संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|आचाराध्यायः| राजधर्मप्रकरणम् आचाराध्यायः उपोद्घातप्रकरणम् ब्रह्मचारिप्रकरणम् विवाहप्रकरणम् वर्णजातिविवेकप्रकरणम् गृहस्थधर्मप्रकरणम् स्नातकधर्मप्रकरणम् भक्ष्याभक्ष्यप्रकरणम् द्रव्यशुद्धिप्रकरणम् दानप्रकरणम् श्राद्धप्रकरणम् गणपतिकल्पप्रकरणम् ग्रहशान्तिप्रकरणम् राजधर्मप्रकरणम् आचाराध्यायः - राजधर्मप्रकरणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritiyadnyavalkyaधर्मयाज्ञवल्क्य स्मृतिःसंस्कृतस्मृतिः राजधर्मप्रकरणम् Translation - भाषांतर महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः ।विनीतः सत्त्वसंपन्नः कुलीनः सत्यवाक्शुचिः ॥१.३०९॥ अदीर्घसूत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा ।धार्मिकोऽव्यसनश्चैव प्राज्ञः शूरो रहस्यवित् ॥१.३१०॥ स्वरन्ध्रगोप्तान्वीक्षिक्यां दण्डनीत्यां तथैव च ।विनीतस्त्वथ वार्तायां त्रय्यां चैव नराधिपः ॥१.३११॥ स मन्त्रिणः प्रकुर्वीत प्राज्ञान्मौलान्स्थिरान्शुचीन् ।तैः सार्धं चिन्तयेद्राज्यं विप्रेणाथ ततः स्वयम् ॥१.३१२॥ पुरोहितं प्रकुर्वीत दैवज्ञं उदितोदितम् ।दण्डनीत्यां च कुशलं अथर्वाङ्गिरसे तथा ॥१.३१३॥ श्रौतस्मार्तक्रियाहेतोर्वृणुयादेव च र्त्विजः ।यज्ञांश्चैव प्रकुर्वीत विधिवद्भूरिदक्षिणान् ॥१.३१४॥ भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च ।अक्षयोऽयं निधी राज्ञां यद्विप्रेषूपपादितम् ॥१.३१५॥ अस्कन्नं अव्यथं चैव प्रायश्चित्तैरदूषितम् ।अग्नेः सकाशाद्विप्राग्नौ हुतं श्रेष्ठं इहोच्यते ॥१.३१६॥ अलब्धं ईहेद्धर्मेण लब्धं यत्नेन पालयेत् ।पालितं वर्धयेन्नीत्या वृद्धं पात्रेषु निक्षिपेत् ॥१.३१७॥ दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।आगामिभद्रनृपति परिज्ञानाय पार्थिवः ॥१.३१८॥ पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् ।अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः ॥१.३१९॥ प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् ।स्वहस्तकालसंपन्नं शासनं कारयेत्स्थिरम् ॥१.३२०॥ रम्यं पशव्यं आजीव्यं जाङ्गलं देशं आवसेत् ।तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये ॥१.३२१॥ तत्र तत्र च निष्णातानध्यक्षान्कुशलान्शुचीन् ।प्रकुर्यादायकर्मान्त व्ययकर्मसु चोद्यतान् ॥१.३२२॥ नातः परतरो धर्मो नृपाणां यद्रणार्जितम् ।विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा ॥१.३२३॥ य आहवेषु वध्यन्ते भूम्यर्थं अपराङ्मुखाः ।अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा ॥१.३२४॥ पदानि क्रतुतुल्यानि भग्नेष्वविनिवर्तिनाम् ।राजा सुकृतं आदत्ते हतानां विपलायिनाम् ॥१.३२५॥ तवाहंवादिनं क्लीबं निर्हेतिं परसंगतम् ।न हन्याद्विनिवृत्तं च युद्धप्रेक्षणकादिकम् ॥१.३२६॥ कृतरक्षः समुत्थाय पश्येदायव्ययौ स्वयम् ।व्यवहारांस्ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः ॥१.३२७॥ हिरण्यं व्यापृतानीतं भाण्डागारेषु निक्षिपेत् ।पश्येच्चारांस्ततो दूतान्प्रेषयेन्मन्त्रिसंगतः ॥१.३२८॥ ततः स्वैरविहारी स्यान्मन्त्रिभिर्वा समागतः ।बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥१.३२९॥ संध्यां उपास्य शृणुयाच्चाराणां गूढभाषितम् ।गीतनृत्यैश्च भुञ्जीत पठेत्स्वाध्यायं एव च ॥१.३३०॥ संविशेत्तूर्यघोषेण प्रतिबुध्येत्तथैव च ।शास्त्राणि चिन्तयेद्बुद्ध्या सर्वकर्तव्यतास्तथा ॥१.३३१॥ प्रेषयेच्च ततश्चारान्स्वेष्वन्येषु च सादरान् ।ऋत्विक्पुरोहिताचार्यैराशीर्भिरभिनन्दितः ॥१.३३२॥ दृष्ट्वा ज्योतिर्विदो वैद्यान्दद्याद्गां काञ्चनं महीम् ।नैवेशिकानि च ततः श्रोत्रियेभ्यो गृहाणि च ॥१.३३३॥ ब्राह्मणेषु क्षमी स्निग्धेष्वजिह्मः क्रोधनोऽरिषु ।स्याद्राजा भृत्यवर्गेषु प्रजासु च यथा पिता ॥१.३३४॥ पुण्यात्षड्भागं आदत्ते न्यायेन परिपालयन् ।सर्वदानाधिकं यस्मात्प्रजानां परिपालनम् ॥१.३३५॥ चाटतस्करदुर्वृत्त महासाहसिकादिभिः ।पीड्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषतः ॥१.३३६॥ अरक्ष्यमाणाः कुर्वन्ति यत्किंचित्किल्बिषं प्रजाः ।तस्मात्तु नृपतेरर्धं यस्माद्गृह्णात्यसौ करान् ॥१.३३७॥ ये राष्ट्राधिकृतास्तेषां चारैर्ज्ञात्वा विचेष्टितम् ।साधून्सम्मानयेद्राजा विपरीतांश्च घातयेत् ॥१.३३८॥ उत्कोचजीविनो द्रव्य हीनान्कृत्वा विवासयेत् ।सद्दानमानसत्कारान्श्रोत्रियान्वासयेत्सदा ॥१.३३९॥ अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिवर्धयेत् ।सोऽचिराद्विगतश्रीको नाशं एति सबान्धवः ॥१.३४०॥ प्रजापीडनसंतापात्समुद्भूतो हुताशनः ।राज्ञः कुलं श्रियं प्राणांश्चादग्ध्वा न निवर्तते ॥१.३४१॥ य एव नृपतेर्धर्मः स्वराष्ट्रपरिपालने ।तं एव कृत्स्नं आप्नोति परराष्ट्रं वशं नयन् ॥१.३४२॥ यस्मिन्देशे य आचारो व्यवहारः कुलस्थितिः ।तथैव परिपाल्योऽसौ यदा वशं उपागतः ॥१.३४३॥ मन्त्रमूलं यतो राज्यं तस्मान्मन्त्रं सुरक्षितम् ।कुर्याद्यथास्य न विदुः कर्मणां आफलोदयात् ॥१.३४४॥ अरिर्मित्रं उदासीनोऽनन्तरस्तत्परः परः ।क्रमशो मण्डलं चिन्त्यं सामादिभिरुपक्रमैः ॥१.३४५॥ उपायाः साम दानं च भेदो दण्डस्तथैव च ।सम्यक्प्रयुक्ताः सिध्येयुर्दण्डस्त्वगतिका गतिः ॥१.३४६॥ संधिं च विग्रहं यानं आसनं संश्रयं तथा ।द्वैधीभावं गुणानेतान्यथावत्परिकल्पयेत् ॥१.३४७॥ यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् ।परश्च हीन आत्मा च हृष्टवाहनपूरुषः ॥१.३४८॥ दैवे पुरुषकारे च कर्मसिद्धिर्व्यवस्थिता ।तत्र दैवं अभिव्यक्तं पौरुषं पौर्वदेहिकम् ॥१.३४९॥ केचिद्दैवात्स्वभावाद्वा कालात्पुरुषकारतः ।संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः ॥१.३५०॥ यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् ।एवं पुरुषकारेण विना दैवं न सिध्यति ॥१.३५१॥ हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः ।अतो यतेत तत्प्राप्त्यै रक्षेत्सत्यं समाहितः ॥१.३५२॥ स्वाम्यमात्या जनो दुर्गं कोशो दण्डस्तथैव च ।मित्राण्येताः प्रकृतयो राज्यं सप्ताङ्गं उच्यते ॥१.३५३॥ तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् ।धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥१.३५४॥ स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना ।सत्यसंधेन शुचिना सुसहायेन धीमता ॥१.३५५॥ यथाशास्त्रं प्रयुक्तः सन्सदेवासुरमानवम् ।जगदानन्दयेत्सर्वं अन्यथा तत्प्रकोपयेत् ॥१.३५६॥ अधर्मदण्डनं स्वर्ग कीर्तिलोकविनाशनम् ।सम्यक्तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ॥१.३५७॥ अपि भ्राता सुतोऽर्घ्यो वा श्वशुरो मातुलोऽपि वा ।नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥१.३५८॥ यो दण्ड्यान्दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत् ।इष्टं स्यात्क्रतुभिस्तेन समाप्तवरदक्षिणैः ॥१.३५९॥ इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् ।व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ॥१.३६०॥ कुलानि जातीः श्रेणीश्च गणान्जानपदानपि ।स्वधर्माच्चलितान्राजा विनीय स्थापयेत्पथि ॥१.३६१॥ जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् ।तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते ॥१.३६२॥ गौरस्तु ते त्रयः षट्ते यवो मध्यस्तु ते त्रयः ।कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोडश ॥१.३६३॥ पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् ।द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते ॥१.३६४॥ शतमानं तु दशभिर्धरणैः पलं एव तु ।निष्कं सुवर्णाश्चत्वारः कार्षिकस्ताम्रिकः पणः ॥१.३६५॥ साशीतिपणसाहस्रो दण्ड उत्तमसाहसः ।तदर्धं मध्यमः प्रोक्तस्तदर्धं अधमः स्मृतः ॥१.३६६॥ धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा ।योज्या व्यस्ताः समस्ता वा ह्यपराधवशादिमे ॥१.३६७॥ ज्ञात्वापराधं देशं च कालं बलं अथापि वा ।वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥१.३६८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP