४.१ - १-८ - इमानि च भूयः शब्दानुशासनस्य प्रयोजनानि ।

४.१ - २-८ - ते असुराः , दुष्टः शब्दः , यत् अधीतम् , यः तु प्रयुङ्क्ते , अविद्वांसः , विभक्तिम् कुर्वन्ति , यः वै इमाम् , चत्वारि , उत त्वः , सक्तुम् इव , सारस्वतीम् , दशम्याम् पुत्रस्य , सुदेवः असि वरुण इति ।

४.१ - ३-८ - ते असुराः ।

४.१ - ४-८ - ते असुराः हेलयः हेलयः इति कुर्वन्तः परा बभूवुः ।

४.१ - ५-८ - तस्मात् ब्राह्मणेन न म्लेच्छितवै न अपभाषितवै ।

४.१ - ६-८ - म्लेच्छः ह वै एषः यत् अपशब्दः ।

४.१ - ७-८ - म्लेच्छाः मा भूम इति अध्येयम् व्याकरणम् ।

४.१ - ८-८ - ते असुराः

४.२ - १-५ - दुष्टः शब्दः ।

४.२ - २-५ - दुष्टः शब्दः स्वरतः वर्णतः वा मिथ्या प्रयुक्तः न तम् अर्थम् आह ।

४.२ - ३-५ - सः वाग्वज्रः यजमानम् हिनस्ति यथा इन्द्रशत्रुः स्वरतः अपराधात् ।

४.२ - ४-५ - दुष्टान् शब्दान् मा प्रयुक्ष्महि इति अध्येयम् व्याकरणम् ।

४.२ - ५-५ - दुष्टः शब्दः ।

४.३ - १-३ - यत् अधीतम् ।

४.३ - २-३ - यत् अधीतम् अविज्ञातम् निगदेन एव शब्द्यते अनग्नौ इव शुष्कैधः न तत् ज्वलति कर्हि चित् ।

४.३ - ३-३ - तस्मात् अनर्थकम् मा अधिगीष्महि इति अध्येयम् व्याकरणम्. यत् अधीतम् ।

४.४ - १-२७ - यः तु प्रयुङ्क्ते ।

४.४ - २-२७ - यः तु प्रयुङ्क्ते कुशलः विशेषे शब्दान् यथावत् व्यवहारकाले सः अनन्तम् आप्नोति जयम् परत्र वाग्योगवित् दुष्यति च अपशब्दैः ।

४.४ - ३-२७ - कः ।

४.४ - ४-२७ - वाग्योगवित् एव ।

४.४ - ५-२७ - कुतः एतत् ।

४.४ - ६-२७ - यः हि शब्दान् जानाति अपशब्दान् अपि असौ जानाति ।

४.४ - ७-२७ - यथा एव हि शब्दज्ञाने धर्मः एवम् अपशब्दज्ञाने अपि अधर्मः ।

४.४ - ८-२७ - अथ वा भूयान् अधर्मः प्राप्नोति ।

४.४ - ९-२७ - भूयांसः अपशब्दाः अल्पीयांसः शब्दाः ।

४.४ - १०-२७ - एकैकस्य हि शब्दस्य बहवः अपशब्दाः ।

४.४ - ११-२७ - तत् यथा गौः इति अस्य शब्दस्य गावी गोणी गोता गोपोतलिका इति एवमादयः अपभ्रंशाः ।

४.४ - १२-२७ - अथ यः अवाग्योगवित् ।

४.४ - १३-२७ - अज्ञानम् तस्य शरणम् ।

४.४ - १४-२७ - न अत्यन्ताय अज्ञानम् शरणम् भवितुम् अर्हति ।

४.४ - १५-२७ - यः हि अजानन् वै ब्राह्मणम् हन्यात् सुराम् वा पिबेत् सः अपि मन्ये पतितः स्यात्. एवम् तर्हि सः अनन्तम् आप्नोति जयम् परत्र वाग्योगवित् दुष्यति च अपशब्दैः ।

४.४ - १६-२७ - कः. अवाग्योगवित् एव ।

४.४ - १७-२७ - अथ यः वाग्योगवित् ।

४.४ - १८-२७ - विज्ञानम् तस्य शरणम् ।

४.४ - १९-२७ - क्व पुनः इदम् पठितम् ।

४.४ - २०-२७ - भ्राजाः नाम श्लोकाः ।

४.४ - २१-२७ - किम् च भोः श्लोकाः अपि प्रमाणम् ।

४.४ - २२-२७ - किम् च अतः ।

४.४ - २३-२७ - यदि प्रमाणम् अयम् अपि श्लोकः प्रमाणम् भवितुम् अर्हति ।

४.४ - २४-२७ - यत् उदुम्बरवर्णानाम् घटीनाम् मण्डलम् महत् पीतम् न स्वर्गम् गमयेत् किम् तत् क्रतुगतम् नयेत् इति ।

४.४ - २५-२७ - प्रमत्तगीतः एषः तत्रभवतः ।

४.४ - २६-२७ - यः तु अप्रमत्तगीतः तत् प्रमानम् ।

४.४ - २७-२७ - यस् तु प्रयुङ्क्ते ।

४.५ - १-४ - अविद्वांसः ।

४.५ - २-४ - अविद्वांसः प्रत्यभिवादे नाम्नः ये प्लुतिम् न विदुः कामम् तेषु तु विप्रोष्य स्त्रीषु इव अयम् अहम् वदेत् ।

४.५ - ३-४ - अभिवादे स्त्रीवत् मा भूम इति अध्येयम् व्याकरणम् ।

४.५ - ४-४ - अविद्वांसः

४.६ - १-३ - विभक्तिम् कुर्वन्ति ।

४.६ - २-३ - याज्ञिकाः पठन्ति ॒ प्रयाजाः सविभक्तिकाः कार्याः इति ।

४.६ - ३-३ - न च अन्तरेण व्याकरणम् प्रयाजाः सविभक्तिकाः शक्याः कर्तुम्. विभक्तिम् कुर्वन्ति

४.७ - १-४ - यः वै इमाम् ।

४.७ - २-४ - यः वै इमाम् पदशः स्वरशः अक्षरशः वाचम् विदधाति सः आर्त्विजीनः ।

४.७ - ३-४ - आर्त्विजीनाः स्याम इति अध्येयम् व्याकरणम् ।

४.७ - ४-४ - यः वै इमाम् ।

४.८ - १-२९ - चत्वारि ।

४.८ - २-२९ - चत्वरि शृङ्गा त्रयः अस्य पदा द्वे शीर्षे सप्त हस्तासः अस्य त्रिधा बद्धः वृषभः रोरवीति महः देवः मर्त्यान् अ विवेश ।

४.८ - ३-२९ - चत्वारि शृङ्गानि चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः च ।

४.८ - ४-२९ - त्रयः अस्य पादाः त्रयः कालाः भूतभविष्यद्वर्तमानाः ।

४.८ - ५-२९ - द्वे शीर्षे द्वौ शब्दात्मानौ नित्यः कार्यः च ।

४.८ - ६-२९ - सप्त हस्तासः अस्य सप्त विभक्तयः ।

४.८ - ७-२९ - त्रिधा बद्धः त्रिषु स्थानेषु बद्धः उरसि कण्ठे शिरसि इति ।

४.८ - ८-२९ - वृषभः वर्षणात् ।

४.८ - ९-२९ - रोरवीति शब्दम् करोति ।

४.८ - १०-२९ - कुतः एतत् ।

४.८ - ११-२९ - रौतिः शब्दकर्मा ।

४.८ - १२-२९ - महः देवः मर्त्यान् आविवेश इति ।

४.८ - १३-२९ - महान् देवः शब्दः ।

४.८ - १४-२९ - मर्त्याः मरणधर्माणः मनुष्याः ।

४.८ - १५-२९ - तान् आविवेश ।

४.८ - १६-२९ - महता देवेन नः साम्यम् यथा स्यात् इति अध्येयम् व्याकरणम् ।

४.८ - १७-२९ - अपरः आह ॒ चत्वरि वक् परिमिता पदनि तनि विदुः ब्राह्मण ये मनीषिणः गुहा त्रीणि निहिता न इङ्गयन्ति तुरीयम् वाचः मनुष्याः वदन्ति ।

४.८ - १८-२९ - चत्वारि वाक् परिमिता पदानि ।

४.८ - १९-२९ - चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः च ।

४.८ - २०-२९ - तानि विदुः ब्राह्मणाः ये मनीषिणः ।

४.८ - २१-२९ - मनसः ईषिणः मनीषिणः ।

४.८ - २२-२९ - गुहा त्रीणि निहिता न इङ्गयन्ति ।

४.८ - २३-२९ - गुहायाम् त्रीणि निहितानि न इङ्गयन्ति ।

४.८ - २४-२९ - न चेष्टन्ते ।

४.८ - २५-२९ - न निमिषन्ति इति अर्थः ।

४.८ - २६-२९ - तुरीयम् वाचः मनुष्याः वदन्ति ।

४.८ - २७-२९ - तुरीयम् ह वै एतत् वाचः यत् मनुष्येषु वर्तते ।

४.८ - २८-२९ - चतुर्थम् इति अर्थः ।

४.८ - २९-२९ - चत्वारि ।

४.९ - १-११ - उत त्वः ।

४.९ - २-११ - उत त्वः पश्यन् न ददर्श वचम् उत त्वः श्र्ण्वन् न शृणोति एनाम् उतो त्वस्मै तन्वम् विसस्रे जाय इव पत्ये उशती सुवसाः ।

४.९ - ३-११ - अपि खलु एकः पश्यन् अपि न पश्यति वाचम् ।

४.९ - ४-११ - अपि खलु एकः श्र्ण्वन् अपि न श्र्णोति एनाम् ।

४.९ - ५-११ - अविद्वांसम् आह अर्धम् ।

४.९ - ६-११ - उतो त्वस्मै तन्वम् विसस्रे ।

४.९ - ७-११ - तनुम् विवृणुते ।

४.९ - ८-११ - जाया इव पत्ये उशती सुवासाः ।

४.९ - ९-११ - तद् यथा जाया पत्ये कामयमाना सुवासाः स्वम् आत्मानम् विवृणुते एवम् वाक् वाग्विदे स्वात्मानम् विवृणुते ।

४.९ - १०-११ - वाक् नः विवृणुयात् आत्मानम् इति अध्येयम् व्याकरणम् ।

४.९ - ११-११ - उत त्वः ।

४.१० - १-१७ - सक्तुम् इव ।

४.१० - २-१७ - सक्तुम् इव तितौना पुनन्तः यत्र धीराः मनसा वचम् अक्रत अत्रा सखायः सख्यनि जानते भद्र एषाम् लक्ष्मीः निहिता अधि वाचि ।

४.१० - ३-१७ - सक्तुः सचतेः दुर्धावः भवति ।

४.१० - ४-१७ - कसतेः वा विपरीतात् विकसितो भवति ।

४.१० - ५-१७ - तितौ परिपवनम् भवति ततवत् वा तुन्नवत् वा ।

४.१० - ६-१७ - धीराः ध्यानवन्तः मनसा प्रज्ञानेन वाचम् अक्रत वाचम् अकृषत ।

४.१० - ७-१७ - अत्रा सखायः सख्यानि जानते ।

४.१० - ८-१७ - सायुज्यानि जानते ।

४.१० - ९-१७ - क्व ।

४.१० - १०-१७ - यः एषः दुर्घः मार्गः एकगम्यः वाग्विषयः ।

४.१० - ११-१७ - के पुनः ते ।

४.१० - १२-१७ - वैयाकरणाः ।

४.१० - १३-१७ - कुतः एतत् ।

४.१० - १४-१७ - भद्रा एषाम् लक्ष्मीः निहिता अधि वाचि ।

४.१० - १५-१७ - एषाम् वाचि भद्रा लक्ष्मीः निहिता भवति ।

४.१० - १६-१७ - लक्ष्मीः लक्षणात् भासनात् परिवृढा भवति ।

४.१० - १७-१७ - सक्तुम् इव ।

४.११ - १-३ - सारस्वतीम्. याज्ञिकाः पठन्ति ॒ आहिताग्निः अपशब्दम् प्रयुज्य प्रायश्चित्तीयाम् सारस्वतीम् इष्टिम् निर्वपेत् इति ।

४.११ - २-३ - प्रायश्चित्तीयाः मा भूम इति अध्येयम् व्याकरणम् ।

४.११ - ३-३ - सारस्वतीम् ।

४.१२ - १-६ - दशम्याम् पुत्रस्य ।

४.१२ - २-६ - याज्ञिकाः पठन्ति ॒ दशम्युत्तरकालम् पुत्रस्य जातस्य नाम विदध्यात् घोषवदादि अन्तरन्तःस्थम् अवृद्धम् त्रिपुरुषानूकम् अनरिप्रतिष्ठितम् ।

४.१२ - ३-६ - तत् हि प्रतिष्ठिततमम् भवति ।

४.१२ - ४-६ - द्व्यक्षरम् चतुरक्षरम् वा नाम कृतम् कुर्यात् न तद्धितम् इति ।

४.१२ - ५-६ - न च अन्तरेण व्याकरणम् कृतः तद्धिताः वा शक्याः विज्ञातुम् ।

४.१२ - ६-६ - दशम्याम् पुत्रस्य ।

४.१३ - १-११ - सुदेवः असि ।

४.१३ - २-११ - सुदेवः असि वरुण यस्य ते सप्त सिन्धवः अनुक्षरन्ति काकुदम् सूर्म्यम् सुषिरम् इव ।

४.१३ - ३-११ - सुदेवः असि वरुण सत्यदेवः असि यस्य ते सप्त सिन्धवः सप्त विभक्तयः ।

४.१३ - ४-११ - अनुक्षरन्ति काकुदम् ।

४.१३ - ५-११ - काकुदम् तालु ।

४.१३ - ६-११ - काकुः जिह्वा सा अस्मिन् उद्यते इति काकुदम् ।

४.१३ - ७-११ - सूर्म्यम् सुषिराम् इव ।

४.१३ - ८-११ - तद् यथा शोभनाम् ऊर्मीम् सुषिराम् अग्निः अन्तः प्रविश्य दहति एवम् तव सप्त सिन्धवः सप्त विभक्तयः तालु अनुक्षरन्ति ।

४.१३ - ९-११ - तेन असि सत्यदेवः ।

४.१३ - १०-११ - सत्यदेवाः स्याम इति अध्येयम् व्याकरणम् ।

४.१३ - ११-११ - सुदेवः असि ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP