संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ४|पाद १| खण्ड ४२ पाद १ खण्ड ४२ खण्ड ४३ खण्ड ४४ खण्ड ४५ खण्ड ४६ पाद १ - खण्ड ४२ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ४२ Translation - भाषांतर १ - १०८ - ङ्याप्प्रातिपदिकग्रहणम् किमर्थम् ।२ - १०८ - ङ्याप्प्रातिपदिकात् यथा स्युः ।३ - १०८ - धातोः मा भूवन् इति ।४ - १०८ - न एतत् अस्ति प्रयोजनम् ।५ - १०८ - धातोः तव्यादयः विधीयन्ते ।६ - १०८ - ते अपवादत्वात् बाधकाः भविष्यन्ति ।७ - १०८ - तिङन्तात् तर्हि मा भूवन् इति ।८ - १०८ - एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते ।९ - १०८ - ते च अत्र तिङा उक्ताः एकत्वादयः इति कृत्वा उक्तार्थत्वान् न भविष्यन्ति ।१० - १०८ - टाबादयः तर्हि तिङन्तात् मा भूवन् इति ।११ - १०८ - स्त्रियाम् टाबादयः विधीयन्ते ।१२ - १०८ - न च तिङन्तस्य स्त्रीत्वेन योगः अस्ति ।१३ - १०८ - अणादयः तर्हि तिङन्तात् मा भूवन् इति ।१४ - १०८ - अपत्यादिष्व् अर्थेषु अणादयः विधीयन्ते ।१५ - १०८ - न च तिङन्तस्य अपत्यादिभिः योगः अस्ति ।१६ - १०८ - अथ अपि कथम् चित् योगः स्यात् एवम् अपि न दोषः ।१७ - १०८ - आचार्यप्रवृत्तिः ज्ञापयति न तिङन्तात् अणादयः भवन्ति इति यत् अयम् क्व चित् तद्धितविधौ तिङ्ग्रहणम् करोति ।१८ - १०८ - अतिशायने तमबिष्ठनौ तिङः च इति ।१९ - १०८ - अतः उत्तरम् पठति ।२० - १०८ - ङ्याप्प्रातिपदिकग्रहणम् अङ्गभपदसञ्ज्ञार्थम् ।२१ - १०८ - ङ्याप्प्रातिपदिकग्रहणम् क्रियते अङ्गभपदसञ्ज्ञार्थम् ।२२ - १०८ - अङ्गभपदसञ्ज्ञाः ङ्याप्प्रातिपदिकस्य यथा स्युः इति ।२३ - १०८ - क्व पुनः इह अङ्गभपदसञ्ज्ञार्थेन ङ्याप्प्रातिपदिकग्रहणेन अर्थः ।२४ - १०८ - टाबादिषु ।२५ - १०८ - न एतत् अस्ति प्रयोजनम् ।२६ - १०८ - ग्रहणवद्भ्यः टाबादयः विधीयन्ते ।२७ - १०८ - उगितः ङीप् भवति अतः टाप् भवति इति ।२८ - १०८ - यत् तत् शब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः ।२९ - १०८ - तस्य एताः सञ्ज्ञाः भविष्यन्ति ।३० - १०८ - अथ अपि कः चित् अग्रहणः एवम् अपि अदोषः ।३१ - १०८ - स्त्रियाम् टाबादयः विधीयन्ते ।३२ - १०८ - यत् तत् शब्दस्वरूपम् स्त्रियाम् वर्तते तस्मात् तदुत्पत्तिः ।३३ - १०८ - तस्य एताः सञ्ज्ञाः भविष्यन्ति ।३४ - १०८ - अणादिषु तर्हि ।३५ - १०८ - अणादयः अपि ग्रहणवद्भ्यः टाबादयः विधीयन्ते ।३६ - १०८ - गर्गादिभ्यः यञ् नडादिभ्यः फक् इति ।३७ - १०८ - यत् तत् शब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः ।३८ - १०८ - तस्य एताः सञ्ज्ञाः भविष्यन्ति ।३९ - १०८ - अथ अपि कः चित् अग्रहणः एवम् अपि अदोषः ।४० - १०८ - अपत्यादिषु अर्थेषु अणादयः विधीयन्ते ।४१ - १०८ - यत् तत् शब्दस्वरूपम् अपत्यादिषु अर्थेषु वर्तते तस्मात् तदुत्पत्तिः ।४२ - १०८ - तस्य एताः सञ्ज्ञाः भविष्यन्ति ।४३ - १०८ - स्वार्थिकेषु तर्हि ।४४ - १०८ - स्वार्थिकाः अपि ग्रहणवद्भ्यः विधीयन्ते ।४५ - १०८ - यावादिभ्यः कन् प्रज्ञाइद्भ्यः अण् इति ।४६ - १०८ - यत् तत् शब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः ।४७ - १०८ - तस्य एताः सञ्ज्ञाः भविष्यन्ति ।४८ - १०८ - यः तर्हि अग्रहणः शुक्लतरः कृष्णतरः इति ।४९ - १०८ - अत्र अपि न यावत् शुक्लः तावत् शुक्लतरः ।५० - १०८ - प्रकृष्टः शुक्लः शुक्लतरः ।५१ - १०८ - यत् तत् शब्दस्वरूपम् प्रकृष्टे वर्तते तस्मात् तदुत्पत्तिः ।५२ - १०८ - तस्य एताः सञ्ज्ञाः भविष्यन्ति ।५३ - १०८ - स्वादिषु तर्हि ।५४ - १०८ - एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते ।५५ - १०८ - यत् तत् शब्दस्वरूपम् एकत्वादिषु अर्थेषु वर्तते तस्मात् तदुत्पत्तिः ।५६ - १०८ - तस्य एताः सञ्ज्ञाः भविष्यन्ति ।५७ - १०८ - कथम् पुनः इह उच्यमानाः स्वादयः एकत्वादिषु अर्थेषु शक्या विज्ञातुम् ।५८ - १०८ - एकवाक्यत्वात् ।५९ - १०८ - एकम् वाक्यम् तत् च इदम् च ।६० - १०८ - यदि एकम् वाक्यम् तत् च इदम् च किमर्थम् नानादेशस्थम् क्रियते ।६१ - १०८ - कौशलमात्रम् एतत् आचार्यः दर्शयति यत् एकम् वाक्यम् सत् नानादेशस्थम् करोति ।६२ - १०८ - अन्यत् अपि सङ्ग्रहीष्यामि इति ।६३ - १०८ - यच्छयोः च लुगर्थम् ।६४ - १०८ - यच्छयोः तर्हि लुगर्थम् ङ्याप्प्रातिपदिकग्रहणम् क्रियते ।६५ - १०८ - कंसीयपरशव्ययोः यञञौ लुक् च इति ङ्याप्प्रातिपदिकात् परस्य लुक् यथा स्यात् ।६६ - १०८ - अक्रियमाणे हि ङ्याप्प्रातिपदिकग्रहणे प्रकृतेः अपि लुक् प्रसज्येत ।६७ - १०८ - एतत् अपि न अस्ति प्रयोजनम् ।६८ - १०८ - यथा परिभाषितम् प्रत्ययस्य लुक्श्लुलुपः भवन्ति इति प्रत्ययस्य भविष्यति ।६९ - १०८ - एवम् अपि उकारसकारयोः प्रसज्येत ।७० - १०८ - कमेः सः कंसः परान् श्र्णाति इति परशुः इति ।७१ - १०८ - उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।७२ - १०८ - वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे च प्रत्ययविधौ तत्सम्प्रत्ययार्थम् ।७३ - १०८ - वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे तर्हि प्रत्ययविधौ तत्सम्प्रत्ययार्थम् ङ्याप्प्रातिपदिकग्रहणम् क्रियते ।७४ - १०८ - वृद्धात् अवृद्धात् अवर्णान्टात् अनुदात्तादेः द्व्यचः इति एतानि प्रातिपदिकविशेषणानि यथा स्युः इति ।७५ - १०८ - अथ अक्रियमाणे ङ्याप्प्रातिपदिकग्रहणे कस्य एतानि विशेषणानि स्युः ।७६ - १०८ - समर्थविशेषणानि ।७७ - १०८ - तत्र कः दोषः ।७८ - १०८ - उदीचाम् वृद्धात् अगोत्रात् इह च प्रसज्येत ज्ञानाम् ब्राह्मणानाम् अपत्यम् इति ।७९ - १०८ - एतत् हि समर्थम् वृद्धम् ।८० - १०८ - इह च न स्यात् ज्ञयोः ब्राह्मणयोः अपत्यम् इति ।८१ - १०८ - एतत् हि समर्थम् अवृद्धम् ।८२ - १०८ - वृद्ध. अवृद्ध ।८३ - १०८ - प्राचाम् अवृद्धात् फिन् बहुलम् इह च प्रसज्येत ज्ञयोः ब्राह्मणयोः अपत्यम् इति ।८४ - १०८ - एतत् हि समर्थम् अवृद्धम् ।८५ - १०८ - इह च न स्यात् ज्ञानाम् ब्राह्मणानाम् अपत्यम् इति ।८६ - १०८ - एतत् हि समर्थम् वृद्धम् ।८७ - १०८ - अवृद्ध ।८८ - १०८ - अवर्ण ।८९ - १०८ - अत इञ् भवति इह एव स्यात् दक्षस्य अपत्यम् दाक्षिः इति ।९० - १०८ - एतत् हि समर्थम् अकारान्तम् ।९१ - १०८ - इह च न स्यात् दक्षयोः अपत्यम् दक्षाणाम् अपत्यम् इति ।९२ - १०८ - एतत् ह्स् समर्थम् अनवर्णान्तम् ।९३ - १०८ - अवर्ण ।९४ - १०८ - स्वर ।९५ - १०८ - अनुदात्तादेः अञ् भवति इति इह च प्रसज्येत वाचः विकारः त्वचः विकारः इति ।९६ - १०८ - एतत् ह्स् समर्थम् अनुदात्तादि ।९७ - १०८ - इह च न स्यात् सर्वेषाम् विकारः इति ।९८ - १०८ - एतत् ह्स् समर्थम् उदात्तादि ।९९ - १०८ - स्वर ।१०० - १०८ - द्व्यज्लक्षण द्व्जचः ठन् इति इह च प्रसज्येत वाचा तरति त्वचा तरति इति ।१०१ - १०८ - एतत् हि समर्थम् द्व्यच् ।१०२ - १०८ - इह च न स्यात् घटेन तरति इति ।१०३ - १०८ - एतत् हि समर्थम् समर्थम् अद्व्यच् ।१०४ - १०८ - अस्ति पुनः समर्थविशेषणे सति किम् चित् इष्टम् सङ्गृहीतम् भवति आहोस्वित् दोषान्तम् एव ।१०५ - १०८ - अस्ति इति आह ।१०६ - १०८ - किम् ।१०७ - १०८ - साम्ना तरति वेम्ना तरति इति ।१०८ - १०८ - एतत् हि समर्थम् अपि ङ्याप्प्रातिपदिकम् अपि ।१ - २०६ - अथ ङ्याब्ग्रहणम् किमर्थम् न प्रातिपदिकात् इति एव सिद्धम् ।२ - २०६ - न सिध्यति ।३ - २०६ - अप्रत्ययः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्राप्नोति ।४ - २०६ - यदि एषः ङ्याब्ग्रहणे हेतुः त्यूग्रहणम् अपि कर्तव्यम् ।५ - २०६ - तौ अपि हि प्रत्ययौ ।६ - २०६ - तिग्रहणे तावत् वार्त्तम् ।७ - २०६ - तद्धितः प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा भविष्यति ।८ - २०६ - ऊग्रहणे च अपि वार्त्तम् ।९ - २०६ - उवर्णान्तात् ऊङ् विधीयते ।१० - २०६ - तत्र एकादेशः ।११ - २०६ - एकादेशे कृते अन्तादिवद्भावात् प्रातिपदिकसञ्ज्ञा भविष्यति ।१२ - २०६ - यदि एषः ऊङः अग्रहणे हेतुः आब्ग्रहणम् अपि न कर्तव्यम् ।१३ - २०६ - आप् अपि हि अकारान्तात् विधीयते ।१४ - २०६ - तत्र एकादेशः ।१५ - २०६ - एकादेशे कृते अन्तादिवद्भावात् प्रातिपदिकसञ्ज्ञा भविष्यति ।१६ - २०६ - यः तर्हि अनकारान्तात् ।१७ - २०६ - क्रुञ्चा उष्णिहा देवविशा इति ।१८ - २०६ - अत्र अपि अकारान्तात् वृत्तिः लक्ष्यते ।१९ - २०६ - क्रुञ्चान् आलभेत ।२० - २०६ - उष्णिहककुभौ ।२१ - २०६ - देवविशम् च मनुष्यविशम् च इति ।२२ - २०६ - इह तावत् उष्णिहककुभौ इति ।२३ - २०६ - आपः एव एतत् औत्तरपदिकम् ह्रस्वत्वम् ।२४ - २०६ - इह खलु अपि देवविशम् च मनुष्यविशम् च इति ।२५ - २०६ - न अस्ति विशेषः अकारान्तात् उत्पत्तौ सत्याम् व्यञ्जनान्तात् वा इति ।२६ - २०६ - यत् तावत् उच्यते इह तावत् उष्णिहककुभौ इति ।२७ - २०६ - आपः एव एतत् औत्तरपदिकम् ह्रस्वत्वम् इति ।२८ - २०६ - सञ्ज्ञाच्छन्दसोः इति एवम् तत् ।२९ - २०६ - न च एषा सञ्ज्ञा न अपि इदम् छन्दः ।३० - २०६ - यत् अपि उच्यते इह खलु अपि देवविशम् च मनुष्यविशम् च इति ।३१ - २०६ - न अस्ति विशेषः अकारान्तात् उत्पत्तौ सत्याम् व्यञ्जनान्तात् वा इति ।३२ - २०६ - स्वरे विशेषः ।३३ - २०६ - यदि अत्र व्यञ्जनान्तात् उत्पत्तिः स्यात् देवविशम् इति एवम् स्वरः प्रसज्येत ।३४ - २०६ - देवविशम् इति च इष्यते ।३५ - २०६ - तस्मात् कः एषः एवम्विषयः ।३६ - २०६ - इदम् तर्हि पादः अन्यतरस्याम् टाप् ऋचि इति ।३७ - २०६ - ऋचि इति उच्यते ।३८ - २०६ - तत्र छान्दसत्वात् भविष्यति ।३९ - २०६ - ऋचि इति न इदम् छन्दः विवक्षितम् काठकम् कापालकम् अमुदकम् पैप्पलादकम् वा ।४० - २०६ - किम् तर्हि ।४१ - २०६ - प्रत्ययार्थविशेषणम् एतत् ।४२ - २०६ - ऋक् चेत् प्रत्ययार्थः भवति इति ।४३ - २०६ - एतत् अपि न अस्ति प्रयोजनम् पदशब्दः पादशब्दसमानार्थः अकारान्तः छन्दसि दृश्यते ।४४ - २०६ - तस्याः सप्ताक्षरम् एकम् पदम् एअकः पादः इति अर्थः ।४५ - २०६ - तस्मात् उत्पत्तिः भविष्यति ।४६ - २०६ - इदम् तर्हि डाप् उभाभ्याम् अन्यतरस्याम् इति ।४७ - २०६ - बहुराजा बहुराजे बहुराजाः ।४८ - २०६ - ङ्याब्ग्रहणम् अनर्थकम् प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणात् ।४९ - २०६ - ङ्याब्ग्रहणम् अनर्थकम् ।५० - २०६ - किम् कारणम् ।५१ - २०६ - प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणात् ।५२ - २०६ - प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति एषा परिभाषा कर्तव्या ।५३ - २०६ - कः पुनः विशेषः एषा वा परिभाषा क्रियते आब्ग्रहणम् वा ।५४ - २०६ - अवश्यम् एषा परिभाषा कर्तव्या ।५५ - २०६ - बहूनि एतस्याः परिभाषायाः प्रयोजनानि ।५६ - २०६ - कानि ।५७ - २०६ - प्रयोजनम् सर्वनामस्वरसमासतद्धितविधिलुगलुगर्थम् ।५८ - २०६ - सर्वनामविधिः प्रयोजनम् ।५९ - २०६ - सर्वनाम्नः सुट् इह एव स्यात् तेषाम् येषाम् ।६० - २०६ - तासाम् यासाम् इति अत्र न स्यात् ।६१ - २०६ - न एतत् अस्ति प्रयोजनम् ।६२ - २०६ - अवर्णान्तात् टाप् विधीयते ।६३ - २०६ - तत्र एकादेशः ।६४ - २०६ - एकादेशे कृते अन्तादिवद्भावात् सुट् भविष्यति ।६५ - २०६ - इदम् तर्हि प्रयोजनम् ।६६ - २०६ - सर्वनाम्नः तृतीया च इह एव स्यात् भवता हेतुना भवतः हेतोः इति ।६७ - २०६ - भवत्या हेतुना भवत्याः हेतोः इति अत्र न स्यात् ।६८ - २०६ - सर्वनाम ।६९ - २०६ - स्वर ।७० - २०६ - कुशूलकूपकुम्भशालम् बिले इह एव स्यात् कुशूलबिलम् ।७१ - २०६ - कुशूलीबिलम् इति अत्र न स्यात् ।७२ - २०६ - स्वर ।७३ - २०६ - समास ।७४ - २०६ - द्वितीया श्रितादिभिः सह समस्यते इह एव स्यात् कष्टम् श्रितः कष्टश्रितः ।७५ - २०६ - कष्टम् श्रिता कष्टश्रिता इति अत्र न स्यात् ।७६ - २०६ - एतत् अपि न अस्ति प्रयोजनम् ।७७ - २०६ - श्रितशब्दः अकारान्तः ।७८ - २०६ - तत्र एकादेशः ।७९ - २०६ - एकादेशे कृते अन्तादिवद्भावात् भविष्यति ।८० - २०६ - इदम् तर्हि ।८१ - २०६ - पूर्वसदृश इति इह एव स्यात् पित्रा सदृशः पितृसदृशः ।८२ - २०६ - पित्रा सदृशी पितृसदृशी इति अत्र न स्यात् ।८३ - २०६ - समासः ।८४ - २०६ - तद्धितविधि ।८५ - २०६ - अचित्तहिअस्तिधेनोः ठक् इह एव स्यात् हस्तिनाम् समूहः हास्तिकम् ।८६ - २०६ - हस्तिनीनाम् समूहः हास्तिकम् इति अत्र न स्यात् ।८७ - २०६ - एतत् अपि न अस्ति प्रयोजनम् ।८८ - २०६ - पुंवद्भावेन एतत् सिद्धम् ।८९ - २०६ - इदम् तर्हि ।९० - २०६ - प्रमाणे द्वयसच् यथा इह भवति हस्तिद्वयसम् हस्तिमात्रम् एवम् हस्तिनीद्वयसम् हस्तिनीमात्रम् इति अपि यथा स्यात् ।९१ - २०६ - तद्धितविधि ।९२ - २०६ - लुक् ।९३ - २०६ - न इन्द्सिद्धबध्नातिषु च इह एव स्यात् स्थण्डिलशायी ।९४ - २०६ - स्थण्डिलशायिनी इति अत्र न स्यात् ।९५ - २०६ - लुक् ।९६ - २०६ - अलुक् ।९७ - २०६ - शयवासवासिषु अकालात् इह एव स्यात् ग्रामेवासी ।९८ - २०६ - ग्रामेवासिनी इति अत्र न स्यात् ।९९ - २०६ - मानिनि च विधिप्रतिषेधाऋथम् । मानिनि च विधिप्रतिषेधाऋथम् प्रयोजनम् ।१०० - २०६ - विध्यर्थम् तावत् ।१०१ - २०६ - क्यङ्मानिनोः च इह एव स्यात् दर्शनीयमानी ।१०२ - २०६ - दर्शनीयमानिनी इति अत्र न स्यात् ।१०३ - २०६ - प्रतिषेधार्थम् अपि ।१०४ - २०६ - वक्याति श्वाङ्गात् च ईतः अमानिनि ।१०५ - २०६ - तस्मिन् क्रियमाणे इह एव स्यात् दीर्घमुखमानी ।१०६ - २०६ - दीर्घमुखमानिनी इति अत्र न स्यात् ।१०७ - २०६ - प्रत्ययग्रहणोपचारेषु च ।१०८ - २०६ - प्रत्ययग्रहणोपचारेषु च प्रयोजनम् ।१०९ - २०६ - तृजकाभ्याम् कर्तरि इह एव स्यात् अपाम् स्रष्टा ।११० - २०६ - अपाम् स्रष्ट्री इति अत्र न स्यात् ।१११ - २०६ - उपचार अतः कृकमिकंसकुम्भ इथ एव स्यात् अयस्कुम्भः ।११२ - २०६ - अयस्कुम्भी इति अत्र न स्यात् ।११३ - २०६ - एतानि अस्याः परिभाषायाः प्रयोजनानि यदर्थम् एषा परिभाषा कर्तव्या ।११४ - २०६ - एतस्याम् च सत्याम् न अर्थः ङ्याब्ग्रहणेन ।११५ - २०६ - अतिप्रसङ्गः उपपदविधौ ।११६ - २०६ - उपपदविधौ अतिप्रसङ्गः भवति ।११७ - २०६ - द्विषत्परयोः तापेः यथा इह भवति द्विषन्तपः इति एवम् द्विषतीतपः इति अत्र अपि स्यात् ।११८ - २०६ - यञिञोः फकि ।११९ - २०६ - यञिञोः फकि अतिप्रसङ्गः भवति ।१२० - २०६ - यथा इह भवति गार्ग्यायणः दाक्षायणः एवम् गार्गेयः दाक्षेयः इति अत्र अपि स्यात् ।१२१ - २०६ - न एषः दोषः ।१२२ - २०६ - ढक् अत्र बाधकः भविष्यति ।१२३ - २०६ - समासान्तेषु च ।१२४ - २०६ - समासान्तेषु च अतिप्रसङ्गः भवति ।१२५ - २०६ - राजाहसखिभ्यः टत् यथा इह भवति मद्रराजः कश्मीरराजः एवम् मद्रराज्ञी कश्मीरराज्ञी इति अत्र अपि स्यात् ।१२६ - २०६ - न वा भवति मद्रराजी इति ।१२७ - २०६ - भवति यदा समासान्तात् ईकारः ।१२८ - २०६ - लिङ्गविशिष्टग्रहणे तु ईकारान्तात् समासान्तः प्रसज्येत ।१२९ - २०६ - तत्र कः दोषः ।१३० - २०६ - पुंवद्भावः टिलोपः च ।१३१ - २०६ - तत्र मद्रजी इति एतत् रूपम् स्यात् ।१३२ - २०६ - मद्रराज्ञी इति च इष्यते ।१३३ - २०६ - महदात्त्वे प्रियादिषु ।१३४ - २०६ - महदात्त्वे प्रियादिषु अतिप्रसङ्गः भवति ।१३५ - २०६ - आत् महतः समानाधिकरणजातीययोः इति यथा इह भवति महान् प्रियः अस्य महाप्रियः एवम् महती प्रिया अस्य महतीप्रियः इति अत्र अपि स्यात् ।१३६ - २०६ - किम् उच्यते प्रियादिषु इति ।१३७ - २०६ - यत्र पुंवद्भावः प्रतिषिध्यते ।१३८ - २०६ - यत्र तु न प्रतिषिध्यते भवितव्यम् एव तत्र आत्त्वेन ।१३९ - २०६ - ञ्नित्स्वरे ।१४० - २०६ - ञ्नित्स्वरे अतिप्रसङ्गः भवति ।१४१ - २०६ - ञ्निति आदिः उदात्तः भवति यथा इह भवति दाक्षिः अहिचुम्बुकायनिः एवम् दाक्षी अहिचुम्बुकायनी इति अत्र अपि स्यात् ।१४२ - २०६ - राज्ञः स्वरे ब्राह्मणकुमारयोः ।१४३ - २०६ - राज्ञः स्वरे ब्राह्मणकुमारयोः अतिप्रसङ्गः भवति ।१४४ - २०६ - राजा च ब्राह्मणकुमारयोः इति यथा इह भवति राजकुमारः राजब्राह्मणः एवम् राजकुमारी राजब्राह्मणी इति अत्र अपि स्यात् ।१४५ - २०६ - समाससङ्घातग्रहणेषु च ।१४६ - २०६ - समाससङ्घातग्रहणेषु च अतिप्रसङ्गः भवति ।१४७ - २०६ - बहोः नञ्वत् उत्तरपदभूम्नि यथा इह भवति बहुगोमान् बहुयवमान् एवम् बहुगोमती बहुयवमती इति अत्र अपि स्यात् ।१४८ - २०६ - किम् उच्यते समाससङ्घातग्रहणेषु इति ।१४९ - २०६ - यत् अवयवग्रहणम् प्रयोजनम् एव तस्याः परिभाषायाः ।१५० - २०६ - कुम्भशालम् बिले कुशूलीबिलम् इति यथा ।१५१ - २०६ - विभक्तौ च उक्तम् ।१५२ - २०६ - किम् उक्तम् ।१५३ - २०६ - न वा विभक्तौ लिङ्गविशिष्टाग्रहणात् इति ।१५४ - २०६ - एते अस्याः परिभाषाः दोषाः एतानि च प्रयोजनानि स्युः ।१५५ - २०६ - एते दोषाः समाः भूयांसः वा ।१५६ - २०६ - तस्मात् न अर्थः अनया परिभाषया ।१५७ - २०६ - न हि दोषाः सन्ति इति परिभाषा न कर्तव्या लक्षणम् वा न प्रणेयम् ।१५८ - २०६ - न हि भिक्षुकाः सन्ति इति स्थाल्यः न आश्रीयन्ते न च मृगाः सन्ति इति यवा न उप्यन्ते ।१५९ - २०६ - न हि दोषाणाम् लक्षणम् अस्ति इति ।१६० - २०६ - तस्मात् यानि एतस्या परिभाषयाः प्रयोजनानि तदर्थम् एषा कर्तव्या प्रतिविधेयम् च दोषेषु ।१६१ - २०६ - तद्धितविधानाऋथम् तु ।१६२ - २०६ - तद्धितविधानाऋथम् तु ङ्याब्ग्रहणम् कर्तव्यम् ।१६३ - २०६ - ङ्याबन्तात् तद्धितोत्पत्तिः यथा स्यात् ।१६४ - २०६ - कालितरा हरिणितरा खट्वातरा मालातरा ।१६५ - २०६ - किम् पुनः कारणम् न सिध्यति ।१६६ - २०६ - विप्रतिषेधात् हि तद्धितबलीयस्त्वम् । विप्रतिषेधात् हि तद्धितोत्पत्तिः प्राप्नोति ।१६७ - २०६ - तत्र समासान्तेषु दोषः । तत्र समासान्तेषु दोषः भवति ।१६८ - २०६ - बहुगोमत्का बहुयवमत्का ।१६९ - २०६ - समासान्ताः अपि ङ्याबन्तात् स्युः ।१७० - २०६ - त्यूङोः च ग्रहणम् ।१७१ - २०६ - त्यूङोः च ग्रहणम् कर्तव्यम् ।१७२ - २०६ - युवतिका ब्रह्मबन्धुका इति ।१७३ - २०६ - ऊङ्ग्रहणेन तावत् न अर्थः ।१७४ - २०६ - न अस्ति अत्र विशेषः उकारान्तात् उत्पत्तौ सत्याम् ऊङन्तात् वा ।१७५ - २०६ - इदम् तर्हि युवतितरा ब्रह्मबन्धुतरा इति ।१७६ - २०६ - तदन्तस्य च प्रत्ययार्थेन अयोगात् तद्धितानुत्पत्तिः ।१७७ - २०६ - तदन्तस्य च ङ्याबन्तस्य प्रत्ययार्थेन अयोगात् तद्धितोत्पत्तिः न प्राप्नोति ।१७८ - २०६ - कालितरा हरिङितरा खट्वातरा मालातरा ।१७९ - २०६ - किम् कारणम् ।१८० - २०६ - ङ्यापन्तम् एतत् स्त्रीप्रधानम् ।१८१ - २०६ - न च स्त्रीत्वस्य प्रकर्षापकर्षौ स्तः ।१८२ - २०६ - न एषः दोषः ।१८३ - २०६ - न हि किम् चित् उच्यते एवञ्जातीयकात् उत्पत्तव्यम् एवञ्जातीयकात् न इति ।१८४ - २०६ - एतावत् उच्यते अतिशायने तमबिष्ठनौ तिङः च इति ।१८५ - २०६ - यस्य च प्रकर्षः अस्ति तस्य प्रकर्षे प्रत्ययः भविष्यति ।१८६ - २०६ - अस्ति च अप्रधानस्य गुणस्य प्रकर्षः ।१८७ - २०६ - इह खलु अपि शुक्लतरः कृष्णतरः इति द्रव्यम् प्रधानम् गुणस्य च प्रकर्षे प्रत्ययः उत्पद्यते ।१८८ - २०६ - उक्तम् वा ।१८९ - २०६ - किम् उक्तम् ।१९० - २०६ - सिद्धम् तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः इति ।१९१ - २०६ - प्रातिपदिकविशेषणम् स्त्रीग्रहणम् ।१९२ - २०६ - स्वार्थिकाः टाबादयः ।१९३ - २०६ - न एवम् विज्ञयते स्त्रियाम् अभिधेयायाम् इति न अपि स्त्रीसमानाधिकरणात् प्रातिपदिकात् ।१९४ - २०६ - कथम् तर्हि ।१९५ - २०६ - यत् स्त्रियाम् प्रातिपदिकम् वर्तते तस्मात् टाबादयः भवन्ति ।१९६ - २०६ - कस्मिन् अर्थे ।१९७ - २०६ - स्वार्थे इति ।१९८ - २०६ - ननु च उक्तम् तत्र समासान्तेषु दोषः इति ।१९९ - २०६ - समासान्ताः अपि स्वार्थिकाः ।२०० - २०६ - उभयोः स्वार्थिकयोः परत्वात् समासान्ताः भविष्यन्ति ।२०१ - २०६ - कथम् कालिका इति ।२०२ - २०६ - प्रत्ययस्थात् कात् पूर्व्सस्य इति इत्त्वम् भविष्यति ।२०३ - २०६ - कथम् हरिणिका इति ।२०४ - २०६ - हरिणशब्दः प्रकृत्यन्तरम् अस्ति ।२०५ - २०६ - कथम् लोहिनिका इति ।२०६ - २०६ - वक्ष्यति एतत् लोहिता लिङ्गबाधनम् वा इति ।१ - ९५ - स्त्रियाम् इति उच्यते ।२ - ९५ - का स्त्री नाम ।३ - ९५ - लोकततः एते शब्दाः प्रसिद्धाः स्त्रीपुमान् नपुंसकम् इति ।४ - ९५ - यत् लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इदम् नपुंसकम् इति सा स्त्रीसः पुमान् तत् नपुंसकम् इति ।५ - ९५ - किम् पुनः लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इदम् नपुंसकम् इति ।६ - ९५ - लिङ्गम् ।७ - ९५ - किम् पुनः तत् ।८ - ९५ - स्तनकेशवती स्त्री स्यात् ।९ - ९५ - लोमशः पुरुषः स्मृतः ।१० - ९५ - उभयोः अन्तरम् यत् च तदभावे नपुंसकम् ।११ - ९५ - लिङ्गात् स्त्रीपुंसयोः ज्ञाने भ्रूकुंसे टापा- प्रसज्यते । लिङ्गात् स्त्रीपुंसयोः ज्ञाने भ्रूकुंसे टाप् प्राप्नोति ।१२ - ९५ - यत् हि लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री इति अस्ति तत् भ्रूकुंसे ।१३ - ९५ - नत्वम् खरकुटीः पश्य । इह चञ्चाः पश्य वध्रिकाः पश्य खरकुटीः पश्य इति तस्मात् शसः नः पुंसि इति नत्वम् प्राप्नोति ।१४ - ९५ - यत् हि दृष्ट्वा एतत् अवसीयते अयम् पुमान् इति अस्ति तत् वध्रिकादिषु ।१५ - ९५ - खट्वावृक्षौ न सिध्यतः ।१६ - ९५ - खट्वावृक्षयोः च लिङ्गम् न सिध्यति ।१७ - ९५ - यत् हि लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इति न तत् खट्वावृक्षयोः अस्ति ।१८ - ९५ - किम् तर्हि तयोः लिङ्गम् न्याय्यम् ।१९ - ९५ - नापुंसकम् भवेत् तस्मिन् । नपुंसकम् खट्वावृक्षयोः लिङ्गम् न्याय्यम् ।२० - ९५ - किम् इदम् नापुंसकम् इति ।२१ - ९५ - नपुंसके भवम् नापुंसकम् ।२२ - ९५ - तदभावे नपुंसकम् ।२३ - ९५ - तदभावे स्त्रीपुंसलिङ्गाभावे नपुंसकलिङ्गम् न्याय्यम् ।२४ - ९५ - असत् तु मृगतृष्णावत् ।२५ - ९५ - असत् तु खट्वावृक्षयोः लिङ्गम् द्रष्टव्यम् ।२६ - ९५ - कथम् पुनः असत् नाम लिङ्गम् शक्यम् द्रष्टुम् ।२७ - ९५ - मृगतृष्णावत् ।२८ - ९५ - तत् यथा मृगाः तृषिताः अपाम् धाराः पश्यन्ति ।२९ - ९५ - न च ताः सन्ति ।३० - ९५ - गन्धर्व्नगरम् यथा ।३१ - ९५ - यथा गन्धर्वनगराणि दूरतः दृश्यन्ते उपसृत्य च न उपलभ्यन्ते तद्वत् खट्वावृक्षयोः लिङ्गम् द्रष्टव्यम् ।३२ - ९५ - आदित्यगतिवत् सत् न ।३३ - ९५ - अथ व यथा आदित्यस्य गतिः सती न उपलभ्यते तद्वत् खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते ।३४ - ९५ - वस्त्रान्तर्हितवत् च तत् ।३५ - ९५ - यथा वस्त्रान्तर्हितानि द्रव्याणि न उपलभ्यन्ते तद्वत् खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते ।३६ - ९५ - विषमः उपन्यासः ।३७ - ९५ - वस्त्रान्तर्हितानि द्रव्याणि वस्त्रापाये उपलभ्यन्ते ।३८ - ९५ - खट्वावृक्षयोः पुनः ये अपि एते रथ्काराः वाशीवृक्षादनहस्ताः मूलात् प्रभृति आ अग्रात् वृक्षान् तक्ष्णुवन्ति ते अपि तयोः लिङ्गम् न उपलभन्ते ।३९ - ९५ - केन एतत् अवसीयते खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति ।४० - ९५ - षड्भिः प्रकारैः सताम् भावानाम् अनुपलब्धिः भवति ।४१ - ९५ - सन्निकर्षात् अतिविप्रकर्षात् मूर्त्यन्तरव्यवधानात् तमसा आवृतत्वात् इन्द्रियदौर्बल्यात् अतिप्रमादात् इति ।४२ - ९५ - अतः अत्र कः चित् हेतुः द्रष्टव्यः येन खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते ।४३ - ९५ - केन एतत् अवसीयते खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति ।४४ - ९५ - तयोः तु तत्कृतम् दृष्ट्वा ।४५ - ९५ - स्त्रीकृतम् शब्दम् दृष्ट्वा स्त्री इति अवसीयते पुंस्कृतम् दृष्ट्वा पुमान् इति ।४६ - ९५ - यथा आकाशेन ज्योतिषः ।४७ - ९५ - तत् यथा आकाशम् दृष्ट्व ज्योतिः अत्र इति गम्यते ।४८ - ९५ - ज्योतिर्निमित्तम् हि आकाशम् ।४९ - ९५ - अन्योन्य्संश्रयम् तु एतत् ।५० - ९५ - अन्योन्य्संश्रयम् तु एतत् भवति ।५१ - ९५ - स्त्रीकृतः शब्दः शब्दकृतम् च स्त्रीत्वम् ।५२ - ९५ - एतत् इतरेतराश्रयम् भवति ।५३ - ९५ - इतरेतराश्रयाणि च न प्रकल्पन्ते ।५४ - ९५ - प्रत्यक्षेण विरुध्यते ।५५ - ९५ - प्रत्यक्षेण खलु अपि सः विरुध्यते यः आह खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति ।५६ - ९५ - तत्र स्वेन्द्रियविरोधः कृतः भवति ।५७ - ९५ - न च नाम स्वेन्द्रियविरोधिना भवितव्यम् ।५८ - ९५ - तटे च सर्वलिङ्गानि दृष्ट्वा कः अध्यवसायति ।५९ - ९५ - तटे च खलु अपि सर्वाणि लिङ्गानि दृष्ट्वा तटः तटई तटम् इति कः अध्यवसातुम् अर्हति इयम् स्त्रीअयम् पुमान् इदम् नपुंसकम् इति ।६० - ९५ - तस्मात् न वैयाकरणैः शक्यम् लौकिकम् लिङ्गम् आस्थातुम् ।६१ - ९५ - अवश्यम् च कः चित् स्वकृतान्तः आस्थेयः ।६२ - ९५ - कः असौ स्वकृतान्तः ।६३ - ९५ - संस्त्यानप्रसवौ लिङ्गम् आस्थेयौ स्वकृतान्ततः ।६४ - ९५ - संस्त्यानप्रसवौ लिङ्गम् आस्थेयौ ।६५ - ९५ - किम् इदम् संस्त्यानप्रसवौ इति ।६६ - ९५ - संस्त्याने स्त्यायतेः ड्रट् स्त्री ।६७ - ९५ - सूतेः सप् प्रसवे पुमान् इति ।६८ - ९५ - ननु च लोके अपि स्त्यायतेः एव स्त्री सूतेः च पुमान् ।६९ - ९५ - अधिकरणसाधना लोके स्त्री स्त्यायति अस्याम् गर्भः इति ।७० - ९५ - कर्तृसाधनः च पुमान् सूते पुमान् इति ।७१ - ९५ - इह पुनः उभयम् भावसाधनम् स्त्यानम् स्त्री प्रवृत्तिः च पुमान् ।७२ - ९५ - कस्य पुनः स्त्यानम् स्त्री प्रवृत्तिः वा पुमान् ।७३ - ९५ - गुणानाम् ।७४ - ९५ - केषाम् ।७५ - ९५ - शब्सस्पर्शरूपरसगन्धानाम् ।७६ - ९५ - सर्वाः च पुनः मूर्तयः एवमात्मिकाः संस्त्यानप्रसवगुणाः शब्सस्पर्शरूपरसगन्धवत्यः ।७७ - ९५ - यत्र अल्पीयांसः गुणाः तत्र अवरतः त्रयः शब्दः स्पर्शः रूपम् इति ।७८ - ९५ - रसगन्धौ न सर्वत्र ।७९ - ९५ - प्रवृत्तिः खलु अपि नित्या ।८० - ९५ - न हि इह कः चित् स्वस्मिन् आत्मनि मुहूर्तम् अपि अवतिष्ठते ।८१ - ९५ - वर्धते वा यावत् अनेन वर्धितव्यम् अपायेन वा युज्यते ।८२ - ९५ - तत् च उभयम् सर्वत्र ।८३ - ९५ - यदि उभयम् सर्वत्र कुतः व्यवस्था ।८४ - ९५ - विवक्षातः ।८५ - ९५ - संस्त्यानविवक्षायाम् स्त्री प्रसवविवक्षायाम् पुमान् उभयोः अविवक्षायाम् नपूम्सकम् ।८६ - ९५ - तस्य उक्तौ लोकतः नाम । तस्य उक्तौ च वचने लोकतः नाम एतत् भवति स्त्री पुमान् नपुंसकम् इति ।८७ - ९५ - गुणः वा लुपि युक्तवत् ।८८ - ९५ - वध्रिकादिषु भूयान् परिहारः ।८९ - ९५ - लुपि युक्तवत् व्यक्तिवचने इति एवम् अत्र गुणः भवति ।९० - ९५ - न च एतत् मन्तव्यम् स्वमनीषिकया उच्यते इति ।९१ - ९५ - पठिष्यति हि आचार्यः लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य इति ।९२ - ९५ - पुनः पठिष्यति एकार्थे शब्दान्यत्वात् दृष्टम् लिङ्गान्यत्वम् अवयवान्यत्वात् च इति ।९३ - ९५ - संस्त्याने स्त्यायतेः ड्रट् स्त्रीसूतेः सपा- प्रसवे पुमान् ।९४ - ९५ - तस्य उक्तौ लोकतः नाम ।९५ - ९५ - गुणः वा लुपि युक्तवत् ।१ - ९० - कथम् पुनः इदम् विज्ञायते ।२ - ९० - स्त्रियाम् अभिधेयायाम् टाबादयः भवन्ति इति आहोस्वित् स्त्रीसमानाधिकरणात् प्रातिपदिकात् इति ।३ - ९० - कः च अत्र विशेषः ।४ - ९० - स्त्रियाम् इति स्त्र्यर्थाभिधाने चेत् टाबादयः द्विवचनबहुवचनानेकप्रत्ययानुपपत्तिः ।५ - ९० - स्त्रियाम् इति स्त्र्यर्थाभिधाने चेत् टाबादयः भवन्ति द्विवचनबहुवचनयोः अनुपपत्तिः ।६ - ९० - कुमार्यौ कुमार्यः किशोर्यौ किशोर्यः ।७ - ९० - किम् कारणम् ।८ - ९० - एकः अयम् अर्थः स्त्रीत्वम् नाम ।९ - ९० - तस्य एकत्वात् एकवचनम् एव प्राप्नोति ।१० - ९० - अनेकप्रत्ययानुपपत्तिः च ।११ - ९० - अनेकः च प्रत्ययः न उपपद्यते ।१२ - ९० - गार्ग्यायणी कारीषगन्ध्या कालितरा इति ।१३ - ९० - किम् कारणम् ।१४ - ९० - एकत्वात् स्त्रीत्वस्य ।१५ - ९० - एकः अयम् अर्थः स्त्रीत्वम् नाम ।१६ - ९० - तस्य एकेन उक्तत्वात् द्वितीयस्य प्रयोगेण न भवितव्यम् ।१७ - ९० - किम् कारणम् ।१८ - ९० - उक्तार्थानाम् अप्रयोगः इति ।१९ - ९० - स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियाम् इति लिङ्गानुपपत्तिः ।२० - ९० - स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियाम् इति अधिकारः न प्राप्नोति ।२१ - ९० - अस्तु तर्हि स्त्रीसमानाधिकरणात् प्रातिपदिकात् इति ।२२ - ९० - स्त्रीसमानाधिकरणात् इति चेत् भूतादिषु अतिप्रसङ्गः ।२३ - ९० - स्त्रीसमानाधिकरणात् इति चेत् भूतादिषु अतिप्रसङ्गः भवति ।२४ - ९० - भूतम् इयम् ब्राह्मणी ।२५ - ९० - कारणम् इयम् ब्राह्मणी इति ।२६ - ९० - आवपनम् इयम् उष्ट्रिका इति ।२७ - ९० - स्त्र्यर्थाभिधाने पुनः टाबादिषु सत्सु इह तावत् भूतम् इयम् ब्राह्मणी इति न अत्र स्त्रीत्वम् विवक्षितम् ।२८ - ९० - किम् तर्हि ।२९ - ९० - पौतन्यम् ।३० - ९० - कारणम् इयम् ब्राह्मणी इति न अत्र स्त्रीत्वम् विवक्षितम् ।३१ - ९० - किम् तर्हि ।३२ - ९० - प्राधान्यम् ।३३ - ९० - आवपनम् इयम् उष्ट्रिका इति न अत्र स्त्रीत्वम् विवक्षितम् ।३४ - ९० - किम् तर्हि ।३५ - ९० - सम्भवनम् ।३६ - ९० - षट्सञ्ज्ञकेभ्यः च प्रतिषेधः ।३७ - ९० - षट्सञ्ज्ञकेभ्यः च प्रतिषेधः वक्तव्यः ।३८ - ९० - पञ्च ब्राह्मण्यः दश ब्राह्मण्यः ।३९ - ९० - स्त्र्यर्थाभिधाने पुनः टाबादिषु सत्सु न अत्र स्त्रीत्वम् विवक्षितम् ।४० - ९० - किम् तर्हि भेदः विवक्षितः सङ्ख्या ।४१ - ९० - इह च स्त्री ईकारः न प्राप्नोति ।४२ - ९० - न हि तेन एव तस्य सामानाधिकरण्यम् अस्ति ।४३ - ९० - सिद्धम् तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः ।४४ - ९० - सिद्धम् एतत् ।४५ - ९० - कथम् ।४६ - ९० - स्त्रियाः प्रातिपदिकविशेषणत्वात् ।४७ - ९० - प्रातिपदिकविशेषणम् स्त्रीग्रहणम् ।४८ - ९० - स्वार्थिकाः टाबादयः ।४९ - ९० - न एवम् विज्ञायते स्त्रियाम् अभिधेयायाम् इति न अपि स्त्रीसमानाधिकरणात् इति ।५० - ९० - कथम् तर्हि ।५१ - ९० - स्त्रियाम् यत् प्रातिपदिकम् वर्तते तस्मात् टाबादयः भवन्ति ।५२ - ९० - कस्मिन् अर्थे ।५३ - ९० - स्वार्थे इति ।५४ - ९० - अथ वा पुनः अस्तु स्त्रियाम् अभिधेयायाम् इति ।५५ - ९० - ननु च उक्तम् स्त्रियाम् इति स्त्र्यर्थाभिधाने चेत् टाबादयः द्विवचनबहुवचनानेकप्रत्ययानुपपत्तिः ।५६ - ९० - स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियाम् इति लिङ्गानुपपत्तिः ।५७ - ९० - न एषः दोषः ।५८ - ९० - यत् तावत् उच्यते द्विवचनबहुवचनयोः अनुपपत्तिः इति ।५९ - ९० - गुणवचनस्य च आश्रयतः लिङ्गवचनभावात् । गुणवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति ।६० - ९० - तत् यथा शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति ।६१ - ९० - यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।६२ - ९० - एवम् इह अपि यत् अदः द्रव्यम् श्रितम् भवति स्त्रीत्वम् तस्य यत् लिङ्गम् वचनम् च तत् स्त्रीत्वस्य अपि भविष्यति ।६३ - ९० - यत् अपि उच्यते अनेकप्रत्ययानुपपत्तिः इति ।६४ - ९० - भावस्य च भावयुक्तत्वात् । भावः भावेन युज्यते ।६५ - ९० - तत् यथ इषिः इषिणा निमन्त्रिः च निमन्त्रिणा ।६६ - ९० - विषमः उपन्यासः ।६७ - ९० - युक्तम् तत्र अन्यत्वम् साधनभेदात् कालभेदात् च ।६८ - ९० - उक्तम् तत्र एकस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः अपरस्य आभ्यन्तरम् साधनम् वर्तमानकालः च प्रत्ययः इति ।६९ - ९० - इह पुनः एकम् स्त्रीत्वम् ।७० - ९० - अथ एकम् उपलभ्यते ।७१ - ९० - किम् च अतः यदि एकम् उपलभ्यते द्वितीयम् अपि उपलभ्यताम् ।७२ - ९० - अथ एकम् अपि अनुमानगम्यम् द्व्तीयम् अपि अनुमानात् गम्यताम् ।७३ - ९० - कस्य तावत् भवान् एवम् गुणम् न्याय्यम् मन्यते स्त्रीत्वम् नाम ।७४ - ९० - द्रव्यस्य ।७५ - ९० - द्रव्ये च भवतः कः सम्प्रत्ययः ।७६ - ९० - यदि तावत् गुअणसमुदायः द्रव्यम् का गतिः ये एते भावाः कृदभिहिताः तद्धिताभिहिताः च ।७७ - ९० - चिकीर्षा गोता इति ।७८ - ९० - अथ मतम् एतत् कृदभिहितः भावः द्रव्यवत् भवति इति स्त्रीत्वम् अपि स्त्रीत्वेन अभिहितम् द्रव्यवत् भविष्यति ।७९ - ९० - क्व च तावत् दोषः स्यात् ।८० - ९० - दृष्टस्य हि दोषस्य सुसुखः परिहारः गार्ग्यायणी कारीषगन्ध्या कालितरा इति ।८१ - ९० - इह तावत् गार्ग्यायणी इति षित्करणसामर्थ्यात् ङीष् भविष्यति ।८२ - ९० - कारीषगन्ध्या इति वचनात् चाप् भविष्यति ।८३ - ९० - कालितरा इति न यावत् काली तावत् कालितरा ।८४ - ९० - किम् तर्हि ।८५ - ९० - प्रकृष्टा काली कालितरा ।८६ - ९० - यत् शब्दरूपम् प्रकर्षे वर्तते तस्य अनुक्तम् स्त्रीत्वम् इति कृत्वा टाप् भविष्यति ।८७ - ९० - यत् अपि उच्यते इह च स्त्री ईकारः न प्राप्नोति इति ।८८ - ९० - निपातनात् एतत् सिद्धम् ।८९ - ९० - किम् निपातनम् ।९० - ९० - स्त्रियाम् अकुन्तिकुरुभ्यः च इति ।१ - २२ - स्त्रीविषये ङ्यापोः अप्रसिद्धिः अकारान्तादर्शनात् ।२ - २२ - स्त्रीविषये ङ्यापोः अप्रसिद्धिः ।३ - २२ - खट्वा माला ।४ - २२ - किम् कारणम् ।५ - २२ - अकारान्तादर्शनात् ।६ - २२ - न हि अकारान्तता दृश्यते ।७ - २२ - ननु च इयम् दृश्यते ।८ - २२ - अतिखट्वः अतिमालः इति ।९ - २२ - न एषा अकारान्तता ।१० - २२ - आपः एव एतत् ह्रस्वत्वम् ।११ - २२ - सर्वेषाम् तु स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः ।१२ - २२ - सर्वेषाम् एव तु प्रातिपदिकानाम् स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः कर्तव्यः ।१३ - २२ - शशः ।१४ - २२ - षषः इति मा भूत् ।१५ - २२ - पलाशः ।१६ - २२ - पलाषः इति मा भूत् ।१७ - २२ - मञ्चकः ।१८ - २२ - मञ्जकः इति मा भूत् ।१९ - २२ - तस्मात् सिद्धम् ।२० - २२ - तस्मात् सिद्धम् एतत् भवति ।२१ - २२ - अथ वा इयम् अकारान्तता दृश्यते ।२२ - २२ - पञ्चभिः खट्वाभिः क्रीतः पटः पञ्चखट्वः दशखट्वः ।१ - २१ - शूद्रा च अमहत्पूर्वा ।२ - २१ - शूद्रा च अमहत्पूर्वा इति वक्तव्यम् ।३ - २१ - शूद्रा ।४ - २१ - अमहत्पूर्वा इति किमर्थम् ।५ - २१ - महाशूद्री ।६ - २१ - जातिः ।७ - २१ - जातिः इति वक्तव्यम् ।८ - २१ - या हि मथती शूद्रा महाशूद्रा सा भवति ।९ - २१ - शूद्राशब्दः अजादिषु पठ्यते ।१० - २१ - तत्र कः प्रसङ्गः यत् महत्पूर्वात् स्यात् ।११ - २१ - न एव प्राप्नोति न अर्थः प्रतिषेधेन ।१२ - २१ - तदन्तविधिना प्राप्नोति ।१३ - २१ - ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।१४ - २१ - एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति ।१५ - २१ - किम् एतस्य ज्ञापने प्रयोजनम् ।१६ - २१ - भवती , अतिभवती महती , अतिमहती अत्र तदन्तविधिः सिद्धः भवति ।१७ - २१ - जातिः इति च वक्ष्यामि ।१८ - २१ - यदि एतत् ज्ञाप्यते पञ्चाजी दशाजी अत्र अपि प्राप्नोति ।१९ - २१ - न एषः दोषः ।२० - २१ - अजादिभिः स्त्रियम् विशेषयिष्यामः ।२१ - २१ - अद्जादीनाम् या स्त्री इति ।१ - ३३ - कथम् इदम् विज्ञायते उगितः प्रातिपदिकात् इति आहोस्वित् उगितन्तात् प्रातिपदिकात् इति ।२ - ३३ - किम् च अतः ।३ - ३३ - यदि विज्ञायते उगितः प्रातिपदिकात् इति सिद्धम् भवती महती ।४ - ३३ - अतिभवती , अतिमहती इति न सिध्यति ।५ - ३३ - तदन्तविधिना भविष्यति ।६ - ३३ - ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।७ - ३३ - अथ विज्ञायते उगितन्तात् प्रातिपदिकात् इति सिद्धम् अतिभवती अतिमहती ।८ - ३३ - भवती महती इति न सिध्यति ।९ - ३३ - व्यपदेशिवद्भावेन भविष्यति ।१० - ३३ - व्यपदेशिवद्भावः अप्रातिपदिकेन ।११ - ३३ - उभयथा च निर्गोमती निर्यवमती इति न सिध्यति ।१२ - ३३ - किम् कारणम् ।१३ - ३३ - प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति ।१४ - ३३ - यथा इच्छसि तथा अस्तु ।१५ - ३३ - अस्तु तावत् उगितः प्रातिपदिकात् इति ।१६ - ३३ - कथम् अतिभवती अतिमहती इति ।१७ - ३३ - तदन्तविधिना भविष्यति ।१८ - ३३ - ननु च उक्तम् ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।१९ - ३३ - न एतत् प्रातिपदिकग्रहणम् ।२० - ३३ - प्रातिपदिकाप्रातिपदिकयोः एतत् ग्रहणम् ।२१ - ३३ - अथ वा पुनः अस्तु उगितन्तात् प्रातिपदिकात् इति ।२२ - ३३ - कथम् भवती महती इति ।२३ - ३३ - व्यपदेशिवद्भावेन भविष्यति ।२४ - ३३ - ननु च उक्तम् व्यपदेशिवद्भावः अप्रातिपदिकेन इति ।२५ - ३३ - न एतत् प्रातिपदिकग्रहणम् ।२६ - ३३ - प्रातिपदिकाप्रातिपदिकयोः एतत् ग्रहणम् ।२७ - ३३ - यत् अपि उच्यते उभयथा च निर्गोमती निर्यवमती इति न सिध्यति ।२८ - ३३ - किम् कारणम् ।२९ - ३३ - प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति ।३० - ३३ - न एतत् प्रत्ययग्रहणम् ।३१ - ३३ - प्रत्ययाप्रत्यययोः एतत् ग्रहणम् ।३२ - ३३ - कथम् ।३३ - ३३ - वर्णः अपि उगित् प्रत्ययः अपि उगित् प्रातिपदिकम् अपि उगित् ।१ - ९ - धातोः उगितः प्रतिषेधः ।२ - ९ - धातोः उगितः प्रतिषेधः वक्तव्यः ।३ - ९ - उखास्रात् ब्राह्मणी पर्णध्वत् ब्राह्मणी ।४ - ९ - अञ्चतेः च उपसङ्ख्यानम् ।५ - ९ - अञ्चतेः च उपसङ्ख्यानम् कर्तव्यम् ।६ - ९ - प्राची प्रतीची ।७ - ९ - उगिति अञ्चतिग्रहणात् सिद्धम् अधातोः । उगिति अञ्चतिग्रहणात् अधातोः सिद्धम् ।८ - ९ - अञ्चतिग्रहणम् नियमार्थम् भविष्यति ।९ - ९ - अञ्चतेः एव उगितः धातोः न अन्यस्य उगितः धातोः इति ।१ - ३९ - इह कस्मात् न भवति ।२ - ३९ - निःशूनी अतियूनी इति ।३ - ३९ - अर्थवद्ग्रहणे न अनर्थकस्य इति ।४ - ३९ - एवम् अपि मघोनी अत्र प्राप्नोति ।५ - ३९ - मघवन्शब्दः अव्युत्पन्नम् प्रातिपदिकम् ।६ - ३९ - वनः न हशः ।७ - ३९ - वनः र च इति अत्र हशन्तात् न भवति इति वक्तव्यम् ।८ - ३९ - इह मा भूत् ।९ - ३९ - सहयुध्वा ब्राह्मणी इति ।१० - ३९ - यदि न हशः इति उच्यते शर्वरी इति न सिध्यति ।११ - ३९ - विहितविशेषणम् हश्ग्रहणम् ।१२ - ३९ - हशन्तात् यः विहितः इति ।१३ - ३९ - एवम् अपि प्रेर्त्वरी इति न सिध्यति ।१४ - ३९ - कथम् च अत्र तुगागमः ।१५ - ३९ - छान्दसत्वात् ।१६ - ३९ - ङीब्रौ अपि तर्हि छान्दसत्वात् एव भविष्यतः ।१७ - ३९ - बहुलम् छन्दसि ङीब्रौ वक्तव्यौ ।१८ - ३९ - यज्वरीः इषः यज्वनीः इषः ।१९ - ३९ - रविधाने बहुव्रीहेः उपसङ्ख्यानम् प्रतिषिद्धत्वात् ।२० - ३९ - रविधाने बहुव्रीहेः उपसङ्ख्यानम् कर्तव्यम् ।२१ - ३९ - बहुधीवरी बहुपीवरी ।२२ - ३९ - किम् पुनः कारणम् न सिध्यति ।२३ - ३९ - प्रतिषिद्धत्वात् ।२४ - ३९ - अनः बहुव्रीहेः इति प्रतिषेधः प्राप्नोति ।२५ - ३९ - अनः बहुव्रीहिप्रतिषेधे वा उपधालोपिनः वावचनम् ।२६ - ३९ - अनः बहुव्रीहिप्रतिषेधे वा उपधालोपिनः वा इति वक्तव्यम् ।२७ - ३९ - अन्यथा कृत्वा चोदितम् अन्यथा कृत्वा परिहारः ।२८ - ३९ - यथा उपसङ्ख्यानम् चोदितम् तथा नित्याभ्याम् ङीब्राभ्याम् भवितव्यम् ।२९ - ३९ - यथा परिहारः तथा विभाषया भवितव्यम् ।३० - ३९ - यथा उपसङ्ख्यानम् चोदितम् एवम् अपि विभाषया भवितव्यम् ।३१ - ३९ - न हि अत्र ङीप् दुर्लभः ।३२ - ३९ - सिद्धः अत्र ङीप् अनः उपधालोपिनः अन्यतरस्याम् इति ।३३ - ३९ - ङीप्सन्नियोगेन रः उच्यमानः अन्येन सति न स्यात् इति एवमर्थम् उपसङ्ख्यानम् चोद्यते ।३४ - ३९ - किम् पुनः कारणम् ङीप्सन्नियोगेन रः उच्यते ।३५ - ३९ - इह मा भूत् सुपर्वा चारुपर्वा इति ।३६ - ३९ - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।३७ - ३९ - न कर्तव्यम् ।३८ - ३९ - वक्ष्यति डाप् उभाभ्याम् अन्यतरस्याम् इति अत्र अन्यतरस्याङ्ग्रहणस्य प्रयोजनम् ।३९ - ३९ - डाप्प्रतिषेधाभ्याम् मुक्ते ङीब्रौ अपि यथा स्याताम् इति । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP