संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|पस्पषाह्निक| भाग १४ पस्पषाह्निक भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ पस्पषाह्निक - भाग १४ पस्पषाह्निक संस्कृतमधील एक दुर्मिळ ग्रंथ आहे. Tags : पस्पषाह्निकसंस्कृत भाग १४ Translation - भाषांतर १४ - १-५९ - अथ व्याकरणम् इति अस्य शब्दस्य कः पदार्थः ।१४ - २-५९ - सूत्रम् ।१४ - ३-५९ - सूत्रे व्याकरणे षष्ठ्यर्थः अनुपपन्नः ।१४ - ४-५९ - सूत्रे व्याकरणे षष्ठ्यर्थः न उपपद्यते व्याकरणस्य सूत्रम् इति ।१४ - ५-५९ - किम् हि तत् अन्यत् सूत्रात् व्याकरणम् यस्य अदः सूत्रम् स्यात् ।१४ - ६-५९ - शब्दाप्रतिपत्तिः ।१४ - ७-५९ - शब्दानाम् च अप्रतिपत्तिः प्राप्नोति व्याकरणात् शब्दान् प्रतिपद्यामहे इति ।१४ - ८-५९ - न हि सूत्रतः एव शब्दान् प्रतिपद्यन्ते ।१४ - ९-५९ - किम् तर्हि ।१४ - १०-५९ - व्याख्यानतः च ।१४ - ११-५९ - ननु च तत् एव सूत्रम् विगृहीतम् व्याख्यानम् भवति ।१४ - १२-५९ - न केवलानि चर्चापदानि व्याख्यनम् वृद्धिः आत् ऐच् इति ।१४ - १३-५९ - किम् तर्हि ।१४ - १४-५९ - उदाहरणम् प्रत्युदाहरणम् वाक्याध्याहारः इति एतत् समुदितम् व्याख्यानम् भवति ।१४ - १५-५९ - एवम् तर्हि शब्दः ।१४ - १६-५९ - शब्दे ल्युडर्थः ।१४ - १७-५९ - यदि शब्दः व्याकरणम् ल्युडर्थः न उपपद्यते व्याक्रियते अनेन इति व्याकरणम् ।१४ - १८-५९ - न हि शब्देन किम् चित् व्याक्रियते ।१४ - १९-५९ - केन तर्हि ।१४ - २०-५९ - सूत्रेण ।१४ - २१-५९ - भवे ।१४ - २२-५९ - भवे च तद्धितः न उपपद्यते व्याकरणे भवः योगः वैयाकरणः इति ।१४ - २३-५९ - न हि शब्दे भवः योगः ।१४ - २४-५९ - क्व तर्हि ।१४ - २५-५९ - सूत्रे ।१४ - २६-५९ - प्रोक्तादयः च तद्धिताः ।१४ - २७-५९ - प्रोक्तादयः च तद्धिताः न उपपद्यन्ते पाणिनिना प्रोक्तम् पाणिनीयम् , आपिशलम् , काशकृत्स्नम् इति ।१४ - २८-५९ - न हि पाणिनिना शब्दाः प्रोक्ताः ।१४ - २९-५९ - किम् तर्हि ।१४ - ३०-५९ - सूत्रम् ।१४ - ३१-५९ - किमर्थम् इदम् उभयम् उच्यते भवे प्रोक्तादयः च तद्धिताः इति न प्रोक्तादयः च तद्धिताः इति एव भवे अपि तद्धितः चोदितः स्यात् ।१४ - ३२-५९ - पुरस्तात् इदम् आचार्येण दृष्टम् भवे तद्धितः इति तत् पठितम् ।१४ - ३३-५९ - ततः उत्तरकालम् इदम् दृष्टम् प्रोक्तादयः च तद्धिताः इति तत् अपि पठितम् ।१४ - ३४-५९ - न च इदानीम् आचार्याः सूत्राणि कृत्वा निवर्तयन्ति ।१४ - ३५-५९ - अयम् तावत् अदोषः यत् उच्यते शब्दे ल्युडर्थः इति ।१४ - ३६-५९ - न अवश्यम् करणाधिकरणयोः एव ल्युट् विधीयते किम् तर्हि अन्येषु अपि कारकेषु कृत्यल्युटः बहुलम् इति ।१४ - ३७-५९ - तत् यथा प्रस्कन्दनम् प्रपतनम् इति ।१४ - ३८-५९ - अथ वा शब्दैः अपि शब्दाः व्याक्रियन्ते ।१४ - ३९-५९ - तत् यथा गौः इति उक्ते सर्वे सन्देहाः निवर्तन्ते न अश्वः न गर्दभः इति ।१४ - ४०-५९ - अयम् तर्हि दोषः भवे प्रोक्तादयः च तद्धिताः इति ।१४ - ४१-५९ - एवम् तर्हि लक्ष्यलक्षणे व्याकरणम् ।१४ - ४२-५९ - लक्ष्यम् च लक्षणम् च एतत् समुदितम् व्याकरणम् भवति ।१४ - ४३-५९ - किम् पुनः लक्ष्यम् लक्षणम् च ।१४ - ४४-५९ - शब्दः लक्ष्यम् सूत्रम् लक्षणम् ।१४ - ४५-५९ - एवम् अपि अयम् दोषः समुदाये व्याकरणशब्दः प्रवृत्तः अवयवे न उपपद्यते ।१४ - ४६-५९ - सूत्राणि च अधीयानः इष्यते वैयाकरणः इति ।१४ - ४७-५९ - न एषः दोषः ।१४ - ४८-५९ - समुदायेषु हि शब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते ।१४ - ४९-५९ - तत् यथा पूर्वे पञ्चालाः , उत्तरे पञ्चालाः , तैलम् भुक्तम् , घृतम् भुक्तम् , शुक्लः , नीलः , कृष्णः इति ।१४ - ५०-५९ - एवम् अयम् समुदाये व्याकरणशब्दः प्रवृत्तः अवयवे अपि वर्तते ।१४ - ५१-५९ - अथ वा पुनः अस्तु सूत्रम् ।१४ - ५२-५९ - ननु च उक्तम् सूत्रे व्याकरणे षष्ठ्यर्थः अनुपपन्नः इति ।१४ - ५३-५९ - न एष दोषः ।१४ - ५४-५९ - व्यपदेशिवद्भावेन भविष्यति ।१४ - ५५-५९ - यत् अपि उच्यते शब्दाप्रतिपत्तिः इति न हि सूत्रतः एव शब्दान् प्रतिपद्यन्ते किम् तर्हि व्याख्यानतः च इति परिहृतम् एतत् तत् एव सूत्रम् विगृहीतम् व्याख्यानम् भवति इति ।१४ - ५६-५९ - ननु च उक्तम् न केवलानि चर्चापदानि व्याख्यानम् वृद्धिः आत् ऐच् इति किम् तर्हि उदाहरणम् प्रत्युदाहरणम् वाक्याध्याहारः इति एतत् समुदितम् व्याख्यानम् भवति इति ।१४ - ५७-५९ - अविजानतः एतत् एवम् भवति ।१४ - ५८-५९ - सूत्रतः एव हि शब्दान् प्रतिपद्यन्ते ।१४ - ५९-५९ - आतः च सूत्रतः एव यः हि उत्सूत्रम् कथयेत् न अदः गृह्येत । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP