संस्कृत सूची|संस्कृत स्तोत्र साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ४|पाद १| खण्ड ४३ पाद १ खण्ड ४२ खण्ड ४३ खण्ड ४४ खण्ड ४५ खण्ड ४६ पाद १ - खण्ड ४३ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ४३ Translation - भाषांतर १ - २२ - कस्य अयम् प्रतिषेधः ।२ - २२ - ङीप् अनन्तरः तस्य प्रतिषेधः ।३ - २२ - अथ इदानीम् ङीपि प्रतिषिद्धे षट्सञ्ज्ञानाम् अन्ते लुप्ते टाबुत्पत्तिः कस्मात् न स्यात् । अतः इति प्राप्नोति ।४ - २२ - असिद्धः नलोपः ।५ - २२ - तस्य असिद्धत्वात् न भविष्यति ।६ - २२ - परिगणितेषु कार्येषु नलोपः असिद्धः न च इदम् तत्र परिगण्यते ।७ - २२ - इदम् अपि तत्र परिगण्यते ।८ - २२ - प्रत्याहारात् चापा सिद्धम् । सुप् इति न इदम् प्रत्ययग्रहणम् ।९ - २२ - किम् तर्हि ।१० - २२ - प्रत्याहारग्रहणम् ।११ - २२ - क्व सन्निविष्टानाम् प्रत्याहारः ।१२ - २२ - प्रथमैकवचनात् प्रभृति आ चापः पकारात् ।१३ - २२ - यदि प्रत्याहारग्रहणम् दोषः तु इत्त्वे ।१४ - २२ - इत्त्वे दोषः भवति ।१५ - २२ - बहुचर्मिका ।१६ - २२ - प्रत्ययस्थात् कात् पूर्वस्य आतः इति इत्त्वम् न प्राप्नोति ।१७ - २२ - तस्मात् न उभौ ।१८ - २२ - तस्मात् षट्सञ्ज्ञकेभ्यः उभौ न भवतः इति वक्तव्यम् ।१९ - २२ - तत् तर्हि वक्तव्यम् ।२० - २२ - न वक्तव्यम् ।२१ - २२ - स्त्रियाम् इति वर्तते ।२२ - २२ - स्त्रियाम् यत् प्राप्नोति तस्य प्रतिषेधः ।१ - ३२ - किमर्थम् उभाभ्याम् इति उच्यते ।२ - ३२ - उभाभ्याम् योगाभ्याम् डाप् यथा स्यात् मनन्तात् अनन्तात् च बहुव्रीहेः ।३ - ३२ - न एतत् अस्ति प्रयोजनम् ।४ - ३२ - प्रकृतम् उभयम् अनुवर्तते ।५ - ३२ - अथ अन्यतरस्याङ्ग्रहणम् किमर्थम् ।६ - ३२ - अन्यतरस्याम् डाप् यथा स्यात् ।७ - ३२ - डापा मुक्ते प्रतिषेधः अपि यथा स्यात् इति ।८ - ३२ - न एतत् अस्ति प्रयोजनम् ।९ - ३२ - इह डाप् अपि उच्यते प्रतिषेधः अपि ।१० - ३२ - तौ उभौ वचनात् भविष्यतः ।११ - ३२ - इदम् तर्हि प्रयोजनम् ।१२ - ३२ - डाप्प्रतिषेधाभ्याम् मुक्ते ङीप् अपि यथा स्यात् ।१३ - ३२ - सिद्धः अत्र ङीप् अनः उपधालोपिनः अन्यतरस्याम् इति ।१४ - ३२ - अथ तत् अन्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् ।१५ - ३२ - बाढम् शक्यम् ।१६ - ३२ - कथम् ।१७ - ३२ - इह डाप् अपि उच्यते प्रतिषेधः अपि ङीप् अपि ।१८ - ३२ - तत् सर्वम् वचनात् भविष्यति ।१९ - ३२ - न एवम् शक्यम् विज्ञातुम् ।२० - ३२ - अक्रियमाणे हि तत्र अन्यतरस्याङ्ग्रहणे अनवकाशः ङीप् डाप्प्रतिषेधौ बाधेत ।२१ - ३२ - डाप्प्रतिषेधौ अपि अनवकाशौ ।२२ - ३२ - तौ वचनात् भविष्यतः ।२३ - ३२ - सावकाशौ डाप्प्रतिषेधौ ।२४ - ३२ - कः अवकाशः ।२५ - ३२ - सुपर्वा चारुपर्वा इति ।२६ - ३२ - तस्मात् तत् अन्यतरस्याङ्ग्रहणम् कर्तव्यम् ।२७ - ३२ - इदम् तु खलु अन्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् ।२८ - ३२ - इदम् अपि अवश्यम् कर्तव्यम् ।२९ - ३२ - किम् प्रयोजनम् ।३० - ३२ - डाप्प्रतिषेधाभ्याम् मुक्ते ङीब्रौ यथा स्याताम् इति ।३१ - ३२ - रविधाने बहुव्रीहेः उपसङ्ख्यानम् चोदितम् ।३२ - ३२ - तत् न वक्तव्यम् भवति ।१ - १५ - अथ इह कथम् भवितव्यम् ।२ - १५ - बहवः श्वानः अस्याम् रथ्यायाम् बहवः श्वानः अस्याम् शालायाम् इति ।३ - १५ - बह्शूका बहुयूका इति भवितव्यम् ।का रूपसिद्धिः ।४ - १५ - डाप् टिलोपः प्रसारणम् प्रसारणपरपूर्वत्वम् नदृतः च इति कप् ।५ - १५ - कपा तावत् न भवितव्यम् ।६ - १५ - किम् कारणम् ।७ - १५ - नद्यन्तानाम् यः बहुव्रीहिः इति एवम् तत् विज्ञायते ।८ - १५ - न च एषः नद्यन्तानाम् बहुव्रीहिः ।९ - १५ - प्रसारणेन अपि न भवितव्यम् ।१० - १५ - वक्ष्यति एतत् ।११ - १५ - श्वादीनाम् प्रसारणे नकारान्तग्रहणम् अनकारान्तप्रतिषेधार्थम् इति ।१२ - १५ - परपूर्वत्वेन अपि न भवितव्यम् ।१३ - १५ - वक्ष्यति एतत् ।१४ - १५ - सम्प्रसारणपूर्वत्वे समानाङ्गग्रहणम् असमानाङ्गप्रतिषेधात्थम् इति ।१५ - १५ - तस्मात् बहुश्वा बहुयुवा इति भवितव्यम् ।१ - ८१ - अनुपसर्जनात् इति किमर्थम् ।२ - ८१ - बहुकुरुचरा मथुरा प्रियकुरुचरा मथुरा ।३ - ८१ - न एतत् अस्ति प्रयोजनम् ।४ - ८१ - कुरुचरशब्दात् प्रययः विधीयते ।५ - ८१ - तत्र कः प्रसङ्गः यत् बहुकुरुचरशब्दात् स्यात् ।६ - ८१ - न एव प्राप्नोति न अर्थः प्रतिषेधेन ।७ - ८१ - तदन्तविधिना प्राप्नोति ।८ - ८१ - अतः उत्तरम् पठति ।९ - ८१ - अनुपसर्जनग्रहणम् अनर्थकम् प्रातिपदिकेन तदन्तविधिप्रतिषेधात् ।१० - ८१ - अनुपसर्जनग्रहणम् अनर्थकम् ।११ - ८१ - किम् कारणम् ।१२ - ८१ - प्रातिपदिकेन तदन्तविधिप्रतिषेधात् ।१३ - ८१ - ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।१४ - ८१ - ज्ञापकम् तु पूर्वत्र तदन्ताप्रतिषेधस्य ।१५ - ८१ - एवम् तर्हि ज्ञापयति आचार्यः पूर्वत्र तदन्ताप्रतिषेधः न भवति इति ।१६ - ८१ - किम् एतस्य ज्ञापने प्रयोजनम् ।१७ - ८१ - भवती अतिभवती महती अतिमहती इति अत्र तदन्तविधिः सिद्धः भवति ।१८ - ८१ - न एतत् अस्ति प्रयोजनम् ।१९ - ८१ - उक्तम् एतत् वर्णः अपि उगित् प्रत्ययः अपि उगित् प्रातिपदिकम् अपि उगित् इति ।२० - ८१ - इदम् तर्हि ।२१ - ८१ - बहुधीवरी बहुपीवरी इति ।२२ - ८१ - एतत् अपि न अस्ति प्रयोजनम् ।२३ - ८१ - अत्र अपि उक्तम् रविधाने बहुव्रीहेः उपसङ्ख्यानम् प्रतिषिद्धत्वात् इति ।२४ - ८१ - इदम् तर्हि अतिधीवरी अतिपीवरी ।२५ - ८१ - पूर्वसूत्रनिर्देशः वा आपिशलम् अधीते इति ।२६ - ८१ - पूर्वसूत्रनिर्देशः वा पुनः अयम् द्रष्टव्यः ।२७ - ८१ - पूर्वसूत्रे अप्रधानस्य उपसर्जनम् इति सञ्ज्ञा क्रियते ।२८ - ८१ - यावत् ब्रूयात् प्रधानात् उत्पत्तव्यम् अप्रधानात् न इति तावत् अनुपसर्जनात् इति ।२९ - ८१ - किम् प्रयोजनम् ।३० - ८१ - आपिशलम् अधीते इति ।३१ - ८१ - आपिशलम् अधीते ब्राह्मणी आपिशला ब्राह्मणी ।३२ - ८१ - अणन्तात् इति ईकारः मा भूत् इति ।३३ - ८१ - अथ अनुपसर्जनात् इति उच्यमाने कस्मात् एव अत्र न भवति ।३४ - ८१ - अणन्तम् हि एतत् अनुपसर्जनम् ।३५ - ८१ - न अनुपसर्जनग्रहणेन अणन्तम् विशेष्यते ।३६ - ८१ - अणन्तात् अनुपसर्जनात् इति ।३७ - ८१ - किम् तर्हि ।३८ - ८१ - अण् एव विशेष्यते ।३९ - ८१ - अण् यः अनुपसर्जनम् इति ।४० - ८१ - जातिशब्देभ्यः तु अतिप्रसङ्गः ।४१ - ८१ - जातिशब्देभ्यः तु अतिप्रसङ्गः भवति ।४२ - ८१ - कुन्ती गान्धारी ।४३ - ८१ - सिद्धम् तु जातेः अनुपसर्जनत्वात् । सिद्धम् एतत् ।४४ - ८१ - कथम् ।४५ - ८१ - अनुपसर्जनात् इति उच्यते ।४६ - ८१ - न च जातिः उपसर्जनम् ।४७ - ८१ - एतत् अपि न अस्ति प्रयोजनम् ।४८ - ८१ - स्त्रियाम् इति वर्तते ।४९ - ८१ - तेन अणम् विशेषयिष्यामः ।५० - ८१ - स्त्रियाम् यः अण् विहितः इति ।५१ - ८१ - एवम् अपि काशकृत्स्निना प्रोक्तम् मामांसा काशकृत्स्नीम् काशकृत्स्नीम् अधीते काशकृत्स्ना ब्राह्मणी अत्र प्राप्नोति ।५२ - ८१ - न एषः दोषः ।५३ - ८१ - अधेत्र्याम् अभिधेयायाम् अणः ईकारेण भवितव्यम् ।५४ - ८१ - यः च अत्र अधेत्र्याम् अभिधेयायाम् अण् उक्तः लुप्तः सः यः च श्रूयते उत्पन्नः तस्मात् ईकारः इति कृत्वा पुनः न भविष्यति ।५५ - ८१ - इदम् तर्हि प्रयोजनम् तदन्तविधिः यथा स्यात् ।५६ - ८१ - कुम्भकारी नगरकारी ।५७ - ८१ - अत्र हि प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः ग्रहणम् भवति इति अवयवात् उत्पत्तिः प्राप्नोति ।५८ - ८१ - कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति सङ्घातात् उत्पत्तिः भविष्यति ।५९ - ८१ - कृद्ग्रहणे इति उच्यते ।६० - ८१ - न च एतत् कृद्ग्रहणम् ।६१ - ८१ - कृदकृद्ग्रहणम् एतत् ।६२ - ८१ - कृत् अपि अयम् अण् तद्धितः अपि ।६३ - ८१ - एवम् तर्हि ईकारान्तेन समासः भविष्यति ।६४ - ८१ - यदि एवम् लभ्येत कृतम् स्यात् तत् तु न लभ्यम् ।६५ - ८१ - किम् कारणम् ।६६ - ८१ - अत्र हि गतिकारकोपपदानाम् कृद्भिः सह समासः भवति इति समासः एव तावत् भवति ।६७ - ८१ - समासे कृते अवयवात् उत्पत्तिः प्राप्नोति ।६८ - ८१ - अवयवात् उत्पत्तौ कः सत्याम् दोषः ।६९ - ८१ - कौम्भकारेयः न सिध्यति ।७० - ८१ - अव्ययवस्य वृद्धिस्वरौ स्याताम् ।७१ - ८१ - तस्मात् अनुपसर्जनाधिकारः ।७२ - ८१ - अनुपसर्जनाधिकारे जातेः ङीष्विधाने सुपर्ण्याः उपसङ्ख्यानम् । अनुपसर्जनाधिकारे जातेः ङीष्विधाने सुपर्ण्याः उपसङ्ख्यानम् कर्तव्यम् ।७३ - ८१ - सुपर्णी ।७४ - ८१ - न वा समासस्य अनुपसर्जनत्वात् जातिवाचकत्वात् च शब्दस्य सामान्येन ङीष्विधानम् । न वा एषः दोषः ।७५ - ८१ - किम् कारणम् ।७६ - ८१ - समासस्य अनुपसर्जनत्वात् ।७७ - ८१ - समासः अत्र अनुपसर्जनम् ।७८ - ८१ - सः च जातिवाचकः ।७९ - ८१ - समासस्य अनुपसर्जनत्वात् तस्य च जातिवाचकत्वात् च शब्दस्य सामान्येन ङीष् भविष्यति जातेः अस्त्रीविषयात् अयोपधात् इति ।८० - ८१ - कथम् कृत्वा चोदितम् कथम् कृत्वा परिहारः ।८१ - ८१ - बहुव्रीहिः इति कृत्वा चोदितम् तत्पुरुषः इति कृत्वा परिहारः ।१ - २७ - ढग्रहणे सानुबन्धकस्य उपसङ्ख्यानम् ।२ - २७ - ढग्रहणे सानुबन्धकस्य उपसङ्ख्यानम् कर्तव्यम् ।३ - २७ - कारिकेयी हारिकेयी ।४ - २७ - किम् पुनः कारणम् न सिध्यति ।५ - २७ - अननुबन्धकग्रहणे हि न सानुबन्धकस्य ।६ - २७ - अननुबन्धकग्रहणे हि सानुबन्धकस्य ग्रहणम् न भवति इति एषा परिभाषा कर्तव्या ।७ - २७ - कानि एतस्याः परिभाषायाः प्रयोजनानि ।८ - २७ - तव्यग्रहणे तव्यद्ग्रहणम् मा भूत् ।९ - २७ - दिव्ग्रहणे दिवुग्रहणम् मा भूत् ।१० - २७ - ननु च इयम् अपि कर्तव्या तदनुबन्धकग्रहणे अतदनुबन्धकस्य ने इति ।११ - २७ - कानि एतस्याः परिभाषायाः प्रयोजनानि ।१२ - २७ - यद्ग्रहणे ण्यद्ग्रहणम् मा भूत् ।१३ - २७ - अङ्ग्रहणे चङ्ग्रहणम् मा भूत् ।१४ - २७ - अज्ग्रहणे ण्यज्ग्रहणम् मा भूत् ।१५ - २७ - तत् द्वे एते परिभाषे कर्तव्ये ।१६ - २७ - न कर्तव्ये ।१७ - २७ - आचार्यप्रवृत्तिः ज्ञापयति भवतः एते परिभाषे यत् अयम् वामदेवात् ड्यड्ड्यौ इति ययतौ डितौ करोति ।१८ - २७ - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।१९ - २७ - न कर्तव्यम् ।२० - २७ - अननुबन्धकः ढशब्दः स्त्रियाम् न अस्ति इति कृत्वा सानुबन्धकस्य ग्रहणम् विज्ञास्यते ।२१ - २७ - ननु च अयम् अस्ति शिलायाः ढः इति ।२२ - २७ - न एषः स्त्रियाम् वर्तते ।२३ - २७ - अयम् तर्हि सभायाः ढः छन्दसि इति ।२४ - २७ - एषः अपि न स्त्रियाम् वर्तते ।२५ - २७ - किम् कारणम् ।२६ - २७ - तत्र साधुः इति वर्तते ।२७ - २७ - कथम् स्त्री नाम सभायाम् साध्वी स्यात् ।१ - २२ - अञ्ग्रहणम् अनर्थकम् तदन्तात् हि ङीन्विधानम् । अञ्ग्रहणम् अनर्थकम् ।२ - २२ - किम् कारणम् ।३ - २२ - तदन्तात् हि ङीन्विधानम् ।४ - २२ - तदन्तात् हि अञन्तात् ङीन् विधीयते ।५ - २२ - शार्ङ्गरवाद्यञः ङीन् इति ।६ - २२ - न च अस्ति विशेषः अञन्तात् ङीनः वा ङीपः वा ।७ - २२ - तत् एव रूपम् सः एव स्वरः ।८ - २२ - न वा जात्यधिकारात् ।९ - २२ - न वा अनर्थकम् ।१० - २२ - किम् कारणम् ।११ - २२ - जात्यधिकारात् ।१२ - २२ - जातेः इति तत्र अनुवर्तते ।१३ - २२ - अजात्यर्थः अयम् आरम्भः ।१४ - २२ - औत्सी औदपानी ।१५ - २२ - तत् च अवश्यम् जातिग्रहणम् अनुवर्त्यम् ।१६ - २२ - अनधिकारे हि पुंयोगात् आख्यायाम् ङीन्प्रसङ्गः ।१७ - २२ - अननुवर्तमाने हि जातिग्रहणे पुंयोगात् आख्यायाम् ङीन् प्रसज्येत बैदस्य स्त्री बैदी ।१८ - २२ - यदि तर्हि अस्य निबन्धनम् अस्ति इदम् एव कर्तव्यम् ।१९ - २२ - तत् न कर्तव्यम् ।२० - २२ - तत् अपि अवश्यम् कर्तव्यम् ।२१ - २२ - अक्रियमाणे हि तस्मिन् बैदस्य भगिनी बैदी परत्वात् जातिलक्षणः ङीष् ङीपम् बाधेत ।२२ - २२ - ङीनि पुनः सति परत्वात् ङीन् ङीषम् बाधेत ।१ - १० - ख्युनः उपसङ्ख्यानम् ।२ - १० - ख्युनः उपसङ्ख्यानम् कर्तव्यम् ।३ - १० - आढ्यङ्करणी सुभगङ्करणी ।४ - १० - अत्यल्पम् इदम् उच्यते ख्युनः इति ।५ - १० - नञ्स्नञीकख्युंस्तरुणतलुनानाम् उपसङ्ख्यानम् ।६ - १० - नञ्स्नञीकख्युंस्तरुणतलुनानाम् उपसङ्ख्यानम् कर्तव्यम् ।७ - १० - नञ् स्नञ् स्त्रैणी पौंस्नी ।८ - १० - ईकक् शाक्तीकी याष्टीकी ।९ - १० - ख्युन् आढ्यङ्करणी सुभगङ्करणी ।१० - १० - तरुण तलुन तरुणी तलुनी ।१ - ६ - आपत्यग्रहणम् कर्तव्यम् द्वीपात् यञः प्रतिषेधार्थम् ।२ - ६ - इह मा भूत् द्वैप्या इति ।३ - ६ - तत् तर्हि वक्तव्यम् ।४ - ६ - न वक्तव्यम् ।५ - ६ - न एवम् विज्ञायते कञ्क्वरपः यञः च इति ।६ - ६ - कथम् तर्है कञ्क्वरपः अयञः च इति ।१ - १० - तद्धितवचनम् किमर्थम् ।२ - १० - तद्धितवचनम् षितः प्रातिपदिकात् ईकारार्थम् ।३ - १० - तद्धितवचनम् क्रियते षितः प्रातिपदिकात् ईकारः यथा स्यात् ।४ - १० - न एतत् अस्ति प्रयोजनम् ।५ - १० - षित्करणसामर्थ्यात् एव अत्र ईकारः भविष्यति ।६ - १० - यथा एव तर्हि षित्करणसामर्थ्यात् अप्रातिपदिकात् ईकारः भवति एवम् प्रातिपदिकात् इति अस्य अनुवर्तनसामार्थ्यात् अषितः अपि प्रातिपदिकात् ईकारः स्यात् ।७ - १० - अस्ति अन्यत् प्रातिपदिकानुवृत्तौ प्रयोजनम् ।८ - १० - किम् ।९ - १० - उत्तरार्थम् ।१० - १० - अतः इञ् दाक्षिः ।१ - ७ - सर्वत्रग्रहणम् किमर्थम् ।२ - ७ - प्राचाम् एव स्यात् ।३ - ७ - न एतत् अस्ति प्रयोजनम् ।४ - ७ - सिद्धम् प्राचाम् पूर्वेण ।५ - ७ - इदम् तर्हि प्रयोजनम् सर्वेषाम् यथा स्यात् ।६ - ७ - आवट्यायनी ।७ - ७ - चापम् बाधित्वा ष्फः यथा स्यात् ।१ - २० - लोहितादिषु शाकल्यस्य उपसङ्ख्यानम् ।२ - २० - लोहितादिषु शाकल्यस्य उपसङ्ख्यानम् कर्तव्यम् ।३ - २० - शाकल्यायनी ।४ - २० - यदि पुनः अयम् शकलशब्दः लोहितादिषु पठ्येत ।५ - २० - न एवम् शक्यम् ।६ - २० - इह हि शाकल्यस्य छात्राः शाकलाः कण्वादिभ्यः गोत्रे इति अण् न स्यात् ।७ - २० - एवम् तर्हि ।८ - २० - कण्वात् तु शकलः पूर्वः । कण्वशब्दात् शकलशब्दः पूर्वः पठितव्यः ।९ - २० - कतात् उत्तरः इष्यते. कतशब्दात् शकलशब्दः उत्तरः पठितव्यः ।१० - २० - पूर्वोत्तरौ तदन्तादी ।११ - २० - पूर्वोत्तरौ गणौ तदन्तादी द्रष्टव्यौ ।१२ - २० - ये कण्वादयः ते शकलादयः ।१३ - २० - ये कतपर्यन्ताः ते शकलपर्यन्ताः ।१४ - २० - किम् प्रयोजनम् ।१५ - २० - ष्फाणौ तत्र प्रओय्जनम् ।१६ - २० - तत्र एवम् सति ष्फाणौ सिद्धौ भवतः ।१७ - २० - कण्वात् तु शकलः पूर्वः ।१८ - २० - कतात् उत्तरः इष्यते ।१९ - २० - पूर्वोत्तरौ तदन्तादी ।२० - २० - ष्फाणौ तत्र प्रओय्जनम् ।१ - ६ - कौरव्यमाण्डूकयोः आसुरेः उपसङ्ख्यानम् ।२ - ६ - कौरव्यमाण्डूकयोः आसुरेः उपसङ्ख्यानम् कर्तव्यम् ।३ - ६ - आसुरायणी ।४ - ६ - छः च ।५ - ६ - छः च इति वक्तव्यम् ।६ - ६ - आसुरीयः कल्पः ।१ - २४ - वयसि अचरमे इति वक्तव्यम् इह अपि यथा स्यात् ।२ - २४ - वधूटी चिरण्टी इति ।३ - २४ - इह कस्मात् न भवति ।४ - २४ - उत्तानशया लोहितपादिका द्विवर्षा त्रिवर्षा इति ।५ - २४ - न एतानि वयोवाचीनि ।६ - २४ - कथम् तर्हि वयः गम्यते ।७ - २४ - सम्बन्धात् ।८ - २४ - यदि तर्हि यत्र सम्बन्धात् वयः गम्यते तत्र न भवति इह अपि न प्राप्नोति ।९ - २४ - कुमारी इति ।१० - २४ - अत्र अपि सम्बन्धात् वयः गम्यते ।११ - २४ - कः असु सम्बन्धः ।१२ - २४ - यः असु पुंसा असम्प्रयोगः ।१३ - २४ - सम्बन्धात् एव अत्र वयः गम्यते ।१४ - २४ - इह पुनः सम्बन्धसम्बन्धात् ।१५ - २४ - इह तावत् उत्तानशया इति ।१६ - २४ - यदा कर्तृत्वम् विशेषितम् भवति ततः उत्तरकालम् वयः गम्यते ।१७ - २४ - यदि लोहितपादिका इति ।१८ - २४ - यदा बहुव्रीह्यर्थः विशेषितः ततः उत्तरकालम् वयः गम्यते ।१९ - २४ - द्विवर्षा त्रिवर्षा इति ।२० - २४ - यदा द्विगुअर्थः विशेषितः ततः उत्तरकालम् वयः गम्यते ।२१ - २४ - यदि तर्हि यत्र सम्बन्धात् एव वयः गम्यते तत्र भवति इह अपि तरि प्रप्नोति ।२२ - २४ - कन्या इति ।२३ - २४ - निपातनात् एतत् सिद्धम् ।२४ - २४ - किम् निपातनम्. कन्यायाः कनीन च इति ।१ - ९ - इमौ द्वौ प्रतिषेधौ उच्येते ।२ - ९ - तत्र एकः शक्यः अवक्तुम् ।३ - ९ - कथम् ।४ - ९ - एवम् वक्ष्यामि ।५ - ९ - परिमाणान्तात् तद्धितलुकि ङीप् भवति इति ।६ - ९ - तत् नियमार्थम् भविष्यति ।७ - ९ - परिमाणान्तात् एव तद्धितलुकि ङीप् भवति न अन्यतः इति ।८ - ९ - ततः विस्ताचितकम्बल्येभ्यः न इति ।९ - ९ - तद्धितलुकि इति एव ।१ - ३४ - ऊधसः नकारः लिङ्गाधिकारे ।२ - ३४ - ऊधसः नकारः लिङ्गाधिकारे कर्तव्यः ।३ - ३४ - इह मा भूत् ।४ - ३४ - महोधाः पर्जन्यः इति ।५ - ३४ - न वा समासान्ताधिकारे स्त्रीग्रहणात् ।६ - ३४ - न वा लिङ्गाधिकारे नकारः कर्तव्यः ।७ - ३४ - किम् कारणम् ।८ - ३४ - समासान्ताधिकारे स्त्रीग्रहणात् ।९ - ३४ - समासान्ताधिकारे स्त्रीग्रहणम् कर्तव्यम् ।१० - ३४ - इतरथा हि कब्विधिप्रसङ्गः ।११ - ३४ - इतरथा हि कब्विधिः प्रसज्येत ।१२ - ३४ - कस्याम् पुनः अवस्थायाम् कप् प्राप्नोति ।१३ - ३४ - प्राक् ङीषुत्पत्तेः ।१४ - ३४ - प्राक् तावत् न प्राप्नोति ।१५ - ३४ - किम् कारणम् ।१६ - ३४ - न हि ङीष् विभाषा ।१७ - ३४ - लुत्क्पन्ने तर्हि ङीषि प्राप्नोति ।१८ - ३४ - उत्पन्ने च अपि न प्राप्नोति ।१९ - ३४ - किम् कारणम् ।२० - ३४ - नद्यन्तानाम् यः बहुव्रीहिः इति एवम् तत् ।२१ - ३४ - न च एषः नद्यन्तानाम् बहुव्रीहिः ।२२ - ३४ - प्राक् एव तर्हि प्राप्नोति ।२३ - ३४ - ननु च उक्तम् न हि ङीष् विभाषा इति ।२४ - ३४ - यदि अपि न ङीष् विभाषा कप् तु विभाषा ।२५ - ३४ - कपः अवकाशः अन्यः बहुव्रीहिः ।२६ - ३४ - अयवकः अव्रीहिकः ।२७ - ३४ - ङीषः अवकाशः ।२८ - ३४ - विभाषा कप् ।२९ - ३४ - यदा न कप् सः अवकाशः ।३० - ३४ - कुण्डोध्नी घटोध्नी ।३१ - ३४ - कप्प्रसङ्गे लुभयम् प्राप्नोति ।३२ - ३४ - परत्वात् कप् स्यात् ।३३ - ३४ - तस्मात् सुष्थु उच्यते न वा समासान्ताधिकारे स्त्रीग्रहणात् ।३४ - ३४ - इतरथा हि कब्विधिप्रसङ्गः इति ।१ - ३१ - दामहायनान्तात् सङ्ख्यादेः ।२ - ३१ - दामहायनान्तात् सङ्ख्यादेः इति वक्तव्यम् ।३ - ३१ - इह मा भूत् ।४ - ३१ - उद्दामा वडवा इति ।५ - ३१ - तत्पुरुषविज्ञानात् वा सिद्धम् ।६ - ३१ - बहुव्रीहेः इति वर्तते ।७ - ३१ - तत्पुरुषः च अयम् ।८ - ३१ - उत्क्रान्ता दाम्नः उत्दामा ।९ - ३१ - भवेत् सिद्धम् यदा तत्पुरुषः ।१० - ३१ - यदा तु खलु बहुव्रीहिः तदा न सिध्यति ।११ - ३१ - उत्क्रान्तम् दाम अस्याः इति ।१२ - ३१ - ननु च चेतनावतः एतत् भवति उत्क्रमणम् वा अपक्रमणम् वा दाम च अचेतनम् ।१३ - ३१ - अचेतनेषु अपि चेतनावतुपचारः दृश्यते ।१४ - ३१ - तत् यथा ।१५ - ३१ - स्रस्तानि अस्याः बन्धनानि ।१६ - ३१ - स्रस्यन्ते अस्याः बन्धनानि इति ।१७ - ३१ - तत् तर्हि सङ्ख्यादेः इति वक्तव्यम् ।१८ - ३१ - न वक्तव्यम् ।१९ - ३१ - प्रकृतम् अनुवर्तते ।२० - ३१ - न वक्तव्यम् ।२१ - ३१ - प्रकृतम् अनुवर्तते ।२२ - ३१ - क्व प्रकृतम् ।२३ - ३१ - सङ्ख्याव्ययादेः ङीप् इति ।२४ - ३१ - यदि तत् अनुवर्तते अव्ययादेः अपि वर्तते ।२५ - ३१ - न एषः दोषः ।२६ - ३१ - सङ्ख्यादेः इति अनुवर्तते ।२७ - ३१ - अव्ययादेः इति निवृत्तम् ।२८ - ३१ - कथम् पुनः एकयोगनिर्दिष्टयोः एकदेशः अनुवर्तते एकदेशः न ।२९ - ३१ - एकयोगनिर्दिष्टानाम् अपि एकदेशानुवृत्तिः भवति ।३० - ३१ - तत् यथा तस्य पादमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ ।३१ - ३१ - पक्षात् तिः इति अत्र मूले इति अनुवर्तते पाक इति निवृत्तम् ।१ - ८ - अथ इह कथम् भवितव्यम् ।२ - ८ - द्वौ हायनौ अस्याः शालायाः ।३ - ८ - द्विहायना त्रिहायना इति ।४ - ८ - हायनः वयसि स्मृतः ।५ - ८ - वयोवाचिनः हायनशब्दस्य ग्रहणम् ।६ - ८ - न च एषः वयोवाची ।७ - ८ - अथ णत्वम् कस्मात् न भवति ।८ - ८ - णत्वम् अपि वयोवाचिनः एव ।१ - ५ - मामकग्रहणम् किमर्थम् न अणन्तात् इति एवम् सिद्धम् ।२ - ५ - नियमाऋथः अयम् आरम्भः ।३ - ५ - मामकशब्दात् सञ्ज्ञाच्छन्दसोः एव ।४ - ५ - क्व मा भूत् ।५ - ५ - मामिका बुद्धिः इति ।१ - ६ - अजसादिषु इति वक्तव्यम् ।२ - ६ - इह अपि यथा स्यात् ।३ - ६ - रात्रिम् रात्रिम् स्मरिष्यन्तः ।४ - ६ - रात्रिम् रात्रिम् अजानतः ।५ - ६ - सर्वाम् रात्रिम् सह उषित्वा ।६ - ६ - वृत्त्याम् एकान्तरात्रिम् ।१ - २६ - अन्तर्वत् पतिवत् इति गर्भभर्तृसंयोगे ।२ - २६ - अन्तर्वत् पतिवत् इति गर्भभर्तृसंयोगे इति वक्तव्यम् ।३ - २६ - इह मा भूत् ।४ - २६ - प्रथते त्वया पतिमती पृथिवी इति ।५ - २६ - अथ अन्तःशब्दस्य अगर्भसंयोगे किम् प्रत्युदाह्रियते ।६ - २६ - अन्तः अस्याम् शालायाम् अस्ति इति ।७ - २६ - किम् पुनः कारणम् वाक्यम् एव प्रत्युदाह्रियते न पुनः मतुप् ।८ - २६ - अस्तिसामानाधिकरण्ये मतुप् विधीयते ।९ - २६ - न च अत्र अस्तिसामानाधिकरण्यम् ।१० - २६ - इह अपि तर्हि न प्राप्नोति ।११ - २६ - अन्तर्वत्नी इति ।१२ - २६ - एवम् तर्हि अन्तर्वत्पतिवतोः तु मतुब्वत्वे निपातनात् ।१३ - २६ - अन्तर्वत् इति मतुप् निपात्यते ।१४ - २६ - वत्वम् सिद्धम् ।१५ - २६ - पतिवत् इति वत्वम् निपात्यते ।१६ - २६ - मतुप् सिद्धः ।१७ - २६ - किम् अविशेषेण ।१८ - २६ - न इति आह ।१९ - २६ - गर्भिण्याम् जीवपत्याम् च ।२० - २६ - एतस्मिन् विषये ।२१ - २६ - वा च छन्दसि नुक् भवेत् ।२२ - २६ - वा च छन्दसि नुक् वक्तव्यः ।२३ - २६ - सा अन्तर्वती देवान् उपैत् ।२४ - २६ - सा अन्तर्वत्नी देवान् उपैत् ।२५ - २६ - पतिवती तरुणवत्सा ।२६ - २६ - पतिवत्नी तरुणवत्सा ।१ - १२ - यज्ञ्संयोगे इति उच्यते ।२ - १२ - तत्र इदम् न सिध्यति ।३ - १२ - इयम् अस्ति पत्नी ।४ - १२ - क्व तर्हि स्यात् ।५ - १२ - पत्नीसंयाजः इति यत्र यज्ञसंयोगः ।६ - १२ - न एषः दोषः ।७ - १२ - पतिशब्दः अयम् ऐश्वर्यवाची ।८ - १२ - सर्वेण च गृहस्थेन पञ्च महायज्ञाः निवर्त्याः ।९ - १२ - यत् च अदः सायम् प्रातः होमचरुपुरोडाशान् निर्वपति तस्य असौ ईष्टे ।१० - १२ - एवम् अपि तुषजकस्य पत्नी इति न सिध्यति ।११ - १२ - उपमानात् सिद्धम् ।१२ - १२ - पत्नी इव पत्नी इति ।१ - १५ - पत्युः सपूर्वात् उपसर्जनसमासे उपसङ्क्न्ह्यानम् । पत्युः सपूर्वात् उपसर्जनसमासे उपसङ्क्न्ह्यानम् कर्तव्यम् ।२ - १५ - वृद्धपतिः वृद्धपत्नी स्थूलपतिः स्थूलपत्नी ।३ - १५ - वचनात् भविष्यति ।४ - १५ - अस्ति वचने प्रयोजनम् ।५ - १५ - किम् ।६ - १५ - आशापतिः आसापत्नी । सिद्धम् तु पत्युः प्रातिपदिकविशेषणत्वात् ।७ - १५ - सिद्धम् एतत् ।८ - १५ - कथम् ।९ - १५ - पत्युः प्रातिपदिकविशेषणत्वात् ।१० - १५ - न एवम् विज्ञायते ।११ - १५ - अस्ति अस्मात् पतिशब्दात् पूर्वः सः अयम् सपूर्वः ।१२ - १५ - सपूर्वात् पतिशब्दात् अनुपसर्जनात् इति ।१३ - १५ - कथम् तर्हि ।१४ - १५ - अस्ति अस्मिन् प्रातिपदिके पूर्वः तत् इदम् सपूर्वम् ।१५ - १५ - सपूर्वात् प्रातिपदिकात् पत्यन्तात् अनुपसर्जनात् इति ।१ - ३ - पूतक्रत्वादीनाम् पुंयोगप्रकरणे वचनम् । पूतक्रत्वादयः पुंयोगप्रकरणे वक्तव्याः ।२ - ३ - पूतक्रतोः स्त्री पूतक्रतायी ।३ - ३ - यया हि पूताः क्रतवः पूतक्रतुः सा भवति ।१ - ३८ - लिङ्गसन्निगोयेन सर्वत्र आगमादेशानाम् वचने लिङ्गलुकि तत्कृतप्रसङ्गः । लिङ्गसन्निगोयेन सर्वत्र आगमादेशानाम् वचने लिङ्गलुकि तत्कृतम् प्राप्नोति ।२ - ३८ - पञ्चेन्द्राण्यः देवताः अस्य पञ्चेन्द्रः पञ्चाग्निः दशाग्निः ।३ - ३८ - किम् उच्यते सर्वत्र इति ।४ - ३८ - अन्यत्र अपि न अवश्यम् इह एव ।५ - ३८ - क्व अन्यत्र ।६ - ३८ - पञ्चभिः धीवरीभिः क्रीतः पञ्चधीवा दशधीवा इति ।७ - ३८ - लिङ्गग्रहणे न अर्थः ।८ - ३८ - सर्वत्र आगमादेशानाम् वचने लुकि तत्कृतप्रसङ्गः इति एव ।९ - ३८ - इदम् अपि सिद्धम् भवति ।१० - ३८ - पञ्चमेन गृह्णाति पञ्चकः ।११ - ३८ - न एतत् अस्ति ।१२ - ३८ - मट् अयम् परादिः ।१३ - ३८ - स टतः ग्रहणेन ग्रहीष्यते ।१४ - ३८ - इदम् तर्हि प्रयोजनम् ।१५ - ३८ - षष्ठेन गृह्णाति षट्कः इति ।१६ - ३८ - सिद्धम् तु आगमादेशानाम् अङ्गतः स्त्रीप्रकरणे वचनात् ।१७ - ३८ - सिद्धम् एतत् ।१८ - ३८ - कथम् ।१९ - ३८ - आगमादेशाः ये इह स्त्रीप्रकरणे उच्यन्ते ते अङ्गाधिकारे वक्तव्याः ।२० - ३८ - स्त्रीप्रकरणग्रहणेन न अर्थः ।२१ - ३८ - सिद्धम् तु आगमादेशानाम् अङ्गतः वचनात् इति एव ।२२ - ३८ - इदम् अपि सिद्धम् भवति ।२३ - ३८ - षष्ठेन गृह्णाति षट्कः इति ।२४ - ३८ - लिङ्गलुकि वा प्रकृतिप्रत्यापत्तिवचनम् । अथ वा लिङ्गलुकि एव प्रकृतिप्रत्यापत्तिः वक्तव्या ।२५ - ३८ - लिङ्गग्रहणेन न अर्थः ।२६ - ३८ - लुकि वा प्रकृतिप्रत्यापत्तिवचनम् इति एव ।२७ - ३८ - इदम् अपि सिद्धम् भवति ।२८ - ३८ - षष्ठेन गृह्णाति षट्कः इति ।२९ - ३८ - किम् पुनः अत्र ज्यायः ।३० - ३८ - लुकि प्रकृतिप्रत्यापत्तिवचनम् इति एव ज्यायः ।३१ - ३८ - इदम् अपि सिद्धम् भवति ।३२ - ३८ - पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः दशपटुः ।३३ - ३८ - तत् तर्हि वक्तव्यम् ।३४ - ३८ - न वक्तव्यम् ।३५ - ३८ - सन्नियोगशिष्टानाम् अन्यतरापाये उभयोः अपि अभावः ।३६ - ३८ - तत् यथा ।३७ - ३८ - देवदत्तयज्ञदत्ताभ्याम् इदम् कर्म कर्तव्यम् ।३८ - ३८ - देवदत्तापाये यज्ञदत्तः अपि न करोति ।१ - ९ - असितपलितयोः प्रतिषेधः ।२ - ९ - असितपलितयोः प्रतिषेधः वक्तयः ।३ - ९ - असिता पलिता ।४ - ९ - छन्दसि क्नम् एके ।५ - ९ - छन्दसि क्नम् एके इच्छन्ति असिक्नी असि ओषधे ।६ - ९ - पलिक्नीः इत् युवतयः भवन्ति ।७ - ९ - वर्णात् ङीब्विधाने पिशङ्गात् उपसङ्ख्यानम् ।८ - ९ - वर्णात् ङीब्विधाने पिशङ्गात् उपसङ्ख्यानम् कर्तव्यम् ।९ - ९ - पिशङ्गी ।१ - ८ - नीलात् ओषधौ ।२ - ८ - नीलात् ओषधौ इति वक्तव्यम् ।३ - ८ - नीली ओषधिः ।४ - ८ - प्राणिनि च ।५ - ८ - प्राणिनि च इति वक्तव्यम् ।६ - ८ - नीली गौः नीली वडवा ।७ - ८ - वा सञ्ज्ञायाम् । वा सञ्ज्ञायाम् इति वक्तव्यम् ।८ - ८ - नीली नीला ।१ - १३ - गुणवचनात् इति उच्यते ।२ - १३ - कः गुणः नाम ।३ - १३ - सत्त्वे निविशते अपैति पृथग्जातिषु दृश्यते आधेयः च अक्रियाजः च सः असत्त्वप्रकृतिः गुणः । अपरः आह उपैति अन्यत् ।४ - १३ - जहाति अन्यत् ।५ - १३ - दृष्टः द्रव्यान्तरेषु अपि ।६ - १३ - वाचकः सर्वलिङ्गानाम् द्रव्यात् अन्यः गुणः स्मृतः ।७ - १३ - गुणवचनात् ङीपा- आद्युदात्तार्थम् ।८ - १३ - गुणवचनात् ङीप् वक्तव्यः ।९ - १३ - किम् प्रयोजनम् ।१० - १३ - आद्युदात्तार्थम् ।११ - १३ - आद्युदात्ताः प्रयोजयन्ति ।१२ - १३ - वस्वी ।१३ - १३ - खरुसंयोगोपधप्रतिषेधः च ।१ - १३२ - गोपालिकादीनाम् प्रतिषेधः वक्तव्यः गोपालिका पशुपालिका ।२ - १३२ - किम् पुनः इह उदाहरणम् ।३ - १३२ - प्रष्ट्ःी प्रचरी ।४ - १३२ - कथम् पुनः अयम् प्रष्ठशब्दः अकारान्तः स्त्रियाम् वर्तते ।५ - १३२ - तस्य इदम् इति अनेन अभिसम्बन्धेन ।६ - १३२ - यथा एव हि असौ तत्कृतान् स्नानोद्वर्तनपरिषेकान् लभते एवम् प्रष्ठशब्दम् अपि लभते ।७ - १३२ - यदि एवम् पुंयोगात् आख्यायाम् तद्धितलुग्वचनम् ।८ - १३२ - पुंयोगात् आख्यायाम् तद्धितस्य लुक् वक्तव्यः ।९ - १३२ - तस्य इदम् इति प्राप्नोति ।१० - १३२ - न तर्हि इदानीम् इदम् भवति प्राष्थ्यः इमाः प्राचर्यः इमाः इति ।११ - १३२ - भवति च ।१२ - १३२ - विभाषा लुक् वक्तव्यः ।१३ - १३२ - यदा लुक् तदा प्रष्ठी ।१४ - १३२ - यदा न लुक् तदा प्राष्ठी ।१५ - १३२ - यदि एवम् न अर्थः लुका ।१६ - १३२ - विभाषा तद्धितोत्पत्तिः ।१७ - १३२ - यदा तद्धितोत्पत्तिः तदा प्राष्ठी ।१८ - १३२ - यदा न तद्धितोत्पत्तिः तदा प्रष्ठी ।१९ - १३२ - एवम् अपि लुक् वक्तव्यः ।२० - १३२ - न हि अन्तरेण तद्धितस्य लुकम् परार्थे शब्दः वर्तते ।२१ - १३२ - यदि पुनः तस्याम् एव प्रष्ठशब्दः वर्तेत ।२२ - १३२ - कथम् पुनः तस्याम् अप्रतिष्ठमानायाम् प्रष्ठशब्दः वर्तेत ।२३ - १३२ - यथा एव हि असौ अकुर्वती किम् चित् पापम् तत्कृतान् वधबन्दनपरिक्लेशान् लभते एवम् प्रष्ठशब्दम् अपि लभते ।२४ - १३२ - सुबन्तसमासवचनात् च अकारान्तानुपपत्तिः ।२५ - १३२ - सुबन्तसमासवचनात् च अकारान्तता न उपपद्यते ।२६ - १३२ - सुबन्तानाम् समासः ।२७ - १३२ - तत्र अन्तरङ्गत्वात् टाप् ।२८ - १३२ - टपि उत्पन्ने समासः ।२९ - १३२ - स्थाशब्दः समस्येत ।३० - १३२ - तत्र पुंयोगात् आख्यायाम् अकारान्तात् इति ईकारः न प्राप्नोति ।३१ - १३२ - सिद्धम् तु स्त्रियाः पुंशब्देन अभिधानात् ।३२ - १३२ - सिद्धम् एतत् ।३३ - १३२ - कथम् ।३४ - १३२ - स्त्रियाः पुंशब्देन अभिधानात् ।३५ - १३२ - स्त्री पुंशब्देन अभिधीयते ।३६ - १३२ - ननु च उक्तम् पुंयोगात् आख्यायाम् तद्धितलुग्वचनम् इति ।३७ - १३२ - न एषः दोषः ।३८ - १३२ - आचार्यप्रवृत्तिः ज्ञापयति न अतः तद्धितोत्पत्तिः भवति इति यत् अयम् पुंयोगात् आख्यायाम् ईकारम् शास्ति ।३९ - १३२ - न एतत् अस्ति ज्ञापकम् ।४० - १३२ - अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।४१ - १३२ - ये अनीकाराः स्त्रीप्रत्ययाः तदर्थम् एतत् स्यात् ।४२ - १३२ - यत् तर्हि आख्याग्रहणम् करोति ।४३ - १३२ - न हि तद्धितान्तम् आख्या भवति ।४४ - १३२ - अथ वा पुनः अस्तु तस्य इदम् इति अनेन अभिसम्बन्धेन ।४५ - १३२ - ननु च उक्तम् पुंयोगात् आख्यायाम् तद्धितलुग्वचनम् इति ।४६ - १३२ - न एषः दोषः ।४७ - १३२ - न अवश्यम् अयम् एव अभिसम्बन्धः भवति तस्य इदम् इति ।४८ - १३२ - अयम् अपि अभिसम्बन्धः अस्ति सः अयम् इति ।४९ - १३२ - कथम् पुनः अतस्मिन् सः इति एतत् भवति ।५० - १३२ - चतुर्भिः प्रकारैः अतस्मिन् सः इति एतत् भवति तात्स्थ्यात् ताद्धर्म्यात् तत्सामीप्यात् तत्साहचर्यात् इति ।५१ - १३२ - तात्स्थ्यात् तावत् ।५२ - १३२ - मञ्चाः हसन्ति ।५३ - १३२ - गिरिः दह्यते ।५४ - १३२ - ताद्धर्म्यात् ।५५ - १३२ - जटिनम् यान्तम् ब्रह्मदत्तः इति आह ।५६ - १३२ - ब्रह्मदत्ते यानि कार्याणि जटिनि अपि तानि क्रियन्ते इति अतः जटि ब्रह्मदत्तः इति उच्यते ।५७ - १३२ - तत्सामीप्यात् ।५८ - १३२ - गङ्गायाम् घोषः ।५९ - १३२ - कूपे गर्गकुलम् ।६० - १३२ - तत्साहचर्यात् ।६१ - १३२ - कुन्तान् प्रवेशय ।६२ - १३२ - यष्टीः प्रवेशय इति ।६३ - १३२ - अथ वा पुनः अस्तु तस्याम् एव प्रष्ठशब्दः ।६४ - १३२ - ननु च उक्तम् सुबन्तसमासवचनात् च अकारान्तानुपपत्तिः इति ।६५ - १३२ - न एषः दोषः ।६६ - १३२ - गतिकारकोपपदानाम् कृद्भिः सह समासवचनम् ।६७ - १३२ - गतिकारकोपपदानाम् कृद्भिः सह समासः भवति इति एषा परिभाषा कर्तव्या ।६८ - १३२ - कानि एतस्याः परिभाषायाः प्रयोजनानि ।६९ - १३२ - प्रयोजनम् क्तात् अल्पाख्यायाम् । अभ्रविलिप्तीसूपविलिप्ति ।७० - १३२ - सुबन्तानाम् समासः ।७१ - १३२ - तत्र अन्तरङ्गत्वात् टाप् ।७२ - १३२ - टपि उत्पन्ने समासः ।७३ - १३२ - विलिप्ताशब्दः समस्येत ।७४ - १३२ - तत्र क्तात् अल्पाख्यायाम् अकारान्तात् इति ङीष् न प्राप्नोति ।७५ - १३२ - जातेः ङीष्विधाने ।७६ - १३२ - जातेः ङीष्विधाने प्रयोजनम् ।७७ - १३२ - व्याघ्री कच्छपी ।७८ - १३२ - सुबन्तानाम् समासः ।७९ - १३२ - तत्र अन्तरङ्गत्वात् टाप् ।८० - १३२ - टपि उत्पन्ने समासः ।८१ - १३२ - घ्राशब्दः समस्येत ।८२ - १३२ - तत्र जातेः अस्त्रीविषयात् अयोपधात् अकारान्तात् इति ङीष् न प्राप्नोति ।८३ - १३२ - समासान्तस्य णत्वे ।८४ - १३२ - समासान्तस्य णत्वे प्रयोजनम् ।८५ - १३२ - वक्ष्यति प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणम् असमासान्तप्रतिषेधार्थम् इति ।८६ - १३२ - तस्मिन् क्रियमाणे माषवापिणी व्रीहिवापिणी सुबन्तानाम् समासः ।८७ - १३२ - तत्र अन्तरङ्गत्वात् नकारान्तत्वात् ङीप् ।८८ - १३२ - ङीपि उत्पन्ने समासः ।८९ - १३२ - वापिनी शब्दः समस्येत ।९० - १३२ - तत्र समासान्तस्य इति णत्वम् न प्राप्नोति ।९१ - १३२ - कृदन्तात् तद्धिते वृद्धिस्वरौ च ।९२ - १३२ - कृदन्तात् तद्धिते वृद्धिस्वरौ च प्रयोजनम् साङ्कुटिनम् व्यावक्रोशी ।९३ - १३२ - अत्र अवयवात् उत्पत्तिः प्रसज्येत ।९४ - १३२ - गतिकारकोपपदानाम् कृद्भिः सह समासः भवति इति न दोषः भवति ।९५ - १३२ - सत्याम् अपि एतस्याम् परिभाषायाम् अवयवात् उत्पत्तिः प्राप्नोति ।९६ - १३२ - किम् कारणम् ।९७ - १३२ - प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति ।९८ - १३२ - कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति सङ्घातात् उत्पत्तिः भविष्यति ।९९ - १३२ - यदि तर्हि एषा परिभाषा अस्ति न एतस्याः परिभाषायाः प्रयोजनम् भवति ।१०० - १३२ - एतया एव सिद्धम् ।१०१ - १३२ - न सिध्यति ।१०२ - १३२ - किम् कारणम् ।१०३ - १३२ - अप्रातिपदिकत्वात् ।१०४ - १३२ - कृत्त्वात् प्रातिपदिकसञ्ज्ञा भविष्यति ।१०५ - १३२ - ननु च इदानीम् प्रातिपदिकसञ्ज्ञायाम् अपि एतया परिभाषया शक्यम् उपस्थातुम् ।१०६ - १३२ - न इति आह ।१०७ - १३२ - इह हि मूलकेन उपदंशम् भुङ्क्ते इति वाक्ये अपि लुक् प्रसज्येत ।१०८ - १३२ - स्वरे च दोषः स्यात् ।१०९ - १३२ - प्रकारकः प्रकरणम् ।११० - १३२ - गतिकारकोपपदात् कृदन्तम् उत्तरपदम् प्रकृतिस्वरम् भवति इति एषः स्वरः न स्यात् ।१११ - १३२ - न एषः दोषः ।११२ - १३२ - द्वे अत्र प्रातिपदिकसञ्ज्ञे अवयवस्य अपि समुदायस्य अपि ।११३ - १३२ - तत्र अवयवस्य या प्रातिपदिकसञ्ज्ञा तदाश्रयः स्वरः भविष्यति ।११४ - १३२ - इह अपि तर्हि साङ्कुटिनम् व्यावक्रोशी इति द्वे अत्र प्रातिपदिकसञ्ज्ञे अवयवस्य अपि समुदायस्य अपि ।११५ - १३२ - तत्र अवयवस्य या प्रातिपदिकसञ्ज्ञा तदाश्रयावयवात् उत्पत्तिः प्रसज्येत ।११६ - १३२ - अवयवात् उत्पत्तौ सत्याम् कः दोषः ।११७ - १३२ - कौम्भकारेयः न सिध्यति ।११८ - १३२ - अवयवस्य वृद्धिस्वरौ स्याताम् ।११९ - १३२ - तस्मात् प्रयोजनम् एव एतस्याः परिभाषायाः ।१२० - १३२ - उभाभ्याम् नु खलु सिध्यति ।१२१ - १३२ - अवदातायाम् तु ङीप्प्रसङ्गः ।१२२ - १३२ - अवदातायाम् तु ङीप् प्राप्नोति ।१२३ - १३२ - अवदाता ब्राह्मणी ।१२४ - १३२ - वर्णात् अनुदात्तात् तोपधात् तः नः इति ।१२५ - १३२ - न एषः वर्णवाची ।१२६ - १३२ - किम् तर्हि विशुद्धवाची ।१२७ - १३२ - आतः च विशुद्धवाची ।१२८ - १३२ - एवम् हि आह त्रीणि यस्य अवदातानि विद्या योनिः च कर्म च एतत् शिवम् विजानीहि ब्राह्मणाग्र्यस्य लक्षणम् इति ।१२९ - १३२ - सूर्यात् देवतायाम् चाप् वक्तव्यः ।१३० - १३२ - सूर्यस्य स्त्री सूर्या ।१३१ - १३२ - देवतायाम् इति किमर्थम् ।१३२ - १३२ - सूरी ।१ - २४ - हिमारण्ययोः महत्त्वे ।२ - २४ - हिमारण्ययोः महत्त्वे इति वक्तव्यम् ।३ - २४ - महत् हिमम् हिमानी ।४ - २४ - महत् अरण्यम् अरण्यानी ।५ - २४ - यवात् दोषे ।६ - २४ - यवात् दोषे इति वक्तव्यम् ।७ - २४ - दुष्टः यवः यवानी ।८ - २४ - यवनात् लिप्याम् ।९ - २४ - यवनात् लिप्याम् इति वक्तव्यम् ।१० - २४ - यवनानी लिपिः ।११ - २४ - उपाध्यायमातुलाभ्याम् वा ।१२ - २४ - उपाध्यायमातुलाभ्याम् वा इति वक्तव्यम् ।१३ - २४ - उपाध्यायी उपाध्यायानी ।१४ - २४ - मातुली मातुलानी ।१५ - २४ - मुद्गलात् छन्दसि लित् च ।१६ - २४ - मुद्गलात् छन्दसि लित् च इति वक्तव्यम् ।१७ - २४ - रथीः अभूत् मुद्गलानी ।१८ - २४ - आचार्यात् अणत्वम् च ।१९ - २४ - आचार्यात् अणत्वम् च इति वक्तव्यम् ।२० - २४ - आचार्यानी ।२१ - २४ - आर्यक्षत्रियाभ्याम् वा ।२२ - २४ - आर्यक्षत्रियाभ्याम् वा इति वक्तव्यम् ।२३ - २४ - आर्या आर्याणी ।२४ - २४ - क्षत्रिया क्षत्रियाणी ।१ - ११ - करणपूर्वात् इति किमर्थम् ।२ - ११ - गवात् क्रीता ।३ - ११ - अश्वेन क्रीता ।४ - ११ - करणपूर्वात् इति उच्यमाने अपि अत्र प्राप्नोति ।५ - ११ - एषः अपि हि क्रीतशब्दः करणपूर्वः ।६ - ११ - विभक्त्या व्यवहितत्वात् न भविष्यति ।७ - ११ - यदि तर्हि विभक्तिः अपि ववधायिका भविष्यति मनसाक्रीती इति न सिध्यति ।८ - ११ - एवम् तर्हि न एवम् विज्ञायते ।९ - ११ - करणम् पूर्वम् अस्मात् क्रीतशब्दात् सः अयम् करणपूर्वः तस्मात् करणपूर्वात् क्रीतशब्दात् अनुपसर्जनात् इति ।१० - ११ - कथम् तर्हि ।११ - ११ - करणम् अस्मिन् प्रातिपदिके पूर्वम् तत् इदम् करणपूर्वम् तस्मात् करणपूर्वात् प्रातिपदिकात् क्रीतान्तात् अनुपसर्जनात् इति । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP