्णीयादिति [४] बाडवकं आभ्यासिकम् ॥२१॥
तदान्ध्रीषु प्रायेण । इति संवेशनप्रकारा बाभ्रवीयाः ॥२२॥
सौवर्णनाभास्तु ॥२३॥
उभावप्यूरू ऊर्ध्वाविति तद्भुग्नकम् (२०) ॥२४॥
चरणावूर्ध्वं नायकोऽस्या धारयेदिति जृम्भितकम् ॥२५॥
तत्कुञ्चितावुत्पीडितकम् ॥२६॥
तदेकस्मिन्प्रसारितेऽर्धपीडितकम् ॥२७॥
नायकस्यांस एको द्वितीयकः प्रसारित इति पुनः पुनर्व्यत्यासेन वेणुदारितकम् ॥२८॥
एकः शिरस उपरि गच्छेद्द्वितीयः प्रसारित इति शूलचितकं आभ्यासिकम् ॥२९॥
संकुचितौ स्वस्तिदेशे निदध्यादिति कार्कटकम् ॥३०॥
ऊर्ध्वावूरू व्यत्यस्येदिति पीडितकम् ॥३१॥
जङ्घाव्यत्यासेन पद्मासनवत् ॥३२॥
पृष्ठं परिष्वजमानायाः पराङ्मुखेण परावृत्तकं आभ्यासिकम् जले च संविष्टोपविष्टस्थितात्मकांश्चित्रान्योगानुपलक्षयेत् । तथा सुःकरत्वादिति सुवर्णनाभः ॥३३॥
वार्तं तु तत् । शिष्टैरपस्मृतत्वादिति वात्स्यायनः ॥३५॥
प्रकरण)१४
अथ चित्ररतानि ॥३६॥
ऊर्ध्वस्थितयोर्यूनोः परस्परापाश्रययोः कुड्यस्तम्भापाश्रितयोर्वा स्थितरतम् ॥३७॥
कुड्यापाश्रितस्य कण्ठावसक्तबाहुपाशायास्तद्धस्तपञ्जरोपविष्टाया ऊरुपाशेन जघनं अभिवेष्टयन्त्या कुड्ये चरणक्रमेण वलन्त्या अवलम्बितकं रतम् ॥३८॥
भूमौ वा चतुष्पदवदास्थिताया वृषलीलयावस्कन्दनं धेनुकम् ॥३९॥
तत्र पृष्ठं उरःकर्माणि लभते ॥४०॥
एतेनैव योगेन शौनं ऐणेयं छागलं गर्दभाक्रान्तं मार्जारललितकं व्याघ्रावस्कन्दनं गजोपमर्दितं वराहघृष्टकं तुरगाधिरूढकं इति यत्र यत्र विशेषो योगोऽ पूर्वस्तत्तदुपलक्षयेत् ॥४१॥
मिश्रीकृतसद्भावाभ्यां द्वाभ्यां सह संघाटकं रतम् ॥४२॥
बह्वीभिश्च सह गोयूथिकम् ॥४३॥
वारिक्रीडितकं छागलं ऐणेयं इति तत्कर्मानुकृतियोगात् ॥४४॥
ग्रामनारीविषये (२१) स्त्रीराज्ये च बाह्लीके बहवो युवानोऽन्तःपुरसःधर्माण एकैकस्याः परिग्रहभूताः ॥४५॥
तेषां एकैकशो युगपच्च यथाःसात्म्यं यथाःयोगं च रञ्जयेयुः ॥४६॥
एको धारयेदेनां अन्यो निषेवेत । अन्यो जघनं मुखं अन्यो मध्यं अन्य इति वारं वारेण व्यतिकरेण चानुतिष्ठेयुः ॥४७॥
एतया गोष्ठीपरिग्रहा वेश्या राजयोषापरिग्राहश्च व्याख्यातः ॥४८॥
अधोरतं पायावपि दाक्षिणत्यानाम् । इति चित्ररतानि ॥४९॥
पुरुषोपसृप्तकानि पुरुषायिते वक्ष्यामः ॥५०॥
भवतश्चात्र श्लोकौ ॥५१॥
व्पशूनां मृगजातीनां पतङ्गानां च विभ्रमैः । तैस्तैरुपायैश्चित्तज्ञो रतियोगान्विवर्धयेत् ॥५१॥
व्तत्सात्म्याद्देशसात्म्याच्च तैस्तैर्भावैः प्रयोजितैः । स्त्रीणां स्नेहश्च रागश्च बहुमानश्च जायते ॥५२॥
चिति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे संवेशनप्रकाराश्चित्ररतानि च षष्ठोऽध्यायः । आदितो एकदशः ॥६॥
N/A
References : N/A
Last Updated : June 27, 2014
TOP