संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - तृतीयप्रपाठकः| चतुर्थी दशतिः छन्द आर्चिकः - तृतीयप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः दशमी दशतिः तृतीयप्रपाठकः - चतुर्थी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद चतुर्थी दशतिः Translation - भाषांतर अतीहि मन्युषाविणं सुषुवांसमुपेरय ।अस्य रातौ सुतं पिब ॥२२३॥कदु प्रचेतसे महे वचो देवाय शस्यते ।तदिध्यस्य वर्धनं ॥२२४॥उक्थं च न शस्यमानं नागो रयिरा चिकेत ।न गायत्रं गीयमानं ॥२२५॥इन्द्र उक्थेभिर्मन्दिष्ठो वाजानां च वाजपतिः ।हरिवान्त्सुतानां सखा ॥२२६॥आ याह्युप नः सुतं वाजेभिर्मा हृणीयथाः ।महां इव युवजानिः ॥२२७॥कदा वसो स्तोत्रं हर्यत आ अव श्मशा रुधद्वाः ।दीर्घं सुतं वाताप्याय ॥२२८॥ब्राह्मणादिन्द्र राधसः पिबा सोममृतूं रनु ।तवेदं सख्यमस्तृतं ॥२२९॥वयं घा ते अपि स्मसि स्तोतार इन्द्र गिर्वणः ।त्वं नो जिन्व सोमपाः ॥२३०॥एन्द्र पृक्षु कासु चिन्नृम्णं तनूषु धेहि नः ।सत्राजिदुग्र प्ॐस्यं ॥२३१॥एवा ह्यसि वीरयुरेवा शूर उत स्थिरः ।एवा ते राध्यं मनः ॥२३२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP