पाद १ - खण्ड ४६

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - १६ - बाह्वादिप्रभृतिषु येषाम् दर्शनम् गोत्रभावे लौकिके ततः अन्यत्र तेषाम् प्रतिषेधः ।

२ - १६ - बाह्वादिप्रभृतिषु येषाम् दर्शनम् गोत्रभावे लौकिके ततः अन्यत्र तेषाम् प्रतिषेधः वक्तव्यः ।

३ - १६ - बाहोः अपत्यम् बाहिः ।

४ - १६ - यः हि बाहुः नाम बाहवः तस्य भवति ।

५ - १६ - नडस्य अपत्यम् नाडायनः ।

६ - १६ - यः हि नडः नाम नाडिः तस्य भवति ।

७ - १६ - सम्बन्धिशब्दप्रत्ययानाम् तत्सदृशात् प्रतिषेधः ।

८ - १६ - सम्बन्धिशब्दप्रत्ययानाम् च तत्सदृशात् प्रतिषेधः वक्तव्यः ।

९ - १६ - श्वशुरस्य अपत्यम् श्वशुर्यः ।

१० - १६ - यः हि श्वशुरः नाम श्वाशुरिः तस्य भवति ।

११ - १६ - प्रत्ययग्रहणेन न अर्थः ।

१२ - १६ - सम्बन्धिशब्दानाम् तत्सदृशात् प्रतिषेधः इति एव ।

१३ - १६ - इदम् अपि सिद्धम् भवति ।

१४ - १६ - मातृपितृभ्याम् स्वसा ।

१५ - १६ - मातृष्वसा ।

१६ - १६ - अन्या मातृस्वसा इति ।

१ - ७ - सुधातृव्यासयोः ।

२ - ७ - सुधातृव्यासयोः इति वक्तव्यम् सौधातकिः , वयासकिः शुकः ।

३ - ७ - अत्यल्पम् इदम् उच्यते ।

४ - ७ - सुधातृव्यासवरुडनिषादचण्डालबिम्बानाम् इति वक्तव्यम् सौधातकिः , वैयासिकः शुकः , वारुडकिः , नैषादकिः , चाण्डालकिः , बैम्बकिः ।

५ - ७ - तत् तर्हि वक्तव्यम् ।

६ - ७ - न वक्तव्यम् ।

७ - ७ - प्रकृत्यन्तराणि एतानि ।

१ - ४६ - किमर्थः चकारः ।

२ - ४६ - स्वरार्थः ।

३ - ४६ - चितः अन्तः उन्दात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।

४ - ४६ - अथ ञकारः किमर्थः ।

५ - ४६ - ञकारः वृद्ध्यर्थः ।

६ - ४६ - ञ्णिति इति वृद्धिः यथा स्यात् ।

७ - ४६ - एकेन ककारेण उभयम् सिद्धम् ।

८ - ४६ - अवश्यम् अत्र विशेषणाऋथः अन्यः अनुबन्धः कर्तव्यः ।

९ - ४६ - क्व विशेषणार्थेन अर्थः ।

१० - ४६ - व्रातच्फञोः अस्त्रियाम् इति ।

११ - ४६ - फकः इति हि उच्यमाने नाडायनः अत्र अपि प्रसज्येत ।

१२ - ४६ - अथ अपि फञः इति उच्यते एवम् अपि आश्वायनः अत्र अपि प्रसज्येत ।

१३ - ४६ - तस्मात् चकारः एव कर्तव्यः अन्तोदात्तत्वम् अपि यथा स्यात् ।

१४ - ४६ - चकारे च इदानीम् विशेषणार्थे क्रियमाणे अवश्यम् वृद्ध्यर्थः अन्यः अनुबन्धः कर्तव्यः ।

१५ - ४६ - सः च ञकारः एव कर्तव्यः सूत्रभेदः मा भूत् इति ।

१६ - ४६ - अथ क्रियमाने अपि वै चकारे अन्तोदात्तत्वम् न प्राप्नोति ।

१७ - ४६ - किम् कारणम् ।

१८ - ४६ - परत्वात् ञ्निति इति आद्युदात्तत्वम् प्राप्नोति ।

१९ - ४६ - चित्करणसामर्थ्यात् अन्तोदात्तत्वम् भविष्यति ।

२० - ४६ - ञित्करणसामर्थ्यात् आद्युदात्तत्वम् प्राप्नोति ।

२१ - ४६ - अस्ति अन्यत् ञित्करणे प्रयोजनम् ।

२२ - ४६ - किम् ।

२३ - ४६ - वृद्ध्यर्थः ञकारः ।

२४ - ४६ - चित्करणे अपि तर्हि अन्यत् प्रयोजनम् अस्ति ।

२५ - ४६ - किम् ।

२६ - ४६ - विशेषणार्थः चकारः ।

२७ - ४६ - शक्यः अत्र विशेषणार्थः अन्यः अनुबन्धः आसङ्क्तुम् ।

२८ - ४६ - तत्र चकारानुरोधात् अन्तोदात्तत्वम् भवति ।

२९ - ४६ - वृद्ध्यर्थः अपि तर्हि अन्यः शक्यः अनुबन्धः आसङ्क्तुम् ।

३० - ४६ - तत्र ञकारानुरोधात् आद्युदात्तत्वम् प्राप्नोति ।

३१ - ४६ - एवम् तर्हि स्वरे योगविभागः करिष्यते ।

३२ - ४६ - इदम् अस्ति ।

३३ - ४६ - चितः ।

३४ - ४६ - चितः अन्तः उदात्तः भवति ।

३५ - ४६ - ततः तद्धितस्य ।

३६ - ४६ - तद्धितस्य च चितः अन्तः उदात्तः भवति इति ।

३७ - ४६ - किमर्थम् इदम् ।

३८ - ४६ - परत्वात् ञ्निति इति आद्युदात्तत्वम् प्राप्नोति ।

३९ - ४६ - तद्बाधनार्थम् ।

४० - ४६ - ततः कितः ।

४१ - ४६ - कितः तद्धितस्य अन्तः उदात्तः भवति ।

४२ - ४६ - किम् पुनः अत्र स्वरार्थेन चकारेण अनुबन्धेन यावता च्फञन्तात् ञ्यः विधीयते ।

४३ - ४६ - तत्र ञ्निति इति आद्युदात्तत्वेन भवितव्यम् ।

४४ - ४६ - न एतत् अस्ति ।

४५ - ४६ - बहुषु लोपे कृते अन्तोदात्तत्वम् यथा स्यात् ।

४६ - ४६ - कौञ्चायनाः इति ।

१ - १८ - इह के चित् द्व्येकयोः फ्यञम् विदधति बहुषु च फकम् के चित् च्फञन्तात् ञ्यम् ।

२ - १८ - किम् अत्र न्याय्यम् ।

३ - १८ - ञ्यवचनम् एव न्याय्यम् ।

४ - १८ - द्व्येकयोः हि फ्यञि सति बहुषु च फकि क्रौञ्जायनानाम् अपत्यम् माणवकः कौञ्जायन्यः कौञ्जायन्यौ केन यशब्दः श्रूयेत ।

५ - १८ - द्व्येकयोः इति उच्यमानः न प्राप्नोति ।

६ - १८ - इह कौञ्जायनस्य अपत्यम् बहवः माणवकाः कौञ्जायनाः केन य शब्दः न श्रूयेत ।

७ - १८ - द्व्येकयोः इति उच्यमानः प्राप्नोति ।

८ - १८ - तत् एतत् कथम् कृत्वा ञ्यवचनम् ज्यायः भवति ।

९ - १८ - यदि तत् न अस्ति ।

१० - १८ - आपत्यः वा गोत्रम् ।

११ - १८ - परमप्रकृतेः च आपत्यः ।

१२ - १८ - आपत्यात् जीववञ्श्यात् स्वार्थे द्वितीयः युवसञ्ज्ञः सः च अस्त्रियाम् ।

१३ - १८ - एकोगोत्रग्रहणानर्थक्यम् च बहुवचनलोपिषु च सिद्धम् इति ।

१४ - १८ - सति हि तस्मिन् द्व्येकयोः अपि फ्यञि सति बहुषु च फकि न दोषः भवति ।

१५ - १८ - तत्र कौञ्जायनानाम् अपत्यम् माणवकः इति विगृह्य कुञ्जशब्दात् द्व्येकयोः उत्पत्तिः भविष्यति ।

१६ - १८ - कौञ्जायन्यः कौञ्जायन्यौ ।

१७ - १८ - कौञ्जायनस्य अपत्यम् बहवः माणवकाः इति विगृह्य कुञ्जशब्दात् बहुषु उत्पत्तिः भविष्यति ।

१८ - १८ - कौञ्जायनाः इति ।

१ - २६ - अनृष्यानन्तर्ये इति उच्यते ।

२ - २६ - तत्र इदम् सिध्यति कौशिकः विश्वामित्रः इति ।

३ - २६ - किम् कारणम् ।

४ - २६ - विश्वामित्रः तपः तेपे न अनृष्हिः स्याम् इति ।

५ - २६ - तत्रभवान् ऋषिः सम्पन्नः ।

६ - २६ - सः पुनः तपः तेपे न अनृष्हेः पुत्रः स्याम् इति ।

७ - २६ - तत्रभवान् गाधिः अपि ऋषिः सम्पन्नः ।

८ - २६ - सः पुनः तपः तेपे न अनृष्हेः पौत्रः स्याम् इति ।

९ - २६ - तत्रभवान् कुशिकः अपि ऋषिः सम्पन्नः ।

१० - २६ - तत् एतत् ऋष्यानन्तर्यम् भवति ।

११ - २६ - तत्र अनृष्यानन्तर्ये इति प्रतिषेधः प्राप्नोति ।

१२ - २६ - न एषः दोषः ।

१३ - २६ - न एवम् विज्ञायते ऋष्यानन्तर्ये न भवति इति ।

१४ - २६ - कथम् तर्हि ।

१५ - २६ - ऋषौ अनन्तरे न इति ।

१६ - २६ - यदि एवम् ।

१७ - २६ - अनृष्यानन्तर्यवचनम् अनर्थकम् सञ्ज्ञागोत्राधिकारात् ।

१८ - २६ - अनृष्यानन्तर्यवचनम् अनर्थकम् ।

१९ - २६ - किम् कारणम् ।

२० - २६ - सञ्ज्ञागोत्राधिकारात् ।

२१ - २६ - सञ्ज्ञागोत्रे इति वर्तते ।

२२ - २६ - कः प्रसङ्गः यत् अनन्तेरे स्यात् ।

२३ - २६ - न एव प्राप्नोति न अर्थः प्रतिषेधेन ।

२४ - २६ - एवम् तर्हि सिद्धे सति यत् अनृष्यानन्तर्ये इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः बिदादिषु ये अनृषयः पठन्ते तेषाम् अनन्तरे अपि वृत्तिः भवति ।

२५ - २६ - किम् एतस्य ज्ञापने प्रयोजनम् ।

२६ - २६ - नानान्द्रः पौत्रः दौहित्रः इति एतत् सिद्धम् भवति ।

१ - ५ - किमर्थम् इदम् उच्यते न गर्गादिभ्यः यञ् इति एव सिद्धम् ।

२ - ५ - लुक् स्त्रियाम् इति वक्ष्यामि इति ।

३ - ५ - यदि पुनः तत्र एव उच्येत ।

४ - ५ - न एवम् शक्यम् ।

५ - ५ - आङ्गिरसग्रहणम् हि विच्छिद्येत ।

१ - ३९ - किमर्थम् शिवादिभ्यः अण् विधीयते न यथाविहितम् एव उच्येत ।

२ - ३९ - शिवादिभ्यः यथाविहितम् इति इयति उच्यमाने इञ् प्रसज्येत ।

३ - ३९ - इञ् अतो यथाविहितः ।

४ - ३९ - पुनर्वचनम् इदानीम् किमर्थम् स्यात् ।

५ - ३९ - पुनर्वचनम् इदानीम् किमर्थम् स्यात् ।

६ - ३९ - ये तस्य बाधकाः तद्बाधनार्थम् ।

७ - ३९ - सः वै न अस्ति यः तम् बाधेत ।

८ - ३९ - तत्र आरम्भसामर्थ्यात् यः विहितः न च प्राप्नोति सः भविष्यति ।

९ - ३९ - कः च असौ ।

१० - ३९ - अण् एव ।

११ - ३९ - उत्तरार्थम् तर्हि अवृद्धाभ्यः नदीमानुषीभ्यः तन्नामिकाभ्यः इति ।

१२ - ३९ - अत्र यथाविहितम् इति इयति उच्यमाने ढक् प्रस्ज्येत ।

१३ - ३९ - ढक् अतः यथाविहितः ।

१४ - ३९ - पुनर्वचनम् इदानीम् किमर्थम् स्यात् ।

१५ - ३९ - ये तस्य बाधकाः तद्बाधनार्थम् ।

१६ - ३९ - सः वै न अस्ति यः तम् बाधेत ।

१७ - ३९ - तत्र आरम्भसामर्थ्यात् यः विहितः न च प्राप्नोति सः भविष्यति ।

१८ - ३९ - कः च असौ ।

१९ - ३९ - अण् एव ।

२० - ३९ - उत्तरार्थम् एव तर्हि ऋष्यन्धकवृष्णिकुरुभ्यः च इति ।

२१ - ३९ - अत्र यथाविहितम् इति इयति उच्यमाने इञ् प्रस्ज्येत ।

२२ - ३९ - इञ् अतः यथाविहितः ।

२३ - ३९ - पुनर्वचनम् इदानीम् किमर्थम् स्यात् ।

२४ - ३९ - ये तस्य बाधकाः तद्बाधनार्थम् ।

२५ - ३९ - सः वै न अस्ति यः तम् बाधेत ।

२६ - ३९ - तत्र आरम्भसामर्थ्यात् यः विहितः न च प्राप्नोति सः भविष्यति ।

२७ - ३९ - कः च असौ ।

२८ - ३९ - अण् एव ।

२९ - ३९ - उत्तरार्थम् एव तर्हि मातुः उत् सङ्ख्यासम्भद्रपूर्वायाः , कन्यायाः कनीन च इति ।

३० - ३९ - अत्र यथाविहितम् इति इयति उच्यमाने ढक् प्रस्ज्येत ।

३१ - ३९ - ढक् अतः यथाविहितः ।

३२ - ३९ - पुनर्वचनम् इदानीम् किमर्थम् स्यात् ।

३३ - ३९ - मातुः उकारम् वक्ष्यामि कन्यायाः कनीनभावम् इति ।

३४ - ३९ - यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् स्त्रीभ्यः ढक् , मातुः उकारः , कन्यायाः च कनीनभावः इति ।

३५ - ३९ - इदम् तर्हि प्रयोजनम् अयम् ऋष्टिषेणशब्दः शिवादिषु पठ्यते ।

३६ - ३९ - तत्र यथाविहितम् इति इयति उच्यमाने इञ् प्रसज्येत ।

३७ - ३९ - तम् परत्वात् सेनान्तात् ण्यः बाधेत ।

३८ - ३९ - तत्र आरम्भसामर्थ्यात् इञ् प्रसज्येत ।

३९ - ३९ - पुनरण्ग्रहणात् अण् एव भवति

१ - ५७ - ऋषिस्त्र्यणः ढग्ढ्रकौ विप्रतिषेधेन ।

२ - ५७ - ऋषिस्त्र्यणः ढग्ढ्रकौ भवतः विप्रतिषेधेन ।

३ - ५७ - ऋष्यणः अवकाशः वासिष्ठः, वैश्वामित्रः ।

४ - ५७ - ढकः अवकाशः दुलि दौलेयः, बलि बालेयः ।

५ - ५७ - इह उभयम् प्राप्नोति अत्रि , आत्रेयः ।

६ - ५७ - स्त्र्यणः अवकाशः मकन्दिका माकन्दिकः ।

७ - ५७ - ढ्रकः अवकाशः काणिकेरः ।

८ - ५७ - इह उभयम् प्राप्नोति पौणिकेरः , मौद्गलिकेरः ।

९ - ५७ - ढग्ढ्रकौ भवतः विप्रतिषेधेन ।

१० - ५७ - द्व्यचः ढकः ढ्रग्ढञौ ।

११ - ५७ - द्व्यचः ढक् भवति इति एतस्मात् ढ्रग्ढञौ भवतः विप्रतिषेधेन ।

१२ - ५७ - द्व्यचः ढक् भवति इति अस्य अवकाशः दात्तेयः , गौप्तेयः ।

१३ - ५७ - ढ्रकः सः एव ।

१४ - ५७ - इह उभयम् प्राप्नोति नटी नाटेरः , दासी दासेरः ।

१५ - ५७ - ढञः अवकाशः कामण्डलेयः , भाद्रबाहेयः ।

१६ - ५७ - ढकः सः एव ।

१७ - ५७ - इह उभयम् प्राप्नोति जम्बू जाम्बेयः ।

१८ - ५७ - ढ्रग्ढञौ भवतः विप्रतिषेधेन ।

१९ - ५७ - न वा ऋष्यणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् ।

२० - ५७ - न वा एषः युक्तः विप्रतिषेधः यः अयम् ऋष्यणः ढकः च ।

२१ - ५७ - किम् कारणम् ।

२२ - ५७ - ऋष्यणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् ।

२३ - ५७ - सिद्धः अत्र अण् उत्सर्गेण एव ।

२४ - ५७ - तस्य पुनर्वचने एतत् प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् ।

२५ - ५७ - सः यथा एव तदपवादम् इञम् बाधते एवम् ढकम् अपि बाधेत ।

२६ - ५७ - तस्मात् ऋषिभ्यः अण्विधाने अत्र्यादिप्रतिषेधः ।

२७ - ५७ - तस्मात् ऋषिभ्यः अण्विधाने अत्र्यादिप्रतिषेधः वक्तव्यः ।

२८ - ५७ - न वक्तव्यः ।

२९ - ५७ - मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् ऋष्यण् इञम् बाधिष्यते ढकम् न बाधिष्यते ।

३० - ५७ - अयम् च अपि अयुक्तः विप्रतिषेधः यः अयम् ढकः ड्रग्ढञोः च. किम् कारणम् ।

३१ - ५७ - ढकः पुनर्वचनम् अन्यनिवृत्त्यर्थम् । सिद्धः अत्र ढक् स्त्रीभ्यः ढक् इति एव ।

३२ - ५७ - तस्य पुनर्वचने एतत् प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् ।

३३ - ५७ - सः यथा एव तदपवादम् तन्नामिकाणम् बाधते एवम् ढग्ढ्रञौ अपि बाधेत ।

३४ - ५७ - तस्मात् तन्नामिकाणि अद्व्यचः ।

३५ - ५७ - तस्मात् तन्नामिकाणि अद्व्यचः इति वक्तव्यम् ।

३६ - ५७ - न वक्तव्यम् ।

३७ - ५७ - मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् ढक् तन्नामिकाणम् तदपवादम् बाधिष्यते ढ्रग्ढञौ न बाधिष्यते ।

३८ - ५७ - ऋष्यन्धकवृष्णिकुर्वणः सेनान्तात् ण्यः ।

३९ - ५७ - ऋष्यन्धकवृष्णिकुर्वणः सेनान्तात् ण्यः भवति विप्रतिषेधेन ।

४० - ५७ - ऋष्यणः अवकाशः वासिष्ठः, वैश्वामित्रः ।

४१ - ५७ - ण्यस्य अवकाशः पाऋइषेण्यः, वारिषेण्यः ।

४२ - ५७ - जातसेनः नाम् ऋषिः तस्मात् उभयम् प्राप्नोति ।

४३ - ५७ - ण्यः भवति विप्रतिषेधेन ।

४४ - ५७ - अन्धकाणः अवकाशः श्वाफल्कः, श्वैत्रकः ।

४५ - ५७ - ण्यस्य सः एव ।

४६ - ५७ - उग्रसेनः नाम अन्धकः ।

४७ - ५७ - तस्मात् उभयम् प्राप्नोति ।

४८ - ५७ - ण्यः भवति विप्रतिषेधेन औग्रसेन्यः ।

४९ - ५७ - वृष्ण्यणः अवकाशः वासुदेवः , बालदेवः ।

५० - ५७ - ण्यस्य सः एव ।

५१ - ५७ - व्ष्वक्सेनः नाम वृष्णिः तस्मात् उभयम् प्राप्नोति ।

५२ - ५७ - ण्यः भवति विप्रतिषेधेन वैष्वक्सेन्यः ।

५३ - ५७ - कुर्वणः अवकाशः नाकुलः , साहदेवः ।

५४ - ५७ - ण्यस्य सः एव ।

५५ - ५७ - भीमसेनः नाम कुरुः तस्मात् उभयम् प्राप्नोति ।

५६ - ५७ - ण्यः भवति विप्रतिषेधेन भैमसेन्यः ।

५७ - ५७ - सेनान्तात् ण्यः भवति विप्रतिषेधेन जातोग्रविष्वग्भीमेभ्यः इति वक्तव्यम्

१ - ३ - किमर्थम् स्त्रीलिङ्गेन निर्देशः क्रियते न सङ्ख्यासम्भद्रपूर्वस्य इति एव उच्येत ।

२ - ३ - स्त्रीलिङ्गः यः मातृशब्दः तस्मात् यथा स्यात् ।

३ - ३ - इह मा भूत् सम्मिमीते सम्माता, सम्मातुः अपत्यम् साम्मात्रः इति

१ - ११ - इदम् सर्वेषु एव स्त्रीग्रहणेषु विचार्यते ।

२ - ११ - स्त्रीप्रत्ययग्रहणम् वा स्यात् स्त्रीशब्दग्रहणम् वा स्त्र्यर्थग्रहणम् वा ।

३ - ११ - किम् च अतः ।

४ - ११ - यदि शब्दग्रहणम् अर्थग्रहणम् वा इडविड् ऐडद्विड् पृथ् पार्थः उशिज् आउशिजः शरत् शारदसः अत्र अपि प्राप्नोति ।

५ - ११ - अथ प्रत्ययग्रहणम् लैखाभ्रेयः वैमात्रेयः इति न सिध्यति ।

६ - ११ - अस्तु प्रत्ययग्रहणम् ।

७ - ११ - कथम् लैखाभ्रेयः वैमात्रेयः इति ।

८ - ११ - शुभ्रादिषु पाठः करिष्यते ।

९ - ११ - वडवायाः वृषे वाच्ये ।

१० - ११ - वडवायाः वृषे वाच्ये ढक् वक्तव्यः ।

११ - ११ - वडवायाः वृषः वाडवेयः ।

१ - ९ - चटकायाः पुल्म्̐लिङ्गनिर्देशः ।

२ - ९ - चटकायाः पुल्म्̐लिङ्गेन निर्देशः कर्तव्यः ।

३ - ९ - इह अपि यथा स्यात् ।

४ - ९ - चटकस्य अपत्यम् चाटकैरः ।

५ - ९ - यदि पुल्म्̐लिन्ग्निर्देशः क्रियते चटकाया अपत्यम् चाटकैरः इति न सिध्यति ।

६ - ९ - प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति एवम् भविष्यति ।

७ - ९ - स्त्रियाम् अपत्ये लुक् ।

८ - ९ - स्त्रियाम् अपत्ये लुक् वक्तव्यः ।

९ - ९ - चटकायाः अपत्यम् स्त्री चटका ।

१ - ८ - आरग्वचनम् अनर्थकम् रका सिद्धत्वात् ।

२ - ८ - आरग्वचनम् अनर्थकम् ।

३ - ८ - किम् कारणम् ।

४ - ८ - रका सिद्धत्वात् ।

५ - ८ - गोधा आकारान्ता रक् च प्रत्ययः ।

६ - ८ - एवम् तर्हि सिद्धे सति यत् आरकम् शास्ति तत् ज्ञापयति आचार्यः अन्येभ्यः अपि अयम् भवति इति ।

७ - ८ - किम् एतस्य ज्ञापने प्रयोजनम् ।

८ - ८ - मौण्डारः जाण्डारः पाण्डारः इति एतत् सिद्धम् भवति इति ।

१ - ३ - क्षुद्राभ्यः इति उच्यते ।

२ - ३ - का क्षुद्रा नाम ।

३ - ३ - अनियतपुंस्का अङ्गहीना वा ।

१ - २ - केन विहिते पितृष्वसुः ढकि लोपः इति उच्यते ।

२ - २ - एतत् एव ज्ञापयति भवति पितृष्वसुः ढक् इति यत् अयम् ढकि लोपम् शास्ति ।

१ - ९ - ढकि लोपः इति उच्यते ।

२ - ९ - तत्र इदम् न सिध्यति मातृष्वस्रीयः इति ।

३ - ९ - न एषः दोषः ।

४ - ९ - एवम् वक्ष्यामि ।

५ - ९ - पितृष्वसुः छण् ढकि लोपः ।

६ - ९ - ततः मातृष्वसुः च ।

७ - ९ - पितृष्वसुः यत् उक्तम् तत् मातृष्वसुः भवति इति ।

८ - ९ - किम् पुनः तत् ।

९ - ९ - छण् ढकि लोपः च ।

१ - ५ - राज्ञः अपत्ये जातिग्रहणम् ।

२ - ५ - राज्ञः अपत्ये जातिग्रहणम् कर्तव्यम् ।

३ - ५ - राजन्यः नाम जातिः ।

४ - ५ - क्व मा भूत् ।

५ - ५ - राजनः इति ।

१ - १२ - व्यन्वचनम् अनर्थकम् प्रत्ययार्थाभावात् ।

२ - १२ - व्यन्वचनम् अनर्थकम् ।

३ - १२ - किम् कारणम् ।

४ - १२ - प्रत्ययार्थाभावात् ।

५ - १२ - किम् इदम् प्रत्ययार्थाभावात् इति ।

६ - १२ - अपत्यार्थाभावात् ।

७ - १२ - अपत्यम् इति वर्तते अनपत्ये च अपि सपत्ने भ्रातृव्यशब्दः वर्तते ।

८ - १२ - पाप्मना भ्रातृव्येण इति ।

९ - १२ - अस्तु तावत् अपत्यम् सपत्नः च तत्र भ्रातृव्यः इति ।

१० - १२ - कथम् पाप्मना भ्रातृव्येण इति ।

११ - १२ - उपमानात् सिद्धम् ।

१२ - १२ - भ्रातृव्यः इव भ्रातृव्यः ।

१ - ४१ - किमर्थः णकारः ।

२ - ४१ - वृद्ध्यर्थः ।

३ - ४१ - ञ्णिति इति वृद्धिः यथा स्यात् ।

४ - ४१ - गार्गः जाल्मः ।

५ - ४१ - गोत्रस्त्रियाः प्रत्ययस्य णित्करणानर्थक्यम् वृद्धत्वात् प्रातिपदिकस्य ।

६ - ४१ - गोत्रस्त्रियाः प्रत्ययस्य णित्करणम् अनर्थकम् ।

७ - ४१ - किम् कारणम् ।

८ - ४१ - वृद्धत्वात् प्रातिपदिकस्य ।

९ - ४१ - वृद्धम् एव एतत् प्रातिपदिकम् ।

१० - ४१ - लुगर्थः तर्हि णकारः कर्तव्यः ।

११ - ४१ - यत् लुगन्तम् अवृद्धम् तत्र वृद्धिः यथात् स्यात् ।

१२ - ४१ - वातण्डः जाल्मः ।

१३ - ४१ - लुगर्थम् इति चेत् न लुक्प्रतिषेधात् ।

१४ - ४१ - लुगर्थम् इति चेत् तत् न ।

१५ - ४१ - किम् कारणम् ।

१६ - ४१ - लुक्प्रतिषेधात् ।

१७ - ४१ - प्रतिषिध्यते अत्र लुक् गोत्रे अलुक् अचि इति ।

१८ - ४१ - व्यवहितत्वात् अप्रतिषेधः ।

१९ - ४१ - ईकारेण व्यवहितत्वात् प्रतिषेधः न प्राप्नोति ।

२० - ४१ - व्यवहितत्वात् अप्रतिषेधः इति चेत् न पुंवद्भावात् ।

२१ - ४१ - व्यवहितत्वात् अप्रतिषेधः इति चेत् तत् न ।

२२ - ४१ - किम् कारणम् ।

२३ - ४१ - पुंवद्भावात् ।

२४ - ४१ - पुंवद्भावः अत्र भवति भस्य तद्धिते अढे पुंवद्भावः भवति इति ।

२५ - ४१ - फिनर्थम् तु ।

२६ - ४१ - फिनर्थम् तु णकारः कर्तव्यः ।

२७ - ४१ - यत् फिनन्तम् अवृद्धम् तत्र वृद्धिः यथा स्यात् ।

२८ - ४१ - ग्लौचुकायनः जाल्मः ।

२९ - ४१ - पुंवद्भावप्रतिषेधार्थम् च ।

३० - ४१ - पुंवद्भावप्रतिषेधार्थम् च णकारः कर्तव्यः ।

३१ - ४१ - गार्गा भार्या अस्य गार्गाभार्यः ।

३२ - ४१ - वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः यथा स्यात् ।

३३ - ४१ - गोत्रात् यूनि अस्त्रियाम् इति वचनात् अप्रयोजनम् ।

३४ - ४१ - गोत्रात् यूनि अस्त्रियाम् इति वचनात् अप्रयोजनम् एतत् भवति ।

३५ - ४१ - न अस्ति गार्गा ।

३६ - ४१ - अवंश्यत्वात् वा स्त्रियाः प्रयोजनम् ।

३७ - ४१ - अवंश्यत्वात् वा स्त्रियाः प्रयोजनम् एतत् भवति ।

३८ - ४१ - न स्त्री वंश्या ।

३९ - ४१ - अस्ति गार्गा स्त्री ।

४० - ४१ - अपरः आह द्वौ एव वंशौ मातृवंशः पितृवंशः च ।

४१ - ४१ - यावता मातृवंशः अपि अस्ति न अस्ति गार्गा ।

१ - ४ - गोत्रस्त्रियाः वृद्धात् ठक् फेः छ च फाण्टाहृति इमे चत्वारः योगाः ।

२ - ४ - तत्र त्रयः कुत्सने त्र्तयः सौवीरगोत्रे ।

३ - ४ - आद्यः योगः कुत्सने एव ।

४ - ४ - परः सौवीरगोत्रे एव ।

१ - १७ - किमर्थः णकारः ।

२ - १७ - वृद्ध्यर्थः ।

३ - १७ - ञ्णिति इति वृद्धिः यथा स्यात् ।

४ - १७ - फाण्टाहृतः ।

५ - १७ - फाण्टाहृतेः प्रत्ययस्य णित्करणानर्थक्यम् वृद्धत्वात् प्रातिपदिकस्य ।

६ - १७ - फाण्टाहृतेः प्रत्ययस्य णित्करणम् अनर्थकम् ।

७ - १७ - किम् कारणम् ।

८ - १७ - वृद्धत्वात् प्रातिपदिकस्य ।

९ - १७ - वृद्धम् एव एतत् प्रातिपदिकम् ।

१० - १७ - पुंवद्भावप्रतिषेधार्थम् तु ।

११ - १७ - पुंवद्भावस्य प्रतिषेधार्थः णकारः कर्तव्यः ।

१२ - १७ - फाण्टाहृता भार्या अस्य फाण्टाहृतभार्यः ।

१३ - १७ - वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः यथा स्यात् इति ।

१४ - १७ - उक्तम् वा ।

१५ - १७ - किम् उक्तम् ।

१६ - १७ - गोत्रात् यूनि अस्त्रियाम् इति वचनात् अप्रयोजनम् ।

१७ - १७ - अवंश्यत्वात् वा स्त्रियाः प्रयोजनम् इति ।

१ - २२ - वामरथस्य कण्वादिवत् स्वरवर्जम् ।

२ - २२ - वामरथस्य कण्वादिवद्भावः वक्तव्यः ।

३ - २२ - किम् अविशेषेण ।

४ - २२ - न इति आह ।

५ - २२ - स्वरम् वर्जयित्वा ।

६ - २२ - किम् प्रयोजनम् ।

७ - २२ - वामरथ्यस्य छात्राः वामरथाः ।

८ - २२ - कण्वादिभ्यः गोत्रे इति अण् यथा स्यात् ।

९ - २२ - यदि कण्वादिवत् इति उच्यते प्रत्ययाश्रयम् अनतिदिष्टम् भवति ।

१० - २२ - तत्र कः दोषः ।

११ - २२ - वामरथाः ।

१२ - २२ - बहुषु लोपः न प्राप्नोति ।

१३ - २२ - वामरथानाम् सङ्घः ।

१४ - २२ - सङ्घाङ्कलक्षणेषु अञ्यञिञाम् अण् इति अण् न प्राप्नोति ।

१५ - २२ - यदि पुनः यञ्वत् इति उच्येत ।

१६ - २२ - एवम् अपि प्रकृत्याश्रितम् अनतिदिष्टम् भवति ।

१७ - २२ - तत्रो कः दोषः ।

१८ - २२ - वामरथ्यस्य छात्राः वामरथाः ।

१९ - २२ - कण्वादिभ्यः गोत्रे इति अण् न प्राप्नोति ।

२० - २२ - अस्तु तर्हि कण्वादिवत् इति एव ।

२१ - २२ - कथम् वामरथाः वामरथानाम् सङ्घः इति ।

२२ - २२ - यत् अयम् स्वरवर्जम् इति आह तत् ज्ञापयति आचार्यः प्रत्ययाश्रितम् अपि अतिदिष्टम् भवति इति ।

१ - १३ - उदीचाम् अञ्विधौ तक्ष्णः अण्वचनम् ।

२ - १३ - उदीचाम् अञ्विधौ तक्ष्णः अण् वक्तव्यः ।

३ - १३ - ताक्ष्णः ।

४ - १३ - यदि पुनः अयम् तक्षन्शब्दः शिवादिषु पठ्येत ।

५ - १३ - शिवादिः इति चेत् ण्यविधिः ।

६ - १३ - शिवादिः इति चेत् ण्यः विधेयः ।

७ - १३ - ताक्ष्ण्यः इति ।

८ - १३ - सिद्धम् तु उदीचाम् वा ण्यवचनात् ।

९ - १३ - सिद्धम् एतत् ।

१० - १३ - कथम् ।

११ - १३ - उदीचाम् वा ण्यवचनात् ।

१२ - १३ - उदीचाम् वा ण्यः भवति इति वक्तव्यम् ।

१३ - १३ - ण्येन मुक्ते यः यतः प्राप्नोति सः ततः भविष्यति ।

१ - ४२ - किम् इदम् कौसल्यकार्मार्ययोः विकृतयोः ग्रहणम् क्रियते ।

२ - ४२ - एवम् विकृताभ्याम् यथा स्यात् ।

३ - ४२ - अत्यल्पम् इदम् उच्यते कौसल्यकार्मार्याभ्याम् च इति ।

४ - ४२ - फिञ्प्रकरणे दगुकोसलकर्मारच्छागवृषणाम् युट् च ।

५ - ४२ - फिञ्प्रकरणे दगुकोसलकर्मारच्छागवृषणाम् युट् च इति वक्तव्यम् ।

६ - ४२ - दगु दागव्यायनिः कोसल कौसल्यायनिः कर्मार कर्मार्यायणिः छाग छाग्यायनिः वृष वार्ष्यायणिः ।

७ - ४२ - यदि युट् क्रियते युटि कृते अनादित्वात् आदेशः न प्राप्नोति ।

८ - ४२ - इदम् इह सम्प्रधार्यम् ।

९ - ४२ - युट् क्रियताम् आदेशः इति ।

१० - ४२ - किम् अत्र कर्तव्यम् ।

११ - ४२ - परत्वात् आदेशः ।

१२ - ४२ - नित्यः युट् ।

१३ - ४२ - कृते अपि आदेशे प्राप्नोति अकृते अपि प्राप्नोति ।

१४ - ४२ - युट् अपि अनित्यः ।

१५ - ४२ - अन्यस्य कृते आदेशे प्राप्नोति अन्यस्य अकृते ।

१६ - ४२ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

१७ - ४२ - अन्तरङ्गः तर्हि युट् ।

१८ - ४२ - का अन्तरङ्गता ।

१९ - ४२ - उत्पत्तिसन्नियोगेन युट् उच्यते ।

२० - ४२ - उत्पन्ने प्रत्यये प्रकृतिप्रत्ययौ आश्रित्य अङ्गस्य आदेशः उच्यते ।

२१ - ४२ - आदेशः अपि अन्तरङ्गः ।

२२ - ४२ - कथम् ।

२३ - ४२ - वक्ष्यति एतत् आयनादिषु उपदेशिवद्वचनम् स्वरसिद्ध्यर्थम् इति ।

२४ - ४२ - अनवकाशः तर्हि युट् ।

२५ - ४२ - एवम् तर्हि पूर्वान्तः करिष्यते ।

२६ - ४२ - यदि पूर्वान्तः क्रियते दागव्यायनिः ओः गुणः न प्राप्नोति ।

२७ - ४२ - अस्तु तर्हि परादिः एव ।

२८ - ४२ - ननु च उक्तम् युटि कृते अनादित्वात् आदेशः न प्राप्नोति इति ।

२९ - ४२ - न एषः दोषः ।

३० - ४२ - सिद्धम् तु आदिष्टस्य युड्वचनात् ।

३१ - ४२ - सिद्धम् एतत् ।

३२ - ४२ - कथम् ।

३३ - ४२ - आदिष्टस्य युड्वचनात् ।

३४ - ४२ - युट् च आदिष्टस्य इति वक्तव्यम् ।

३५ - ४२ - तत् तर्हि वक्तव्यम् ।

३६ - ४२ - न वक्तव्यम् ।

३७ - ४२ - चेन सन्नियोगः करिष्यते ।

३८ - ४२ - युट् च ।

३९ - ४२ - किम् च ।

४० - ४२ - यत् च अन्यत् प्राप्नोति ।

४१ - ४२ - किम् च अन्यत् प्राप्नोति ।

४२ - ४२ - आदेशः इति ।

१ - ३८ - यदि पुनः अयम् कुट् परादिः क्रियेत ।

२ - ३८ - कुटि प्रत्ययादेः आदेशानुपपत्तिः अनादित्वात् ।

३ - ३८ - कुटि सति प्रत्ययादेः आदेशः न उपपद्यते ।

४ - ३८ - किम् कारणम् ।

५ - ३८ - अनादित्वात् ।

६ - ३८ - कुटि सति अनादित्वात् आदेशः न प्राप्नोति ।

७ - ३८ - एवम् तर्हि पूर्वान्तः करिष्यते ।

८ - ३८ - पूर्वान्ते नलोपवचनम् ।

९ - ३८ - यदि पूर्वान्तः क्रियते नलोपः वक्तव्यः ।

१० - ३८ - चार्मिकायणिः वार्मिकायणिः ।

११ - ३८ - नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति ।

१२ - ३८ - परादौ पुनः सति नलोपः प्रातिपदिकान्तस्य इति नलोपः सिध्यति ।

१३ - ३८ - अस्तु तर्हि परादिः एव ।

१४ - ३८ - ननु च उक्तम् कुटि सति अनादित्वात् आदेशः न प्राप्नोति ।

१५ - ३८ - सिद्धम् तु आदिष्टस्य कुड्वचनात् ।

१६ - ३८ - सिद्धम् एतत् ।

१७ - ३८ - कथम् ।

१८ - ३८ - कुट् च आदिष्टस्य इति वक्तव्यम् ।

१९ - ३८ - तत् तर्हि वक्तव्यम् ।

२० - ३८ - न वक्तव्यम् ।

२१ - ३८ - चेन सन्नियोगः करिष्यते ।

२२ - ३८ - कुट् च ।

२३ - ३८ - किम् च ।

२४ - ३८ - यत् च अन्यत् प्राप्नोति ।

२५ - ३८ - किम् च अन्यत् प्राप्नोति ।

२६ - ३८ - आदेशः ।

२७ - ३८ - सिध्यति ।

२८ - ३८ - सूत्रम् तर्हि भिद्यते ।

२९ - ३८ - यथान्यासम् एव अस्तु ।

३० - ३८ - ननु च उक्तम् पूर्वान्ते नलोपवचनम् इति ।

३१ - ३८ - क्रियते एतत् न्यासे एव चर्मिवर्मिणोः नलोपः च इति ।

३२ - ३८ - कारिभ्यः इञः अगोत्रात् फिञ् विप्रतिषेधेन ।

३३ - ३८ - कारिभ्यः इञ् भवति इति एतस्मात् अगोत्रात् फिञ् भवति विप्रतिषेधेन ।

३४ - ३८ - कारिभ्यः इञ् भवति इति अस्य अवकाशः आयस्कारिः लौहकारिः ।

३५ - ३८ - फिञः अवकाशः तापसायनिः साम्मितिकायनिः ।

३६ - ३८ - इह उभयम् प्राप्नोति ।

३७ - ३८ - नापितायनिः ।

३८ - ३८ - फिञ् भवति विप्रतिषेधेन ।

१ - १३ - यदि षुक् पूर्वान्तः क्रियते मानुषाः बहुषु लोपः प्राप्नोति ।

२ - १३ - मानुषाणाम् सङ्घः सङ्घाङ्कलक्षणेषु अञ्यञिञाम् इत् अण् प्राप्नोति ।

३ - १३ - अस्तु तर्हि परादिः ।

४ - १३ - यदि परादिः मानुषी अञन्तात् ईकारः न प्राप्नोति ।

५ - १३ - अस्तु तर्हि पूर्वान्तः एव ।

६ - १३ - कथम् मानुषाः मानुषाणाम् सङ्घः इति ।

७ - १३ - उभयत्र लौकिकस्य गोत्रस्य ग्रहणम् न च एतत् लौकिकम् गोत्रम् ।

८ - १३ - इह तर्हि मानुष्यकम् इति हलः तद्धितस्य इति लोपः प्राप्नोति ।

९ - १३ - परादौ अपि एषः दोषः ।

१० - १३ - यत् हि हलः तद्धितस्य इति हल्ग्रहणम् न तत् अङ्गविशेषणम् शक्यम् विज्ञातुम् ।

११ - १३ - इह तर्हि दोषः स्यात् ।

१२ - १३ - वृकात् टेण्यण् वार्केणी इति ।

१३ - १३ - तस्मात् उभाभ्याम् एव वक्तव्यम् प्रकृत्या अके राजन्यमनुष्ययुवानः इति ।

१ - १५ - पौत्रप्रभृतेः गोत्रसञ्ज्ञायाम् यस्य अपत्यम् तस्य पौत्रप्रभृतिसञ्ज्ञाकरणम् ।

२ - १५ - पौत्रप्रभृतेः गोत्रसञ्ज्ञायाम् यस्य अपत्यविवक्षा तस्य पौत्रप्रभृतेः गोत्रसञ्ज्ञा भवति इति वक्तव्यम् ।

३ - १५ - गर्गः अपि हि कम् चित् प्रति पौत्रः कुशिकः अपि ।

४ - १५ - तत्र मा भूत् ।

५ - १५ - तत् तर्हि वक्तव्यम् ।

६ - १५ - न वक्तव्यम् ।

७ - १५ - समर्थानाम् प्रथमात् वा इति वर्तते ।

८ - १५ - समर्थानाम् प्रथमस्य यत् अपत्यम् पौत्रप्रभृति इति विज्ञायते ।

९ - १५ - जीवद्वंश्यम् च कुत्सितम् ।

१० - १५ - जीवद्वंश्यम् च कुत्सितम् गोत्रसञ्ज्ञम् भवति इति वक्तव्यम् ।

११ - १५ - गार्ग्यः त्वम् जाल्म. वात्स्यः त्वम् जाल्म ।

१२ - १५ - का पुनः इह कुत्सा ।

१३ - १५ - पितृतः लोके व्यपदेशवता अस्वतन्त्रेण भवितव्यम् ।

१४ - १५ - यः इदानीम् पितृमान् स्वतन्त्रः भवति सः उच्यते गार्ग्यः त्वम् असि जाल्म ।

१५ - १५ - न त्वम् पितृतः व्यपदेशम् अर्हसि ।

१ - ४२ - जीवति तु वंश्ये युवा इति पौत्रप्रभृत्यपेक्षम् च ।

२ - ४२ - जीवति तु वंश्ये युवा इति पौत्रप्रभृत्यपेक्षम् च इति वक्तव्यम् ।

३ - ४२ - तत् तर्हि वक्तव्यम् ।

४ - ४२ - न वक्तव्यम् ।

५ - ४२ - पौत्रप्रभृति इति वर्तते ।

६ - ४२ - एवम् तर्हि अन्वाचष्टे पौत्रप्रभृति इति वर्तते इति ।

७ - ४२ - किम् एतस्य अन्वाख्याने प्रयोजनम् ।

८ - ४२ - तत् च दैवदत्त्यर्थम् ।

९ - ४२ - देवदत्तस्य अपत्यम् देवदत्तिः इति ।

१० - ४२ - अनन्तरम् यत् अपत्यम् तस्य युवसञ्ज्ञा मा भूत् इति ।

११ - ४२ - देवदत्तस्य तर्हि पौत्रे युवसञ्ज्ञा प्राप्नोति ।

१२ - ४२ - एतत् अपि पौत्रप्रभृति भवति ।

१३ - ४२ - न पौत्रप्रभृति इति अनेन अपत्यम् अभिसम्बध्यते पौत्रप्रभृति यत् अपत्यम् इति ।

१४ - ४२ - किम् तर्हि ।

१५ - ४२ - वंश्ये अभिसम्बध्यते पौत्रप्रभृतिवंश्ये जीवति यत् अपत्यम् इति ।

१६ - ४२ - एवम् अपि देवदत्तस्य द्वौ पुत्र तयोः कनीयसि युवसञ्ज्ञा प्राप्नोति भ्रातरि च ज्यायसि इति ।

१७ - ४२ - एवम् तर्हि अपत्यम् एव अभिसम्बध्यते न तु पौत्रप्रभृतिसमानाधिकरणम् अपत्यम् ।

१८ - ४२ - न एवम् विज्ञायते पौत्रप्रभृति यत् अपत्यम् इति ।

१९ - ४२ - कथम् तर्हि ।

२० - ४२ - पौत्रप्रभृतेः यत् अपत्यम् इति ।

२१ - ४२ - वृद्धस्य च पूजायाम् ।

२२ - ४२ - वृद्धस्य च पूजायाम् युवसञ्ज्ञा वक्तव्या ।

२३ - ४२ - तत्रभवन्तः गार्ग्यायणाः तत्रभवन्तः वात्स्यायनाः ।

२४ - ४२ - का पुनः इह पूजा ।

२५ - ४२ - युवत्वम् लोके ईप्सितम् पूजा इति उपचर्यते ।

२६ - ४२ - तत्रभवन्तः युवत्वेन उपचर्यमाणाः प्रीताः भवन्ति ।

२७ - ४२ - आपत्यः वा गोत्रम् ।

२८ - ४२ - अथ वा आपत्यः गोत्रसञ्ज्ञः भवति इति वक्तव्यम् ।

२९ - ४२ - परमप्रकृतेः च आपत्यः ।

३० - ४२ - परमप्रकृतेः च आपत्यः भवति इति वक्तव्यम् ।

३१ - ४२ - आपत्यात् जीवद्वंश्यात् स्वार्थे द्वितीयः युवसञ्ज्ञः ।

३२ - ४२ - आपत्यात् जीवद्वंश्यात् स्वार्थे द्वितीयः प्रत्ययः वक्तव्यः युवसञ्ज्ञः च भवति इति वक्तव्यम् ।

३३ - ४२ - सः च अस्त्रियाम् ।

३४ - ४२ - सः च अस्त्रियाम् इति वक्तव्यम् ।

३५ - ४२ - एकोगोत्रग्रहणानर्थक्यम् च ।

३६ - ४२ - एवम् च कृत्वा एकोगोत्रग्रहणम् अनर्थकम् भवति ।

३७ - ४२ - बहुवचनलोपिषु च सिद्धम् ।

३८ - ४२ - बहुवचनलोपिषु च सिद्धम् भवति ।

३९ - ४२ - तत्र बिदाणाम् अपत्यम् माणवकः इति विगृह्य बिदशब्दात् द्व्येकयोः उत्पत्तिः भविष्यति ।

४० - ४२ - बैदः बैदौ ।

४१ - ४२ - बैदस्य अपत्यम् बहवः माणवकाः इति विगृह्य बिदशब्दात् बहुषु उत्पत्तिः भविष्यति ।

४२ - ४२ - बिदाः इति ।

१ - ८ - अन्यग्रहणम् किमर्थम् ।

२ - ८ - भ्रातरि इति वर्तते ।

३ - ८ - सपिण्डमात्रे यथा स्यात् ।

४ - ८ - अथ स्थविरतरग्रहणम् किमर्थम् ।

५ - ८ - उभयतः विशिष्टे यथा स्यात् स्थानतः वयस्तः च ।

६ - ८ - अथ जीवति इति वर्तमाने पुनः जीवतिग्रहणम् किमर्थम् ।

७ - ८ - जीवतः जीवति यथा स्यात् मृते मा भूत् ।

८ - ८ - मृते हि मार्ग्यः मृतः इति एव भवितव्यम् ।

१ - ८० - अथ गोत्रयूनयोः समावेशः भवति उताहो न ।

२ - ८० - किम् च प्राप्नोति ।

३ - ८० - बाढम् प्राप्नोति ।

४ - ८० - न हि अयम् एकसञ्ज्ञाधिकारः ।

५ - ८० - किम् च अतः ।

६ - ८० - गोत्रयोः समावेशे कः दोषः ।

७ - ८० - तत्कृतम् भवेत् ।

८ - ८० - गोत्रयोः समावेशे कः दोषः ।

९ - ८० - तत्कृतम् प्राप्नोति ।

१० - ८० - गोत्राश्रयाः विधयः यूनि अपि प्राप्नुवन्ति ।

११ - ८० - यास्कायनयः लाह्यायनयः ।

१२ - ८० - यस्कादिभ्यः गोत्रे इति लुक् प्राप्नोति ।

१३ - ८० - यस्कादिषु न दोषः अस्ति न यूनि इति अनुवर्तनात् ।

१४ - ८० - यस्कादिषु न दोषः ।

१५ - ८० - किम् कारणम् ।

१६ - ८० - न यूनि इति अनुवर्तनात् ।

१७ - ८० - न यूनि इति तत्र अनुवर्तते ।

१८ - ८० - क्व प्रकृतम् ।

१९ - ८० - न तौल्वलिभ्यः इति ।

२० - ८० - दोषः अत्रिबिदपञ्चालाः न यूनि इति अनुवर्तनात् ।

२१ - ८० - यदि न यूनि इति अनुवर्तते अत्रयः बिदाः पञ्चालाः माणवकाः इति न सिध्यति ।

२२ - ८० - न एषः दोषः ।

२३ - ८० - सम्बन्धम् अनुवर्तिष्यते ।

२४ - ८० - न तौल्वलिभ्यः ।

२५ - ८० - तद्राजस्य बहुषु तेन एव अस्त्रियाम् लुक् भवति तौल्वलिभ्यः यूनि न ।

२६ - ८० - यस्कादिभ्यः गोत्रे लुक् भवति यूनि न ।

२७ - ८० - तौल्वलिभ्यः इति निवृत्तम् ।

२८ - ८० - यञञोः च अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यः च लुक् भवति ।

२९ - ८० - यूनि न इति निवृत्तम् ।

३० - ८० - इह तर्हि काण्व्ययनस्य छात्राः काण्व्यायनीयाः ।

३१ - ८० - कण्वादिभ्यः गोत्रे इति अण् प्राप्नोति ।

३२ - ८० - कण्वादिषु न दोषः अस्ति न यूनि अस्ति ततः परम् ।

३३ - ८० - कण्वादिषु दोषः न अस्ति ।

३४ - ८० - किम् कारणम् ।

३५ - ८० - न यूनि अस्ति ततः परम् ।

३६ - ८० - कण्वादिभ्यः यः विहितः तदन्तात् प्रातिपदिकात् इति उच्यते ।

३७ - ८० - यः च अत्र कण्वादिभ्यः विहितः न तदन्तम् प्रातिपदिकम् यदन्तम् च प्रातिपदिकम् न असौ कण्वादिभ्यः ।

३८ - ८० - इह तर्हि औपगवस्य अपत्यम् औपगविः इति एकः गोत्रे इति एतस्मात् नियमात् प्रत्ययः न प्राप्नोति ।

३९ - ८० - एकः गोत्रे प्रतिपदम् ।

४० - ८० - प्रतिपदम् अत्र प्रत्ययाः विधीयन्ते गोत्रात् यूनि अस्त्रियाम् इति ।

४१ - ८० - तदन्तात् तर्हि अनेकः प्रत्ययः प्राप्नोति ।

४२ - ८० - गोत्रात् यूनि च तत् स्मरेत् ।

४३ - ८० - गोत्रात् यूनि अस्त्रियाम् इति तत् स्मरेत् ।

४४ - ८० - किम् ।

४५ - ८० - एकः इति एव ।

४६ - ८० - गोत्रे तर्हि अलुक् उक्तः ।

४७ - ८० - सः यूनि अपि प्राप्नोति ।

४८ - ८० - अस्तु ।

४९ - ८० - पुनः यूनि लुक् भविष्यति ।

५० - ८० - न एवम् शक्यम् ।

५१ - ८० - फक्फिञोः दोषः स्यात् ।

५२ - ८० - शालङ्केः यूनः छात्राः शालङ्काः पैलस्य पैलाः ।

५३ - ८० - फक्फिञोः अन्यतरस्याम् इति अन्यतरस्याम् श्रवणम् प्रसज्येत ।

५४ - ८० - तस्मात् युवसञ्ज्ञायाम् गोत्रसञ्ज्ञायाः प्रतिषेधः वक्तव्यः ।

५५ - ८० - न वक्तव्यः ।

५६ - ८० - तुः नियामकः ।

५७ - ८० - तुः क्रियते ।

५८ - ८० - सः नियामकः भविष्यति जीवति तु वंश्ये अपत्यम् युवसञ्ज्ञम् एव भवति इति ।

५९ - ८० - यदि तर्हि युवसञ्ज्ञायाम् गोत्रसञ्ज्ञा न भवति ये इष्यन्ते यूनि गोत्राश्रयाः विधयः ते न सिध्यन्ति ।

६० - ८० - गार्ग्यायणानाम् समूहः गार्ग्यायणकम् गार्ग्यायणानाम् किम् चित् गार्ग्यायणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः ।

६१ - ८० - गोत्राश्रयः वुञ् न प्राप्नोति ।

६२ - ८० - एवम् तर्हि राजन्यात् वुञ् मनुष्यात् च ज्ञापकम् लौकिकम् परम् ।

६३ - ८० - यत् अयम् वुञ्विधौ राजन्यमनुष्ययोः ग्रहणम् करोति तत् ज्ञापयति आचार्यः लौकिकम् परम् गोत्रग्रहणम् इति ।

६४ - ८० - युवा च लोके गोत्रम् इति उच्यते ।

६५ - ८० - किम्गोत्रः असि माणवक ।

६६ - ८० - गार्ग्यायणः ।

६७ - ८० - किम्गोत्रः असि माणवक ।

६८ - ८० - वात्स्यायनः ।

६९ - ८० - यदि एतत् ज्ञाप्यते औपगवेः यूनः छात्राः औपगवीयाः इति गोत्रे इति अण् प्राप्नोति ।

७० - ८० - सामूहिकेषु ज्ञापकम् ।

७१ - ८० - यदि सामूहिकेषु ज्ञापकम् गार्ग्यायणानाम् किम् चित् गार्ग्यायणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ् न प्राप्नोति ।

७२ - ८० - वुञ्विधौ ज्ञापकम् ।

७३ - ८० - वुञ्विधौ एतत् ज्ञापकम् ।

७४ - ८० - यदि वुञ्विधौ ज्ञापकम् शालङ्केः यूनः छात्राः शालङ्काः इञः गोत्रे इति अण् न प्राप्नोति ।

७५ - ८० - अस्तु तर्हि अविशेषेण ।

७६ - ८० - कथम् औपगवेः यूनः छात्राः औपगवीयाः ।

७७ - ८० - इञः गोत्रे इति अण् प्राप्नोति ।

७८ - ८० - न एषः दोषः ।

७९ - ८० - गोत्रेण इञम् विशेषयिष्यामः ।

८० - ८० - गोत्रे यः इञ् विहितः इति ।

१ - १६ - क्षत्रियात् एकराजात् सङ्घप्रतिषेधार्थम् ।

२ - १६ - क्षत्रियात् एकराजात् इति वक्तव्यम् ।

३ - १६ - किम् प्रयोजनम् ।

४ - १६ - सङ्घप्रतिषेधार्थम् ।

५ - १६ - सङ्घात् मा भूत् ।

६ - १६ - पञ्चालानाम् अपत्यम् विदेहानाम् अपत्यम् इति ।

७ - १६ - तत् तर्हि वक्तव्यम् ।

८ - १६ - न वक्तव्यम् ।

९ - १६ - न हि अन्तरेण बहुषु लुकम् पञ्चालाः इति एतत् भवति ।

१० - १६ - यः तस्मात् उत्पद्यते युवप्रत्ययः सः स्यात् ।

११ - १६ - युवप्रत्ययः चेत् तस्य लुक् तस्मिन् च अलुक् भविष्यति ।

१२ - १६ - इदम् तर्हि क्षौद्रकाणाम् अपत्यम् मालवानाम् अपत्यम् इति ।

१३ - १६ - अत्र अपि क्षौद्रक्यः मालक्यः इति न एतत् तेषाम् दासे वा भवति कर्मकरे वा ।

१४ - १६ - किम् तर्हि तेषाम् एव कस्मिन् चित् ।

१५ - १६ - यावता तेषाम् एव कस्मिन् चित् तस्मात् उत्पद्यते युवप्रत्ययः सः स्यात् ।

१६ - १६ - युवप्रत्ययः चेत् तस्य लुक् तस्मिन् च अलुक् भविष्यति ।

१ - ७ - अथ क्षत्रियग्रहणम् किमर्थम् ।

२ - ७ - इह मा भूत् ।

३ - ७ - विदेहः नाम ब्राह्मणः तस्य अपत्यम् वैदेहिः ।

४ - ७ - क्षत्रियग्रहणानर्थक्ये च उक्तम् ।

५ - ७ - किम् उक्तम् ।

६ - ७ - एकम् तावत् उक्तम् बाह्वादिप्रभृतिषु येषाम् दर्शनम् गोत्रभावे लौकिके ततः अन्यत्र तेषाम् प्रतिषेधः इति ।

७ - ७ - अपरम् उक्तम् अनभिधानात् इति ।

१ - ७ - क्षत्रियसमानशब्दात् जनपदात् तस्य राजनि अपत्यवत् ।

२ - ७ - क्षत्रियसमानशब्दात् जनपदात् तस्य राजनि अपत्यवत् प्रत्ययाः भवन्ति इति वक्तव्यम् ।

३ - ७ - पञ्चालानाम् राजा पाञ्चालः ।

४ - ७ - पूरोः अण् वक्तव्यः ।

५ - ७ - पौरवः ।

६ - ७ - पाण्डोः ड्यण् वक्तव्यः ।

७ - ७ - पाण्ड्यः ।

१ - २२ - अणः ण्यङ्ण्येञः विप्रतिषेधेन ।

२ - २२ - अणः ण्यङ् ण्य इञ् इति एते भवन्ति विप्रतिषेधेन ।

३ - २२ - अणः अवकाशः आङ्गः वाङ्गः ।

४ - २२ - ञ्यङः अवकाशः आम्बष्ठ्यः सौवीर्यः ।

५ - २२ - इह उभयम् प्राप्नोति ।

६ - २२ - दार्व्यः ।

७ - २२ - ण्यस्य अवकाशः निचकः नैचक्यः ।

८ - २२ - अणः सः एव ।

९ - २२ - इह उभयम् प्राप्नोति ।

१० - २२ - नीपः नैप्यः ।

११ - २२ - इञः अवकाशः आजमीढिः आजक्रन्दिः ।

१२ - २२ - अणः सः एव ।

१३ - २२ - इह उभयम् प्राप्नोति ।

१४ - २२ - बुधः बौधिः ।

१५ - २२ - ण्यङ्ण्येञः भवन्ति विप्रतिषेधेन ।

१६ - २२ - ञ्यङः कुरुनादिभ्यः ण्यः ।

१७ - २२ - ञ्यङः कुरुनादिभ्यः ण्यः भवति विप्रतिषेधेन ।

१८ - २२ - ञ्यङः अवकाशः आवन्त्यः कौन्त्यः ।

१९ - २२ - ण्यस्य सः एव. नैशः नाम जनपदः ।

२० - २२ - तस्मात् उभयम् प्राप्नोति ।

२१ - २२ - ण्यः भवति विप्रतिषेधेन ।

२२ - २२ - नैश्यः ।

१ - ५ - कम्बोजादिभ्यः लुग्वचनम् चोडाद्यर्थम् ।

२ - ५ - कम्बोजादिभ्यः लुक् वक्तव्यः ।

३ - ५ - किम् प्रयोजनम् ।

४ - ५ - चोडाद्यर्थम् ।

५ - ५ - चोडः कडेरः केरलः ।

१ - १० - इह कस्मात् न भवति ।

२ - १० - आम्बष्ठ्या सौवीर्या ।

३ - १० - अतः इति उच्यते ।

४ - १० - न च एषः अकारः ।

५ - १० - तदन्तविधिना प्राप्नोति ।

६ - १० - अतः उत्तरम् पठति अतः इति तदन्ताग्रहणम् अवन्त्यादिभ्यः लुग्वचनात् ।

७ - १० - अतः इति तदन्तस्य अग्रहणम् ।

८ - १० - किम् कारणम् ।

९ - १० - अवन्त्यादिभ्यः लुग्वचनात् ।

१० - १० - यत् अयम् अवन्त्यादिभ्यः लुकम् शास्ति तत् ज्ञापयति आचार्यः न अत्र तदन्तविधिः भवति इति ।

१ - ४ - पर्श्वादिभ्यः लुक् वक्तव्यः ।

२ - ४ - पर्शूः रक्षाः असुरी ।

३ - ४ - यौधेयादिप्रतिषेधः ज्ञापकः पार्श्वादिलुकः ।

४ - ४ - यत् अयम् न प्राच्यभर्गादियौधेयादिभ्यः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति पर्श्वादिभ्यः लुक् इति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP