संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|आचाराध्यायः| द्रव्यशुद्धिप्रकरणम् आचाराध्यायः उपोद्घातप्रकरणम् ब्रह्मचारिप्रकरणम् विवाहप्रकरणम् वर्णजातिविवेकप्रकरणम् गृहस्थधर्मप्रकरणम् स्नातकधर्मप्रकरणम् भक्ष्याभक्ष्यप्रकरणम् द्रव्यशुद्धिप्रकरणम् दानप्रकरणम् श्राद्धप्रकरणम् गणपतिकल्पप्रकरणम् ग्रहशान्तिप्रकरणम् राजधर्मप्रकरणम् आचाराध्यायः - द्रव्यशुद्धिप्रकरणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritiyadnyavalkyaधर्मयाज्ञवल्क्य स्मृतिःसंस्कृतस्मृतिः द्रव्यशुद्धिप्रकरणम् Translation - भाषांतर सौवर्णराजताब्जानां ऊर्ध्वपात्रग्रहाश्मनाम् ।शाकरज्जुमूलफल वासोविदलचर्मणाम् ॥१.१८२॥ पात्राणां चमसानां च वारिणा शुद्धिरिष्यते ।चरुस्रुक्स्रुवसस्नेह पात्राण्युष्णेन वारिणा ॥१.१८३॥ स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलानसाम् ।प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् ॥१.१८४॥ तक्षणं दारुशृङ्गास्थ्नां गोवालैः फलसंभुवाम् ।मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥१.१८५॥ सोषरोदकगोमूत्रैः शुध्यत्याविककौशिकम् ।सश्रीफलैरंशुपट्टं सारिष्टैः कुतपं तथा ॥१.१८६॥ सगौरसर्षपैः क्षौमं पुनःपाकान्महीमयम् ।कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा ॥१.१८७॥ भूशुद्धिर्मार्जनाद्दाहात्कालाद्गोक्रमणात्तथा ।सेकादुल्लेखनाल्लेपाद्गृहं मार्जनलेपनात् ॥१.१८८॥ गोघ्रातेऽन्ने तथा केश मक्षिकाकीटदूषिते ।सलिलं भस्म मृद्वापि प्रक्षेप्तव्यं विशुद्धये ॥१.१८९॥ त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः ।भस्माद्भिः कांस्यलोहानां शुद्धिः प्लावो द्रवस्य च ॥१.१९०॥ अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धादिकर्षणात् ।वाक्शस्तं अम्बुनिर्णिक्तं अज्ञातं च सदा शुचि ॥१.१९१॥ शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् ।तथा मांसं श्वचण्डाल क्रव्यादादिनिपातितम् ॥१.१९२॥ रश्मिरग्नी रजश्छाया गौरश्वो वसुधानिलः ।विप्रुषो मक्षिकाः स्पर्शे वत्सः प्रस्नवने शुचिः ॥१.१९३॥ अजाश्वयोर्मुखं मेध्यं न गोर्न नरजा मलाः ।पन्थानश्च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥१.१९४॥ मुखजा विप्रुषो मेध्यास्तथाचमनबिन्दवः ।श्मश्रु चास्यगतं दन्त सक्तं त्यक्त्वा ततः शुचिः ॥१.१९५॥ स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे ।आचान्तः पुनराचामेद्वासो विपरिधाय च ॥१.१९६॥ रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः ।मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥१.१९७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP