३ - १-१७ - कानि पुनः शब्दानुशासनस्य प्रयोजनानि ।

३ - २-१७ - रक्षोहागमलघ्वसन्देहाः प्रोयोजनम् ।

३ - ३-१७ - रक्षार्थम् वेदानाम् अध्येयम् व्याकरणम् ।

३ - ४-१७ - लोपागमवर्णविकारज्ञः हि सम्यक् वेदान् परिपालयिष्यति ।

३ - ५-१७ - ऊहः खलु अपि. न सर्वैः लिङ्गैः न च सर्वाभिः विभक्तिभिः वेदे मन्त्राः निगदिताः. ते च अवश्यम् यज्ञगतेन यथायथम् विपरिणमयितव्याः. तान् न अवैयाकरणः शक्नोति यथायथम् विपरिणमयितुम्. तस्मात् अध्येयम् व्याकरणम् ।

३ - ६-१७ - आगमः खलु अपि ।

३ - ७-१७ - ब्राह्मणेन निष्कारणः धर्मः षडङ्गः वेदः अध्येयः ज्ञेयः इति ।

३ - ८-१७ - प्रधानम् च षट्सु अङ्गेषु व्याकरणम् ।

३ - ९-१७ - प्रधाने च कृतः यत्नः फलवान् भवति ।

३ - १०-१७ - लघ्वर्थम् च अध्येयम् व्याकरणम्. ब्राह्मणेन अवश्यम् शब्दाः ज्ञेयाः इति ।

३ - ११-१७ - न च अन्तरेण व्याकरणम् लघुना उपायेन शब्दाः शक्याः ज्ञातुम् ।

३ - १२-१७ - असन्देहार्थम् च अध्येयम् व्याकरणम् ।

३ - १३-१७ - याज्ञिकाः पठन्ति ।

३ - १४-१७ - स्थूलपृषतीम् आग्निवारुणीम् अनड्वाहीम् आलभेत इति ।

३ - १५-१७ - तस्याम् सन्देहः स्थूला च असौ पृषती च स्थूलपृषती स्थूलानि पृषन्ति यस्याः सा स्थूलपृषती ।

३ - १६-१७ - ताम् न अवैयाकरणः स्वरतः अध्यवस्यति ।

३ - १७-१७ - यदि पूर्वपदप्रकृतिस्वरत्वम् ततः बहुव्रीहिः. अथ अन्तोदात्तत्वम् ततः तत्पुरुषः इति ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP