संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|पस्पषाह्निक| भाग १० पस्पषाह्निक भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ पस्पषाह्निक - भाग १० पस्पषाह्निक संस्कृतमधील एक दुर्मिळ ग्रंथ आहे. Tags : पस्पषाह्निकसंस्कृत भाग १० Translation - भाषांतर १०.१ - १-३३ - कथम् पुनः इदम् भगवतः पाणिनेः आचार्यस्य लक्षणम् प्रवृत्तम् ।१०.१ - २-३३ - सिद्धे शब्दार्थसम्बन्धे ।१०.१ - ३-३३ - सिद्धे शब्दे अर्थे सम्बन्धे च इति ।१०.१ - ४-३३ - अथ सिद्धशब्दस्य कः पदार्थः ।१०.१ - ५-३३ - नित्यपर्यायवाची सिद्धशब्दः ।१०.१ - ६-३३ - कथम् ज्ञायते ।१०.१ - ७-३३ - यत् कूटस्थेषु अविचालिषु भावेषु वर्तते ।१०.१ - ८-३३ - तत् यथा सिद्धा द्यौः , सिद्धा पृथिवी सिद्धम् आकाशम् इति ।१०.१ - ९-३३ - ननु च भोः कार्येषु अपि वर्तते ।१०.१ - १०-३३ - तत् यथा सिद्धः ओदनः , सिद्धः सूपः सिद्धा यवागूः इति ।१०.१ - ११-३३ - यावता कार्येषु अपि वर्तते तत्र कुतः एतत् नित्यपर्यायवाचिनः ग्रहणम् न पुनः कार्ये यः सिद्धशब्दः इति ।१०.१ - १२-३३ - सङ्ग्रहे तावत् कार्यप्रतिद्वन्द्विभावात् मन्यामहे नित्यपर्यायवाचिनः ग्रहणम् इति ।१०.१ - १३-३३ - इह अपि तत् एव ।१०.१ - १४-३३ - अथ वा सन्ति एकपदानि अपि अवधारणानि ।१०.१ - १५-३३ - तत् यथा ॒ अब्भक्षः वायुभक्षः इति ।१०.१ - १६-३३ - अपः एव भक्षयति वायुम् एव भक्षयति इति गम्यते ।१०.१ - १७-३३ - एवम् इह अपि सिद्धः एव न साध्यः इति ।१०.१ - १८-३३ - अथ वा पूर्वपदलोपः अत्र द्रष्टव्यः ॒ अत्यन्तसिद्धः सिद्धः इति ।१०.१ - १९-३३ - तत् यथा देवदत्तः दत्तः , सत्यभामा भामा इति ।१०.१ - २०-३३ - अथ वा व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति नित्यपर्यायवाचिनः ग्रहणम् इति व्याख्यास्यामः ।१०.१ - २१-३३ - किम् पुनः अनेन वर्ण्येन ।१०.१ - २२-३३ - किम् न महता कण्ठेन नित्यशब्दः एव उपात्तः यस्मिन् उपादीयमाने असन्देहः स्यात् ।१०.१ - २३-३३ - मङ्गलार्थम् ।१०.१ - २४-३३ - माङ्गलिकः आचार्यः महतः शास्त्रौघस्य मङ्गलार्थम् सिद्धशब्दम् आदितः प्रयुङ्क्ते ।१०.१ - २५-३३ - मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति आयुष्मत्पुरुषकाणि च ।१०.१ - २६-३३ - अध्येतारः च सिद्धार्थाः यथा स्युः इति ।१०.१ - २७-३३ - अयम् खलु अपि नित्यशब्दः न अवश्यम् कूटस्थेषु अविचालिषु भावेषु वर्तते ।१०.१ - २८-३३ - किम् तर्हि ।१०.१ - २९-३३ - आभीक्ष्ण्ये अपि वर्तते ।१०.१ - ३०-३३ - तत् यथा नित्यप्रहसितः नित्यप्रजल्पितः इति ।१०.१ - ३१-३३ - यावता आभीक्ष्ण्ये अपि वर्तते तत्र अपि अन्येन एव अर्थः स्यात् व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति ।१०.१ - ३२-३३ - पश्यति तु आचार्यः मङ्गलार्थः च एव सिद्धशब्दः आदितः प्रयुक्तः भविष्यति शक्ष्यामि च एनम् नित्यपर्यायवाचिनम् वर्णयितुम् इति ।१०.१ - ३३-३३ - अतः सिद्धशब्दः एव उपात्तः न नित्यशब्दः१०.२ - १-४७ - अथ कम् पुनः पदार्थम् मत्वा एषः विग्रहः क्रियते सिद्धे शब्दे अर्थे सम्बन्धे च इति ।१०.२ - २-४७ - आकृतिम् इति आह ।१०.२ - ३-४७ - कुतः एतत् ।१०.२ - ४-४७ - आकृतिः हि नित्या ।१०.२ - ५-४७ - द्रव्यम् अनित्यम् ।१०.२ - ६-४७ - अथ द्रव्ये पदार्थे कथम् विग्रहः कर्तव्यः ।१०.२ - ७-४७ - सिद्धे शब्दे अर्थसम्बन्धे च इति ।१०.२ - ८-४७ - नित्यः हि अर्थवताम् अर्थैः अभिसम्बन्धः ।१०.२ - ९-४७ - अथ वा द्रव्ये एव पदार्थे एषः विग्रहः न्याय्यः सिद्धे शब्दे अर्थे सम्बन्धे च इति. द्रव्यम् हि नित्यम् आकृतिः अनित्या ।१०.२ - १०-४७ - कथम् ज्ञायते ।१०.२ - ११-४७ - एवम् हि दृश्यते लोके ।१०.२ - १२-४७ - मृत् कया चित् आकृत्या युक्ता पिण्डः भवति ।१०.२ - १३-४७ - पिण्डाकृतिम् उपमृद्य घटिकाः किर्यन्ते ।१०.२ - १४-४७ - घटिकाकृतिम् उपमृद्य कुण्डिकाः क्रियन्ते ।१०.२ - १५-४७ - तथा सुवर्णम् कया चित् आकृत्या युक्तम् पिण्डः भवति ।१०.२ - १६-४७ - पिण्डाकृतिम् उपमृद्य रुचकाः क्रियन्ते ।१०.२ - १७-४७ - रुचकाकृतिम् उपमृद्य कटकाः क्रियन्ते ।१०.२ - १८-४७ - कटकाकृतिम् उप्मृद्य स्वस्तिकाः क्रियन्ते ।१०.२ - १९-४७ - पुनः आवृत्तः सुवर्णपिण्डः पुनः अपरया आकृत्या युक्तः खदिरागारसवर्णे कुण्डले भवतः ।१०.२ - २०-४७ - आकृतिः अन्या च अन्या च भवति द्रव्यम् पुनः तद् एव ।१०.२ - २१-४७ - आकृत्युपमर्देन द्रव्यम् एव अवशिष्यते ।१०.२ - २२-४७ - आकृतौ अपि पदार्थे एषः विग्रहः न्याय्यः सिद्धे शब्दे अर्थे सम्बन्धे च इति ।१०.२ - २३-४७ - ननु च उक्तम् आकृतिः अनित्या इति ।१०.२ - २४-४७ - न एतत् अस्ति ।१०.२ - २५-४७ - नित्या आकृतिः ।१०.२ - २६-४७ - कथम् ।१०.२ - २७-४७ - न क्व चित् उपरता इति कृत्वा सर्वत्र उपरता भवति ।१०.२ - २८-४७ - द्रव्यान्तरस्था तु उपलभ्यते ।१०.२ - २९-४७ - अथ वा न इदम् एव नित्यलक्षणम् ध्रुवम् कूटस्थम् अविचालि अनपायोपजनविकारि अनुत्पत्ति अवृद्धि अव्यययोगि इति तन् नित्यम् इति ।१०.२ - ३०-४७ - तत् अपि नित्यम् यस्मिन् तत्त्वम् न विहन्यते ।१०.२ - ३१-४७ - किम् पुनः तत्त्वम् ।१०.२ - ३२-४७ - तद्भावः तत्त्वम् ।१०.२ - ३३-४७ - आकृतौ अपि तत्त्वम् न विहन्यते ।१०.२ - ३४-४७ - अथ वा किम् नः एतेन इदम् नित्यम् इदम् अनित्यम् इति ।१०.२ - ३५-४७ - यत् नित्यम् तम् पदार्थम् मत्वा एषः विग्रहः क्रियते सिद्धे शब्दे अर्थे सम्बन्धे च इति ।१०.२ - ३६-४७ - कथम् पुनः ज्ञायते सिद्धः शब्दः अर्थः सम्बन्धः च इति ।१०.२ - ३७-४७ - लोकतः ।१०.२ - ३८-४७ - यत् लोके अर्थम् उपादाय शब्दान् प्रयुञ्जते ।१०.२ - ३९-४७ - न एषाम् निर्वृत्तौ यत्नम् कुर्वन्ति ।१०.२ - ४०-४७ - ये पुनः कार्याः भावाः निर्वृत्तौ तावत् तेषाम् यत्नः क्रियते ।१०.२ - ४१-४७ - तत् यथा ।१०.२ - ४२-४७ - घटेन कार्यम् करिष्यन् कुम्भकारकुलम् गत्वा आह कुरु घटम् ।१०.२ - ४३-४७ - कार्यम् अनेन करिष्यामि इति ।१०.२ - ४४-४७ - न तद्वत् शब्दान् प्रयोक्ष्यमाणः वैयाकरणकुलम् गत्वा आह ।१०.२ - ४५-४७ - कुरु शब्दान् ।१०.२ - ४६-४७ - प्रयोक्ष्ये इति ।१०.२ - ४७-४७ - तावति एव अर्थम् उपादाय शब्दान् प्रयुञ्जते । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP