संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|व्यवहाराध्यायः| प्रकीर्णकप्रकरणम् व्यवहाराध्यायः साधारणव्यवहारमातृकाप्रकरणम् असाधारणव्यवहारमातृकाप्रकरणम् ऋणादानप्रकरणम् उपनिधिप्रकरणम् साक्षिप्रकरणम् लेख्यप्रकरणम् दिव्यप्रकरणम् दायविभागप्रकरणम् सीमाविवादप्रकरणम् स्वामिपालविवादप्रकरणम् अस्वामिविक्रयप्रकरणम् दत्ताप्रदानिकप्रकरणम् क्रीतानुशयप्रकरणम् अभ्युपेत्याशुश्रूषाप्रकरणम् संविद्व्यतिक्रमप्रकरणम् वेतनादानप्रकरणम् द्यूतसमाह्वयप्रकरणम् वाक्पारुष्यप्रकरणम् दण्डपारुष्यप्रकरणम् साहसप्रकरणम् विक्रीयासंप्रदानप्रकरणम् संभूयसमुत्थानप्रकरणम् स्तेयप्रकरणम् स्त्रीसंग्रहणप्रकरणम् प्रकीर्णकप्रकरणम् व्यवहाराध्यायः - प्रकीर्णकप्रकरणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritiyadnyavalkyaधर्मयाज्ञवल्क्य स्मृतिःसंस्कृतस्मृतिः प्रकीर्णकप्रकरणम् Translation - भाषांतर ऊनं वाभ्यधिकं वापि लिखेद्यो राजशासनम् ।पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः ॥२.२९५॥ अभक्ष्येण द्विजं दूष्यो दण्ड्य उत्तमसाहसम् ।मध्यमं क्षत्रियं वैश्यं प्रथमं शूद्रं अर्धिकम् ॥२.२९६॥ कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी ।त्र्यङ्गहीनस्तु कर्तव्यो दाप्यश्चोत्तमसाहसम् ॥२.२९७॥ चतुष्पादकृतो दोषो नापेहीति प्रजल्पतः ।काष्ठलोष्टेषुपाषाण बाहुयुग्यकृतस्तथा ॥२.२९८॥ छिन्ननस्येन यानेन तथा भग्नयुगादिना ।पश्चाच्चैवापसरता हिंसने स्वाम्यदोषभाक् ॥२.२९९॥ शक्तोऽप्यमोक्षयन्स्वामी दंष्ट्रिणां शृङ्गिणां तथा ।प्रथमं साहसं दद्याद्विक्रुष्टे द्विगुणं तथा ॥२.३००॥ जारं चौरेत्यभिवदन्दाप्यः पञ्चशतं दमम् ।उपजीव्य धनं मुञ्चंस्तदेवाष्टगुणीकृतम् ॥२.३०१॥ राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम् ।तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ॥२.३०२॥ मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस्तथा ।राजयानासनारोढुर्दण्ड उत्तमसाहसः ॥२.३०३॥ द्विनेत्रभेदिनो राज द्विष्टादेशकृतस्तथा ।विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः ॥२.३०४॥ दुर्दृष्टांस्तु पुनर्दृष्ट्वा व्यवहारान्नृपेण तु ।सभ्याः सजयिनो दण्ड्या विवादाद्द्विगुणं दमम् ॥२.३०५॥ यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः ।तं आयान्तं पुनर्जित्वा दापयेद्द्विगुणं दमम् ॥२.३०६॥ राज्ञान्यायेन यो दण्डो गृहीतो वरुणाय तम् ।निवेद्य दद्याद्विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥२.३०७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP