पाद १ - खण्ड ४४
व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.
१ - २८ - अन्तोदात्ते जातप्रतिषेधः ।
२ - २८ - अन्तोदात्ते जातस्य प्रतिषेधः वक्तव्यः ।
३ - २८ - दन्तजाता स्तनजाता ।
४ - २८ - पाणिगृहीत्यादीनाम् विशेषे ।
५ - २८ - पाणिगृहीत्यादीनाम् विशेषे इति वक्तव्यम् ।
६ - २८ - पाणिन्गृहीती इति भार्या ।
७ - २८ - यस्य यथा कथम् चित् पाणिः गृह्यते पाणिगृहीता सा भवति ।
८ - २८ - बहुलम् तणि ।
९ - २८ - बहुलम् तणि इति वक्तव्यम् ।
१० - २८ - किम् इदम् तणि इति ।
११ - २८ - सञ्ज्ञाच्छन्दसोः ग्रहणम् ।
१२ - २८ - किम् प्रयोजनम् ।
१३ - २८ - प्रबद्धविलूनाद्यर्थम् ।
१४ - २८ - प्रबद्धविलूनी प्रबद्धविलूना ।
१५ - २८ - अन्तोदात्तात् अबहुनञ्सुकालसुखादिपूर्वात् ।
१६ - २८ - अन्तोदात्तात् अबहुनञ्सुकालसुखादिपूर्वात् इति वक्तव्यम् ।
१७ - २८ - बहु ।
१८ - २८ - बहुकृता ।
१९ - २८ - नञ् ।
२० - २८ - अकृता ।
२१ - २८ - सु ।
२२ - २८ - सुकृता ।
२३ - २८ - काल ।
२४ - २८ - मासजाता संवत्सरजाता ।
२५ - २८ - सुखादि ।
२६ - २८ - सुखजाता दुःखजाता ।
२७ - २८ - जातिपूर्वात् वा ।
२८ - २८ - अथ वा जातिपूर्वात् इति वक्तव्यम् ।
१ - २८ - स्वाङ्गात् च उपसर्जनात् इति उच्यते ।
२ - २८ - किम् स्वाङ्गम् नाम ।
३ - २८ - अद्रवम् मूर्तिमत् स्वाङ्गम् प्राणिस्थम् अविकारजम् अतत्स्थम् तत्र दृष्टम् च तस्य चेत् तत् तथा युतम् ।
४ - २८ - अप्राणिनः अपि स्वाङ्गम् ।
५ - २८ - अद्रवम् इति किमर्थम् ।
६ - २८ - बहुलोहिता ।
७ - २८ - न एतत् अस्ति ।
८ - २८ - बह्वचः न इति प्रतिषेधः भविष्यति ।
९ - २८ - इदम् तर्हि बहुकफा ।
१० - २८ - मूर्तिमत् इति किमर्थम् ।
११ - २८ - बहुबुद्धिः बहुमनाः ।
१२ - २८ - न एतत् अस्ति ।
१३ - २८ - अतः इति वर्तते ।
१४ - २८ - इदम् तर्हि ।
१५ - २८ - बहुज्ञाना ।
१६ - २८ - प्राणिस्थम् इति किमर्थम् ।
१७ - २८ - श्लक्ष्णमुखा शाला ।
१८ - २८ - अविकारजम् इति किमर्थम् ।
१९ - २८ - बहुगडुः बहुपटिका ।
२० - २८ - न एतत् अस्ति ।
२१ - २८ - इह तावत् बहुगडुः इति अतः इति वर्तते ।
२२ - २८ - बहुपटिका इति बह्वचः न इति प्रतिषेधः भविष्यति ।
२३ - २८ - इदम् तर्हि बहुशोफा ।
२४ - २८ - अतत्स्थम् तत्र दृष्टम् च ।
२५ - २८ - अप्राणिस्थम् प्राणिनि दृष्टम् च स्वाङ्गसञ्ज्ञम् भवति ।
२६ - २८ - दीर्घकेशी रथ्या इति ।
२७ - २८ - तस्य चेत् तत् तथा युतम् अप्राणिनः अपि स्वाङ्गसञ्ज्ञम् भवति ।
२८ - २८ - दीर्घनासिकी अर्चा तुङ्गनासिकी अर्चा ।
१ - ५४ - अथ उपसर्जनग्रहणम् किमर्थम् ।
२ - ५४ - इह मा भूत् ।
३ - ५४ - शिखा ।
४ - ५४ - उपसर्जनग्रहणम् अनर्थकम् बहुव्रीह्यधिकारात् ।
५ - ५४ - उपसर्जनग्रहणम् अनर्थकम् ।
६ - ५४ - किम् कारणम् ।
७ - ५४ - बहुव्रीह्यधिकारात् ।
८ - ५४ - बहुव्रीहेः इति वर्तते ।
९ - ५४ - क्व प्रकृतम् ।
१० - ५४ - बहुव्रीहेः च अन्तोदात्तात् इति ।
११ - ५४ - बह्वजर्थम् तर्हि उपसर्जनग्रहणम् कर्तव्यम् ।
१२ - ५४ - बह्वचः न इति प्रतिषेधम् वक्ष्यति ।
१३ - ५४ - तत् बह्वज्ग्रहणम् उपसर्जनविशेषणम् यथा विज्ञायेत ।
१४ - ५४ - बह्वचः उपसर्जनात् न इति ।
१५ - ५४ - अथ अक्रियमाणे उपसर्जनग्रहणे कस्य बह्वज्ग्रहणम् विशेषणम् स्यात् ।
१६ - ५४ - बहुर्वीहेः इति वर्तते ।
१७ - ५४ - बहुव्रीहिविशेषणम् विज्ञायेत ।
१८ - ५४ - अस्ति च इदानीम् कः चित् अबह्वच् बहुव्रीहिः यदर्थः विधिः स्यात् ।
१९ - ५४ - अस्ति इति आह स्वडा स्वडी इति ।
२० - ५४ - बह्वजर्थम् इति चेत् स्वाङ्गग्रहणात् सिद्धम् । स्वाङ्गग्रहणम् क्रियते ।
२१ - ५४ - तत् बह्वज्ग्रहणेन विशेषयिष्यामः ।
२२ - ५४ - स्वाङ्गात् बह्वचः न इति ।
२३ - ५४ - एवम् तर्हि अन्तोदादात्तात् इति वर्तते ।
२४ - ५४ - अन्तोदात्तार्थः अयम् आरम्भः ।
२५ - ५४ - अन्तोदात्तार्थम् इति चेत् सहादिकृतत्वात् सिद्धम् ।
२६ - ५४ - यत् अयम् सहनञ्विद्यमानपूर्वात् च इति प्रत्षेधम् शास्ति तत् ज्ञापयति आचार्यः अन्तोदात्तात् अपि भवति इति ।
२७ - ५४ - स्वाङ्गसमुदायप्रतिषेधार्थम् तु ।
२८ - ५४ - स्वाङ्गसमुदायप्रतिषेधार्थम् तर्हि उपसर्जनग्रहणम् कर्तव्यम् ।
२९ - ५४ - श्वाङ्गात् यथा स्यात् ।
३० - ५४ - स्वाङ्गसमुदायात् मा भूत् ।
३१ - ५४ - कल्याणपाणिपादा ।
३२ - ५४ - अथ क्रियमाणे अपि उपसर्जनग्रहणे कस्मात् एव अत्र न भवति ।
३३ - ५४ - स्वाङ्गम् हि एतत् उपसर्जनम् ।
३४ - ५४ - न स्वाङ्गसमुदायः स्वाङ्गग्रहणेन गृह्यते यथा जनपदसमुदायः जनपदग्रहणेन न गृह्यते ।
३५ - ५४ - काशिकोसलीया इति जनपदतदवध्योः इति वुञ् न भवति ।
३६ - ५४ - एतत् अपि न अस्ति प्रयोजनम् ।
३७ - ५४ - अस्वाङ्गपूर्वपदात् इति वर्तते ।
३८ - ५४ - तेन स्वाङ्गम् विशेषयिष्यामः ।
३९ - ५४ - अस्वाङ्गपूर्वपदात् परम् यत् स्वाङ्गम् तदन्तात् बहुव्रीहेः इति ।
४० - ५४ - यत् च अत्र अस्वाङ्गपूर्वपदात् परम् न तदन्तः बहुव्रीहिः यदन्तः च बहुव्रीहिः न तत् अस्वाङ्गपूर्वपदात् परम् स्वाङ्गम् ।
४१ - ५४ - ननु च तत् पूर्वस्मिन् योगे बहुव्रीहिविशेषणम् ।
४२ - ५४ - न इति आह ।
४३ - ५४ - पूर्वपदविशेषणम् ।
४४ - ५४ - न स्वाङ्गम् अस्वाङ्गम् पूर्वम् पदम् पूर्वपदम् अस्वाङ्गम् पूर्वपदम् अस्वाङ्गपूर्वपदम् अस्वाङ्गपूर्वपदात् इति ।
४५ - ५४ - यदि एवम् पूर्वस्मिन् योगे बहुव्रीहिः अविशेषितः भवति ।
४६ - ५४ - बहुव्रीहिः च विशेषितः ।
४७ - ५४ - कथम् ।
४८ - ५४ - क्तात् इति वर्तते ।
४९ - ५४ - तेन बहुव्रीहिम् विशेषयिष्यामः ।
५० - ५४ - अस्वाङ्गात् पूर्वपदात् परम् यत् क्तान्तम् तदन्तात् बहुव्रीहेः इति ।
५१ - ५४ - इदम् तर्हि प्रयोजनम् ।
५२ - ५४ - बहुव्रीहेः इति वर्तते उपसर्जनमात्रात् यथा स्यात् ।
५३ - ५४ - निष्केशी यूका ।
५४ - ५४ - अतिकेशी माला ।
१ - ९ - नासिकादीनाम् विभाषायाम् पुच्छात् च ।
२ - ९ - नासिकादीनाम् विभाषायाम् पुच्छात् च इति वक्तव्यम् ।
३ - ९ - कल्याणपुच्छी कल्याणपुच्छा ।
४ - ९ - कबरमणिविषशरेभ्यः नित्यम् ।
५ - ९ - कबरमणिविषशरेभ्यः नित्यम् इति वक्तव्यम् ।
६ - ९ - कबरपुच्छी मणिपुच्छी विषपुच्छी शरपुच्छी ।
७ - ९ - उपमानात् पक्षात् च ।
८ - ९ - उपमानात् पक्षात् च पुच्छात् च इति वक्तव्यम् ।
९ - ९ - उलूकपक्षी शाला उलूकपक्षी सेना इति ।
१ - १९ - नासिकादिभ्यः विभाषायाः सहनञ्विद्यमानपूर्वेभ्यः प्रतिषेधः विप्रतिषेधेन ।
२ - १९ - नासिकादिभ्यः विभाषायाः सहनञ्विद्यमानपूर्वेभ्यः प्रतिषेधः भवति विप्रतिषेधेन ।
३ - १९ - नासिकादिभ्यः विभाषायाः अवकाशः कल्याणनासिकी कल्याणनासिका ।
४ - १९ - सहनञ्विद्यमानपूर्वलक्षणस्य प्रतिषेधस्य अवकाशः समुखा अमुखा विद्यमान्मुखा इति ।
५ - १९ - इह उभयम् प्राप्नोति ।
६ - १९ - सनासिका अनासिका विद्यमाननासिका इति ।
७ - १९ - सहनञ्विद्यमानपूर्वेभ्यः प्रतिषेधः भवति विप्रतिषेधेन ।
८ - १९ - न एषः युक्तः विप्रतिषेधः ।
९ - १९ - अयम् विधिः सः प्रतिषेधः ।
१० - १९ - विधिप्रतिषेधयोः च अयुक्तः विप्रतिषेधः ।
११ - १९ - अयम् अपि विधिः न मृदूनाम् इव कर्पासानाम् कृतः प्रतिषेधविषये आरभ्यते ।
१२ - १९ - सः यथा एव बह्वज्लक्षणम् संयोगोपधलक्षणम् च प्रतिषेधम् बाधते एवम् सहनञ्विद्यमानपूर्वलक्षणम् अपि बाधेत ।
१३ - १९ - का तर्हि गतिः ।
१४ - १९ - इह तावत् नासिकोदर इति बह्वज्लक्षणः च प्रतिषेधः प्राप्नोति सहनञ्विद्यमानपूर्वलक्षणः च ।
१५ - १९ - पुरस्तात् अपवादाः अनन्तरान् विधीन् भादन्ते इति एवम् इयम् विभाषा बह्वज्लक्षणम् प्रतिषेधम् बाधिष्यते ।
१६ - १९ - सहनञ्विद्यमानपूर्वलक्षणम् न बाधिष्यते ।
१७ - १९ - ओष्ठजङ्घादन्तकर्णश्र्ङ्गात् च इति संयोगलक्षणः प्रतिषेधः प्राप्नोति सहनञ्विद्यमानपूर्वलक्षणः च ।
१८ - १९ - मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् इयम् विभाषा संयोगलक्षणम् प्रतिषेधम् बाधिष्यते ।
१९ - १९ - सहनञ्विद्यमानपूर्वलक्षणम् न बाधिष्यते ।
१ - २० - दिक्पूर्वपदात् ङीषः अनुदात्तत्वम् । दिक्पूर्वपदात् ङीषः अनुदात्तत्वम् वक्तव्यम् ।
२ - २० - प्राङ्मुखी प्रत्यङ्मुक्ःी ।
३ - २० - ङीब्विधाने हि अन्यत्र अपि ङीष्विषयान् ङीप्प्रसङ्गः ।
४ - २० - ङीब्विधाने हि सति अन्यत्र अपि ङीष्विषयान् ङीप् प्रसज्येत ।
५ - २० - प्राग्गुल्फा प्रत्यग्ललाटा ।
६ - २० - ननु च एते विशेषाः अनुवर्तेरन् असंयोगोपधात् बह्वचः न इति ।
७ - २० - यदि अपि एते विशेषाः अनुवर्तेरन् असंयोगोपधात् बह्वचः न इति एवम् अपि दिक्पूर्वपदात् ङीपा मुक्ते ङीष् प्रसज्येत ।
८ - २० - न एषः दोषः ।
९ - २० - उक्तम् एतत् यत्रोत्सर्गापवादम् विभाषा तत्र अपवादेन मुक्ते उत्सर्गः न भवति इति ।
१० - २० - अथ वा ङीषः आदेशः ङीप् करिष्यते ।
११ - २० - तत् तर्हि ङीषः ग्रहणम् कर्तव्यम् ।
१२ - २० - न कर्तव्यम् ।
१३ - २० - प्रकृतम् अनुवर्तते ।
१४ - २० - क्व प्रकृतम् ।
१५ - २० - अन्यतः ङीष् इति ।
१६ - २० - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।
१७ - २० - दिक्पूर्वपदात् इति एषा पञ्चमी ङीष् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।
१८ - २० - प्रत्ययविधिः अयम् न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।
१९ - २० - न अयम् प्रत्ययविधिः ।
२० - २० - विहितः प्रत्ययः प्रकृतः च अनुवर्तते.
१ - ८ - जातेः इति उच्यते ।
२ - ८ - का जातिः नाम ।
३ - ८ - आकृतिग्रहणा जातिः लिङ्गानाम् च न सर्वभाक् सकृताख्यातनिर्ग्राह्या गोत्रम् च चरणैः सह ।
४ - ८ - अपरः आह प्रादुर्भावविनाशाभ्याम् सत्त्वस्य युगपत् गुणैः असर्वलिङ्गाम् बह्वर्थाम् ताम् जातिम् कवयः विदुः ।
५ - ८ - गोत्रम् च चरणानि च ।
६ - ८ - कः पुनः एतयोः जातिलक्षणयोः विशेषः ।
७ - ८ - यथा पूर्वम् जातिलक्षणम् तथा कुमारीभार्यः इति भवितव्यम् ।
८ - ८ - यथा उत्तरम् तथा कुमारभार्यः इति भवितव्यम् ।
१ - ८ - अथ अस्त्रीविषयात् इति कथम् इदम् विज्ञायते ।
२ - ८ - समानायाम् आकृतौ यत् अस्त्रीविषयम् इति आहोस्वित् क्व चित् यत् अस्त्रीविषयम् इति ।
३ - ८ - किम् च अतः ।
४ - ८ - यदि विज्ञायते समानायाम् आकृतौ यत् अस्त्रीविषयम् इति द्रोणी कुटी पात्री इति न सिध्यति ।
५ - ८ - अथ विज्ञायते क्व चित् यत् अस्त्रीविषयम् इति माला बलाका अत्र अपि प्राप्नोति ।
६ - ८ - अस्तु क्व चित् यत् अस्त्रीविषयम् इति ।
७ - ८ - कथम् माला बलाका इति ।
८ - ८ - अजादिषु पाठः करिष्यते ।
१ - ९ - अयोपधात् इति किमर्थम् ।
२ - ९ - इभ्या क्षत्रिया ।
३ - ९ - अत्यल्पम् इदम् उच्यते अयोपधात् इति ।
४ - ९ - अकोपधात् इति अपि वक्तव्यम् इह अपि यथा स्यात् ।
५ - ९ - चटका मूषिका इति ।
६ - ९ - यदि अकोपधात् इति उच्यते काकी कोकी शुकी इति न सिध्यति ।
७ - ९ - अस्तु तर्हि अयोपधात् इति एव ।
८ - ९ - कथम् चटका मूषिका इति ।
९ - ९ - अजादिषु पाठः कर्तव्यः ।
१ - २५ - सदक्काण्डप्रान्तशतैकेभ्यः पुष्पात् प्रतिषेधः । सदक्काण्डप्रान्तशतैकेभ्यः पुष्पात् प्रतिषेधः वक्तव्यः ।
२ - २५ - सत्पुष्पा प्राक्पुष्पा काण्डपुष्पा प्रान्तपुष्पा शतपुष्पा अकपुष्पा ।
३ - २५ - सम्भस्त्राजिनशणपिण्डेभ्यः फलात् ।
४ - २५ - सम्भस्त्रात्जिनशणपिण्डेभ्यः फलात् प्रतिषेधः वक्तव्यः ।
५ - २५ - सम् ।
६ - २५ - सम्फला ।
७ - २५ - सम् ।
८ - २५ - भस्त्रा ।
९ - २५ - भस्त्राफला ।
१० - २५ - भस्त्रा ।
११ - २५ - अजिन ।
१२ - २५ - अजिनफला ।
१३ - २५ - अजिन ।
१४ - २५ - पिण्ड ।
१५ - २५ - पिण्डफला ।
१६ - २५ - पिण्ड ।
१७ - २५ - शण ।
१८ - २५ - शणफला ।
१९ - २५ - शण ।
२० - २५ - श्वेतात् च इति वक्तव्यम् ।
२१ - २५ - श्वेतफला ।
२२ - २५ - त्रेः च ।
२३ - २५ - त्रेः च प्रतिषेधः वक्तव्यः ।
२४ - २५ - त्रिफला ।
२५ - २५ - मुलात् नञः ।
१ - ६ - जातेः इति वर्तमाने पुनः जातिग्रहणम् किमर्थम् ।
२ - ६ - अयोपधात् इति वर्तते ।
३ - ६ - योपधात् अपि यथा स्यात् ।
४ - ६ - औदमेयी ।
५ - ६ - इतः मनुष्यजातेः इञः उपसङ्ख्यानम् । इतः मनुष्यजातेः इञः उपसङ्ख्यानम् कर्तव्यम् ।
६ - ६ - सौतङ्गमी मौनिचिती ।
१ - २१ - किमर्थः ङकारः ।
२ - २१ - विशेषणाऋथः ।
३ - २१ - क्व विशेषणाऋथेन अर्थः ।
४ - २१ - न ऊङ्धात्वोः इति ।
५ - २१ - न ऊधात्वोः इति उच्यमाने यवाग्वा यवाग्वै इति अत्र अपि प्रसज्येत ।
६ - २१ - अथ दीर्घोच्चारणम् किमर्थम् न ऊङ् उतः इति एव उच्येत ।
७ - २१ - का रूपसिद्धिः ब्रह्मबन्धूः , धीवबन्धूः इति ।
८ - २१ - सवर्णदीर्घत्वेन सिद्धम् ।
९ - २१ - न सिध्यति ।
१० - २१ - गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् प्रसज्येत ।
११ - २१ - इह च ब्रह्मबन्धूछत्रम् ब्रह्मबन्धूच्छत्रम् षत्वतुकोः असिद्धः इति एकादेशस्य असिद्धत्वात् नित्यः तुक् प्रसज्येत ।
१२ - २१ - इह च ब्रह्मबन्धूः , धीवबन्धूः नद्यृतः कप् इति कप् प्रसज्येत ।
१३ - २१ - न एषः दोषः ।
१४ - २१ - यत् तावत् उच्यते ब्रह्मबन्धूः , धीवबन्धूः इति गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् प्रसज्येत इति ।
१५ - २१ - उभयतः आश्रये न अन्तादिवत् ।
१६ - २१ - यत् अपि उच्यते ब्रह्मबन्धूछत्रम् ब्रह्मबन्धूच्छत्रम् षत्वतुकोः असिद्धः इति एकादेशस्य असिद्धत्वात् नित्यः तुक् प्रसज्येत इति ।
१७ - २१ - पदान्तपदाद्योः एकादेशः असिद्धः न च एषः पदान्तपदाद्योः एकादेशः ।
१८ - २१ - यत् अपि उच्यते इह च ब्रह्मबन्धूः धीवबन्धूः नद्यृतः कप् इति कप् प्रसज्येत इति ।
१९ - २१ - नद्यन्तानाम् यः बहुव्रीहिः इति एवम् तत् न च एषः नद्यन्तानाम् यः बहुव्रीहिः ।
२० - २१ - शेषलक्षणः तर्हि कप् प्राप्नोति ।
२१ - २१ - तस्मात् दीर्घोच्चारणम् कर्तव्यम् ।
१ - ७ - ऊङ्प्रकरणे अप्राणिजातेः च अरज्ज्वादीनाम् ।
२ - ७ - ऊङ्प्रकरणे अप्राणिजातेः च अरज्ज्वादीनाम् इति वक्तव्यम् ।
३ - ७ - अलाबूः कर्कन्धूः ।
४ - ७ - अप्राणिजातेः इति किमर्थम् ।
५ - ७ - कृकवाकुः ।
६ - ७ - अरज्ज्वादीनाम् इति किमर्थम् ।
७ - ७ - रज्जुः हनुः ।
१ - २ - सहितसह्हाभ्याम् च इति वक्तव्यम् ।
२ - २ - सहितोरूः सहोरूः ।
१ - २ - अत्यल्पम् इदम् उच्यते कद्रुकमण्डव्ल्वोः इति ।
२ - २ - कद्रुकमण्डलुगुग्गुलुमधुजतुपतयालूणाम् इति वक्तव्यम् कद्रूः , कमण्डलूः , गुग्गुलूः , मधूः , जतूः , पतयालूः ।
१ - ११ - षात् च यञः चाप् ।
२ - ११ - षात् च यञः चाप् वक्तव्यः ।
३ - ११ - शार्कराक्ष्या पौतिमाष्या ।
४ - ११ - तत्र अयम् अपि अर्थः ।
५ - ११ - गौकक्ष्यशब्दः क्रौड्यादिषु पठ्यते ।
६ - ११ - सः न पठितव्यः भवति ।
७ - ११ - यदि न पठ्यते गौक्षीपुत्रः इति सम्प्रसारणम् न प्राप्नोति ।
८ - ११ - इष्टम् एव एतत् सङ्गृहीतम् ।
९ - ११ - गौक्ष्यापुत्रः इति एव भवितव्यम् ।
१० - ११ - एवम् हि सौनागाः पठन्ति ।
११ - ११ - ष्यङः सम्प्रसारणे गौकक्ष्यायाः प्रतिषेधः इति ।
१ - ३७ - अनः उपधालोपिनः ऊधसः ङीष् पूर्वविप्रतिषिद्धम् ।
२ - ३७ - अनः उपधालोपिनः अन्यतरस्याम् इति एतस्मात् ऊधसः ङीष् भवति पूर्वविप्रतिषेधेन ।
३ - ३७ - अतः उपधालोपिनः अन्यतरस्याम् इति एतस्य अवकाशः बहुराज्ञी बहुतक्ष्णी ।
४ - ३७ - ऊधसः ङीष् भवति इति अस्य अवकाशः ।
५ - ३७ - विभाषा ङीप् ।
६ - ३७ - यदा न ङीप् सः अवकाशः ।
७ - ३७ - ङीप्प्रसङ्गे उभयम् प्राप्नोति ।
८ - ३७ - ऊधसः ङीष् भवति पूर्वविप्रतिषेधेन ।
९ - ३७ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।
१० - ३७ - न वक्तव्यः ।
११ - ३७ - अनः उपधालोपिनः अन्यतरस्याम् इति अत्र ऊधसः ङीष् भवति इति एतत् अनुवर्तिष्यते ।
१२ - ३७ - आवट्यात् यञः ष्फः चापः ।
१३ - ३७ - आवट्यात् यञः ष्फः चापः भवति पूर्वविप्रतिषेधेन ।
१४ - ३७ - आवट्यात् यञः चापः अवकाशः उदीचाम् ।
१५ - ३७ - आवट्या ।
१६ - ३७ - ष्फस्य अवकाशः अन्यानि यञन्तानि ।
१७ - ३७ - गार्ग्यायणी वात्स्यायनी ।
१८ - ३७ - आवट्यशब्दात् प्राचाम् उभयम् प्राप्नोति ।
१९ - ३७ - आवट्यायनी ।
२० - ३७ - ष्फः भवति पूर्वविप्रतिषेधेन ।
२१ - ३७ - आवट्यग्रहणेन न अर्थः ।
२२ - ३७ - यञः ष्फः चापः इति एव ।
२३ - ३७ - इदम् अपि सिद्धम् भवति ।
२४ - ३७ - शार्कराक्ष्यायणी पौतिमाष्यायणी ।
२५ - ३७ - यञ्ग्रहणेन न अर्थः ।
२६ - ३७ - ष्फः चापः इति एव ।
२७ - ३७ - गौकक्ष्यशब्दः क्रौड्यादिषु पठ्यते ।
२८ - ३७ - इदम् अपि सिद्धम् भवति गौकक्ष्यायणी ।
२९ - ३७ - तत् तर्हि वक्तव्यम् ।
३० - ३७ - न वक्तव्यम् ।
३१ - ३७ - एवम् वक्ष्यामि ।
३२ - ३७ - प्राचाम् ष्फः तद्धितः सर्वत्र ।
३३ - ३७ - क्व सर्वत्र ।
३४ - ३७ - यत्र ष्फः च अन्यः च प्राप्नोति ष्फः एव तत्र भवति इति ।
३५ - ३७ - ततः लोहिताइद्कतन्तेभ्यः सर्वत्र ।
३६ - ३७ - क्व सर्वत्र ।
३७ - ३७ - प्राचाम् च उदीचाम् च ।
१ - ३३ - इह कस्मात् न भवति ।
२ - ३३ - दाक्षी प्लाक्षी इति ।
३ - ३३ - अतिशायिकेन अयम् तमशब्देन निर्देशः क्रियते ।
४ - ३३ - सः च त्रिप्रभृतिषु वर्तते ।
५ - ३३ - त्रिप्रभृतीनाम् अभावात् ।
६ - ३३ - यदि एवम् प्रकर्षे चेत् तमम् कृत्वा दाक्ष्याः न उपोत्तमम् गुरु आम्विधिः केन ते न स्यात् प्रकर्षे यदि अयम् तमः ।
७ - ३३ - प्रकर्षे चेत् तमम् कृत्वा दाक्ष्याः न उपोत्तमम् गुरु इति उच्यते आम्विधिः केन तव न स्यात् ।
८ - ३३ - अव्ययघात् इति प्राप्नोति ।
९ - ३३ - प्रकर्षे यदि अयम् तमः ।
१० - ३३ - यदि अयम् तमः प्रकर्षे वर्तते ।
११ - ३३ - उद्गतस्य प्रकर्षः अयम् ।
१२ - ३३ - गतशब्दः अत्र लुप्यते ।उद्गतस्य अयम् प्रकर्षः ।
१३ - ३३ - गतशब्दस्य अत्र लोपः भवति ।
१४ - ३३ - नाव्ययार्थप्रकर्षः अस्ति ।
१५ - ३३ - धात्वर्थः अत्र प्रकृष्यते ।
१६ - ३३ - नाव्ययस्य अर्थस्य प्रकर्षः ।
१७ - ३३ - कस्य तर्हि ।
१८ - ३३ - धात्वर्थस्य ।
१९ - ३३ - उद्गतः अपेक्षते किम् चित् ।
२० - ३३ - त्रयाणाम् द्वौ किल उद्गतौ । अनुद्गतम् अपेक्ष्य उद्गतः इति एतत् भवति ।
२१ - ३३ - त्रयाणाम् द्वौ किल उद्गतौ ।
२२ - ३३ - त्रयाणाम् किल द्वौ उद्गतौ भवतः ।
२३ - ३३ - चतुष्प्रभृतिकर्तव्यः वाराह्यायाम् न सिध्यति ।
२४ - ३३ - चतुष्प्रभृतिषु ष्यङ् वक्तव्यः वाराह्यायाम् न सिध्यति ।
२५ - ३३ - वाराह्यायाम् न प्राप्नोति ।
२६ - ३३ - किम् कारणम् ।
२७ - ३३ - चतुष्प्रभृतीनाम् अभावात् ।
२८ - ३३ - भिद्यते अस्य स्वरः तेन विधिः च आमः न लक्ष्यते ।
२९ - ३३ - भिद्यते खलु अस्य स्वरः तेन आतिशायिकेन शब्देन उत्तमस्य ।
३० - ३३ - विधिः च आमः न लक्ष्यते ।
३१ - ३३ - विधिः च आमः न क्व चित् अपि लक्ष्यते ।
३२ - ३३ - शब्दान्तरम् इदम् विध्यात् दृष्टम् अभ्यन्तरम् त्रिषु ।
३३ - ३३ - एवम् तर्हि अन्यः अयम् आतिशायिकेन समानार्थः तमः त्रिप्रभृतिषु वर्तते ।
१ - ११९ - किम् पुनः अयम् अणिञोः आदेशः आहोस्वित् अणिञ्भ्याम् परः ।
२ - ११९ - कः च अत्र विशेषः ।
३ - ११९ - ष्यङि अनादेशे यलोपवचनम् ।
४ - ११९ - ष्यङि अनादेशे यलोपः वक्तव्यः ।
५ - ११९ - औदमेघ्यायाः छात्राः औदमेघाः । द्विः अण्विधिः ।
६ - ११९ - द्विः च अण् विधेयः ।
७ - ११९ - औदमेघ्यायाः छात्राः औदमेघाः ।
८ - ११९ - औदमेघ्यानाम् सङ्घः औदमेघः ।
९ - ११९ - इञः इति अण् न प्राप्नोति ।
१० - ११९ - अस्तु तर्हि आदेशः ।
११ - ११९ - आदेशे नलोपवचनम् ।
१२ - ११९ - यदि आदेशः नलोपः वक्तव्यः ।
१३ - ११९ - औडुलोम्या शारलोम्या इति ।
१४ - ११९ - ये च अभावकर्मणोः इति प्रकृतिभावः प्रसज्येत ।
१५ - ११९ - न वा ष्यङः लोपनिमित्तत्वात् ।
१६ - ११९ - न वा एषः दोषः ।
१७ - ११९ - किम् कारणम् ।
१८ - ११९ - ष्यङः लोपनिमित्तत्वात् ।
१९ - ११९ - लोपनिमित्तः ष्यङ् ।
२० - ११९ - न अकृते लोपे ष्यङ् प्राप्नोति ।
२१ - ११९ - किम् कारणम् ।
२२ - ११९ - गुरूपोत्तमयोः इति उच्यते न च अकृते लोपे गुरूपोत्तमम् भवति ।
२३ - ११९ - अथ वा पुनः अस्तु परः ।
२४ - ११९ - ननु च उक्तम् ष्यङि अनादेशे यलोपवचनम् द्विः अण्विधिः इति ।
२५ - ११९ - न एषः दोषः ।
२६ - ११९ - यत् तावत् उच्यते यलोपवचनम् इति अदोषः एषः ।
२७ - ११९ - किम् कारणम् ।
२८ - ११९ - पुंवद्भावात् यजादौ तद्धिते ।
२९ - ११९ - यजादौ तद्धिते पुंवद्भावः भविष्यति भस्य अढे तद्धिते पुंवत् भवति इति ।
३० - ११९ - अयम् तर्हि दोषः द्विः अण्विधिः इति ।
३१ - ११९ - न एषः दोषः ।
३२ - ११९ - सिद्धः च प्रत्ययविधौ ।
३३ - ११९ - सः च सिद्धः प्रत्ययविधौ ।
३४ - ११९ - उभयम् इदम् उक्तम् आदेशः परः इति च ।
३५ - ११९ - किम् अत्र न्याय्यम् ।
३६ - ११९ - अदेशः इति एतत् न्याय्यम् ।
३७ - ११९ - कुतः एतत् ।
३८ - ११९ - एवम् च एव हि कृत्वा आचार्येण सूत्रम् पठितम् षष्ठ्या च निर्देशः कृतः ।
३९ - ११९ - अतः एषः पक्षः निर्दोषः ।
४० - ११९ - ननु च परस्मिन् अपि सति ये दोषाः ते परिहृताः ।
४१ - ११९ - पुंवद्भावेन यलोपः परिहृतः ।
४२ - ११९ - स च पुंवद्भावः अडे भवति ।
४३ - ११९ - तत्र औदमेघेयः न सिध्यति ।
४४ - ११९ - अनुबन्धौ त्वया कार्यौ ।
४५ - ११९ - यस्य आदेशः अनुबन्धौ तेन कर्तव्यौ ।
४६ - ११९ - एकः सामान्यग्रहणाऋथः अपरः सामान्यग्रहणाविघातार्थः ।
४७ - ११९ - क्व सामान्यग्रहणाऋथेन अर्थः ।
४८ - ११९ - यङः चाप् इति ।
४९ - ११९ - अथ सामान्यग्रहणाविघातार्थेन क्व अर्थः ।
५० - ११९ - अत्र एव ।
५१ - ११९ - किम् प्रयोजनम् ।
५२ - ११९ - चापर्थम् ।
५३ - ११९ - चाप् यथा स्यात् ।
५४ - ११९ - तव कथम् चाप् ।
५५ - ११९ - टाब्विधिः मम ।
५६ - ११९ - टापा मम सिद्धम् ।
५७ - ११९ - ननु च मम अपि टापा सिद्धम् ।
५८ - ११९ - न सिध्यति ।
५९ - ११९ - अणः इति इञः इति च ईकारः प्राप्नोति ।
६० - ११९ - न एषः दोषः ।
६१ - ११९ - न एवम् विज्ञायते अणन्तात् अकारान्तात् इञन्तात् इकारान्तात् इति ।
६२ - ११९ - कथम् तर्हि ।
६३ - ११९ - अण् यः अकारः इञ् यः इकारः इति ।
६४ - ११९ - स्वरार्थः तर्हि त्वया चाप् वक्तव्यः ।
६५ - ११९ - ञ्निति इति आद्युदात्तत्वम् मा भूत् चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् इति ।
६६ - ११९ - तव अपि तर्हि ष्यङा उक्तत्वात् स्त्रीत्वस्य टाप् न प्राप्नोति ।
६७ - ११९ - उक्ते अपि हि भवन्ति एते ।
६८ - ११९ - उक्ते अपि हि स्त्रीत्वे भवन्ति एते टाबादयः ।
६९ - ११९ - उक्तम् एतत् स्वाऋथिकाः टाबादयः इति ।
७० - ११९ - मम अपि तर्हि सानुबन्धकस्य आदेशः इत्कार्यम् न इति ।
७१ - ११९ - तेन ञित् न भविष्यति ।
७२ - ११९ - अस्थानिवत्त्वे दोषः ते वृद्धिः अत्र न सिध्यति ।
७३ - ११९ - अस्थानिवत्त्वे दोषः ।
७४ - ११९ - वृद्धिः ते न प्राप्नोति ।
७५ - ११९ - औडुलोम्या शारलोम्या ।
७६ - ११९ - न च इदानीम् अर्धजरतीयम् लभ्यम् वृद्धिः मे भविष्यति स्वरः न इति ।
७७ - ११९ - तत् यथा अर्धम् जरत्याः कामयते अर्धम् न इति ।
७८ - ११९ - त्वया अपि अत्र विशेषार्थम् कर्तव्यम् स्यात् विशेषणम् ।
७९ - ११९ - त्वया अपि अत्र विशेषार्थः अनुबन्धः कर्तव्यः ।
८० - ११९ - क्व विशेषणार्थेन अर्थः ।
८१ - ११९ - ष्यङः सम्प्रसारणम् इति ।
८२ - ११९ - अक्रिया एव विशेषः अत्र सानुबन्धः विशेषवान् ।
८३ - ११९ - अक्रिया एव मम विशेषः सानुबन्धः तु विशेषवान् ।
८४ - ११९ - पाश्यायाम् ते कथम् न स्यात् ।
८५ - ११९ - पाश्यापुत्रः इति अत्र कस्मात् न भवति ।
८६ - ११९ - एकः मे स्यात् विशेषणम् ।
८७ - ११९ - एकः मम विशेषणाऋथः ।
८८ - ११९ - त्वया पुनः द्वौ कर्तव्यौ ।
८९ - ११९ - अथ एकस्मिन् अपि सति कः करिष्यते ।
९० - ११९ - किम् च अतः ।
९१ - ११९ - अन्यस्मिन् सूत्रभेदः स्यात् । यदि एताभ्याम् अन्यः क्रियते सूत्रभेदः कृतः भवति ।
९२ - ११९ - षिति लिङ्गम् प्रसज्येत ।
९३ - ११९ - अथ षित् क्रियते षितः इति ईकारः प्राप्नोति ।
९४ - ११९ - ङिति चेक्रीयिते दोषः ।
९५ - ११९ - अथ ङित् क्रियते चेक्रीयिते दोषः भवति ।
९६ - ११९ - लोलूयापुत्रः लोलूयापतिः इति ।
९७ - ११९ - व्यवधानात् न दुष्यति ।
९८ - ११९ - अकारेण व्यवहितत्वात् न दोषः भवति ।
९९ - ११९ - यः अनन्तरः न धातुः सः ।
१०० - ११९ - धातोः इति वर्तते यः च अत्र अनन्तरः न असौ धातुः ।
१०१ - ११९ - यः धातुः सः अननन्तरः ।
१०२ - ११९ - यः च धातुः स असौ अनन्तरः ।
१०३ - ११९ - न चेत् उभयतः साम्यम् उभयत्र प्रसज्येत ।
१०४ - ११९ - न चेत् उभयतः साम्यम् उभयत्र प्राप्नोति ।
१०५ - ११९ - यदि पुनः यङा धातुः विशेष्येत ।
१०६ - ११९ - यङा विशेष्येत यदि इह धातुः यङ् धातुना वा यदि तुल्यम् एतत् ।
१०७ - ११९ - यदि एव यङा धातुः विशेष्यते यदि अथ अपि धातुना यङ् तुल्यम् एतत् भवति ।
१०८ - ११९ - उभौ प्रधानम् यदि न अत्र दोषः । अथ उभौ प्रधानम् भवतः न अत्र दोषः भवति ।
१०९ - ११९ - तथा प्रसार्येत तु वाक्पतिः ते ।
११० - ११९ - तथा सति वाक्पतिः वाक्पुत्रः इति अत्र प्रसारणम् प्राप्नोति ।
१११ - ११९ - धातुप्रकरणस्य इह न स्थानम् इति निश्चयः ।
११२ - ११९ - धातुप्रकरणस्य इह स्थानम् न अस्ति इति कृत्वा एषः निश्चयः क्रियते ।
११३ - ११९ - अवश्यम् आत्त्वार्थम् धातुग्रहणम् कर्तव्यम् ।
११४ - ११९ - इह मा भूत् ।
११५ - ११९ - गोभ्याम् गोभिः नौभ्याम् नौभिः ।
११६ - ११९ - आत्त्वार्थम् यदि कर्तव्यम् तत्र एव तत् करिष्यते ।
११७ - ११९ - उपदेशे यत् एजन्तम् तस्य चेद् आत्त्वम् इष्यते उद्देशः ऋऊढिशब्दानाम् ।
११८ - ११९ - तेन गोः न भविष्यति ।
११९ - ११९ - एवम् तर्हि उपदेशे इति उच्यते उद्देशः च प्रातिपदिकानाम् न उपदेशः ।
१ - ३९ - किमर्थम् इदम् उच्यते ।
२ - ३९ - गोत्रावयवात् अगोत्रार्थम् ।
३ - ३९ - गोत्रावयवात् इति उच्यते ।
४ - ३९ - अगोत्रार्थः अयम् आरम्भः ।
५ - ३९ - गोत्रावयवात् अगोत्रार्थम् इति चेत् तत् अनिष्टम् ।
६ - ३९ - गोत्रावयवात् अगोत्रार्थम् इति चेत् तत् अनिष्टम् प्राप्नोति ।
७ - ३९ - इह अपि प्राप्नोति आहिच्छत्री कान्यकुब्जी ।
८ - ३९ - एवम् तर्हि गोत्रात् एव गोत्रावयवात् ।
९ - ३९ - गोत्रात् इति चेत् वचनानर्थक्यम् ।
१० - ३९ - गोत्रात् इति चेत् वचनम् अनर्थकम् ।
११ - ३९ - सिद्धम् गोत्रे पुर्वेण एव ।
१२ - ३९ - इदम् तर्हि प्रयोजनम् ।
१३ - ३९ - गुरूपोत्तमयोः इति उच्यते ।
१४ - ३९ - अगुरूपोत्तमाऋथः अयम् आरम्भः ।
१५ - ३९ - अगुरूपोत्तमाऋथम् इति चेत् सर्वेषाम् अवयवत्वात् सर्वप्रसङ्गः ।
१६ - ३९ - अगुरूपोत्तमाऋथम् इति चेत् सर्वेषाम् अवयवत्वात् सर्वत्र प्राप्नोति अष्टाशीतिः सहस्राणि ऊर्ध्वरेतसाम् ऋषीणाम् बभूवुः ।
१७ - ३९ - तत्र अगस्त्याष्टमैः ऋषिभिः प्रजनः अभ्युपगतः ।
१८ - ३९ - तत्रभवताम् यत् अपत्यम् तानि गोत्राणि ।
१९ - ३९ - अतः अन्ये गोत्रावयवाः ।
२० - ३९ - तत्र उत्पत्तिः प्राप्नोति ।
२१ - ३९ - तत् च अनिष्टम् ।
२२ - ३९ - तस्मात् न अर्थः अनेन योगेन ।
२३ - ३९ - कथम् येभ्यः अगुरूपोत्तमेभ्यः इष्यते ।
२४ - ३९ - सिद्धम् तु रौढ्यादिषु उपसङ्ख्यानात् ।
२५ - ३९ - सिद्धम् एतत् ।
२६ - ३९ - कथम् ।
२७ - ३९ - रौढ्यादिषु उपसङ्ख्यानात् ।
२८ - ३९ - रौढ्यादिषु उपसङ्ख्यानम् कर्तव्यम् ।
२९ - ३९ - के पुनः रौढ्यादयः ।
३० - ३९ - ये क्रौड्यादयः ।
३१ - ३९ - भारद्वाजीयाः पठन्ति सिद्धम् तु कुलाख्येभ्यः लोके गोत्राभिमताभ्यः इति ।
३२ - ३९ - सिद्धम् एतत् ।
३३ - ३९ - कथम् ।
३४ - ३९ - कुलाख्याः लोके गोत्रावयवाः इति उच्यन्ते ।
३५ - ३९ - अथ वा गोत्रावयवः कः भवतुम् अर्हति ।
३६ - ३९ - गोत्रात् अवयुतः ।
३७ - ३९ - कः च गोत्रात् अवयुतः ।
३८ - ३९ - यः अनन्तरः ।
३९ - ३९ - दैवदत्त्या याज्ञदत्त्या इति ।
१ - ५२ - समर्थवचनम् किमर्थम् ।
२ - ५२ - समर्थात् उत्पत्तिः यथा स्यात् उपगोः अपत्यम् ।
३ - ५२ - असमर्थात् मा भूत् इति कम्बलः उपगोः अपत्यम् देवदत्तस्य इति ।
४ - ५२ - समर्थवचनम् अनर्थकम् ।
५ - ५२ - न हि असमर्थेन अर्थाभिधानम् ।
६ - ५२ - समर्थवचनम् अनर्थकम् ।
७ - ५२ - किम् कारणम् ।
८ - ५२ - न हि असमर्थेन अर्थाभिधानम् ।
९ - ५२ - न हि असमर्थात् उत्पद्यमानेन प्रत्ययेन अर्थाभिधानम् स्यात् ।
१० - ५२ - अनभिधानात् ततः उत्पत्तिः न भविष्यति ।
११ - ५२ - अथ प्रथमवचनम् किमर्थम् ।
१२ - ५२ - प्रथमवचनम् प्रकृतिविशेषणार्थम् ।
१३ - ५२ - प्रथमात् प्रत्ययोत्पत्तिः यथा स्यात् ।
१४ - ५२ - अप्रथमात् मा भूत् ।
१५ - ५२ - उपगोः अपत्यम् इति अपत्यशब्दात् ।
१६ - ५२ - प्रथमवचनम् अनर्थकम् ।
१७ - ५२ - न हि अप्रथमेन अर्थाभिधानम् ।
१८ - ५२ - प्रथमवचनम् अनर्थकम् ।
१९ - ५२ - किम् कारणम् ।
२० - ५२ - न हि अप्रथमेन अर्थाभिधानम् ।
२१ - ५२ - न हि अप्रथमात् उत्पद्यमानेन प्रत्ययेन अर्थाभिधानम् स्यात् ।
२२ - ५२ - अनभिधानात् ततः उत्पत्तिः न भविष्यति ।
२३ - ५२ - अथ वावचनम् किमर्थम् ।
२४ - ५२ - वाक्यम् अपि यथात् स्यात् ।
२५ - ५२ - उपगोः अपत्यम् इति ।
२६ - ५२ - वावचने च उक्तम् ।
२७ - ५२ - किम् उक्तम् ।
२८ - ५२ - तत्र तावत् उक्तम् ।
२९ - ५२ - वावचनानर्थक्यम् च तत्र नित्यत्वात् सनः इति ।
३० - ५२ - इह अपि वावचनम् अनर्थकम् ।
३१ - ५२ - किम् कारणम् ।
३२ - ५२ - तत्र नित्यत्वात् प्रत्ययस्य ।
३३ - ५२ - इह द्वौ पक्षौ वृत्तिपक्षः च अवृत्तिपक्षः च ।
३४ - ५२ - स्वभाव्तः च एतत् भवति वाक्यम् च वृत्तिः च ।
३५ - ५२ - तत्र स्वाभाविके वृत्तिविषये नित्ये प्रत्यये प्राप्ते वावचनेन् किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः ।
३६ - ५२ - न च सञ्ज्ञायाः भावाभावौ इष्येते ।
३७ - ५२ - तस्मात् न अर्थः वावचनेन ।
३८ - ५२ - अथ एतत् समर्थग्रहणम् न एव कर्तव्यम् ।
३९ - ५२ - कर्तव्यम् च ।
४० - ५२ - किम् प्रयोजनम् ।
४१ - ५२ - समर्थात् उत्पत्तिः यथा स्यात् ।
४२ - ५२ - असमर्थात् मा भूत् ।
४३ - ५२ - किम् पुनः समर्थम् ।
४४ - ५२ - अर्थाभिधाने यत् समर्थम् ।
४५ - ५२ - किम् पुनः तत् ।
४६ - ५२ - कृतवर्णानुपूर्वीकम् पदम् ।
४७ - ५२ - सौत्थितिः वैक्षमाणिः इति ।
४८ - ५२ - अथ तत् वावचनम् न एव कर्तव्यम् ।
४९ - ५२ - कर्तव्यम् च ।
५० - ५२ - किम् प्रयोजनम् ।
५१ - ५२ - नित्याः शब्दाः ।
५२ - ५२ - नित्येषु शब्देषु वाक्यस्य अनेन साधुत्वम् अन्वाख्यायते ।
१ - १९ - अयुक्तः अयम् निर्देशः ।
२ - १९ - न हि तत्र कः चित् दीव्यच्छब्दः पठ्यते ।
३ - १९ - कः तर्हि ।
४ - १९ - दीव्यतिशब्दः ।
५ - १९ - कथम् तर्हि निर्देशः कर्तव्यः ।
६ - १९ - प्राक् दीव्यतेः इति ।
७ - १९ - सः तर्हि तथा निर्देशः कर्तव्यः प्राक् दीव्यतेः इति ।
८ - १९ - न कर्तव्यः ।
९ - १९ - दीव्यतिशब्दे दीव्यच्छब्दः अस्ति ।
१० - १९ - तस्मात् एषा पञ्चमी ।
११ - १९ - किम् पुनः कारणम् विकृतनिर्देशः क्रियते ।
१२ - १९ - एतत् ज्ञापयति आचार्यः ।
१३ - १९ - भवति एषा परिभाषा एकदेशविकृतम् अनन्यवत् भवति इति ।
१४ - १९ - किम् एतस्य ज्ञापने प्रयोजनम् ।
१५ - १९ - एकदेशविक्र्टेषु उपसङ्ख्यानम् चोदितम् ।
१६ - १९ - तत् न कर्तव्यम् भवति ।
१७ - १९ - अथ वा प्राक्शब्दः अयम् दिक्शब्दः ।
१८ - १९ - दिक्शब्दैः च योगे पञ्चमी भवति ।
१९ - १९ - तत्र अप्रथमासमानाधिकरणे इति शता भविष्यति ।
१ - १२ - अथ प्राग्वचनम् किमर्थम् ।
२ - १२ - प्राग्वचनम् सकृद्विधानार्थम् ।
३ - १२ - प्राग्वचनम् क्रियते सकृद्विधानार्थम् ।
४ - १२ - सकृद्विहितः प्रत्ययः विहितः यथा स्यात् ।
५ - १२ - योगे योगे तस्य ग्रहणम् मा कार्षम् इति ।
६ - १२ - न एतत् अस्ति प्रयोजनम् ।
७ - १२ - अधिकारात् अपि एतत् सिद्धम् ।
८ - १२ - अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते ।
९ - १२ - अधिकारात् सिद्धम् इति चेत् अपवादविषये अण्प्रसङ्गः । अधिकारात् सिद्धम् इति चेत् अपवादविषये अण् प्राप्नोति ।
१० - १२ - अतः इञ् अण् च इति अण् अपि प्राप्नोति ।
११ - १२ - तस्मात् प्राग्वचनम् ।
१२ - १२ - तस्मात् प्राग्वचनम् कर्तव्यम् ।
१ - २९ - अथ क्रियमाणे अपि प्राग्वचने कथम् इदम् विज्ञायते ।
२ - २९ - प्राक् दीव्यतः याः प्रकृतयः आहोस्वित् प्राक् दीव्यतः ये अर्थाः इति ।
३ - २९ - किम् च अतः ।
४ - २९ - यदि विज्ञायते प्राक् दीव्यतः याः प्रकृतयः इति सः एव दोषः अपवादविषये अण्प्रसङ्गः इति ।
५ - २९ - अथ विज्ञायते प्राक् दीव्यतः ये अर्थाः इति न दोषः भवति ।
६ - २९ - समाने अर्थे प्रकृतिविशेषात् उत्पद्यमानः इञ् अणम् भाधते ।
७ - २९ - यथा न दोषः तथा अस्तु ।
८ - २९ - प्राक् दीव्यतः ये अर्थाः इति विज्ञायते ।
९ - २९ - कुतः एतत् ।
१० - २९ - तथा हि अयम् प्राधान्येन अर्थम् प्रतिनिर्दिशति ।
११ - २९ - इतरथा बह्व्यः प्रकृतयः पठ्यन्ते ।
१२ - २९ - ततः याम् काम् चित् एवम् निमित्तत्वेन उपाददीत ।
१३ - २९ - अथ वा पुनः अस्तु प्राक् दीव्यतः याः प्रकृतयः इति ।
१४ - २९ - ननु च उक्तम् अपवादविषये अण्प्रसङ्गः इति ।
१५ - २९ - न वा क्व चित् वावचनात् ।
१६ - २९ - न वा एषः दोषः ।
१७ - २९ - किम् कारणम् ।
१८ - २९ - क्व चित् वावचनात् ।
१९ - २९ - यत् अयम् वावचनम् करोति पीलायाः वा उदश्वितः अन्यतरस्याम् इति तत् ज्ञापयति आचार्यः न अपवादविषये अण् भवति इति ।
२० - २९ - यदि एतत् ज्ञाप्यते न अर्थः प्राग्वचनेन ।
२१ - २९ - अधिकारात् सिद्धम् ।
२२ - २९ - ननु च उक्तम् अधिकारात् सिद्धम् इति चेत् अपवादविषये अण्प्रसङ्गः इति ।
२३ - २९ - न एषः दोषः ।
२४ - २९ - परिहृतम् एतत् न वा क्व चित् वावचनात् इति ।
२५ - २९ - किम् पुनः कारणम् इयान् अवधिः गृह्यते ।
२६ - २९ - न प्राक् ठकः इति एव उच्येत ।
२७ - २९ - एतत् ज्ञापयति अर्थेषु अयम् भवति इति ।
२८ - २९ - किम् एतस्य ज्ञापने प्रयोजनम् ।
२९ - २९ - प्रकृतिविशेषात् उपद्यमानः इञ् अणम् बाधते ।
१ - ३५ - वाङ्मतिपितृमताम् छन्दसि उपसङ्ख्यानम् ।
२ - ३५ - वाङ्मतिपितृमताम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।
३ - ३५ - वाक् ।
४ - ३५ - वाच्यः ।
५ - ३५ - वाक् ।
६ - ३५ - मति ।
७ - ३५ - मात्यः ।
८ - ३५ - मति ।
९ - ३५ - पितृमत् ।
१० - ३५ - पैतृमत्यः ।
११ - ३५ - पृथिव्याः ञाञौ । पृथिव्याः ञाञौ वक्तव्यौ ।
१२ - ३५ - पार्थिवा पार्थिवी ।
१३ - ३५ - देवस्य यञञौ ।
१४ - ३५ - देवस्य यञञौ वक्तव्यौ ।
१५ - ३५ - दैव्यम् दैवम् ।बहिषः टिलोपः च यञ् च ।
१६ - ३५ - बहिषः टिलोपः च यञ् च वक्तव्यः ।
१७ - ३५ - बहिर्भवः बाह्यः ।
१८ - ३५ - ईकक् च ।
१९ - ३५ - ईकक् च वक्तव्यः ।
२० - ३५ - बाहीकः ।
२१ - ३५ - ईकञ् छन्दसि । ईकञ् छन्दसि वक्तव्यः ।
२२ - ३५ - बाहीकम् अस्तु भद्रम् वः ।
२३ - ३५ - स्थाम्नः अकारः ।
२४ - ३५ - स्थाम्नः अकारः वक्तव्यः ।
२५ - ३५ - अश्वत्थामः ।
२६ - ३५ - लोम्नः अपत्येषु बहुषु ।
२७ - ३५ - लोम्नः अपत्येषु बहुषु अकारः वक्तव्यः ।उडुलोमाः शरलोमाः ।
२८ - ३५ - बहुषु इति किमर्थम् ।
२९ - ३५ - औडलोमिः शारलोमिः ।
३० - ३५ - सर्वत्र गोः अजादिप्रसङ्गे यत् ।
३१ - ३५ - सर्वत्र गोः अजादिप्रसङ्गे यत् वक्तव्यः ।
३२ - ३५ - गवि भवम् गव्यम् ।
३३ - ३५ - गोः इदम् गव्यम् ।
३४ - ३५ - गोः स्वम् गव्यम् ।
३५ - ३५ - गौः देवता अस्य स्थालीपाकस्य गव्यः स्थालीपाकः ।
१ - २१ - ण्यादयः अर्थविशेषलक्षणात् अणपवादात् पूर्वविप्रतिषेद्धम् ।
२ - २१ - ण्यादयः अर्थविशेषलक्षणात् अणपवादात् भवन्ति पूर्वविप्रतिषेधेन ।
३ - २१ - ण्यादीनाम् अवकाशः ।
४ - २१ - दितिः देवता अस्य दैत्यः ।
५ - २१ - अथविशेषलक्षणस्य अणपवादस्य अवकाशः ।
६ - २१ - दुलेः अपत्यम् दौलेयः बालेयः ।
७ - २१ - इह उभयम् प्राप्नोति ।
८ - २१ - दितेः अपत्यम् दैत्यः ।
९ - २१ - अपरस्य अथविशेषलक्षणस्य अणपवादस्य अवकाशः ।
१० - २१ - अचित्तहस्तिधेनोः ठक् ।
११ - २१ - आपूपिकम् शाष्कुलिकम् ।
१२ - २१ - ण्यादीनाम् अवकाशः ।
१३ - २१ - बार्हस्पत्यम् प्राजापत्यम् ।
१४ - २१ - इह उभयम् प्राप्नोति ।
१५ - २१ - वनस्पतीनाम् समूहः वानस्पत्यम् ।
१६ - २१ - ण्यादयः भवन्ति पूर्वविप्रतिषेधेन ।
१७ - २१ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।
१८ - २१ - न वक्तव्यः ।
१९ - २१ - इष्टवाचीपरशब्दः ।
२० - २१ - विप्रतिषेधे यत् इष्टम् तत् भवति ।
२१ - २१ - दितिवनस्पतिभ्याम् अपत्यसमूहयोः ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP