संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - तृतीयप्रपाठकः| प्रथमा दशतिः छन्द आर्चिकः - तृतीयप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः दशमी दशतिः तृतीयप्रपाठकः - प्रथमा दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद प्रथमा दशतिः Translation - भाषांतर उत्त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः ।अव ब्रह्मद्विषो जहि ॥१९४॥गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे ।इन्द्र त्वादातमिद्यशः ॥१९५॥सदा व इन्द्रश्चर्कृषदा उपो नु स सपर्यन् ।न देवो वृतः शूर इन्द्रः ॥१९६॥आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः ।न त्वामिन्द्राति रिच्यते ॥१९७॥इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।इन्द्रं वाणीरनूषत ॥१९८॥इन्द्र इषे ददातु न ऋभुक्षणमृभुं रयिं ।वाजी ददातु वाजिनं ॥१९९॥इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत् ।स हि स्थिरो विचर्षणिः ॥२००॥इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः ।गावो वत्सं न धेनवः ॥२०१॥इन्द्रा नु पूषणा वयं सख्याय स्वस्तये ।हुवेम वाजसातये ॥२०२॥न कि इन्द्र त्वदुत्तरं न ज्यायो अस्ति वृत्रहन् ।न क्येवं यथा त्वं ॥२०३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP