संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|आचाराध्यायः| ब्रह्मचारिप्रकरणम् आचाराध्यायः उपोद्घातप्रकरणम् ब्रह्मचारिप्रकरणम् विवाहप्रकरणम् वर्णजातिविवेकप्रकरणम् गृहस्थधर्मप्रकरणम् स्नातकधर्मप्रकरणम् भक्ष्याभक्ष्यप्रकरणम् द्रव्यशुद्धिप्रकरणम् दानप्रकरणम् श्राद्धप्रकरणम् गणपतिकल्पप्रकरणम् ग्रहशान्तिप्रकरणम् राजधर्मप्रकरणम् आचाराध्यायः - ब्रह्मचारिप्रकरणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritiyadnyavalkyaधर्मयाज्ञवल्क्य स्मृतिःसंस्कृतस्मृतिः ब्रह्मचारिप्रकरणम् Translation - भाषांतर ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः ।निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः ॥१.१०॥ गर्भाधानं ऋतौ पुंसः सवनं स्पन्दनात्पुरा ।षष्ठेऽष्टमे वा सीमन्तो मास्येते जातकर्म च ॥१.११॥ अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः ।षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥१.१२॥ एवं एनः शमं याति बीजगर्भसमुद्भवम् ।तूष्णीं एताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः ॥१.१३॥ गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।राज्ञां एकादशे सैके विशां एके यथाकुलम् ॥१.१४॥ उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।वेदं अध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥१.१५॥ दिवासंध्यासु कर्णस्थ ब्रह्मसूत्रोदङ्मुखः ।कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः ॥१.१६॥ गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः ।गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ॥१.१७॥ अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः ।प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यं उपस्पृशेत् ॥१.१८॥ कनिष्ठादेशिन्यङ्गुष्ठ मूलान्यग्रं करस्य च ।प्रजापतिपितृब्रह्म देवतीर्थान्यनुक्रमात् ॥१.१९॥ त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् ।अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः ॥१.२०॥ हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः ।शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥१.२१॥ स्नानं अब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः ।सूर्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जपः ॥१.२२॥ गायत्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् ।प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः ॥१.२३॥ प्राणानायम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु ।जपन्नासीत सावित्रीं प्रत्यगातारकोदयात् ॥१.२४॥ संध्यां प्राक्प्रातरेवं हि तिष्ठेदासूर्यदर्शनात् ।अग्निकार्यं ततः कुर्यात्संध्ययोरुभयोरपि ॥१.२५॥ ततोऽभिवादयेद्वृद्धानसावहं इति ब्रुवन् ।गुरुं चैवाप्युपासीत स्वाध्यायार्थं समाहितः ॥१.२६॥ आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत् ।हितं तस्याचरेन्नित्यं मनोवाक्कायकर्मभिः ॥१.२७॥ कृतज्ञाद्रोहिमेधावि शुचिकल्यानसूयकाः ।अध्याप्या धर्मतः साधु शक्ताप्तज्ञानवित्तदाः ॥१.२८॥ दण्डाजिनोपवीतानि मेखलां चैव धारयेत् ।ब्राह्मणेषु चरेद्भैक्षं अनिन्द्येष्वात्मवृत्तये ॥१.२९॥ आदिमध्यावसानेषु भवच्छब्दोपलक्षिता ।ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् ॥१.३०॥ कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया ।आपोशानक्रियापूर्वं सत्कृत्यान्नं अकुत्सयन् ॥१.३१॥ ब्रह्मचर्ये स्थितो नैकं अन्नं अद्यादनापदि ।ब्राह्मणः कामं अश्नीयाच्छ्राद्धे व्रतं अपीडयन् ॥१.३२॥ मधुमांसाञ्जनोच्छिष्ट शुक्तस्त्रीप्राणिहिंसनम् ।भास्करालोकनाश्लील परिवादादि वर्जयेत् ॥१.३३॥ स गुरुर्यः क्रियाः कृत्वा वेदं अस्मै प्रयच्छति ।उपनीय ददद्वेदं आचार्यः स उदाहृतः ॥१.३४॥ एकदेशं उपाध्याय ऋत्विग्यज्ञकृदुच्यते ।एते मान्या यथापूर्वं एभ्यो माता गरीयसी ॥१.३५॥ प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा ।ग्रहणान्तिकं इत्येके केशान्तश्चैव षोडशे ॥१.३६॥ आषोडशादाद्वाविंशाच्चतुर्विंशाच्च वत्सरात् ।ब्रह्मक्षत्रविशां कालौपनायनिकः परः ॥१.३७॥ अत ऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः ।सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः ॥१.३८॥ मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् ।ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः ॥१.३९॥ यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ।वेद एव द्विजातीनां निःश्रेयसकरः परः ॥१.४०॥ मधुना पयसा चैव स देवांस्तर्पयेद्द्विजः ।पितॄन्मधुघृताभ्यां च ऋचोऽधीते च योऽन्वहम् ॥१.४१॥ यजूंषि शक्तितोऽधीते योऽन्वहं स घृतामृतैः ।प्रीणाति देवानाज्येन मधुना च पितॄंस्तथा ॥१.४२॥ स तु सोमघृतैर्देवांस्तर्पयेद्योऽन्वहं पठेत् ।सामानि तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा ॥१.४३॥ मेदसा तर्पयेद्देवानथर्वाङ्गिरसः पठन् ।पितॄंश्च मधुसर्पिर्भ्यां अन्वहं शक्तितो द्विजः ॥१.४४॥ वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः ।इतिहासांस्तथा विद्याः शक्त्याधीते हि योऽन्वहम् ॥१.४५॥ मांसक्षीरौदनमधु तर्पणं स दिवौकसाम् ।करोति तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा ॥१.४६॥ ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः ।यं यं क्रतुं अधीते च तस्य तस्याप्नुयात्फलम् ॥१.४७॥ त्रिर्वित्तपूर्णपृथिवी दानस्य फलं अश्नुते ।तपसश्च परस्येह नित्यं स्वाध्यायवान्द्विजः ॥१.४८॥ नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसंनिधौ ।तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा ॥१.४९॥ अनेन विधिना देहं सादयन्विजितेन्द्रियः ।ब्रह्मलोकं अवाप्नोति न चेहाजायते पुनः ॥१.५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP