संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|व्यवहाराध्यायः| असाधारणव्यवहारमातृकाप्रकरणम् व्यवहाराध्यायः साधारणव्यवहारमातृकाप्रकरणम् असाधारणव्यवहारमातृकाप्रकरणम् ऋणादानप्रकरणम् उपनिधिप्रकरणम् साक्षिप्रकरणम् लेख्यप्रकरणम् दिव्यप्रकरणम् दायविभागप्रकरणम् सीमाविवादप्रकरणम् स्वामिपालविवादप्रकरणम् अस्वामिविक्रयप्रकरणम् दत्ताप्रदानिकप्रकरणम् क्रीतानुशयप्रकरणम् अभ्युपेत्याशुश्रूषाप्रकरणम् संविद्व्यतिक्रमप्रकरणम् वेतनादानप्रकरणम् द्यूतसमाह्वयप्रकरणम् वाक्पारुष्यप्रकरणम् दण्डपारुष्यप्रकरणम् साहसप्रकरणम् विक्रीयासंप्रदानप्रकरणम् संभूयसमुत्थानप्रकरणम् स्तेयप्रकरणम् स्त्रीसंग्रहणप्रकरणम् प्रकीर्णकप्रकरणम् व्यवहाराध्यायः - असाधारणव्यवहारमातृकाप्रकरणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritiyadnyavalkyaधर्मयाज्ञवल्क्य स्मृतिःसंस्कृतस्मृतिः असाधारणव्यवहारमातृकाप्रकरणम् Translation - भाषांतर अभियोगं अनिस्तीर्य नैनं प्रत्यभियोजयेत् ।अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् ॥२.९॥ कुर्यात्प्रत्यभियोगं च कलहे साहसेषु च ।उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्यनिर्णये ॥२.१०॥ निह्नवे भावितो दद्याद्धनं राज्ञे च तत्समम् ।मिथ्याभियोगी द्विगुणं अभियोगाद्धनं वहेत् ॥२.११॥ साहसस्तेयपारुष्य गोऽभिशापात्यये स्त्रियाम् ।विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥२.१२॥ देशाद्देशान्तरं याति सृक्किणी परिलेढि च ।ललाटं स्विद्यते चास्य मुखं वैवर्ण्यं एति च ॥२.१३॥ परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषिते ।वाक्चक्षुः पूजयति नो तथौष्ठौ निर्भुजत्यपि ॥२.१४॥ स्वभावाद्विकृतिं गच्छेन्मनोवाक्कायकर्मभिः ।अभियोगेऽथ साक्ष्ये वा दुष्टः स परिकीर्तितः ॥२.१५॥ संदिग्धार्थं स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् ।न चाहूतो वदेत्किंचिद्धीनो दण्ड्यश्च स स्मृतः ॥२.१६॥ साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ।पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥२.१७॥ सपणश्चेद्विवादः स्यात्तत्र हीनं तु दापयेत् ।दण्डं च स्वपणं चैव धनिने धनं एव च ॥२.१८॥ छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः ।भूतं अप्यनुपन्यस्तं हीयते व्यवहारतः ॥२.१९॥ निह्नुते लिखितं नैकं एकदेशे विभावितः ।दाप्यः सर्वं नृपेणार्थं न ग्राह्यस्त्वनिवेदितः ॥२.२०॥ स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः ।अर्थशास्त्रात्तु बलवद्धर्मशास्त्रं इति स्थितिः ॥२.२१॥ प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम् ।एषां अन्यतमाभावे दिव्यान्यतमं उच्यते ॥२.२२॥ सर्वेष्वर्थविवादेषु बलवत्युत्तराक्रिया ।आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ॥२.२३॥ पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ।परेण भुज्यमानाया धनस्य दशवार्षिकी ॥२.२४॥ आधिसीमोपनिक्षेप जडबालधनैर्विना ।तथोपनिधिराजस्त्री श्रोत्रियाणां धनैरपि ॥२.२५॥ आध्यादीनां विहर्तारं धनिने दापयेद्धनम् ।दण्डं च तत्समं राज्ञे शक्त्यपेक्षं अथापि वा ॥२.२६॥ आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् ।आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥२.२७॥ आगमस्तु कृतो येन सोऽभियुक्तस्तं उद्धरेत् ।न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ॥२.२८॥ योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तं उद्धरेत् ।न तत्र कारणं भुक्तिरागमेन विनाकृता ॥२.२९॥ नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च ।पूर्वं पूर्वं गुरु ज्ञेयं व्यवहारविधौ नृणाम् ॥२.३०॥ बलोपाधिविनिर्वृत्तान्व्यवहारान्निवर्तयेत् ।स्त्रीनक्तमन्तरागार बहिःशत्रुकृतांस्तथा ॥२.३१॥ मत्तोन्मत्तार्तव्यसनि बालभीतादियोजितः ।असंबद्धकृतश्चैव व्यवहारो न सिध्यति ॥२.३२॥ प्रनष्टाधिगतं देयं नृपेण धनिने धनम् ।विभावयेन्न चेल्लिङ्गैस्तत्समं दण्डं अर्हति ॥२.३३॥ राजा लब्ध्वा निधिं दद्याद्द्विजेभ्योऽर्धं द्विजः पुनः ।विद्वानशेषं आदद्यात्स सर्वस्य प्रभुर्यतः ॥२.३४॥ इतरेण निधौ लब्धे राजा षष्ठांशं आहरेत् ।अनिवेदितविज्ञातो दाप्यस्तं दण्डं एव च ॥२.३५॥ देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु ।अददद्धि समाप्नोति किल्बिषं यस्य तस्य तत् ॥२.३६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP