पस्पषाह्निक - भाग १३
पस्पषाह्निक संस्कृतमधील एक दुर्मिळ ग्रंथ आहे.
१३ - १-५४ - किम् पुनः शब्दस्य ज्ञाने धर्मः आहोस्वित् प्रयोगे ।
१३ - २-५४ - कः च अत्र विशेषः ।
१३ - ३-५४ - ज्ञाने धर्मः इति चेत् तथा अधर्मः ।
१३ - ४-५४ - ज्ञाने धर्मः इति चेत् तथा अधर्मः प्राप्नोति ।
१३ - ५-५४ - यः हि शब्दान् जानाति अपशब्दान् अपि असौ जानाति ।
१३ - ६-५४ - यथा एव शब्दज्ञाने धर्मः एवम् अपशब्दज्ञाने अपि अधर्मः ।
१३ - ७-५४ - अथ वा भूयान् अधर्मः प्राप्नोति ।भूयांसः अपशब्दाः अल्पीयांसः शब्दाः ।
१३ - ८-५४ - एकैकस्य शब्दस्य बहवः अपभ्रंशाः ।
१३ - ९-५४ - तत् यथा ।
१३ - १०-५४ - गौः इति अस्य गावी गोणी गोता गोपोतलिका इति एवमादयः अपभ्रंशाः ।
१३ - ११-५४ - आचारे नियमः ।
१३ - १२-५४ - आचारे पुनः ऋषिः नियमम् वेदयते ।
१३ - १३-५४ - ते असुराः हेलयः हेलयः इति कुर्वन्तः पराबभूवुः इति ।
१३ - १४-५४ - अस्तु तर्हि प्रयोगे ।
१३ - १५-५४ - प्रयोगे सर्वलोकस्य ।
१३ - १६-५४ - यदि प्रयोगे धर्मः सर्वः लोकः अभ्युदयेन युज्येत ।
१३ - १७-५४ - कः च इदानीम् भवतः मत्सरः यदि सर्वः लोकः अभ्युदयेन युज्येत ।
१३ - १८-५४ - न खलु कः चित् मत्सरः ।
१३ - १९-५४ - प्रयत्नानर्थक्यम् तु भवति ।
१३ - २०-५४ - फलवता च नाम प्रयत्नेन भवितव्यम् न च प्रयत्नः फलात् व्यतिरेच्यः ।
१३ - २१-५४ - ननु च ये कृतप्रयत्नाः ते साधीयः शब्दान् प्रयोक्ष्यन्ते ।
१३ - २२-५४ - ते एव साधीयः अभ्युदयेन योक्ष्यन्ते ।
१३ - २३-५४ - व्यतिरेकः अपि वै लक्ष्यते ।
१३ - २४-५४ - दृश्यन्ते हि कृतप्रयत्नाः च अप्रवीणाः अकृतप्रयत्नाः च प्रवीणाः ।
१३ - २५-५४ - तत्र फलव्यतिरेकः अपि स्यात् ।
१३ - २६-५४ - एवम् तर्हि न अपि ज्ञाने एव धर्मः न अपि प्रयोगे एव ।
१३ - २७-५४ - किम् तर्हि शास्त्रपूर्वके प्रयोगे अभ्युदयः तत् तुल्यम् वेदशब्देन ।
१३ - २८-५४ - शास्त्रपूर्वकम् यः शब्दान् प्रयुङ्क्ते सः अभ्युदयेन युज्यते ।
१३ - २९-५४ - तत् तुल्यम् वेदशब्देन ।
१३ - ३०-५४ - वेदशब्दाः अपि एवम् अभिवदन्ति ।
१३ - ३१-५४ - यः अग्निष्टोमेन यजते यः उ च एनम् एवम् वेद ।
१३ - ३२-५४ - यः अग्निम् नाचिकेतम् चिनुते यः उ च एनम् एवम् वेद ।
१३ - ३३-५४ - अपरः आह ॒ तत् तुल्यम् वेदशब्देन इति ।
१३ - ३४-५४ - यथा वेदशब्दाः नियमपूर्वम् अधीताः फलवन्तः भवन्ति एवम् यः शास्त्रपूर्वकम् शब्दान् प्रयुङ्क्ते सः अभ्युदयेन युज्यते इति ।
१३ - ३५-५४ - अथ वा पुनः अस्तु ज्ञाने एव धर्मः इति ।
१३ - ३६-५४ - ननु च उक्तम् ज्ञाने धर्मः इति चेत् तथा अधर्मः इति ।
१३ - ३७-५४ - न एषः दोषः ।
१३ - ३८-५४ - शब्दप्रमाणकाः वयम् ।
१३ - ३९-५४ - यत् शब्दः आह तत् अस्माकम् प्रमाणम् ।
१३ - ४०-५४ - शब्दः च शब्दज्ञाने धर्मम् आह न अपशब्दज्ञाने अधर्मम् ।
१३ - ४१-५४ - यत् च पुनः अशिष्टाप्रतिषिद्धम् न एव तत् दोषाय भवति न अभ्युदयाय ।
१३ - ४२-५४ - तत् यथा ।
१३ - ४३-५४ - हिक्कितहसितकण्डूयितानि न एव दोषाय भवन्ति न अपि अभ्युदयाय ।
१३ - ४४-५४ - अथ वा अभ्युपायः एव अपशब्दज्ञानम् शब्दज्ञाने ।
१३ - ४५-५४ - यः अपशब्दान् जानाति शब्दान् अपि असौ जानाति ।
१३ - ४६-५४ - तत् एवम् ज्ञाने धर्मः इति ब्रुवतः अर्थात् आपन्नम् भवति अपशब्दज्ञानपूर्वके शब्दज्ञाने धर्मः इति ।
१३ - ४७-५४ - अथ वा कूपखानकवत् एतत् भवति ।
१३ - ४८-५४ - तत् यथा कूपखानकः खनन् यदि अपि मृदा पांसुभिः च अवकीर्णः भवति सः अप्सु सञ्जातासु ततः एव तम् गुणम् आसादयति येन सः च दोषः निर्हण्यते भूयसा च अभ्युदयेन योगः भवति एवम् इह अपि यदि अपि अपशब्दज्ञाने अधर्मः तथा अपि यः तु असौ शब्दज्ञाने धर्मः तेन सः च दोषः निर्घानिष्यते भूयसा च अभ्युदयेन योगः भविष्यति ।
१३ - ४९-५४ - यत् अपि उच्यते आचारे नियमः इति याज्ञे कर्मणि सः नियमः ।
१३ - ५०-५४ - एवम् हि श्रूयते ।
१३ - ५१-५४ - यर्वाणः तर्वाणः नाम ऋषयः बभूवुः प्रत्यक्षधर्माणः परापरज्ञाः विदितवेदितव्याः अधिगतयाथातथ्याः ।
१३ - ५२-५४ - ते तत्रभवन्तः यत् वा नः तत् वा नः इति प्रोयोक्तव्ये यर् वा णः तर् वा णः इति प्रयुञ्जते याज्ञे पुनः कर्मणि न अपभाषन्ते ।
१३ - ५३-५४ - तैः पुनः असुरैः याज्ञे कर्मणि अपभाषितम् ।
१३ - ५४-५४ - ततः ते पराबभूताः ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP