संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|व्यवहाराध्यायः| ऋणादानप्रकरणम् व्यवहाराध्यायः साधारणव्यवहारमातृकाप्रकरणम् असाधारणव्यवहारमातृकाप्रकरणम् ऋणादानप्रकरणम् उपनिधिप्रकरणम् साक्षिप्रकरणम् लेख्यप्रकरणम् दिव्यप्रकरणम् दायविभागप्रकरणम् सीमाविवादप्रकरणम् स्वामिपालविवादप्रकरणम् अस्वामिविक्रयप्रकरणम् दत्ताप्रदानिकप्रकरणम् क्रीतानुशयप्रकरणम् अभ्युपेत्याशुश्रूषाप्रकरणम् संविद्व्यतिक्रमप्रकरणम् वेतनादानप्रकरणम् द्यूतसमाह्वयप्रकरणम् वाक्पारुष्यप्रकरणम् दण्डपारुष्यप्रकरणम् साहसप्रकरणम् विक्रीयासंप्रदानप्रकरणम् संभूयसमुत्थानप्रकरणम् स्तेयप्रकरणम् स्त्रीसंग्रहणप्रकरणम् प्रकीर्णकप्रकरणम् व्यवहाराध्यायः - ऋणादानप्रकरणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritiyadnyavalkyaधर्मयाज्ञवल्क्य स्मृतिःसंस्कृतस्मृतिः ऋणादानप्रकरणम् Translation - भाषांतर अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके ।वर्णक्रमाच्छतं द्वित्रि चतुष्पञ्चकं अन्यथा ॥२.३७॥ कान्तारगास्तु दशकं सामुद्रा विंशकं शतम् ।दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥२.३८॥ संततिस्तु पशुस्त्रीणां रसस्याष्टगुणा परा ।वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा ॥२.३९॥ प्रपन्नं साधयन्नर्थं न वाच्यो नृपतेर्भवेत् ।साध्यमानो नृपं गच्छन्दण्ड्यो दाप्यश्च तद्धनम् ॥२.४०॥ गृहीतानुक्रमाद्दाप्यो धनिनां अधमर्णिकः ।दत्त्वा तु ब्राह्मणायैव नृपतेस्तदनन्तरम् ॥२.४१॥ राज्ञाधमर्णिको दाप्यः साधिताद्दशकं शतम् ।पञ्चकं च शतं दाप्यः प्राप्तार्थो ह्युत्तमर्णिकः ॥२.४२॥ हीनजातिं परिक्षीणं ऋणार्थं कर्म कारयेत् ।ब्राह्मणस्तु परिक्षीणः शनैर्दाप्यो यथोदयम् ॥२.४३॥ दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् ।मध्यस्थस्थापितं चेत्स्याद्वर्धते न ततः परम् ॥२.४४॥ अविभक्तैः कुटुम्बार्थे यदृणं तु कृतं भवेत् ।दद्युस्तद्रिक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥२.४५॥ न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता ।दद्यादृते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा ॥२.४६॥ सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम् ।वृथादानं तथैवेह पुत्रो दद्यान्न पैतृकम् ॥२.४७॥ गोपशौण्डिकशैलूष रजकव्याधयोषिताम् ।ऋणं दद्यात्पतिस्तेषां यस्माद्वृत्तिस्तदाश्रया ॥२.४८॥ प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत्कृतम् ।स्वयंकृतं वा यदृणं नान्यत्स्त्री दातुं अर्हति ॥२.४९॥ पितरि प्रोषिते प्रेते व्यसनाभिप्लुतेऽपि वा ।पुत्रपौत्रैरृणं देयं निह्नवे साक्षिभावितम् ॥२.५०॥ रिक्थग्राह ऋणं दाप्यो योषिद्ग्राहस्तथैव च ।पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ॥२.५१॥ भ्रातॄणां अथ दंपत्योः पितुः पुत्रस्य चैव हि ।प्रातिभाव्यं ऋणं साक्ष्यं अविभक्ते न तु स्मृतम् ॥२.५२॥ दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते ।आद्यौ तु वितथे दाप्यावितरस्य सुता अपि ॥२.५३॥ दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिकोऽपि वा ।न तत्पुत्रा ऋणं दद्युर्दद्युर्दानाय यः स्थितः ॥२.५४॥ बहवः स्युर्यदि स्वांशैर्दद्युः प्रतिभुवो धनम् ।एकच्छायाश्रितेष्वेषु धनिकस्य यथारुचि ॥२.५५॥ प्रतिभूर्दापितो यत्तु प्रकाशं धनिनो धनम् ।द्विगुणं प्रतिदातव्यं ऋणिकैस्तस्य तद्भवेत् ॥२.५६॥ संततिः स्त्रीपशुष्वेव धान्यं त्रिगुणं एव च ।वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तथा ॥२.५७॥ आधिः प्रणश्येद्द्विगुणे धने यदि न मोक्ष्यते ।काले कालकृतो नश्येत्फलभोग्यो न नश्यति ॥२.५८॥ गोप्याधिभोगे नो वृद्धिः सोपकारे च हापिते ।नष्टो देयो विनष्टश्च दैवराजकृतादृते ॥२.५९॥ आधेः स्वीकरणात्सिद्धी रक्ष्यमाणोऽप्यसारताम् ।यातश्चेदन्य आधेयो धनभाग्वा धनी भवेत् ॥२.६०॥ चरित्रबन्धककृतं स वृद्ध्या दापयेद्धनम् ।सत्यंकारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् ॥२.६१॥ उपस्थितस्य मोक्तव्य आधिः स्तेनोऽन्यथा भवेत् ।प्रयोजकेऽसति धनं कुले न्यस्याधिं आप्नुयात् ॥२.६२॥ तत्कालकृतमूल्यो वा तत्र तिष्ठेदवृद्धिकः ।विना धारणकाद्वापि विक्रीणीत ससाक्षिकम् ॥२.६३॥ यदा तु द्विगुणीभूतं ऋणं आधौ तदा खलु ।मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥२.६४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP