संस्कृत सूची|संस्कृत स्तोत्र साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ४|पाद १| खण्ड ४६ पाद १ खण्ड ४२ खण्ड ४३ खण्ड ४४ खण्ड ४५ खण्ड ४६ पाद १ - खण्ड ४६ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ४६ Translation - भाषांतर १ - १६ - बाह्वादिप्रभृतिषु येषाम् दर्शनम् गोत्रभावे लौकिके ततः अन्यत्र तेषाम् प्रतिषेधः ।२ - १६ - बाह्वादिप्रभृतिषु येषाम् दर्शनम् गोत्रभावे लौकिके ततः अन्यत्र तेषाम् प्रतिषेधः वक्तव्यः ।३ - १६ - बाहोः अपत्यम् बाहिः ।४ - १६ - यः हि बाहुः नाम बाहवः तस्य भवति ।५ - १६ - नडस्य अपत्यम् नाडायनः ।६ - १६ - यः हि नडः नाम नाडिः तस्य भवति ।७ - १६ - सम्बन्धिशब्दप्रत्ययानाम् तत्सदृशात् प्रतिषेधः ।८ - १६ - सम्बन्धिशब्दप्रत्ययानाम् च तत्सदृशात् प्रतिषेधः वक्तव्यः ।९ - १६ - श्वशुरस्य अपत्यम् श्वशुर्यः ।१० - १६ - यः हि श्वशुरः नाम श्वाशुरिः तस्य भवति ।११ - १६ - प्रत्ययग्रहणेन न अर्थः ।१२ - १६ - सम्बन्धिशब्दानाम् तत्सदृशात् प्रतिषेधः इति एव ।१३ - १६ - इदम् अपि सिद्धम् भवति ।१४ - १६ - मातृपितृभ्याम् स्वसा ।१५ - १६ - मातृष्वसा ।१६ - १६ - अन्या मातृस्वसा इति ।१ - ७ - सुधातृव्यासयोः ।२ - ७ - सुधातृव्यासयोः इति वक्तव्यम् सौधातकिः , वयासकिः शुकः ।३ - ७ - अत्यल्पम् इदम् उच्यते ।४ - ७ - सुधातृव्यासवरुडनिषादचण्डालबिम्बानाम् इति वक्तव्यम् सौधातकिः , वैयासिकः शुकः , वारुडकिः , नैषादकिः , चाण्डालकिः , बैम्बकिः ।५ - ७ - तत् तर्हि वक्तव्यम् ।६ - ७ - न वक्तव्यम् ।७ - ७ - प्रकृत्यन्तराणि एतानि ।१ - ४६ - किमर्थः चकारः ।२ - ४६ - स्वरार्थः ।३ - ४६ - चितः अन्तः उन्दात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।४ - ४६ - अथ ञकारः किमर्थः ।५ - ४६ - ञकारः वृद्ध्यर्थः ।६ - ४६ - ञ्णिति इति वृद्धिः यथा स्यात् ।७ - ४६ - एकेन ककारेण उभयम् सिद्धम् ।८ - ४६ - अवश्यम् अत्र विशेषणाऋथः अन्यः अनुबन्धः कर्तव्यः ।९ - ४६ - क्व विशेषणार्थेन अर्थः ।१० - ४६ - व्रातच्फञोः अस्त्रियाम् इति ।११ - ४६ - फकः इति हि उच्यमाने नाडायनः अत्र अपि प्रसज्येत ।१२ - ४६ - अथ अपि फञः इति उच्यते एवम् अपि आश्वायनः अत्र अपि प्रसज्येत ।१३ - ४६ - तस्मात् चकारः एव कर्तव्यः अन्तोदात्तत्वम् अपि यथा स्यात् ।१४ - ४६ - चकारे च इदानीम् विशेषणार्थे क्रियमाणे अवश्यम् वृद्ध्यर्थः अन्यः अनुबन्धः कर्तव्यः ।१५ - ४६ - सः च ञकारः एव कर्तव्यः सूत्रभेदः मा भूत् इति ।१६ - ४६ - अथ क्रियमाने अपि वै चकारे अन्तोदात्तत्वम् न प्राप्नोति ।१७ - ४६ - किम् कारणम् ।१८ - ४६ - परत्वात् ञ्निति इति आद्युदात्तत्वम् प्राप्नोति ।१९ - ४६ - चित्करणसामर्थ्यात् अन्तोदात्तत्वम् भविष्यति ।२० - ४६ - ञित्करणसामर्थ्यात् आद्युदात्तत्वम् प्राप्नोति ।२१ - ४६ - अस्ति अन्यत् ञित्करणे प्रयोजनम् ।२२ - ४६ - किम् ।२३ - ४६ - वृद्ध्यर्थः ञकारः ।२४ - ४६ - चित्करणे अपि तर्हि अन्यत् प्रयोजनम् अस्ति ।२५ - ४६ - किम् ।२६ - ४६ - विशेषणार्थः चकारः ।२७ - ४६ - शक्यः अत्र विशेषणार्थः अन्यः अनुबन्धः आसङ्क्तुम् ।२८ - ४६ - तत्र चकारानुरोधात् अन्तोदात्तत्वम् भवति ।२९ - ४६ - वृद्ध्यर्थः अपि तर्हि अन्यः शक्यः अनुबन्धः आसङ्क्तुम् ।३० - ४६ - तत्र ञकारानुरोधात् आद्युदात्तत्वम् प्राप्नोति ।३१ - ४६ - एवम् तर्हि स्वरे योगविभागः करिष्यते ।३२ - ४६ - इदम् अस्ति ।३३ - ४६ - चितः ।३४ - ४६ - चितः अन्तः उदात्तः भवति ।३५ - ४६ - ततः तद्धितस्य ।३६ - ४६ - तद्धितस्य च चितः अन्तः उदात्तः भवति इति ।३७ - ४६ - किमर्थम् इदम् ।३८ - ४६ - परत्वात् ञ्निति इति आद्युदात्तत्वम् प्राप्नोति ।३९ - ४६ - तद्बाधनार्थम् ।४० - ४६ - ततः कितः ।४१ - ४६ - कितः तद्धितस्य अन्तः उदात्तः भवति ।४२ - ४६ - किम् पुनः अत्र स्वरार्थेन चकारेण अनुबन्धेन यावता च्फञन्तात् ञ्यः विधीयते ।४३ - ४६ - तत्र ञ्निति इति आद्युदात्तत्वेन भवितव्यम् ।४४ - ४६ - न एतत् अस्ति ।४५ - ४६ - बहुषु लोपे कृते अन्तोदात्तत्वम् यथा स्यात् ।४६ - ४६ - कौञ्चायनाः इति ।१ - १८ - इह के चित् द्व्येकयोः फ्यञम् विदधति बहुषु च फकम् के चित् च्फञन्तात् ञ्यम् ।२ - १८ - किम् अत्र न्याय्यम् ।३ - १८ - ञ्यवचनम् एव न्याय्यम् ।४ - १८ - द्व्येकयोः हि फ्यञि सति बहुषु च फकि क्रौञ्जायनानाम् अपत्यम् माणवकः कौञ्जायन्यः कौञ्जायन्यौ केन यशब्दः श्रूयेत ।५ - १८ - द्व्येकयोः इति उच्यमानः न प्राप्नोति ।६ - १८ - इह कौञ्जायनस्य अपत्यम् बहवः माणवकाः कौञ्जायनाः केन य शब्दः न श्रूयेत ।७ - १८ - द्व्येकयोः इति उच्यमानः प्राप्नोति ।८ - १८ - तत् एतत् कथम् कृत्वा ञ्यवचनम् ज्यायः भवति ।९ - १८ - यदि तत् न अस्ति ।१० - १८ - आपत्यः वा गोत्रम् ।११ - १८ - परमप्रकृतेः च आपत्यः ।१२ - १८ - आपत्यात् जीववञ्श्यात् स्वार्थे द्वितीयः युवसञ्ज्ञः सः च अस्त्रियाम् ।१३ - १८ - एकोगोत्रग्रहणानर्थक्यम् च बहुवचनलोपिषु च सिद्धम् इति ।१४ - १८ - सति हि तस्मिन् द्व्येकयोः अपि फ्यञि सति बहुषु च फकि न दोषः भवति ।१५ - १८ - तत्र कौञ्जायनानाम् अपत्यम् माणवकः इति विगृह्य कुञ्जशब्दात् द्व्येकयोः उत्पत्तिः भविष्यति ।१६ - १८ - कौञ्जायन्यः कौञ्जायन्यौ ।१७ - १८ - कौञ्जायनस्य अपत्यम् बहवः माणवकाः इति विगृह्य कुञ्जशब्दात् बहुषु उत्पत्तिः भविष्यति ।१८ - १८ - कौञ्जायनाः इति ।१ - २६ - अनृष्यानन्तर्ये इति उच्यते ।२ - २६ - तत्र इदम् सिध्यति कौशिकः विश्वामित्रः इति ।३ - २६ - किम् कारणम् ।४ - २६ - विश्वामित्रः तपः तेपे न अनृष्हिः स्याम् इति ।५ - २६ - तत्रभवान् ऋषिः सम्पन्नः ।६ - २६ - सः पुनः तपः तेपे न अनृष्हेः पुत्रः स्याम् इति ।७ - २६ - तत्रभवान् गाधिः अपि ऋषिः सम्पन्नः ।८ - २६ - सः पुनः तपः तेपे न अनृष्हेः पौत्रः स्याम् इति ।९ - २६ - तत्रभवान् कुशिकः अपि ऋषिः सम्पन्नः ।१० - २६ - तत् एतत् ऋष्यानन्तर्यम् भवति ।११ - २६ - तत्र अनृष्यानन्तर्ये इति प्रतिषेधः प्राप्नोति ।१२ - २६ - न एषः दोषः ।१३ - २६ - न एवम् विज्ञायते ऋष्यानन्तर्ये न भवति इति ।१४ - २६ - कथम् तर्हि ।१५ - २६ - ऋषौ अनन्तरे न इति ।१६ - २६ - यदि एवम् ।१७ - २६ - अनृष्यानन्तर्यवचनम् अनर्थकम् सञ्ज्ञागोत्राधिकारात् ।१८ - २६ - अनृष्यानन्तर्यवचनम् अनर्थकम् ।१९ - २६ - किम् कारणम् ।२० - २६ - सञ्ज्ञागोत्राधिकारात् ।२१ - २६ - सञ्ज्ञागोत्रे इति वर्तते ।२२ - २६ - कः प्रसङ्गः यत् अनन्तेरे स्यात् ।२३ - २६ - न एव प्राप्नोति न अर्थः प्रतिषेधेन ।२४ - २६ - एवम् तर्हि सिद्धे सति यत् अनृष्यानन्तर्ये इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः बिदादिषु ये अनृषयः पठन्ते तेषाम् अनन्तरे अपि वृत्तिः भवति ।२५ - २६ - किम् एतस्य ज्ञापने प्रयोजनम् ।२६ - २६ - नानान्द्रः पौत्रः दौहित्रः इति एतत् सिद्धम् भवति ।१ - ५ - किमर्थम् इदम् उच्यते न गर्गादिभ्यः यञ् इति एव सिद्धम् ।२ - ५ - लुक् स्त्रियाम् इति वक्ष्यामि इति ।३ - ५ - यदि पुनः तत्र एव उच्येत ।४ - ५ - न एवम् शक्यम् ।५ - ५ - आङ्गिरसग्रहणम् हि विच्छिद्येत ।१ - ३९ - किमर्थम् शिवादिभ्यः अण् विधीयते न यथाविहितम् एव उच्येत ।२ - ३९ - शिवादिभ्यः यथाविहितम् इति इयति उच्यमाने इञ् प्रसज्येत ।३ - ३९ - इञ् अतो यथाविहितः ।४ - ३९ - पुनर्वचनम् इदानीम् किमर्थम् स्यात् ।५ - ३९ - पुनर्वचनम् इदानीम् किमर्थम् स्यात् ।६ - ३९ - ये तस्य बाधकाः तद्बाधनार्थम् ।७ - ३९ - सः वै न अस्ति यः तम् बाधेत ।८ - ३९ - तत्र आरम्भसामर्थ्यात् यः विहितः न च प्राप्नोति सः भविष्यति ।९ - ३९ - कः च असौ ।१० - ३९ - अण् एव ।११ - ३९ - उत्तरार्थम् तर्हि अवृद्धाभ्यः नदीमानुषीभ्यः तन्नामिकाभ्यः इति ।१२ - ३९ - अत्र यथाविहितम् इति इयति उच्यमाने ढक् प्रस्ज्येत ।१३ - ३९ - ढक् अतः यथाविहितः ।१४ - ३९ - पुनर्वचनम् इदानीम् किमर्थम् स्यात् ।१५ - ३९ - ये तस्य बाधकाः तद्बाधनार्थम् ।१६ - ३९ - सः वै न अस्ति यः तम् बाधेत ।१७ - ३९ - तत्र आरम्भसामर्थ्यात् यः विहितः न च प्राप्नोति सः भविष्यति ।१८ - ३९ - कः च असौ ।१९ - ३९ - अण् एव ।२० - ३९ - उत्तरार्थम् एव तर्हि ऋष्यन्धकवृष्णिकुरुभ्यः च इति ।२१ - ३९ - अत्र यथाविहितम् इति इयति उच्यमाने इञ् प्रस्ज्येत ।२२ - ३९ - इञ् अतः यथाविहितः ।२३ - ३९ - पुनर्वचनम् इदानीम् किमर्थम् स्यात् ।२४ - ३९ - ये तस्य बाधकाः तद्बाधनार्थम् ।२५ - ३९ - सः वै न अस्ति यः तम् बाधेत ।२६ - ३९ - तत्र आरम्भसामर्थ्यात् यः विहितः न च प्राप्नोति सः भविष्यति ।२७ - ३९ - कः च असौ ।२८ - ३९ - अण् एव ।२९ - ३९ - उत्तरार्थम् एव तर्हि मातुः उत् सङ्ख्यासम्भद्रपूर्वायाः , कन्यायाः कनीन च इति ।३० - ३९ - अत्र यथाविहितम् इति इयति उच्यमाने ढक् प्रस्ज्येत ।३१ - ३९ - ढक् अतः यथाविहितः ।३२ - ३९ - पुनर्वचनम् इदानीम् किमर्थम् स्यात् ।३३ - ३९ - मातुः उकारम् वक्ष्यामि कन्यायाः कनीनभावम् इति ।३४ - ३९ - यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् स्त्रीभ्यः ढक् , मातुः उकारः , कन्यायाः च कनीनभावः इति ।३५ - ३९ - इदम् तर्हि प्रयोजनम् अयम् ऋष्टिषेणशब्दः शिवादिषु पठ्यते ।३६ - ३९ - तत्र यथाविहितम् इति इयति उच्यमाने इञ् प्रसज्येत ।३७ - ३९ - तम् परत्वात् सेनान्तात् ण्यः बाधेत ।३८ - ३९ - तत्र आरम्भसामर्थ्यात् इञ् प्रसज्येत ।३९ - ३९ - पुनरण्ग्रहणात् अण् एव भवति१ - ५७ - ऋषिस्त्र्यणः ढग्ढ्रकौ विप्रतिषेधेन ।२ - ५७ - ऋषिस्त्र्यणः ढग्ढ्रकौ भवतः विप्रतिषेधेन ।३ - ५७ - ऋष्यणः अवकाशः वासिष्ठः, वैश्वामित्रः ।४ - ५७ - ढकः अवकाशः दुलि दौलेयः, बलि बालेयः ।५ - ५७ - इह उभयम् प्राप्नोति अत्रि , आत्रेयः ।६ - ५७ - स्त्र्यणः अवकाशः मकन्दिका माकन्दिकः ।७ - ५७ - ढ्रकः अवकाशः काणिकेरः ।८ - ५७ - इह उभयम् प्राप्नोति पौणिकेरः , मौद्गलिकेरः ।९ - ५७ - ढग्ढ्रकौ भवतः विप्रतिषेधेन ।१० - ५७ - द्व्यचः ढकः ढ्रग्ढञौ ।११ - ५७ - द्व्यचः ढक् भवति इति एतस्मात् ढ्रग्ढञौ भवतः विप्रतिषेधेन ।१२ - ५७ - द्व्यचः ढक् भवति इति अस्य अवकाशः दात्तेयः , गौप्तेयः ।१३ - ५७ - ढ्रकः सः एव ।१४ - ५७ - इह उभयम् प्राप्नोति नटी नाटेरः , दासी दासेरः ।१५ - ५७ - ढञः अवकाशः कामण्डलेयः , भाद्रबाहेयः ।१६ - ५७ - ढकः सः एव ।१७ - ५७ - इह उभयम् प्राप्नोति जम्बू जाम्बेयः ।१८ - ५७ - ढ्रग्ढञौ भवतः विप्रतिषेधेन ।१९ - ५७ - न वा ऋष्यणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् ।२० - ५७ - न वा एषः युक्तः विप्रतिषेधः यः अयम् ऋष्यणः ढकः च ।२१ - ५७ - किम् कारणम् ।२२ - ५७ - ऋष्यणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् ।२३ - ५७ - सिद्धः अत्र अण् उत्सर्गेण एव ।२४ - ५७ - तस्य पुनर्वचने एतत् प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् ।२५ - ५७ - सः यथा एव तदपवादम् इञम् बाधते एवम् ढकम् अपि बाधेत ।२६ - ५७ - तस्मात् ऋषिभ्यः अण्विधाने अत्र्यादिप्रतिषेधः ।२७ - ५७ - तस्मात् ऋषिभ्यः अण्विधाने अत्र्यादिप्रतिषेधः वक्तव्यः ।२८ - ५७ - न वक्तव्यः ।२९ - ५७ - मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् ऋष्यण् इञम् बाधिष्यते ढकम् न बाधिष्यते ।३० - ५७ - अयम् च अपि अयुक्तः विप्रतिषेधः यः अयम् ढकः ड्रग्ढञोः च. किम् कारणम् ।३१ - ५७ - ढकः पुनर्वचनम् अन्यनिवृत्त्यर्थम् । सिद्धः अत्र ढक् स्त्रीभ्यः ढक् इति एव ।३२ - ५७ - तस्य पुनर्वचने एतत् प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् ।३३ - ५७ - सः यथा एव तदपवादम् तन्नामिकाणम् बाधते एवम् ढग्ढ्रञौ अपि बाधेत ।३४ - ५७ - तस्मात् तन्नामिकाणि अद्व्यचः ।३५ - ५७ - तस्मात् तन्नामिकाणि अद्व्यचः इति वक्तव्यम् ।३६ - ५७ - न वक्तव्यम् ।३७ - ५७ - मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् ढक् तन्नामिकाणम् तदपवादम् बाधिष्यते ढ्रग्ढञौ न बाधिष्यते ।३८ - ५७ - ऋष्यन्धकवृष्णिकुर्वणः सेनान्तात् ण्यः ।३९ - ५७ - ऋष्यन्धकवृष्णिकुर्वणः सेनान्तात् ण्यः भवति विप्रतिषेधेन ।४० - ५७ - ऋष्यणः अवकाशः वासिष्ठः, वैश्वामित्रः ।४१ - ५७ - ण्यस्य अवकाशः पाऋइषेण्यः, वारिषेण्यः ।४२ - ५७ - जातसेनः नाम् ऋषिः तस्मात् उभयम् प्राप्नोति ।४३ - ५७ - ण्यः भवति विप्रतिषेधेन ।४४ - ५७ - अन्धकाणः अवकाशः श्वाफल्कः, श्वैत्रकः ।४५ - ५७ - ण्यस्य सः एव ।४६ - ५७ - उग्रसेनः नाम अन्धकः ।४७ - ५७ - तस्मात् उभयम् प्राप्नोति ।४८ - ५७ - ण्यः भवति विप्रतिषेधेन औग्रसेन्यः ।४९ - ५७ - वृष्ण्यणः अवकाशः वासुदेवः , बालदेवः ।५० - ५७ - ण्यस्य सः एव ।५१ - ५७ - व्ष्वक्सेनः नाम वृष्णिः तस्मात् उभयम् प्राप्नोति ।५२ - ५७ - ण्यः भवति विप्रतिषेधेन वैष्वक्सेन्यः ।५३ - ५७ - कुर्वणः अवकाशः नाकुलः , साहदेवः ।५४ - ५७ - ण्यस्य सः एव ।५५ - ५७ - भीमसेनः नाम कुरुः तस्मात् उभयम् प्राप्नोति ।५६ - ५७ - ण्यः भवति विप्रतिषेधेन भैमसेन्यः ।५७ - ५७ - सेनान्तात् ण्यः भवति विप्रतिषेधेन जातोग्रविष्वग्भीमेभ्यः इति वक्तव्यम्१ - ३ - किमर्थम् स्त्रीलिङ्गेन निर्देशः क्रियते न सङ्ख्यासम्भद्रपूर्वस्य इति एव उच्येत ।२ - ३ - स्त्रीलिङ्गः यः मातृशब्दः तस्मात् यथा स्यात् ।३ - ३ - इह मा भूत् सम्मिमीते सम्माता, सम्मातुः अपत्यम् साम्मात्रः इति१ - ११ - इदम् सर्वेषु एव स्त्रीग्रहणेषु विचार्यते ।२ - ११ - स्त्रीप्रत्ययग्रहणम् वा स्यात् स्त्रीशब्दग्रहणम् वा स्त्र्यर्थग्रहणम् वा ।३ - ११ - किम् च अतः ।४ - ११ - यदि शब्दग्रहणम् अर्थग्रहणम् वा इडविड् ऐडद्विड् पृथ् पार्थः उशिज् आउशिजः शरत् शारदसः अत्र अपि प्राप्नोति ।५ - ११ - अथ प्रत्ययग्रहणम् लैखाभ्रेयः वैमात्रेयः इति न सिध्यति ।६ - ११ - अस्तु प्रत्ययग्रहणम् ।७ - ११ - कथम् लैखाभ्रेयः वैमात्रेयः इति ।८ - ११ - शुभ्रादिषु पाठः करिष्यते ।९ - ११ - वडवायाः वृषे वाच्ये ।१० - ११ - वडवायाः वृषे वाच्ये ढक् वक्तव्यः ।११ - ११ - वडवायाः वृषः वाडवेयः ।१ - ९ - चटकायाः पुल्म्̐लिङ्गनिर्देशः ।२ - ९ - चटकायाः पुल्म्̐लिङ्गेन निर्देशः कर्तव्यः ।३ - ९ - इह अपि यथा स्यात् ।४ - ९ - चटकस्य अपत्यम् चाटकैरः ।५ - ९ - यदि पुल्म्̐लिन्ग्निर्देशः क्रियते चटकाया अपत्यम् चाटकैरः इति न सिध्यति ।६ - ९ - प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति एवम् भविष्यति ।७ - ९ - स्त्रियाम् अपत्ये लुक् ।८ - ९ - स्त्रियाम् अपत्ये लुक् वक्तव्यः ।९ - ९ - चटकायाः अपत्यम् स्त्री चटका ।१ - ८ - आरग्वचनम् अनर्थकम् रका सिद्धत्वात् ।२ - ८ - आरग्वचनम् अनर्थकम् ।३ - ८ - किम् कारणम् ।४ - ८ - रका सिद्धत्वात् ।५ - ८ - गोधा आकारान्ता रक् च प्रत्ययः ।६ - ८ - एवम् तर्हि सिद्धे सति यत् आरकम् शास्ति तत् ज्ञापयति आचार्यः अन्येभ्यः अपि अयम् भवति इति ।७ - ८ - किम् एतस्य ज्ञापने प्रयोजनम् ।८ - ८ - मौण्डारः जाण्डारः पाण्डारः इति एतत् सिद्धम् भवति इति ।१ - ३ - क्षुद्राभ्यः इति उच्यते ।२ - ३ - का क्षुद्रा नाम ।३ - ३ - अनियतपुंस्का अङ्गहीना वा ।१ - २ - केन विहिते पितृष्वसुः ढकि लोपः इति उच्यते ।२ - २ - एतत् एव ज्ञापयति भवति पितृष्वसुः ढक् इति यत् अयम् ढकि लोपम् शास्ति ।१ - ९ - ढकि लोपः इति उच्यते ।२ - ९ - तत्र इदम् न सिध्यति मातृष्वस्रीयः इति ।३ - ९ - न एषः दोषः ।४ - ९ - एवम् वक्ष्यामि ।५ - ९ - पितृष्वसुः छण् ढकि लोपः ।६ - ९ - ततः मातृष्वसुः च ।७ - ९ - पितृष्वसुः यत् उक्तम् तत् मातृष्वसुः भवति इति ।८ - ९ - किम् पुनः तत् ।९ - ९ - छण् ढकि लोपः च ।१ - ५ - राज्ञः अपत्ये जातिग्रहणम् ।२ - ५ - राज्ञः अपत्ये जातिग्रहणम् कर्तव्यम् ।३ - ५ - राजन्यः नाम जातिः ।४ - ५ - क्व मा भूत् ।५ - ५ - राजनः इति ।१ - १२ - व्यन्वचनम् अनर्थकम् प्रत्ययार्थाभावात् ।२ - १२ - व्यन्वचनम् अनर्थकम् ।३ - १२ - किम् कारणम् ।४ - १२ - प्रत्ययार्थाभावात् ।५ - १२ - किम् इदम् प्रत्ययार्थाभावात् इति ।६ - १२ - अपत्यार्थाभावात् ।७ - १२ - अपत्यम् इति वर्तते अनपत्ये च अपि सपत्ने भ्रातृव्यशब्दः वर्तते ।८ - १२ - पाप्मना भ्रातृव्येण इति ।९ - १२ - अस्तु तावत् अपत्यम् सपत्नः च तत्र भ्रातृव्यः इति ।१० - १२ - कथम् पाप्मना भ्रातृव्येण इति ।११ - १२ - उपमानात् सिद्धम् ।१२ - १२ - भ्रातृव्यः इव भ्रातृव्यः ।१ - ४१ - किमर्थः णकारः ।२ - ४१ - वृद्ध्यर्थः ।३ - ४१ - ञ्णिति इति वृद्धिः यथा स्यात् ।४ - ४१ - गार्गः जाल्मः ।५ - ४१ - गोत्रस्त्रियाः प्रत्ययस्य णित्करणानर्थक्यम् वृद्धत्वात् प्रातिपदिकस्य ।६ - ४१ - गोत्रस्त्रियाः प्रत्ययस्य णित्करणम् अनर्थकम् ।७ - ४१ - किम् कारणम् ।८ - ४१ - वृद्धत्वात् प्रातिपदिकस्य ।९ - ४१ - वृद्धम् एव एतत् प्रातिपदिकम् ।१० - ४१ - लुगर्थः तर्हि णकारः कर्तव्यः ।११ - ४१ - यत् लुगन्तम् अवृद्धम् तत्र वृद्धिः यथात् स्यात् ।१२ - ४१ - वातण्डः जाल्मः ।१३ - ४१ - लुगर्थम् इति चेत् न लुक्प्रतिषेधात् ।१४ - ४१ - लुगर्थम् इति चेत् तत् न ।१५ - ४१ - किम् कारणम् ।१६ - ४१ - लुक्प्रतिषेधात् ।१७ - ४१ - प्रतिषिध्यते अत्र लुक् गोत्रे अलुक् अचि इति ।१८ - ४१ - व्यवहितत्वात् अप्रतिषेधः ।१९ - ४१ - ईकारेण व्यवहितत्वात् प्रतिषेधः न प्राप्नोति ।२० - ४१ - व्यवहितत्वात् अप्रतिषेधः इति चेत् न पुंवद्भावात् ।२१ - ४१ - व्यवहितत्वात् अप्रतिषेधः इति चेत् तत् न ।२२ - ४१ - किम् कारणम् ।२३ - ४१ - पुंवद्भावात् ।२४ - ४१ - पुंवद्भावः अत्र भवति भस्य तद्धिते अढे पुंवद्भावः भवति इति ।२५ - ४१ - फिनर्थम् तु ।२६ - ४१ - फिनर्थम् तु णकारः कर्तव्यः ।२७ - ४१ - यत् फिनन्तम् अवृद्धम् तत्र वृद्धिः यथा स्यात् ।२८ - ४१ - ग्लौचुकायनः जाल्मः ।२९ - ४१ - पुंवद्भावप्रतिषेधार्थम् च ।३० - ४१ - पुंवद्भावप्रतिषेधार्थम् च णकारः कर्तव्यः ।३१ - ४१ - गार्गा भार्या अस्य गार्गाभार्यः ।३२ - ४१ - वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः यथा स्यात् ।३३ - ४१ - गोत्रात् यूनि अस्त्रियाम् इति वचनात् अप्रयोजनम् ।३४ - ४१ - गोत्रात् यूनि अस्त्रियाम् इति वचनात् अप्रयोजनम् एतत् भवति ।३५ - ४१ - न अस्ति गार्गा ।३६ - ४१ - अवंश्यत्वात् वा स्त्रियाः प्रयोजनम् ।३७ - ४१ - अवंश्यत्वात् वा स्त्रियाः प्रयोजनम् एतत् भवति ।३८ - ४१ - न स्त्री वंश्या ।३९ - ४१ - अस्ति गार्गा स्त्री ।४० - ४१ - अपरः आह द्वौ एव वंशौ मातृवंशः पितृवंशः च ।४१ - ४१ - यावता मातृवंशः अपि अस्ति न अस्ति गार्गा ।१ - ४ - गोत्रस्त्रियाः वृद्धात् ठक् फेः छ च फाण्टाहृति इमे चत्वारः योगाः ।२ - ४ - तत्र त्रयः कुत्सने त्र्तयः सौवीरगोत्रे ।३ - ४ - आद्यः योगः कुत्सने एव ।४ - ४ - परः सौवीरगोत्रे एव ।१ - १७ - किमर्थः णकारः ।२ - १७ - वृद्ध्यर्थः ।३ - १७ - ञ्णिति इति वृद्धिः यथा स्यात् ।४ - १७ - फाण्टाहृतः ।५ - १७ - फाण्टाहृतेः प्रत्ययस्य णित्करणानर्थक्यम् वृद्धत्वात् प्रातिपदिकस्य ।६ - १७ - फाण्टाहृतेः प्रत्ययस्य णित्करणम् अनर्थकम् ।७ - १७ - किम् कारणम् ।८ - १७ - वृद्धत्वात् प्रातिपदिकस्य ।९ - १७ - वृद्धम् एव एतत् प्रातिपदिकम् ।१० - १७ - पुंवद्भावप्रतिषेधार्थम् तु ।११ - १७ - पुंवद्भावस्य प्रतिषेधार्थः णकारः कर्तव्यः ।१२ - १७ - फाण्टाहृता भार्या अस्य फाण्टाहृतभार्यः ।१३ - १७ - वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः यथा स्यात् इति ।१४ - १७ - उक्तम् वा ।१५ - १७ - किम् उक्तम् ।१६ - १७ - गोत्रात् यूनि अस्त्रियाम् इति वचनात् अप्रयोजनम् ।१७ - १७ - अवंश्यत्वात् वा स्त्रियाः प्रयोजनम् इति ।१ - २२ - वामरथस्य कण्वादिवत् स्वरवर्जम् ।२ - २२ - वामरथस्य कण्वादिवद्भावः वक्तव्यः ।३ - २२ - किम् अविशेषेण ।४ - २२ - न इति आह ।५ - २२ - स्वरम् वर्जयित्वा ।६ - २२ - किम् प्रयोजनम् ।७ - २२ - वामरथ्यस्य छात्राः वामरथाः ।८ - २२ - कण्वादिभ्यः गोत्रे इति अण् यथा स्यात् ।९ - २२ - यदि कण्वादिवत् इति उच्यते प्रत्ययाश्रयम् अनतिदिष्टम् भवति ।१० - २२ - तत्र कः दोषः ।११ - २२ - वामरथाः ।१२ - २२ - बहुषु लोपः न प्राप्नोति ।१३ - २२ - वामरथानाम् सङ्घः ।१४ - २२ - सङ्घाङ्कलक्षणेषु अञ्यञिञाम् अण् इति अण् न प्राप्नोति ।१५ - २२ - यदि पुनः यञ्वत् इति उच्येत ।१६ - २२ - एवम् अपि प्रकृत्याश्रितम् अनतिदिष्टम् भवति ।१७ - २२ - तत्रो कः दोषः ।१८ - २२ - वामरथ्यस्य छात्राः वामरथाः ।१९ - २२ - कण्वादिभ्यः गोत्रे इति अण् न प्राप्नोति ।२० - २२ - अस्तु तर्हि कण्वादिवत् इति एव ।२१ - २२ - कथम् वामरथाः वामरथानाम् सङ्घः इति ।२२ - २२ - यत् अयम् स्वरवर्जम् इति आह तत् ज्ञापयति आचार्यः प्रत्ययाश्रितम् अपि अतिदिष्टम् भवति इति ।१ - १३ - उदीचाम् अञ्विधौ तक्ष्णः अण्वचनम् ।२ - १३ - उदीचाम् अञ्विधौ तक्ष्णः अण् वक्तव्यः ।३ - १३ - ताक्ष्णः ।४ - १३ - यदि पुनः अयम् तक्षन्शब्दः शिवादिषु पठ्येत ।५ - १३ - शिवादिः इति चेत् ण्यविधिः ।६ - १३ - शिवादिः इति चेत् ण्यः विधेयः ।७ - १३ - ताक्ष्ण्यः इति ।८ - १३ - सिद्धम् तु उदीचाम् वा ण्यवचनात् ।९ - १३ - सिद्धम् एतत् ।१० - १३ - कथम् ।११ - १३ - उदीचाम् वा ण्यवचनात् ।१२ - १३ - उदीचाम् वा ण्यः भवति इति वक्तव्यम् ।१३ - १३ - ण्येन मुक्ते यः यतः प्राप्नोति सः ततः भविष्यति ।१ - ४२ - किम् इदम् कौसल्यकार्मार्ययोः विकृतयोः ग्रहणम् क्रियते ।२ - ४२ - एवम् विकृताभ्याम् यथा स्यात् ।३ - ४२ - अत्यल्पम् इदम् उच्यते कौसल्यकार्मार्याभ्याम् च इति ।४ - ४२ - फिञ्प्रकरणे दगुकोसलकर्मारच्छागवृषणाम् युट् च ।५ - ४२ - फिञ्प्रकरणे दगुकोसलकर्मारच्छागवृषणाम् युट् च इति वक्तव्यम् ।६ - ४२ - दगु दागव्यायनिः कोसल कौसल्यायनिः कर्मार कर्मार्यायणिः छाग छाग्यायनिः वृष वार्ष्यायणिः ।७ - ४२ - यदि युट् क्रियते युटि कृते अनादित्वात् आदेशः न प्राप्नोति ।८ - ४२ - इदम् इह सम्प्रधार्यम् ।९ - ४२ - युट् क्रियताम् आदेशः इति ।१० - ४२ - किम् अत्र कर्तव्यम् ।११ - ४२ - परत्वात् आदेशः ।१२ - ४२ - नित्यः युट् ।१३ - ४२ - कृते अपि आदेशे प्राप्नोति अकृते अपि प्राप्नोति ।१४ - ४२ - युट् अपि अनित्यः ।१५ - ४२ - अन्यस्य कृते आदेशे प्राप्नोति अन्यस्य अकृते ।१६ - ४२ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।१७ - ४२ - अन्तरङ्गः तर्हि युट् ।१८ - ४२ - का अन्तरङ्गता ।१९ - ४२ - उत्पत्तिसन्नियोगेन युट् उच्यते ।२० - ४२ - उत्पन्ने प्रत्यये प्रकृतिप्रत्ययौ आश्रित्य अङ्गस्य आदेशः उच्यते ।२१ - ४२ - आदेशः अपि अन्तरङ्गः ।२२ - ४२ - कथम् ।२३ - ४२ - वक्ष्यति एतत् आयनादिषु उपदेशिवद्वचनम् स्वरसिद्ध्यर्थम् इति ।२४ - ४२ - अनवकाशः तर्हि युट् ।२५ - ४२ - एवम् तर्हि पूर्वान्तः करिष्यते ।२६ - ४२ - यदि पूर्वान्तः क्रियते दागव्यायनिः ओः गुणः न प्राप्नोति ।२७ - ४२ - अस्तु तर्हि परादिः एव ।२८ - ४२ - ननु च उक्तम् युटि कृते अनादित्वात् आदेशः न प्राप्नोति इति ।२९ - ४२ - न एषः दोषः ।३० - ४२ - सिद्धम् तु आदिष्टस्य युड्वचनात् ।३१ - ४२ - सिद्धम् एतत् ।३२ - ४२ - कथम् ।३३ - ४२ - आदिष्टस्य युड्वचनात् ।३४ - ४२ - युट् च आदिष्टस्य इति वक्तव्यम् ।३५ - ४२ - तत् तर्हि वक्तव्यम् ।३६ - ४२ - न वक्तव्यम् ।३७ - ४२ - चेन सन्नियोगः करिष्यते ।३८ - ४२ - युट् च ।३९ - ४२ - किम् च ।४० - ४२ - यत् च अन्यत् प्राप्नोति ।४१ - ४२ - किम् च अन्यत् प्राप्नोति ।४२ - ४२ - आदेशः इति ।१ - ३८ - यदि पुनः अयम् कुट् परादिः क्रियेत ।२ - ३८ - कुटि प्रत्ययादेः आदेशानुपपत्तिः अनादित्वात् ।३ - ३८ - कुटि सति प्रत्ययादेः आदेशः न उपपद्यते ।४ - ३८ - किम् कारणम् ।५ - ३८ - अनादित्वात् ।६ - ३८ - कुटि सति अनादित्वात् आदेशः न प्राप्नोति ।७ - ३८ - एवम् तर्हि पूर्वान्तः करिष्यते ।८ - ३८ - पूर्वान्ते नलोपवचनम् ।९ - ३८ - यदि पूर्वान्तः क्रियते नलोपः वक्तव्यः ।१० - ३८ - चार्मिकायणिः वार्मिकायणिः ।११ - ३८ - नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति ।१२ - ३८ - परादौ पुनः सति नलोपः प्रातिपदिकान्तस्य इति नलोपः सिध्यति ।१३ - ३८ - अस्तु तर्हि परादिः एव ।१४ - ३८ - ननु च उक्तम् कुटि सति अनादित्वात् आदेशः न प्राप्नोति ।१५ - ३८ - सिद्धम् तु आदिष्टस्य कुड्वचनात् ।१६ - ३८ - सिद्धम् एतत् ।१७ - ३८ - कथम् ।१८ - ३८ - कुट् च आदिष्टस्य इति वक्तव्यम् ।१९ - ३८ - तत् तर्हि वक्तव्यम् ।२० - ३८ - न वक्तव्यम् ।२१ - ३८ - चेन सन्नियोगः करिष्यते ।२२ - ३८ - कुट् च ।२३ - ३८ - किम् च ।२४ - ३८ - यत् च अन्यत् प्राप्नोति ।२५ - ३८ - किम् च अन्यत् प्राप्नोति ।२६ - ३८ - आदेशः ।२७ - ३८ - सिध्यति ।२८ - ३८ - सूत्रम् तर्हि भिद्यते ।२९ - ३८ - यथान्यासम् एव अस्तु ।३० - ३८ - ननु च उक्तम् पूर्वान्ते नलोपवचनम् इति ।३१ - ३८ - क्रियते एतत् न्यासे एव चर्मिवर्मिणोः नलोपः च इति ।३२ - ३८ - कारिभ्यः इञः अगोत्रात् फिञ् विप्रतिषेधेन ।३३ - ३८ - कारिभ्यः इञ् भवति इति एतस्मात् अगोत्रात् फिञ् भवति विप्रतिषेधेन ।३४ - ३८ - कारिभ्यः इञ् भवति इति अस्य अवकाशः आयस्कारिः लौहकारिः ।३५ - ३८ - फिञः अवकाशः तापसायनिः साम्मितिकायनिः ।३६ - ३८ - इह उभयम् प्राप्नोति ।३७ - ३८ - नापितायनिः ।३८ - ३८ - फिञ् भवति विप्रतिषेधेन ।१ - १३ - यदि षुक् पूर्वान्तः क्रियते मानुषाः बहुषु लोपः प्राप्नोति ।२ - १३ - मानुषाणाम् सङ्घः सङ्घाङ्कलक्षणेषु अञ्यञिञाम् इत् अण् प्राप्नोति ।३ - १३ - अस्तु तर्हि परादिः ।४ - १३ - यदि परादिः मानुषी अञन्तात् ईकारः न प्राप्नोति ।५ - १३ - अस्तु तर्हि पूर्वान्तः एव ।६ - १३ - कथम् मानुषाः मानुषाणाम् सङ्घः इति ।७ - १३ - उभयत्र लौकिकस्य गोत्रस्य ग्रहणम् न च एतत् लौकिकम् गोत्रम् ।८ - १३ - इह तर्हि मानुष्यकम् इति हलः तद्धितस्य इति लोपः प्राप्नोति ।९ - १३ - परादौ अपि एषः दोषः ।१० - १३ - यत् हि हलः तद्धितस्य इति हल्ग्रहणम् न तत् अङ्गविशेषणम् शक्यम् विज्ञातुम् ।११ - १३ - इह तर्हि दोषः स्यात् ।१२ - १३ - वृकात् टेण्यण् वार्केणी इति ।१३ - १३ - तस्मात् उभाभ्याम् एव वक्तव्यम् प्रकृत्या अके राजन्यमनुष्ययुवानः इति ।१ - १५ - पौत्रप्रभृतेः गोत्रसञ्ज्ञायाम् यस्य अपत्यम् तस्य पौत्रप्रभृतिसञ्ज्ञाकरणम् ।२ - १५ - पौत्रप्रभृतेः गोत्रसञ्ज्ञायाम् यस्य अपत्यविवक्षा तस्य पौत्रप्रभृतेः गोत्रसञ्ज्ञा भवति इति वक्तव्यम् ।३ - १५ - गर्गः अपि हि कम् चित् प्रति पौत्रः कुशिकः अपि ।४ - १५ - तत्र मा भूत् ।५ - १५ - तत् तर्हि वक्तव्यम् ।६ - १५ - न वक्तव्यम् ।७ - १५ - समर्थानाम् प्रथमात् वा इति वर्तते ।८ - १५ - समर्थानाम् प्रथमस्य यत् अपत्यम् पौत्रप्रभृति इति विज्ञायते ।९ - १५ - जीवद्वंश्यम् च कुत्सितम् ।१० - १५ - जीवद्वंश्यम् च कुत्सितम् गोत्रसञ्ज्ञम् भवति इति वक्तव्यम् ।११ - १५ - गार्ग्यः त्वम् जाल्म. वात्स्यः त्वम् जाल्म ।१२ - १५ - का पुनः इह कुत्सा ।१३ - १५ - पितृतः लोके व्यपदेशवता अस्वतन्त्रेण भवितव्यम् ।१४ - १५ - यः इदानीम् पितृमान् स्वतन्त्रः भवति सः उच्यते गार्ग्यः त्वम् असि जाल्म ।१५ - १५ - न त्वम् पितृतः व्यपदेशम् अर्हसि ।१ - ४२ - जीवति तु वंश्ये युवा इति पौत्रप्रभृत्यपेक्षम् च ।२ - ४२ - जीवति तु वंश्ये युवा इति पौत्रप्रभृत्यपेक्षम् च इति वक्तव्यम् ।३ - ४२ - तत् तर्हि वक्तव्यम् ।४ - ४२ - न वक्तव्यम् ।५ - ४२ - पौत्रप्रभृति इति वर्तते ।६ - ४२ - एवम् तर्हि अन्वाचष्टे पौत्रप्रभृति इति वर्तते इति ।७ - ४२ - किम् एतस्य अन्वाख्याने प्रयोजनम् ।८ - ४२ - तत् च दैवदत्त्यर्थम् ।९ - ४२ - देवदत्तस्य अपत्यम् देवदत्तिः इति ।१० - ४२ - अनन्तरम् यत् अपत्यम् तस्य युवसञ्ज्ञा मा भूत् इति ।११ - ४२ - देवदत्तस्य तर्हि पौत्रे युवसञ्ज्ञा प्राप्नोति ।१२ - ४२ - एतत् अपि पौत्रप्रभृति भवति ।१३ - ४२ - न पौत्रप्रभृति इति अनेन अपत्यम् अभिसम्बध्यते पौत्रप्रभृति यत् अपत्यम् इति ।१४ - ४२ - किम् तर्हि ।१५ - ४२ - वंश्ये अभिसम्बध्यते पौत्रप्रभृतिवंश्ये जीवति यत् अपत्यम् इति ।१६ - ४२ - एवम् अपि देवदत्तस्य द्वौ पुत्र तयोः कनीयसि युवसञ्ज्ञा प्राप्नोति भ्रातरि च ज्यायसि इति ।१७ - ४२ - एवम् तर्हि अपत्यम् एव अभिसम्बध्यते न तु पौत्रप्रभृतिसमानाधिकरणम् अपत्यम् ।१८ - ४२ - न एवम् विज्ञायते पौत्रप्रभृति यत् अपत्यम् इति ।१९ - ४२ - कथम् तर्हि ।२० - ४२ - पौत्रप्रभृतेः यत् अपत्यम् इति ।२१ - ४२ - वृद्धस्य च पूजायाम् ।२२ - ४२ - वृद्धस्य च पूजायाम् युवसञ्ज्ञा वक्तव्या ।२३ - ४२ - तत्रभवन्तः गार्ग्यायणाः तत्रभवन्तः वात्स्यायनाः ।२४ - ४२ - का पुनः इह पूजा ।२५ - ४२ - युवत्वम् लोके ईप्सितम् पूजा इति उपचर्यते ।२६ - ४२ - तत्रभवन्तः युवत्वेन उपचर्यमाणाः प्रीताः भवन्ति ।२७ - ४२ - आपत्यः वा गोत्रम् ।२८ - ४२ - अथ वा आपत्यः गोत्रसञ्ज्ञः भवति इति वक्तव्यम् ।२९ - ४२ - परमप्रकृतेः च आपत्यः ।३० - ४२ - परमप्रकृतेः च आपत्यः भवति इति वक्तव्यम् ।३१ - ४२ - आपत्यात् जीवद्वंश्यात् स्वार्थे द्वितीयः युवसञ्ज्ञः ।३२ - ४२ - आपत्यात् जीवद्वंश्यात् स्वार्थे द्वितीयः प्रत्ययः वक्तव्यः युवसञ्ज्ञः च भवति इति वक्तव्यम् ।३३ - ४२ - सः च अस्त्रियाम् ।३४ - ४२ - सः च अस्त्रियाम् इति वक्तव्यम् ।३५ - ४२ - एकोगोत्रग्रहणानर्थक्यम् च ।३६ - ४२ - एवम् च कृत्वा एकोगोत्रग्रहणम् अनर्थकम् भवति ।३७ - ४२ - बहुवचनलोपिषु च सिद्धम् ।३८ - ४२ - बहुवचनलोपिषु च सिद्धम् भवति ।३९ - ४२ - तत्र बिदाणाम् अपत्यम् माणवकः इति विगृह्य बिदशब्दात् द्व्येकयोः उत्पत्तिः भविष्यति ।४० - ४२ - बैदः बैदौ ।४१ - ४२ - बैदस्य अपत्यम् बहवः माणवकाः इति विगृह्य बिदशब्दात् बहुषु उत्पत्तिः भविष्यति ।४२ - ४२ - बिदाः इति ।१ - ८ - अन्यग्रहणम् किमर्थम् ।२ - ८ - भ्रातरि इति वर्तते ।३ - ८ - सपिण्डमात्रे यथा स्यात् ।४ - ८ - अथ स्थविरतरग्रहणम् किमर्थम् ।५ - ८ - उभयतः विशिष्टे यथा स्यात् स्थानतः वयस्तः च ।६ - ८ - अथ जीवति इति वर्तमाने पुनः जीवतिग्रहणम् किमर्थम् ।७ - ८ - जीवतः जीवति यथा स्यात् मृते मा भूत् ।८ - ८ - मृते हि मार्ग्यः मृतः इति एव भवितव्यम् ।१ - ८० - अथ गोत्रयूनयोः समावेशः भवति उताहो न ।२ - ८० - किम् च प्राप्नोति ।३ - ८० - बाढम् प्राप्नोति ।४ - ८० - न हि अयम् एकसञ्ज्ञाधिकारः ।५ - ८० - किम् च अतः ।६ - ८० - गोत्रयोः समावेशे कः दोषः ।७ - ८० - तत्कृतम् भवेत् ।८ - ८० - गोत्रयोः समावेशे कः दोषः ।९ - ८० - तत्कृतम् प्राप्नोति ।१० - ८० - गोत्राश्रयाः विधयः यूनि अपि प्राप्नुवन्ति ।११ - ८० - यास्कायनयः लाह्यायनयः ।१२ - ८० - यस्कादिभ्यः गोत्रे इति लुक् प्राप्नोति ।१३ - ८० - यस्कादिषु न दोषः अस्ति न यूनि इति अनुवर्तनात् ।१४ - ८० - यस्कादिषु न दोषः ।१५ - ८० - किम् कारणम् ।१६ - ८० - न यूनि इति अनुवर्तनात् ।१७ - ८० - न यूनि इति तत्र अनुवर्तते ।१८ - ८० - क्व प्रकृतम् ।१९ - ८० - न तौल्वलिभ्यः इति ।२० - ८० - दोषः अत्रिबिदपञ्चालाः न यूनि इति अनुवर्तनात् ।२१ - ८० - यदि न यूनि इति अनुवर्तते अत्रयः बिदाः पञ्चालाः माणवकाः इति न सिध्यति ।२२ - ८० - न एषः दोषः ।२३ - ८० - सम्बन्धम् अनुवर्तिष्यते ।२४ - ८० - न तौल्वलिभ्यः ।२५ - ८० - तद्राजस्य बहुषु तेन एव अस्त्रियाम् लुक् भवति तौल्वलिभ्यः यूनि न ।२६ - ८० - यस्कादिभ्यः गोत्रे लुक् भवति यूनि न ।२७ - ८० - तौल्वलिभ्यः इति निवृत्तम् ।२८ - ८० - यञञोः च अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यः च लुक् भवति ।२९ - ८० - यूनि न इति निवृत्तम् ।३० - ८० - इह तर्हि काण्व्ययनस्य छात्राः काण्व्यायनीयाः ।३१ - ८० - कण्वादिभ्यः गोत्रे इति अण् प्राप्नोति ।३२ - ८० - कण्वादिषु न दोषः अस्ति न यूनि अस्ति ततः परम् ।३३ - ८० - कण्वादिषु दोषः न अस्ति ।३४ - ८० - किम् कारणम् ।३५ - ८० - न यूनि अस्ति ततः परम् ।३६ - ८० - कण्वादिभ्यः यः विहितः तदन्तात् प्रातिपदिकात् इति उच्यते ।३७ - ८० - यः च अत्र कण्वादिभ्यः विहितः न तदन्तम् प्रातिपदिकम् यदन्तम् च प्रातिपदिकम् न असौ कण्वादिभ्यः ।३८ - ८० - इह तर्हि औपगवस्य अपत्यम् औपगविः इति एकः गोत्रे इति एतस्मात् नियमात् प्रत्ययः न प्राप्नोति ।३९ - ८० - एकः गोत्रे प्रतिपदम् ।४० - ८० - प्रतिपदम् अत्र प्रत्ययाः विधीयन्ते गोत्रात् यूनि अस्त्रियाम् इति ।४१ - ८० - तदन्तात् तर्हि अनेकः प्रत्ययः प्राप्नोति ।४२ - ८० - गोत्रात् यूनि च तत् स्मरेत् ।४३ - ८० - गोत्रात् यूनि अस्त्रियाम् इति तत् स्मरेत् ।४४ - ८० - किम् ।४५ - ८० - एकः इति एव ।४६ - ८० - गोत्रे तर्हि अलुक् उक्तः ।४७ - ८० - सः यूनि अपि प्राप्नोति ।४८ - ८० - अस्तु ।४९ - ८० - पुनः यूनि लुक् भविष्यति ।५० - ८० - न एवम् शक्यम् ।५१ - ८० - फक्फिञोः दोषः स्यात् ।५२ - ८० - शालङ्केः यूनः छात्राः शालङ्काः पैलस्य पैलाः ।५३ - ८० - फक्फिञोः अन्यतरस्याम् इति अन्यतरस्याम् श्रवणम् प्रसज्येत ।५४ - ८० - तस्मात् युवसञ्ज्ञायाम् गोत्रसञ्ज्ञायाः प्रतिषेधः वक्तव्यः ।५५ - ८० - न वक्तव्यः ।५६ - ८० - तुः नियामकः ।५७ - ८० - तुः क्रियते ।५८ - ८० - सः नियामकः भविष्यति जीवति तु वंश्ये अपत्यम् युवसञ्ज्ञम् एव भवति इति ।५९ - ८० - यदि तर्हि युवसञ्ज्ञायाम् गोत्रसञ्ज्ञा न भवति ये इष्यन्ते यूनि गोत्राश्रयाः विधयः ते न सिध्यन्ति ।६० - ८० - गार्ग्यायणानाम् समूहः गार्ग्यायणकम् गार्ग्यायणानाम् किम् चित् गार्ग्यायणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः ।६१ - ८० - गोत्राश्रयः वुञ् न प्राप्नोति ।६२ - ८० - एवम् तर्हि राजन्यात् वुञ् मनुष्यात् च ज्ञापकम् लौकिकम् परम् ।६३ - ८० - यत् अयम् वुञ्विधौ राजन्यमनुष्ययोः ग्रहणम् करोति तत् ज्ञापयति आचार्यः लौकिकम् परम् गोत्रग्रहणम् इति ।६४ - ८० - युवा च लोके गोत्रम् इति उच्यते ।६५ - ८० - किम्गोत्रः असि माणवक ।६६ - ८० - गार्ग्यायणः ।६७ - ८० - किम्गोत्रः असि माणवक ।६८ - ८० - वात्स्यायनः ।६९ - ८० - यदि एतत् ज्ञाप्यते औपगवेः यूनः छात्राः औपगवीयाः इति गोत्रे इति अण् प्राप्नोति ।७० - ८० - सामूहिकेषु ज्ञापकम् ।७१ - ८० - यदि सामूहिकेषु ज्ञापकम् गार्ग्यायणानाम् किम् चित् गार्ग्यायणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ् न प्राप्नोति ।७२ - ८० - वुञ्विधौ ज्ञापकम् ।७३ - ८० - वुञ्विधौ एतत् ज्ञापकम् ।७४ - ८० - यदि वुञ्विधौ ज्ञापकम् शालङ्केः यूनः छात्राः शालङ्काः इञः गोत्रे इति अण् न प्राप्नोति ।७५ - ८० - अस्तु तर्हि अविशेषेण ।७६ - ८० - कथम् औपगवेः यूनः छात्राः औपगवीयाः ।७७ - ८० - इञः गोत्रे इति अण् प्राप्नोति ।७८ - ८० - न एषः दोषः ।७९ - ८० - गोत्रेण इञम् विशेषयिष्यामः ।८० - ८० - गोत्रे यः इञ् विहितः इति ।१ - १६ - क्षत्रियात् एकराजात् सङ्घप्रतिषेधार्थम् ।२ - १६ - क्षत्रियात् एकराजात् इति वक्तव्यम् ।३ - १६ - किम् प्रयोजनम् ।४ - १६ - सङ्घप्रतिषेधार्थम् ।५ - १६ - सङ्घात् मा भूत् ।६ - १६ - पञ्चालानाम् अपत्यम् विदेहानाम् अपत्यम् इति ।७ - १६ - तत् तर्हि वक्तव्यम् ।८ - १६ - न वक्तव्यम् ।९ - १६ - न हि अन्तरेण बहुषु लुकम् पञ्चालाः इति एतत् भवति ।१० - १६ - यः तस्मात् उत्पद्यते युवप्रत्ययः सः स्यात् ।११ - १६ - युवप्रत्ययः चेत् तस्य लुक् तस्मिन् च अलुक् भविष्यति ।१२ - १६ - इदम् तर्हि क्षौद्रकाणाम् अपत्यम् मालवानाम् अपत्यम् इति ।१३ - १६ - अत्र अपि क्षौद्रक्यः मालक्यः इति न एतत् तेषाम् दासे वा भवति कर्मकरे वा ।१४ - १६ - किम् तर्हि तेषाम् एव कस्मिन् चित् ।१५ - १६ - यावता तेषाम् एव कस्मिन् चित् तस्मात् उत्पद्यते युवप्रत्ययः सः स्यात् ।१६ - १६ - युवप्रत्ययः चेत् तस्य लुक् तस्मिन् च अलुक् भविष्यति ।१ - ७ - अथ क्षत्रियग्रहणम् किमर्थम् ।२ - ७ - इह मा भूत् ।३ - ७ - विदेहः नाम ब्राह्मणः तस्य अपत्यम् वैदेहिः ।४ - ७ - क्षत्रियग्रहणानर्थक्ये च उक्तम् ।५ - ७ - किम् उक्तम् ।६ - ७ - एकम् तावत् उक्तम् बाह्वादिप्रभृतिषु येषाम् दर्शनम् गोत्रभावे लौकिके ततः अन्यत्र तेषाम् प्रतिषेधः इति ।७ - ७ - अपरम् उक्तम् अनभिधानात् इति ।१ - ७ - क्षत्रियसमानशब्दात् जनपदात् तस्य राजनि अपत्यवत् ।२ - ७ - क्षत्रियसमानशब्दात् जनपदात् तस्य राजनि अपत्यवत् प्रत्ययाः भवन्ति इति वक्तव्यम् ।३ - ७ - पञ्चालानाम् राजा पाञ्चालः ।४ - ७ - पूरोः अण् वक्तव्यः ।५ - ७ - पौरवः ।६ - ७ - पाण्डोः ड्यण् वक्तव्यः ।७ - ७ - पाण्ड्यः ।१ - २२ - अणः ण्यङ्ण्येञः विप्रतिषेधेन ।२ - २२ - अणः ण्यङ् ण्य इञ् इति एते भवन्ति विप्रतिषेधेन ।३ - २२ - अणः अवकाशः आङ्गः वाङ्गः ।४ - २२ - ञ्यङः अवकाशः आम्बष्ठ्यः सौवीर्यः ।५ - २२ - इह उभयम् प्राप्नोति ।६ - २२ - दार्व्यः ।७ - २२ - ण्यस्य अवकाशः निचकः नैचक्यः ।८ - २२ - अणः सः एव ।९ - २२ - इह उभयम् प्राप्नोति ।१० - २२ - नीपः नैप्यः ।११ - २२ - इञः अवकाशः आजमीढिः आजक्रन्दिः ।१२ - २२ - अणः सः एव ।१३ - २२ - इह उभयम् प्राप्नोति ।१४ - २२ - बुधः बौधिः ।१५ - २२ - ण्यङ्ण्येञः भवन्ति विप्रतिषेधेन ।१६ - २२ - ञ्यङः कुरुनादिभ्यः ण्यः ।१७ - २२ - ञ्यङः कुरुनादिभ्यः ण्यः भवति विप्रतिषेधेन ।१८ - २२ - ञ्यङः अवकाशः आवन्त्यः कौन्त्यः ।१९ - २२ - ण्यस्य सः एव. नैशः नाम जनपदः ।२० - २२ - तस्मात् उभयम् प्राप्नोति ।२१ - २२ - ण्यः भवति विप्रतिषेधेन ।२२ - २२ - नैश्यः ।१ - ५ - कम्बोजादिभ्यः लुग्वचनम् चोडाद्यर्थम् ।२ - ५ - कम्बोजादिभ्यः लुक् वक्तव्यः ।३ - ५ - किम् प्रयोजनम् ।४ - ५ - चोडाद्यर्थम् ।५ - ५ - चोडः कडेरः केरलः ।१ - १० - इह कस्मात् न भवति ।२ - १० - आम्बष्ठ्या सौवीर्या ।३ - १० - अतः इति उच्यते ।४ - १० - न च एषः अकारः ।५ - १० - तदन्तविधिना प्राप्नोति ।६ - १० - अतः उत्तरम् पठति अतः इति तदन्ताग्रहणम् अवन्त्यादिभ्यः लुग्वचनात् ।७ - १० - अतः इति तदन्तस्य अग्रहणम् ।८ - १० - किम् कारणम् ।९ - १० - अवन्त्यादिभ्यः लुग्वचनात् ।१० - १० - यत् अयम् अवन्त्यादिभ्यः लुकम् शास्ति तत् ज्ञापयति आचार्यः न अत्र तदन्तविधिः भवति इति ।१ - ४ - पर्श्वादिभ्यः लुक् वक्तव्यः ।२ - ४ - पर्शूः रक्षाः असुरी ।३ - ४ - यौधेयादिप्रतिषेधः ज्ञापकः पार्श्वादिलुकः ।४ - ४ - यत् अयम् न प्राच्यभर्गादियौधेयादिभ्यः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति पर्श्वादिभ्यः लुक् इति । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP