संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|आचाराध्यायः| स्नातकधर्मप्रकरणम् आचाराध्यायः उपोद्घातप्रकरणम् ब्रह्मचारिप्रकरणम् विवाहप्रकरणम् वर्णजातिविवेकप्रकरणम् गृहस्थधर्मप्रकरणम् स्नातकधर्मप्रकरणम् भक्ष्याभक्ष्यप्रकरणम् द्रव्यशुद्धिप्रकरणम् दानप्रकरणम् श्राद्धप्रकरणम् गणपतिकल्पप्रकरणम् ग्रहशान्तिप्रकरणम् राजधर्मप्रकरणम् आचाराध्यायः - स्नातकधर्मप्रकरणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritiyadnyavalkyaधर्मयाज्ञवल्क्य स्मृतिःसंस्कृतस्मृतिः स्नातकधर्मप्रकरणम् Translation - भाषांतर न स्वाध्यायविरोध्यर्थं ईहेत न यतस्ततः ।न विरुद्धप्रसङ्गेन संतोषी च भवेत्सदा ॥१.१२९॥ राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा ।दम्भिहैतुकपाखण्डि बकवृत्तींश्च वर्जयेत् ॥१.१३०॥ शुक्लाम्बरधरो नीच केशश्मश्रुनखः शुचिः ।न भार्यादर्शनेऽश्नीयान्नैकवासा न संस्थितः ॥१.१३१॥ न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् ।नाहितं नानृतं चैव न स्तेनः स्यान्न वार्धुषी ॥१.१३२॥ दाक्षायणी ब्रह्मसूत्री वेणुमान्सकमण्डलुः ।कुर्यात्प्रदक्षिणं देव मृद्गोविप्रवनस्पतीन् ॥१.१३३॥ न तु मेहेन्नदीछाया वर्त्मगोष्ठाम्बुभस्मसु ।न प्रत्यग्न्यर्कगोसोम संध्याम्बुस्त्रीद्विजन्मनः ॥१.१३४॥ नेक्षेतार्कं न नग्नां स्त्रीं न च संसृष्टमैथुनाम् ।न च मूत्रं पुरीषं वा नाशुची राहुतारकाः ॥१.१३५॥ अयं मे वज्र इत्येवं सर्वं मन्त्रं उदीरयेत् ।वर्षत्यप्रावृतो गच्छेत्स्वपेत्प्रत्यक्शिरा न च ॥१.१३६॥ ष्ठीवनासृक्शकृन्मूत्र रेतांस्यप्सु न निक्षिपेत् ।पादौ प्रतापयेन्नाग्नौ न चैनं अभिलङ्घयेत् ॥१.१३७॥ जलं पिबेन्नाञ्जलिना न शयानं प्रबोधयेत् ।नाक्षैः क्रीडेन्न धर्मघ्नैर्व्याधितैर्वा न संविशेत् ॥१.१३८॥ विरुद्धं वर्जयेत्कर्म प्रेतधूमं नदीतरम् ।केशभस्मतुषाङ्गार कपालेषु च संस्थितिम् ॥१.१३९॥ नाचक्षीत धयन्तीं गां नाद्वारेण विशेत्क्वचित् ।न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्तिनः ॥१.१४०॥ प्रतिग्रहे सूनिचक्रि ध्वजिवेश्यानराधिपाः ।दुष्टा दशगुणं पूर्वात्पूर्वादेते यथाक्रमम् ॥१.१४१॥ अध्यायानां उपाकर्म श्रावण्यां श्रवणेन वा ।हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥१.१४२॥ पौषमासस्य रोहिण्यां अष्टकायां अथापि वा ।जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद्बहिः ॥१.१४३॥ त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु ।उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ॥१.१४४॥ संध्यागर्जितनिर्घात भूकंपोल्कानिपातने ।समाप्य वेदं द्युनिशं आरण्यकं अधीत्य च ॥१.१४५॥ पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके ।ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥१.१४६॥ पशुमण्डूकनकुल श्वाहिमार्जारमूषकैः ।कृतेऽनन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये ॥१.१४७॥ श्वक्रोष्टृगर्दभोलूक सामबाणार्तनिःस्वने ।अमेध्यशवशूद्रान्त्य श्मशानपतितान्तिके ॥१.१४८॥ देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे ।भुक्त्वार्द्रपाणिरम्भोऽन्तरर्धरात्रेऽतिमारुते ॥१.१४९॥ पांसुप्रवर्षे दिग्दाहे संध्यानीहारभीतिषु ।धावतः पूतिगन्धे च शिष्टे च गृहं आगते ॥१.१५०॥ खरोष्ट्रयानहस्त्यश्व नौवृक्षेरिणरोहणे ।सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥१.१५१॥ देवर्त्विक्स्नातकाचार्य राज्ञां छायां परस्त्रियाः ।नाक्रामेद्रक्तविण्मूत्र ष्ठीवनोद्वर्तनादि च ॥१.१५२॥ विप्राहिक्षत्रियात्मानो नावज्ञेयाः कदाचन ।आमृत्योः श्रियं आकाङ्क्षेन्न कंचिन्मर्मणि स्पृशेत् ॥१.१५३॥ दूरादुच्छिष्टविण्मूत्र पादाम्भांसि समुत्सृजेत् ।श्रुतिस्मृत्युदितं सम्यङ्नित्यं आचारं आचरेत् ॥१.१५४॥ गोब्राह्मणानलान्नानि नोच्च्छिष्टो न पदा स्पृशेत् ।न निन्दाताडने कुर्यात्पुत्रं शिष्यं च ताडयेत् ॥१.१५५॥ कर्मणा मनसा वाचा यत्नाद्धर्मं समाचरेत् ।अस्वर्ग्यं लोकविद्विष्टं धर्म्यं अप्याचरेन्न तु ॥१.१५६॥ मातृपित्रतिथिभ्रातृ जामिसंबन्धिमातुलैः ।वृद्धबालातुराचार्य वैद्यसंश्रितबान्धवैः ॥१.१५७॥ ऋत्विक्पुरोहितापत्य भार्यादाससनाभिभिः ।विवादं वर्जयित्वा तु सर्वांल्लोकाञ् जयेद्गृही ॥१.१५८॥ पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु ।स्नायान्नदीदेवखात ह्रदप्रस्रवणेषु च ॥१.१५९॥ परशय्यासनोद्यान गृहयानानि वर्जयेत् ।अदत्तान्यग्निहीनस्य नान्नं अद्यादनापदि ॥१.१६०॥ कदर्यबद्धचौराणां क्लीबरङ्गावतारिणाम् ।वैणाभिशस्तवार्धुष्य गणिकागणदीक्षिणाम् ॥१.१६१॥ चिकित्सकातुरक्रुद्ध पुंश्चलीमत्तविद्विषाम् ।क्रूरोग्रपतितव्रात्य दाम्भिकोच्छिष्टभोजिनाम् ॥१.१६२॥ अवीरास्त्रीस्वर्णकार स्त्रीजितग्रामयाजिनाम् ।शस्त्रविक्रयिकर्मार तन्तुवायश्ववृत्तिनाम् ॥१.१६३॥ नृशंसराजरजक कृतघ्नवधजीविनाम् ।चैलधावसुराजीव सहोपपतिवेश्मनाम् ॥१.१६४॥ पिशुनानृतिनोश्चैव तथा चाक्रिकबन्दिनाम् ।एषां अन्नं न भोक्तव्यं सोमविक्रयिणस्तथा ॥१.१६५॥ शूद्रेषु दासगोपाल कुलमित्रार्धसीरिणः ।भोज्यान्नाः नापितश्चैव यश्चात्मानं निवेदयेत् ॥१.१६६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP