पाद १ - खण्ड ४५

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ११ - अञ्प्रकरणे ग्रीष्मात् अच्छन्दसि ।

२ - ११ - अञ्प्रकरणे ग्रीष्मात् अच्छन्दसि इति वक्तव्यम् ।

३ - ११ - ग्रैष्मम् ।

४ - ११ - अच्छन्दसि इति किम् ।

५ - ११ - त्रिष्टुप् ग्रैष्मी ।

६ - ११ - यदि अच्छन्दसि इति उच्यते ग्रैष्मौ एतौ मासौ अत्र न प्राप्नोति ।

७ - ११ - अच्छन्दसि इति उच्यते ।

८ - ११ - न एतत् छन्दः समीक्षितम् काठकम् कापालकम् मौदकम् पप्पलादकम् वा ।

९ - ११ - किम् तर्हि ।

१० - ११ - प्रत्ययार्थविशेषणम् एत ।

११ - ११ - न चेत् छन्दः प्रत्ययार्थः भवति इति ।

१ - २६ - किमर्थम् नञ्स्नञौ उच्येते न नञ् एव उच्येत ।

२ - २६ - का रूपसिद्धिः पौंस्नम् ।

३ - २६ - पुंस् इति सकारान्तः नकारशब्दः च प्रत्ययः ।

४ - २६ - न सिध्यति ।

५ - २६ - संयोगान्तस्य लोपः इति लोपः प्राप्नोति ।

६ - २६ - एवम् तर्हि न एव अर्थः नञा न अपि स्नञा ।

७ - २६ - अञ् प्रकृतः ।

८ - २६ - सः अनुवर्तिष्यते नकारः च आगमः वक्तव्यः ।

९ - २६ - अथ नकारागमे सति किम् पूर्वान्तः करिष्यते आहोस्वित् परादिः ।

१० - २६ - किम् च अतः ।

११ - २६ - यदि पूर्वान्तः स्त्रैणाः बहुषु लोपः प्राप्नोति ।

१२ - २६ - स्त्रैणानाम् सङ्घः सङ्घाङ्कलक्षणेषु अञ्यञिञाम् अण् इति अण् प्राप्नोति ।

१३ - २६ - अथ परादिः पौंसम् सः एव दोषः संयोगान्तलोपः प्राप्नोति ।

१४ - २६ - अस्तु पूर्वान्तः ।

१५ - २६ - कथम् स्त्रैणाः स्त्रैणानाम् सङ्घः इति ।

१६ - २६ - उभयत्र लौकिकस्य गोत्रस्य ग्रहणम् ।

१७ - २६ - न च इदम् लौकिकम् गोत्रम् ।

१८ - २६ - ईकारः तर्हि प्राप्नोति ।

१९ - २६ - इष्टम् एव एतत् सङ्गृहीतम् ।

२० - २६ - स्त्रैणी पौंसी इति एव भवितव्यम् ।

२१ - २६ - एवम् हि सौनागाः पठन्ति नञ्स्नञीकक्खुंस्तरुणतलुनानाम् उपसङ्ख्यानम् इति ।

२२ - २६ - टिलोपः तर्हि प्राप्नोति ।

२३ - २६ - नुग्वचनात् न भविष्यति ।

२४ - २६ - भवेत् इह नुग्वचनात् न स्यात् स्त्रैणम् इति ।

२५ - २६ - इह तु खलु पऊम्सम् इति नुग्वचनात् एव प्राप्नोति ।

२६ - २६ - तस्मात् नञ्स्नञौ वक्तव्यौ ।

१ - २१ - अथ इमौ नञ्स्नञौ प्राक् भवनात् आहोस्वित् प्राक् वतेः ।

२ - २१ - कः च अत्र विशेषः ।

३ - २१ - नञ्स्नञौ भवनात् इति चेत् वत्यर्थे प्रतिषेधः ।

४ - २१ - नञ्स्नञौ भवनात् इति चेत् वत्यर्थे प्रतिषेधः वक्तव्यः ।

५ - २१ - स्त्रीवत् पुंवत् इति ।

६ - २१ - किम् पुनः कारणम् न सिध्यति ।

७ - २१ - इम नञ्स्नञौ प्राक् भवनात् इति उच्येते ।

८ - २१ - तौ विशेषविहितौ सामान्यविहितम् वतिम् बाधेयाताम् ।

९ - २१ - तत् तर्हि वक्तव्यम् ।

१० - २१ - न वक्तव्यम् ।

११ - २१ - वतेः प्राक् इति वक्ष्यामि ।

१२ - २१ - वतेः प्राक् इति चेत् भावे उपसङ्ख्यानम् ।

१३ - २१ - वतेः प्राक् इति चेत् भावे उपसङ्ख्यानम् कर्तव्यम् ।

१४ - २१ - स्त्रीभावः स्त्रैणम् पुम्भावः पौंस्नम् इति ।

१५ - २१ - सूत्रम् च भिद्यते ।

१६ - २१ - यथान्यासम् एव अस्तु ।

१७ - २१ - ननु च उक्तम् नञ्स्नञौ भवनात् इति चेत् वत्यर्थे प्रतिषेधः इति ।

१८ - २१ - न एषः दोषः ।

१९ - २१ - आचार्यप्रवृत्तिः ज्ञापयति न वत्यर्थे नञ्स्नञौ भवतः इति यत् अयम् स्त्रियाः पुंवत् इति निर्देशम् करोति ।

२० - २१ - एवम् अपि स्त्रीवत् इति न सिध्यति ।

२१ - २१ - योगापेक्षम् ज्ञापकम् ।

१ - १४ - इह कस्मात् न भवति त्रैविद्यः पाञ्चनदः षाट्कुलः इति ।

२ - १४ - इह तावत् त्रैविद्यः इति न एवम् विज्ञायते तिस्रः विद्याः अधीते त्रैविद्यः इति ।

३ - १४ - कथम् तर्हि ।

४ - १४ - त्र्यवयवा विद्या त्रिविद्या ।

५ - १४ - त्रिविद्याम् अधीते त्रैविद्यः इति ।

६ - १४ - इह अपि पाञ्चनदः इति न एवम् विज्ञायते पञ्चसु नदीषु भवः पाञ्चनदः इति ।

७ - १४ - कथम् तर्हि ।

८ - १४ - पञ्चानाम् नदीनाम् समाहारः पञ्चनदम् ।

९ - १४ - पञ्चनदे भवः पाञ्चनदः इति ।

१० - १४ - षाट्कुलः इति न एवम् विज्ञायते षट्सु कुलेषु भवः षाट्कुलः इति ।

११ - १४ - कथम् तर्हि ।

१२ - १४ - षण्णाम् कुलम् षट्कुलम् षट्कुले भवः षाट्कुलः इति ।

१३ - १४ - अजादिग्रहणम् च कर्तव्यम् ।

१४ - १४ - इह मा भूत् पञ्चगर्भरूप्यम् पञ्चगर्भमयम् ।

१ - ४१ - द्विगोः लुकि तन्निमित्तग्रहणम् ।

२ - ४१ - द्विगोः लुकि तन्निमित्तग्रहणम् कर्तव्यम् ।

३ - ४१ - द्विगुनिमित्तम् यः तद्धितः तस्य लुक् भवति इति वक्तव्यम् ।

४ - ४१ - इह मा भूत् ।

५ - ४१ - पञ्चकपालस्य इदम् खण्डम् पाञ्चकपालम् इति ।

६ - ४१ - अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि ।

७ - ४१ - अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति वक्तव्यम् ।

८ - ४१ - किम् प्रयोजनम् ।

९ - ४१ - पञ्चसु कपालेषु संस्कृतः पञ्चकपालः ।

१० - ४१ - पन्चकपाल्याम् संस्क्र्तः इति अपि विगृह्य पञ्चकपालः इति एव यथा स्यात् ।

११ - ४१ - अथ क्रियमाणे अपि तन्निमित्तग्रहणे कथम् इदम् विज्ञायते ।

१२ - ४१ - तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति आहोस्वित् सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति ।

१३ - ४१ - किम् च अतः ।

१४ - ४१ - यदि विज्ञायते तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति क्रियमाणे अपि तन्निमित्तग्रहणे अत्र प्राप्नोति पञ्चकपालस्य इदम् खण्डम् इति ।

१५ - ४१ - अथ विज्ञायते सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति न दोषः भवति ।

१६ - ४१ - यथ न दोषः तथा अस्तु ।

१७ - ४१ - सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति विज्ञायते ।

१८ - ४१ - कुतः एतत् ।

१९ - ४१ - यत् अयम् आह अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति ।

२० - ४१ - तत् तर्हि तन्निमित्तग्रहणम् कर्तव्यम् ।

२१ - ४१ - न कर्तव्यम् ।

२२ - ४१ - द्विगोः इति न एषा पञ्चमी ।

२३ - ४१ - का तर्हि ।

२४ - ४१ - सम्बन्धषष्ठी ।

२५ - ४१ - द्विगोः तद्धितस्य लुक् भवति ।

२६ - ४१ - किम् च द्विगोः तद्धितः ।

२७ - ४१ - निमित्तम् ।

२८ - ४१ - यस्मिन् द्विगुः इति एतत् भवति ।

२९ - ४१ - कस्मिन् च एतत् भवति ।

३० - ४१ - प्रत्यये ।

३१ - ४१ - इदम् तर्हि वक्तव्यम् अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति ।

३२ - ४१ - एतत् च न वक्तव्यम् ।

३३ - ४१ - इह अस्माभिः त्रैशब्द्यम् साध्यम् ।

३४ - ४१ - पञ्चसु कपालेषु संस्कृतः पञ्चकपाल्याम् संस्कृतः पञ्चकपालः दशकपालः इति ।

३५ - ४१ - तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन ।

३६ - ४१ - तत् यथा ।

३७ - ४१ - अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति ।

३८ - ४१ - एवम् पञ्चसु कपालेषु संस्कृतः इति विगृह्य पञ्चकपालः इति भविष्यति ।

३९ - ४१ - पञ्चकपाल्याम् संस्कृतः इति विगृह्य वाक्यम् एव ।

४० - ४१ - त्रैशब्द्यम् च इह साध्यम् ।

४१ - ४१ - तत् च एवम् सति सिद्धम् भवति ।

१ - २४ - गोत्रे अलुक् अचि इति चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः ।

२ - २४ - गोत्रे अलुक् अचि इति चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः ।

३ - २४ - का इतरेतराश्रयता ।

४ - २४ - अलुग्निमित्तः अजादिः अजादिनिमित्तः च अलुक् ।

५ - २४ - तत् इतरेतराश्रयम् भवति ।

६ - २४ - इतरेतराश्रयाणि च न प्रकल्पन्ते ।

७ - २४ - विप्रतिषेधात् तु लुकः छविधानम् ।

८ - २४ - विप्रतिषेधात् तु लुकः छः भविष्यति ।

९ - २४ - लुकः अवकाशः गर्गाः वत्साः बिदाः उर्वाः ।

१० - २४ - छस्य अवकाशः शालीयः मालीयः गार्गीयः वात्सीयः ।

११ - २४ - इह उभयम् प्राप्नोति ।

१२ - २४ - गर्गाणाम् छात्राः गार्गीयाः वात्सीयः ।

१३ - २४ - छः भवति विप्रतिषेधेन ।

१४ - २४ - न एषः युक्तः विप्रतिषेधः ।

१५ - २४ - भूम्नि च लुक् प्राप्तः बाह्ये च अर्थे विधीयते अजादिः ।

१६ - २४ - बहिरङ्गम् अन्तरङ्गात् ।

१७ - २४ - विप्रतिषेधात् अयुक्तम् स्यात् ।

१८ - २४ - भूम्नि प्राप्तस्य लुकः यत् अजादौ तद्धिते अलुकम् शास्ति एतत् ब्रवीति कूर्वन् समानकालौ अलुक् लुक् च ।

१९ - २४ - यत् अयम् भूम्नि प्राप्तस्य लुकः अजादौ तद्धिते अलुकम् शास्ति तत् ज्ञापयति आचार्यः समानकालौ एतौ अलुग्लुकौ इति ।

२० - २४ - यदि वा लुकः प्रसङ्गे भवति अलुक् छः तथा प्रसिद्धः अस्य ।

२१ - २४ - यदि वा लुकः प्रसङ्गे भवति अलुक् भवति तथा अस्य छः प्रसिद्धः अस्य ।

२२ - २४ - पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः ।

२३ - २४ - लुक् वा अलुकः प्रसङ्गम् प्रतीक्षते छे अलुक् अस्य तथा । लुक् वा पुनः अलुकः प्रसङ्गम् यदि प्रतीक्षते तथा अस्य छे अलुक् सिद्धः भवति ।

२४ - २४ - प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।

१ - ६४ - गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् ।

२ - ६४ - गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् वक्तव्यः ।

३ - ६४ - बिदानाम् अपत्यम् माणवकः बैदः बैदौ ।

४ - ६४ - किमर्थम् इदम् न अचि इति एव अलुक् सिद्धः ।

५ - ६४ - अचि इति उच्यते ।

६ - ६४ - न च अत्र अजादिम् पश्यामः ।

७ - ६४ - प्रत्ययलक्षणेन ।

८ - ६४ - वर्णाश्रये न अस्ति प्रत्ययलक्षणम् ।

९ - ६४ - एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि ।

१० - ६४ - एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः ।

११ - ६४ - बैदस्य अपत्यम् बहवः माणवकाः बिदाः ।

१२ - ६४ - बैदयोः बिदाः ।

१३ - ६४ - अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति ।

१४ - ६४ - मा भूत् एवम् अञ् यः बहुषु यञ् यः बहुषु इति ।

१५ - ६४ - अञन्तम् यद् बहुषु यञन्तम् यत् बहुषु इति भविष्यति ।

१६ - ६४ - न एवम् शक्यम् ।

१७ - ६४ - इह हि दोषः स्यात् ।

१८ - ६४ - काश्यपप्रतिकृतयः काश्यपाः इति ।

१९ - ६४ - न एषः दोषः ।

२० - ६४ - यत् तावत् उच्यते गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् वक्तव्यः इति ।

२१ - ६४ - न वक्तव्यः ।

२२ - ६४ - अचि इति एव अलुक् सिद्धः ।

२३ - ६४ - अचि इति उच्यते ।

२४ - ६४ - न च अत्र अजादिम् पश्यामः ।

२५ - ६४ - प्रत्ययलक्षणेन ।

२६ - ६४ - ननु च उक्तम् वर्णाश्रये न अस्ति प्रत्ययलक्षणम् इति ।

२७ - ६४ - यदि वा कानि चित् वर्णाश्रयाणि अपि प्रत्ययलक्षणेन भवन्ति तथा च इदम् अपि भविष्यति ।

२८ - ६४ - अथ वा अविशेषेण अलुकम् उक्त्वा हलि न इति वक्ष्यामि ।

२९ - ६४ - यदि अविशेषेण अलुकम् उक्त्वा हलि न इति उच्यते बिदानाम् अपत्यम् बहवः माणवकाः बिदाः अत्र अपि प्राप्नोति ।

३० - ६४ - अस्तु ।

३१ - ६४ - पुनः अस्य युवबहुत्वे वर्तमानस्य लुक् भविष्यति ।

३२ - ६४ - पुनः अलुक् कस्मात् न भवति ।

३३ - ६४ - समर्थानाम् प्रथमस्य गोत्रप्रत्ययान्तस्य अलुक् उच्यते ।

३४ - ६४ - न च एतत् समर्थानाम् प्रथमम् गोत्रप्रत्ययान्तम् ।

३५ - ६४ - किम् तर्हि ।

३६ - ६४ - द्वितीयम् अर्थम् उपसङ्क्रान्तम् ।

३७ - ६४ - अवश्यम् च एतत् एवम् विज्ञेयम् अत्रिभरवाजिका वसिष्ठकश्यपिका भृग्वङ्गिरसिकाकुत्सकुशिकिका इति एवमर्थम् ।

३८ - ६४ - गर्गभार्गविकाग्रहणम् वा नियमार्थम् ।

३९ - ६४ - अथ वा गर्गभार्गविकाग्रहणम् नियमार्थम् भविष्यति ।

४० - ६४ - एतस्य एव द्वितीयम् अर्थम् उपसङ्क्रान्तस्य अलुक् भवति न अन्यस्य इति ।

४१ - ६४ - यत् अपि उच्यते एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः ।

४२ - ६४ - अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति ।

४३ - ६४ - मा भूत् एवम् अञ् यः बहुषु यञ् यः बहुषु इति ।

४४ - ६४ - अञन्तम् यद् बहुषु यञन्तम् यत् बहुषु इति भविष्यति ।

४५ - ६४ - ननु च उक्तम् न एवम् शक्यम् ।

४६ - ६४ - इह हि दोषः स्यात् ।

४७ - ६४ - काश्यपप्रतिकृतयः काश्यपाः इति ।

४८ - ६४ - न एषः दोषः ।

४९ - ६४ - लौकिकस्य तत्र गोत्रस्य ग्रहणम् न च एतत् लौकिकम् गोत्रम् ।

५० - ६४ - यदि अञन्तम् यद् बहुषु यञन्तम् यत् बहुषु इति एवम् उच्यते बिदानाम् अपत्यम् माणवकः बैदः बैदौ अत्र अपि प्राप्नोति ।

५१ - ६४ - अलुक् अत्र लिकम् बाधिष्यति ।

५२ - ६४ - अलुकि च कृते पुनः लुकः निमित्तम् न अस्ति इति कृत्वा पुनः लुक् न भविष्यति ।

५३ - ६४ - उक्तम् वा ।

५४ - ६४ - किम् उक्तम् ।

५५ - ६४ - आपत्यः वा गोत्रम् ।

५६ - ६४ - परमप्रकृतेः च आपत्यः ।

५७ - ६४ - आपत्यात् जीवद्वंश्यात् स्वार्थे द्वितीयः युवसञ्ज्ञः ।

५८ - ६४ - सः च अस्त्रियाम् ।

५९ - ६४ - एकगोत्रग्रहणानर्थक्यम् च ।

६० - ६४ - बहुवचनलोपिषु च सिद्धम् इति ।

६१ - ६४ - तत्र बिदानाम् अपत्यम् माणवकः इति विगृह्य बिदशब्दात् द्व्येकयोः उत्पत्तिः भविष्यति ।

६२ - ६४ - बैदः बैदौ ।

६३ - ६४ - बैदस्य अपत्यम् बहवः माणवकाः इति विगृह्य बिदशब्दात् बहुषु उत्पत्तिः भविष्यति ।

६४ - ६४ - बिदा इति अविरविकन्यायेन ।

१ - १७ - यूनि लुक् अचि इति चेत् प्रत्ययस्य अयथेष्टप्रसङ्गः ।

२ - १७ - यूनि लुक् अचि इति चेत् प्रत्ययस्य अयथेष्टम् प्राप्नोति ।

३ - १७ - अनिष्टे प्रत्यये अवस्थिते लुक् ।

४ - १७ - अनिष्टप्रत्ययस्य श्रवणम् प्रस्ज्येत ।

५ - १७ - सिद्धम् तु अविशेषेण लुग्वचनम् हलि च प्रतिषेधः ।

६ - १७ - सिद्धम् एतत् ।

७ - १७ - कथम् ।

८ - १७ - अविशेषेण लुकम् उक्त्वा हलि न इति वक्ष्यामि ।

९ - १७ - सिध्यति ।

१० - १७ - सूत्रम् तर्हि भिद्यते ।

११ - १७ - यथान्यासम् एव अस्तु ।

१२ - १७ - ननु च उक्तम् यूनि लुक् अचि इति चेत् प्रत्ययस्य अयथेष्टप्रसङ्गः इति ।

१३ - १७ - न एषः दोषः. अचि इति न एषा परसप्तमी ।

१४ - १७ - का तर्हि ।

१५ - १७ - विषयसप्तमी ।

१६ - १७ - अजादौ विषये इति ।

१७ - १७ - तत्र अचि विषये लुके कृते यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति ।

१ - ५० - कानि पुनः अस्य योगस्य प्रयोजनानि ।

२ - ५० - प्रयोजनम् सौवीरगोत्रेभ्यः णठक्छाः ।

३ - ५० - ण ।

४ - ५० - फाण्टाहृतेः अपत्यम् माणवकः फाण्टाहृतः ।

५ - ५० - फाण्टहृतस्य यूनः छात्राः फाण्टाहृताः ।

६ - ५० - ण ।

७ - ५० - ठक् ।

८ - ५० - भागवित्तेः अपत्यम् माणवकः भागवित्तिकः ।

९ - ५० - भागवित्तिकस्य यूनः छात्राः भागवित्ताः ।

१० - ५० - ठक् ।

११ - ५० - तैलायनेः अपत्यम् माणवकः तैलायनीयः ।

१२ - ५० - तैलायनीय यूनः छात्राः तैलायनीयाः ।

१३ - ५० - इञ्ण्यौ सर्वत्र ।

१४ - ५० - इञ्ण्यौ सर्वत्र प्रयोजनम् ।

१५ - ५० - औपगवेः यूनः छात्राः औपगवीयाः ।

१६ - ५० - वृद्धवदतिदेशे सति इञः गोत्रे इति अण् प्राप्नोति ।

१७ - ५० - न एषः दोषः ।

१८ - ५० - प्रत्याख्यायते असौ अतिदेशः ।

१९ - ५० - कथम् यानि प्रयोजनानि ।

२० - ५० - तानि ज्ञापकेन सिद्धानि ।

२१ - ५० - यत्खच्छान्तात् तर्हि इञः प्रयोजनम् ।

२२ - ५० - यत् ।

२३ - ५० - श्वशुरस्य अपत्यम् श्वशुर्यः ।

२४ - ५० - श्वशुर्यस्य अपत्यम् श्वाशुरिः ।

२५ - ५० - श्वाशुरेः यूनः छात्राः श्वाशुराः ।

२६ - ५० - यत् ।

२७ - ५० - ख ।

२८ - ५० - कुलस्य अपत्यम् कुलीनः ।

२९ - ५० - कुलीनस्य अपत्यम् कौलीनिः ।

३० - ५० - कौलीनेः यूनः छात्राः कौलीनाः ।

३१ - ५० - ख ।

३२ - ५० - छ ।

३३ - ५० - स्वसुः अपत्यम् स्वस्रीयः ।

३४ - ५० - स्वस्रीयस्य अपत्यम् स्वास्रीयिः ।

३५ - ५० - स्वास्रीयेः यूनः छात्राः स्वास्रीयाः ।

३६ - ५० - एतानि अपि हि न सन्ति प्रयोजनानि ।

३७ - ५० - अत्र अपि यूनि श्वशुर्यः कुलीनः स्वस्रीयः इति एव भवितव्यम् ।

३८ - ५० - उक्तम् एतत् अणिञोः लुकि अब्राह्मणगोत्रमात्रात् युवप्रत्ययस्य उपसङ्ख्यानम् इति ।

३९ - ५० - अब्राह्मणगोत्रमात्रात् इति उच्यते ।

४० - ५० - न च एतत् अब्राह्मणगोत्रमात्रम् ।

४१ - ५० - अब्राह्मणगोत्रमात्रात् इति न अयम् पर्युदासः यत् अन्यत् ब्राह्मणगोत्रमात्रात् इति ।

४२ - ५० - किम् तर्हि प्रसज्य अयम् प्रतिषेधः ब्राह्मणगोत्रमात्रात् न इति ।

४३ - ५० - अवश्यम् च एतत् एवम् विज्ञेयम् मायुरिः कापोतिः कापिञ्जलिः इति एवमर्थम् ।

४४ - ५० - एवम् तर्हि अण्ण्यौ सर्वत्र प्रयोजनम् ।

४५ - ५० - अण् ।

४६ - ५० - ग्लुचुकायनेः अपत्यम् माणवकः ग्लौचुकायनः ।

४७ - ५० - ग्लौचुकायनस्य यूनः छात्राः ग्लौचुकायनाः ।

४८ - ५० - ण्यः च कापिञ्जलाद्यर्थम् ।

४९ - ५० - कापिञ्जलेः अपत्यम् माणवकः कापिञ्जलाद्यः ।

५० - ५० - तस्य यूनः छात्राः कापिञ्जलादाः ।

१ - ४३ - प्राग्दीव्यतोधिकारे यूनः वृद्धवदतिदेशः । प्राग्दीव्यतोधिकारे यूनः वृद्धवदतिदेशः कर्तव्यः ।

२ - ४३ - युवा वृद्धवत् भवति इति वक्तव्यम् ।

३ - ४३ - गार्ग्यायणानाम् समूहः गार्ग्याणकम् ।

४ - ४३ - गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् ।

५ - ४३ - गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः ।

६ - ४३ - गोत्राश्रयः वुञ् यथा स्यात् ।

७ - ४३ - यदि वृद्धवदतिदेशः क्रियते औपगवेः यूनः छात्राः औपगवीयाः इति इञः गोत्रे इति अण् प्राप्नोति ।

८ - ४३ - यदि पुनः युवा वृद्धवत् इति अनेन अनुत्पत्तिः अतिदिश्येत ।

९ - ४३ - कथम् पुनः युवा वृद्धवत् इति अनेन अनुत्पत्तिः शक्या अतिदेष्टुम् ।

१० - ४३ - वतिनिर्देशः अयम् कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् ।

११ - ४३ - तत् यथा उशीनरवत् मद्रेषु यवाः ।

१२ - ४३ - सन्ति न सन्ति इति ।

१३ - ४३ - मातृवत् अस्याः कलाः ।

१४ - ४३ - सन्ति न सन्ति इति ।

१५ - ४३ - एवम् इह अपि युवा वृद्धवत् भवति वृद्धवत् न भवति इति एवम् वाक्यशेषम् समर्थयिष्यामहे ।

१६ - ४३ - यथ गोत्रे युवप्रत्ययः न भवति एवम् प्राग्दीव्यतोधिकारे यूनि अपि न भवति इति ।

१७ - ४३ - तत् वक्तव्यम् ।

१८ - ४३ - यदि अपि एतत् उच्यते अथ वा एतर्हि यूनि लुक् इति एतत् न क्रियते ।

१९ - ४३ - कथम् तर्हि फक्फिञोः अन्यतरस्याम् इति ।

२० - ४३ - फक्फिञ्वर्ती युवा वा वृद्धवत् भवति इति वक्ष्यामि ।

२१ - ४३ - यदा तर्हि न वृद्धवत् तदा गार्ग्यायणानाम् समूहः गार्ग्याणकम् गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ् न प्राप्नोति ।

२२ - ४३ - यदि पुनः युवा वृद्धवत् इति अनेन अर्थः अतिदिश्येत ।

२३ - ४३ - प्राग्दीव्यतोधिकारेयूनः वृद्धवत् अर्थः भवति इति ।

२४ - ४३ - तत् वक्तव्यम् ।

२५ - ४३ - यदि अपि एतत् उच्यते अथ वा एतर्हि यूनि लुक् इति एतत् न करिष्यते ।

२६ - ४३ - कथम् तर्हि फक्फिञोः अन्यतरस्याम् इति ।

२७ - ४३ - फक्फिञ्वर्ती युवार्थः वा वृद्धवत् भवति इति वक्ष्यामि ।

२८ - ४३ - यदा तर्हि न वृद्धवत् तदा गार्ग्यायणानाम् समूहः गार्ग्याणकम् गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ् न प्राप्नोति ।

२९ - ४३ - एवम् तर्हि राजन्यात् वुञ् मनुष्यात् च ज्ञापकम् लौकिकम् परम् ।

३० - ४३ - यत् अयम् वुञ्विधौ राजन्यमनुष्ययोः ग्रहणम् करोति तत् ज्ञापयति आचार्यः लौकिकम् परम् गोत्रग्रहणम् इति ।

३१ - ४३ - युवा च लोके गोत्रम् इति उपचर्यते ।

३२ - ४३ - किङ्गोत्रः असि माणवकः ।

३३ - ४३ - गार्ग्यायणः ।

३४ - ४३ - किङ्गोत्रः असि माणवकः ।

३५ - ४३ - वात्स्यायनः ।

३६ - ४३ - यदि एतत् ज्ञाप्यते औपगवेः यूनः छात्राः औपगवीयाः गोत्राश्रयः इञः गोत्रे इति अण् प्राप्नोति ।

३७ - ४३ - सामुहिकेषु ज्ञापकम् ।

३८ - ४३ - यदि सामुहिकेषु ज्ञापकम् गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ् न प्राप्नोति ।

३९ - ४३ - वुञ्विधौ ज्ञापकम् ।

४० - ४३ - वुञ्विधौ ज्ञापकम् शालङ्केः यूनः छात्राः शालङ्काः इञः गोत्रे इति अण् न प्राप्नोति ।

४१ - ४३ - अस्तु तर्हि अविशेषेण ।

४२ - ४३ - कथम् औपगवेः यूनः छात्राः औपगवीयाः ।गोत्रेण इञम् विशेषयिष्यामः ।

४३ - ४३ - गोत्रे यः इञ् विहितः इति ।

१ - २० - तस्य इदम् इति अपत्ये अपि ।

२ - २० - तस्य इदम् इति अपत्ये अपि अण् सिद्धः ।

३ - २० - तस्येदंविशेषाः हि एते अपत्यम् समूहः विकारः तस्य निवासः इति ।

४ - २० - किम् अर्थम् तर्हि इदम् उच्यते ।

५ - २० - बाधनार्थम् कृतम् भवेत् ।

६ - २० - ये तस्य बाधकाः तद्बाधनार्थम् ।

७ - २० - कथम् पुनः अशैषिकः शैषिकम् बाधेत ।

८ - २० - उत्सर्गः शेषः एव असौ । यः हि उत्सर्गः सः अपि शेषः एव ।

९ - २० - अथ एतस्मिन् बाधकबाधने सति किम् प्रयोजनम् ।

१० - २० - वृद्धानि अस्य प्रयोजनम् ।

११ - २० - वृद्धानि प्रयोजयन्ति ।

१२ - २० - भानोः अपत्यम् भानवः ।

१३ - २० - श्यामगोः अपत्यम् श्यामगवः ।

१४ - २० - कथम् पुनः इच्छता अपि अपवादः प्राप्नुवन् शक्यः बाधितुम् ।

१५ - २० - तस्यग्रहणसामर्थ्यात् ।

१६ - २० - किम् इदम् भवान् अध्यारुह्य तस्यग्रहणस्य एव प्रयोजनम् आह न पुनः सर्वस्य एव योगस्य ।

१७ - २० - अवश्यम् उत्तराथम् अर्थनिर्देशः कर्तव्यः ।

१८ - २० - समर्थविभक्तिः अपि तर्हि अवश्यम् उत्तरार्थम् प्रतिनिर्देष्टव्या ।

१९ - २० - एवम् तर्हि योगविभागकरणसामर्थ्यात् ।

२० - २० - इतरथा हि तस्य अपत्यम् अतः इञ् भवति इति एव ब्रूयात् ।

१ - ५९ - पुंलिङ्गेन अयम् निर्देशः क्रियते एकवचनान्तेन च ।

२ - ५९ - तेन पुंलिङ्गात् एव उत्पत्तिः स्यात् एकवचनान्तात् च ।

३ - ५९ - स्त्रीनपुंसकलिङ्गात् द्विवचनबहुवचनान्तात् च इदम् न स्यात् ।

४ - ५९ - तद्धितार्थनिर्देशे लिङ्गवचनम् अप्रमाणम् तस्य अविवक्षितत्वात् ।

५ - ५९ - तद्धितार्थनिर्देशे लिङ्गवचनम् अप्रमाणम् ।

६ - ५९ - किम् कारणम् ।

७ - ५९ - तस्य अविवक्षितत्वात् ।

८ - ५९ - न अत्र निर्देशः तन्त्रम् ।

९ - ५९ - कथम् पुनः तेन एव च नाम निर्देशः क्रियते तत् च अतन्त्रम् स्यात् ।

१० - ५९ - तत्कारी च भवान् तद्द्वेषी च ।

११ - ५९ - नान्तरीयकत्वात् अत्र पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च. अवश्यम् कया चित् विभक्त्या केन चित् वचनेन निर्देशः कर्तव्य इति ।

१२ - ५९ - तत् यथा ।

१३ - ५९ - कः चित् अन्नार्थी शालिकलापम् सपलालम् सतुषम् आहरति नान्तयीयकत्वात् ।

१४ - ५९ - सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति ।

१५ - ५९ - तथा कः चित् मांसार्थी मत्स्यान् सकण्टकान् सशकलान् आहरति नान्तयीयकत्वात् ।

१६ - ५९ - सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति ।

१७ - ५९ - एवम् इह अपि नान्तरीयकत्वात् पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च. न हि अत्र निर्देशः तन्त्रम् ।

१८ - ५९ - सर्वनामनिर्देशे विशेषासम्प्रत्ययः सामान्यनिर्देशात् ।

१९ - ५९ - सर्वनामनिर्देशे विशेषस्य असम्प्रत्ययः ।

२० - ५९ - किम् कारणम् ।

२१ - ५९ - सामान्यनिर्देशात् ।

२२ - ५९ - सर्वनाम्ना अयम् निर्देशः क्रियते ।

२३ - ५९ - सरनाम च सामान्यवाचि ।

२४ - ५९ - तेन सामान्यवाचिनः एव उत्पत्तिः स्यात् ।

२५ - ५९ - विशेषवाचिनः न स्यात् ।

२६ - ५९ - सामान्यचोदनाः तु विशेषेषु ।

२७ - ५९ - सामान्यचोदनाः तु विशेषेषु अवतिष्ठन्ते ।

२८ - ५९ - तत् यथा गौः अनूबध्यः अजः अग्नीषोमीयः इति आकृतौ चोदितायाम् द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनादीनि क्रियन्ते ।

२९ - ५९ - विषमः उपन्यासः ।

३० - ५९ - अस्ति कारणम् येन एतत् एवम् भवति ।

३१ - ५९ - किम् कारणम् ।

३२ - ५९ - असम्भवात् ।

३३ - ५९ - आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते ।

३४ - ५९ - इदम् अपि एवञ्जातीयकम् एव ।

३५ - ५९ - असम्भवात् सामान्यवाचिनः उत्पत्तौ विशेषवाचिनः उत्पत्तिः भविष्यति ।

३६ - ५९ - अपत्याभिधाने स्त्रीपुंलिङ्गस्य अप्रसिद्धिः नपुंसकत्वात् ।

३७ - ५९ - अपत्याभिधाने स्त्रीपुंलिङ्गस्य अप्रसिद्धिः ।

३८ - ५९ - किम् कारणम् ।

३९ - ५९ - नपुंसकलिङ्गत्वात् ।

४० - ५९ - अपत्यम् नपुंसकलिङ्गम् ।

४१ - ५९ - तेन नपुंसकलिङ्गस्य एव अभिधानम् स्यात् ।

४२ - ५९ - स्त्रीपुंलिङ्गस्य न स्यात् ।

४३ - ५९ - ननु च इदम् पुरस्तात् एव चोदितम् परिहृतम् च ।

४४ - ५९ - उत्पत्तिः तत्र चोद्यते ।

४५ - ५९ - इह पुनः उत्पन्नेन अभिधानम् चोद्यते ।

४६ - ५९ - सिद्धम् तु प्रजनस्य विवक्षितत्वात् ।

४७ - ५९ - सिद्धम् एतत् ।

४८ - ५९ - कथम् ।

४९ - ५९ - प्रजनस्य विवक्षितत्वात् ।

५० - ५९ - प्रजनः अत्र विवक्षितः सः च सर्वलिङ्गः ।

५१ - ५९ - किम् पुनः कारणम् समानायाम् प्रवृत्तौ अपत्यम् नपुंसकलिङ्गम् प्रजनः सर्वलिङ्गः ।

५२ - ५९ - एकार्थे शब्दान्यत्वात् दृष्टम् लिङ्गान्यत्वम् ।

५३ - ५९ - एकार्थे शब्दान्यत्वात् लिङ्गान्यत्वम् दृश्यते ।

५४ - ५९ - तत् यथा पुष्यः तारकाः नक्षत्रम् ।

५५ - ५९ - गेहम् कुटी मठः इति ।

५६ - ५९ - अवयवान्यत्वात् च ।

५७ - ५९ - अवयवान्यत्वात् च लिङ्गान्यत्वम् दृश्यते ।

५८ - ५९ - तत् यथा कुटी कुटीरः शमी शमीरः शुण्डा शुण्डारः ।

५९ - ५९ - अवयवान्यत्वात् किल लिङ्गान्यत्वम् स्यात् किम् पुनः यत्र शब्दान्यत्वम् अपि ।

१ - २०० - किमर्थम् इदम् उच्यते ।

२ - २०० - उत्पादयितारम् प्रति अपत्ययोगात् तस्य च विवक्षितत्वात् एकवचनम् गोत्रे ।

३ - २०० - उत्पादयिता उत्पादयिता अपत्येन युज्यते ।

४ - २०० - तस्य च विवक्षितत्वात् ।

५ - २०० - उत्पादयितुः सः च अभिसम्बन्धः विवक्षितः ।

६ - २०० - उत्पादयितारम् प्रति अपत्ययोगात् तस्य च अभिसम्बन्धस्य विवक्षितत्वात् उत्पादयितुः उत्पादयितुः अपत्याभिधाने अनेकः प्रत्ययः प्राप्नोति ।

७ - २०० - इष्यते च एकः एव स्यात् इति ।

८ - २०० - तत् च अन्तरेण यत्नम् न सिध्यति इति एकवचनम् गोत्रे ।

९ - २०० - एवमर्थम् इदम् उच्यते ।

१० - २०० - कथम् पुनः ज्ञायते उत्पादयिता उत्पादयिता अपत्येन युज्यते इति ।

११ - २०० - एवम् हि दृश्यते लोके ।

१२ - २०० - पितामहस्य उत्सङ्गे दारकम् आसीनम् कः चित् पृच्छति कस्य अयम् इति ।

१३ - २०० - सः आह देवदत्तस्य यज्ञदत्तस्य वा इति ।

१४ - २०० - उत्पादयितारम् व्यपदिशति न आत्मानम् ।

१५ - २०० - अस्ति प्रयोजनम् एतत् ।

१६ - २०० - किम् तर्हि इति ।

१७ - २०० - तत्र प्रत्ययान्तात् गोत्रे प्रतिषेधः गोत्रे नियतत्वात् ।

१८ - २०० - तत्र प्रत्ययान्तात् गोत्रे प्रतिषेधः वक्तव्यः ।

१९ - २०० - औपगवस्य अपत्यम् इति ।

२० - २०० - किम् कारणम् ।

२१ - २०० - गोत्रे नियतत्वात् ।

२२ - २०० - गोत्रे हि अयम् नियमः क्रियते ।

२३ - २०० - तेन यः च असौ यथाजातीयकः च गोत्रप्रत्ययः प्राप्नोति सः एकः स्यात् ।

२४ - २०० - कः च प्राप्नोति ।

२५ - २०० - यः प्रत्ययान्तात् ।

२६ - २०० - परमप्रकृतेः च उत्पत्तिः ।

२७ - २०० - परमप्रकृतेः च उत्पत्तिः वक्तव्या ।

२८ - २०० - अयोगात् हि न प्राप्नोति ।

२९ - २०० - एतयोः च एव परिहारः पठिष्यति हि आचार्यः यूनि च अन्तर्हिते अप्राप्तिः इति तस्य च यथा तत्प्रत्ययान्तम् ।

३० - २०० - यथा तत् एव विकारावयवप्रत्ययान्तम् द्वितीयम् च तृतीयम् च विकारम् सङ्क्रामति एवम् इह अपि तत् एव अपत्यप्रत्ययान्तम् द्वितीयम् च तृतीयम् च अपत्यम् सङ्क्रमिष्यति ।

३१ - २०० - भवेत् सिद्धम् औपगवस्य अपत्यम् औपगवः यत्र सः एव अनन्तरः इष्यते सः एव गोत्रे ।

३२ - २०० - इदम् तु खलु न सिध्यति गर्गस्य अपत्यम् गार्ग्यः इति ।

३३ - २०० - अत्र हि अन्यः अनन्तरः इष्यते अन्यः गोत्रे ।

३४ - २०० - स्त्रियाम् च अनियमः ।

३५ - २०० - स्त्रियाम् च युवत्याम् नियमः न प्राप्नोति ।

३६ - २०० - औपगवी माणवकी ।

३७ - २०० - नियमात् हि स्त्री पर्युदस्यते एकः गोत्रे गोत्रात् यूनि अस्त्रियाम् इति ।

३८ - २०० - कतरस्मिन् पक्षे अयम् दोषः ।

३९ - २०० - उत्पादयितरि अपत्ययुक्ते ।

४० - २०० - उत्पादयितरि तावत् अपत्ययुक्ते न दोषः ।

४१ - २०० - उत्पादयितरि हि अपत्ययुक्ते न सर्वतः उत्पत्त्या भवितव्यम् ।

४२ - २०० - तत्र नियमः न उपपद्यते ।

४३ - २०० - असति नियमे न एषः दोषः ।

४४ - २०० - सर्वेषु तर्हि अपत्ययुक्तेषु अयम् दोषः ।

४५ - २०० - सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवितव्यम् ।

४६ - २०० - तत्र नियमः उपपन्नः भवति ।

४७ - २०० - सति नियमे एषः दोषः ।

४८ - २०० - उत्पादयितरि च अपत्ययुक्ते स्त्रिया युवत्या अभिधानम् न प्राप्नोति ।

४९ - २०० - किम् कारणम् ।

५० - २०० - गोत्रसञ्ज्ञा युवसञाम् बाधते ।

५१ - २०० - गोत्रात् यूनि च अस्त्रियाम् प्रत्ययः विधीयते ।

५२ - २०० - यूनि च अन्तर्हिते अप्राप्तिः ।

५३ - २०० - यूनि च अन्तर्हिते नियमस्य अप्राप्तिः ।

५४ - २०० - गार्ग्यायणस्य अपत्यम् इति ।

५५ - २०० - कतरस्मिन् पक्षे अयम् दोषः ।

५६ - २०० - सर्वेषु अपत्ययुक्तेषु ।

५७ - २०० - सर्वेषु अपत्ययुक्तेषु तावत् न दोषः ।

५८ - २०० - सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवतिव्यम् ।

५९ - २०० - तत्र नियमः उपपन्नः भवति ।

६० - २०० - सति नियमे न एषः दोषः ।

६१ - २०० - उत्पादयितरि तर्हि अपत्ययुक्ते अयम् दोषः ।

६२ - २०० - उत्पादयितरि हि अपत्ययुक्ते परमप्रकृतेः अनन्तरात् गोत्रात् च अयोगात् न प्राप्नोति ।

६३ - २०० - यूनः च न प्राप्नोति ।

६४ - २०० - किम् कारणम् ।

६५ - २०० - गोत्रात् इति नियमात् ।

६६ - २०० - सन्तु तर्हि कथम् पुनः ज्ञायते सर्वे अपत्ययुक्ताः इति ।

६७ - २०० - एवम् हि याज्ञिकाः पठन्ति ।

६८ - २०० - दशपुरुषानूकम् यस्य गृहे शूद्राः न विद्येरन् सः सोमम् पिबेत् इति ।

६९ - २०० - यदि च सर्वे अपत्ययुक्ताः भवन्ति ततः एतत् उपपन्नम् भवति ।

७० - २०० - कथम् यत् उक्तम् पितामहस्य उत्सङ्गे दारकम् आसीनम् कः चित् पृच्छति कस्य अयम् इति ।

७१ - २०० - सः आह देवदत्तस्य यज्ञदत्तस्य वा इति ।

७२ - २०० - उत्पादयितारम् व्यपदिशति न आत्मानम् इति ।

७३ - २०० - उत्पत्तिः तस्य विवक्षिता ।

७४ - २०० - सर्वेषाम् न इदम् अपत्यम् ।

७५ - २०० - देवदत्तः तु अस्य उत्पादयिता इति ।

७६ - २०० - अथ सर्वेषु अपत्ययुक्तेषु किम् अनेन क्रियते एकः गोत्रे इति ।

७७ - २०० - सर्वेषाम् अपत्ययोगात् प्रत्ययान्तात् गोत्रे प्रतिषेधार्थम् एकः गोत्रे ।

७८ - २०० - सर्वेषाम् अपत्ययोगात् प्रत्ययान्तात् गोत्रे प्रतिषेधार्थम् एकः गोत्रे इति उच्यते ।

७९ - २०० - अस्ति प्रयोजनम् एतत् ।

८० - २०० - किम् तर्हि इति ।

८१ - २०० - न तु ज्ञायते कः एकः भवति यः वा परमप्रकृतेः यः वा अनन्तरात् इति ।

८२ - २०० - नियमानुपपत्तिः च ।

८३ - २०० - नियमः च न उपपद्यते ।

८४ - २०० - किम् कारणम् ।

८५ - २०० - न हि एकस्मिन् अपत्ये अनेकप्रत्ययप्राप्तिः ।

८६ - २०० - न हि एकस्मिन् अपत्ये अनेकप्रत्ययः प्राप्नोति ।

८७ - २०० - किम् तर्हि ।

८८ - २०० - अपत्यान्तरे शब्दान्तरात् प्रत्ययान्तरप्राप्तिः ।

८९ - २०० - अपत्यान्तरे अपत्यान्तर शब्दान्तरात् शब्दान्तरात् प्रत्ययान्तरम् प्रत्ययान्तरम् प्राप्नोति ।

९० - २०० - फकन्तात् इञ् इञन्तात् फक् इति फगिञोः दाशतयी प्रत्ययमाला प्राप्नोति ।

९१ - २०० - कतरस्मिन् पक्षे अयम् दोषः ।

९२ - २०० - सर्वेषु अपत्ययुक्तेषु ।

९३ - २०० - सर्वेषु अपत्ययुक्तेषु तावत् न दोषः ।

९४ - २०० - सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवतिव्यम् ।

९५ - २०० - तत्र नियमः उपपन्नः भवति ।

९६ - २०० - सति नियमे न एषः दोषः ।

९७ - २०० - उत्पादयितरि तर्हि अपत्ययुक्ते अयम् दोषः ।

९८ - २०० - उत्पादयितरि हि अपत्ययुक्ते न सर्वतः उत्पत्त्या भवतिव्यम् ।

९९ - २०० - तत्र नियमः न उपपद्यते ।

१०० - २०० - असति नियमे एषः दोषः ।

१०१ - २०० - उत्पादयितरि च अपत्ययुक्ते न दोषः ।

१०२ - २०० - कथम् ।

१०३ - २०० - अपत्यम् समुदायः चेत् नियमः अत्र समीक्षितः ।

१०४ - २०० - तस्मिन् सुबहवः प्राप्ताः ।

१०५ - २०० - नियमः अस्य भविष्यति । अपत्यम् इति सर्वम् उपग्वादिपितृकम् अपत्यम् समीक्षितम् ।

१०६ - २०० - तस्मिन् सुबहवः प्रत्ययाः प्राप्ताः ।

१०७ - २०० - नियमः अस्य भविष्यति एकः गोत्रे इति ।

१०८ - २०० - यत् अपि उच्यते स्त्रियाम् च अनियमः इति एवम् वक्ष्यामि ।

१०९ - २०० - गोत्रात् यूनि प्रत्ययः भवति ।

११० - २०० - स्त्रियाम् न इति ।

१११ - २०० - एवम् अपि स्त्रियाः युवत्याः अभिधानम् न प्राप्नोति ।

११२ - २०० - एवम् तर्हि एवम् वक्ष्यामि ।

११३ - २०० - गोत्रात् यूनि प्रत्ययः भवति ।

११४ - २०० - स्त्रियाम् लुक् ।

११५ - २०० - एवम् अपि औपगवी माणविका अनुपसर्जनात् इति ईकारः न प्राप्नोति ।

११६ - २०० - मा भूत् एवम् अण् यः अनुपसर्जनम् इति ।

११७ - २०० - अणन्तात् अनुपसर्जनात् इति एवम् भविष्यति ।

११८ - २०० - न एवम् शक्यम् ।

११९ - २०० - इह हि दोषः स्यात् ।

१२० - २०० - काशकृत्स्निन प्रोक्ता मीमांसा काशकृत्स्नी ।

१२१ - २०० - ताम् अधीते काशकृत्स्ना ब्राह्मणी ।

१२२ - २०० - अणन्तात् इति ईकारः प्रसज्येत ।

१२३ - २०० - न एषः दोषः ।

१२४ - २०० - अध्येत्र्याम् अभिधेयायाम् अणः ईकारेण भवितव्यम् ।

१२५ - २०० - यः च अत्र अध्येत्र्याम् अभिधेयायाम् अण् लुप्तः सः यः च श्रूयते उत्पन्नः तस्मात् ईकारः इति कृत्वा पुनः न भविष्यति ।

१२६ - २०० - इह तर्हि औपगवी माणविका भार्या अस्य औपगवीभार्यः जातिलक्षणः पुंवद्भावप्रतिषेधः न प्राप्नोति ।

१२७ - २०० - मा भूत् एवम् ।

१२८ - २०० - वृद्धिनिमित्तस्य इति एवम् भविष्यति ।

१२९ - २०० - यः तर्हि न वृद्धिनिमित्तः ।

१३० - २०० - ग्लुचुकायनी माणविका भार्या अस्य ग्लुचुकायनीभार्यः ।

१३१ - २०० - तस्मात् स्त्रियाः युवत्याः युवसञ्ज्ञा एव पर्युदसितव्या ।

१३२ - २०० - तस्याम् च पर्युदस्तायाम् गोत्रप्रत्ययान्तम् एतत् यूनि वर्तते ।

१३३ - २०० - इह उत्पादयितरि अपत्ययुक्ते प्रत्ययान्तात् प्रतिषेधः वक्तव्यः परमप्रकृतेः च उत्पत्तिः वक्तव्या ।

१३४ - २०० - सर्वेषु अपत्ययुक्तेषु प्रत्ययान्तात् प्रतिषेधः वक्तव्यः ।

१३५ - २०० - तस्मात् प्रतिषेधः ।

१३६ - २०० - तस्मात् प्रतिषेधः वक्तव्यः ।

१३७ - २०० - सञ्ज्ञाकारिभ्यः वा प्रत्ययोत्पत्तिः ।

१३८ - २०० - अथ वा सञ्ज्ञाकारिभ्यः प्रत्ययोत्पत्तिः वक्तव्या ।

१३९ - २०० - यदि सञ्ज्ञाकारिभ्यः प्रत्ययोत्पत्तिः उच्यते कथम् गार्ग्यायणः वात्स्यायनः इति ।

१४० - २०० - गोत्रात् यूनि च ।

१४१ - २०० - गोत्रात् यूनि इति एतत् वक्तव्यम् ।

१४२ - २०० - तत् च जात्यादिनिवृत्त्यर्थम् ।

१४३ - २०० - तत् च अवश्यम् सञ्ज्ञाकारिग्रहणम् कर्तव्यम् ।

१४४ - २०० - किम् प्रयोजनम् ।

१४५ - २०० - जात्यादिनिवृत्त्यर्थम् ।

१४६ - २०० - जात्यादिभ्यः उत्पत्तिः मा भूत् इति ।

१४७ - २०० - जातिः न वर्तते ।

१४८ - २०० - सङ्ख्या न वर्तते ।

१४९ - २०० - सर्वनाम न वर्तते ।

१५० - २०० - जातिः न वर्तते ।

१५१ - २०० - काकस्य अपत्यम् कुररस्य अपत्यम् इति ।

१५२ - २०० - सङ्ख्या न वर्तते ।

१५३ - २०० - नवानाम् अपत्यम् दशानाम् अपत्यम् इति ।

१५४ - २०० - सर्वनाम न वर्तते ।

१५५ - २०० - सर्वेषाम् अपत्यम् विश्वेषाम् अपत्यम् इति ।

१५६ - २०० - यत् तावत् उच्यते जातिः न वर्तते ।

१५७ - २०० - काकस्य अपत्यम् कुररस्य अपत्यम् इति ।

१५८ - २०० - येन एव हेतुना एकः काकः तेन एव हेतुना द्वितीयः तृतीयः च काकः भविष्यति ।

१५९ - २०० - यत् अपि उच्यते सङ्ख्या न वर्तते ।

१६० - २०० - नवानाम् अपत्यम् दशानाम् अपत्यम् इति ।

१६१ - २०० - सङ्ख्येयम् अपेक्ष्य सङ्ख्या प्रवर्तते ।

१६२ - २०० - तत् सापेक्षम् सापेक्षम् च असमर्थम् भवति इति असामर्थ्यात् न भविष्यति ।

१६३ - २०० - यत् अपि उच्यते सर्वनाम न वर्तते ।

१६४ - २०० - सर्वेषाम् अपत्यम् विश्वेषाम् अपत्यम् इति ।

१६५ - २०० - निर्देश्यम् अपेक्ष्य सर्वनाम वर्तते ।

१६६ - २०० - तत् सापेक्षम् सापेक्षम् च असमर्थम् भवति इति असामर्थ्यात् न भविष्यति ।

१६७ - २०० - यत् तावत् उच्यते येन एव हेतुना एकः काकः तेन एव हेतुना द्वितीयः तृतीयः च काकः भविष्यति इति ।

१६८ - २०० - न एतत् विवदामहे काकः न काकः इति ।

१६९ - २०० - किम् तर्हि ।

१७० - २०० - येन एव हेतुना एतत् वाक्यम् भवति काकस्य अपत्यम् कुररस्य अपत्यम् इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति ।

१७१ - २०० - यद् अपि उच्यते सङ्ख्येयम् अपेक्ष्य सङ्ख्या प्रवर्तते ।

१७२ - २०० - तत् सापेक्षम् सापेक्षम् च असमर्थम् भवति इति ।

१७३ - २०० - भवति वै कस्य चित् अर्थात् प्रकरणात् वा अपेक्ष्यम् निर्ज्ञातम् ।

१७४ - २०० - यदा निर्ज्ञातम् तदा वृत्तिः प्राप्नोति ।

१७५ - २०० - यद् अपि उच्यते निर्देश्यम् अपेक्ष्य सर्वनाम वर्तते ।

१७६ - २०० - तत् सापेक्षम् सापेक्षम् च असमर्थम् भवति इति ।

१७७ - २०० - भवति वै कस्य चित् अर्थात् प्रकरणात् वा अपेक्ष्यम् निर्ज्ञातम् ।

१७८ - २०० - यदा निर्ज्ञातम् तदा वृत्तिः प्राप्नोति ।

१७९ - २०० - एवम् तर्हि अनभिधानात् जात्यादिभ्यः उत्पत्तिः न भविष्यति ।

१८० - २०० - तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् ।

१८१ - २०० - क्रियमाणे अपि हि सञ्ज्ञाकारिग्रहणे यत्र जात्यादिभ्यः उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानम् भवति भवति तत्र उत्पत्तिः ।

१८२ - २०० - तत् यथा ।

१८३ - २०० - कुतः चरति मायूरिः केन कापिञ्जलिः कृशः आहेयेन च दष्टस्य पाञ्चिः सुतमसः मतः ।

१८४ - २०० - तादायनिः , यादायनिः , कैमायनिः इति ।

१८५ - २०० - तत् एतत् अनन्यार्थम् सञ्ज्ञाकारिग्रहणम् वा कर्तव्यम् प्रत्ययान्तात् व प्रतिषेधः वक्तव्यः ।

१८६ - २०० - उभयम् न कर्तव्यम् ।

१८७ - २०० - गोत्रग्रहणम् न करिष्यते ।

१८८ - २०० - एकः अपत्ये प्रत्ययः भवति इति एव ।

१८९ - २०० - यदि च इदानीम् प्रत्ययान्तात् अपि प्रत्ययः स्यात् न एकः अपत्ये प्रत्ययः स्यात् ।

१९० - २०० - यदि गोत्रग्रहणम् न क्रियते कथम् गार्ग्यायणः वात्स्यायनः इति ।

१९१ - २०० - वक्तव्यम् एव एतत् गोत्रात् यूनि अस्त्रियाम् इति ।

१९२ - २०० - अथ अपि गोत्रग्रहणम् क्रियते एवम् अपि न दोषः ।

१९३ - २०० - न एकग्रहणेन प्रत्ययः अभिसम्बध्यते एकः गोत्रे प्रत्ययः भवति इति ।

१९४ - २०० - किम् तर्हि ।

१९५ - २०० - प्रकृतिः अभिसम्बध्यते एका प्रकृतिः गोत्रे प्रत्ययम् उत्पादयति ।

१९६ - २०० - यदि च इदानीम् प्रत्ययान्तात् अपि प्रत्ययः स्यात् न एका प्रकृतिः गोत्रे प्रत्ययम् उत्पादयेत् ।

१९७ - २०० - अथ वा अस्थाने अयम् यत्नः क्रियते ।

१९८ - २०० - न हि इदम् लोकात् भिद्यते ।

१९९ - २०० - लोके सञ्ख्याम् प्रवर्तमानाम् उपचरन्ति एकः इति वा प्रथमः इति वा ।

२०० - २०० - यावत् ब्रूयात् प्रथमः अपत्ये प्रत्ययम् उत्पादयति तावत् एकः गोत्रे इति ।

१ - १७ - इञः वृद्धावृद्धाभ्याम् फिञ्फिनौ विप्रतिषेधेन ।

२ - १७ - इञः वृद्धावृद्धाभ्याम् फिञ्फिनौ भवतः विप्रतिषेधेन ।

३ - १७ - इञः अवकाशः दाक्षिः प्लाक्षिः ।

४ - १७ - फिञः अवकाशः तादायनिः यादायनिः ।

५ - १७ - इह उभयम् प्राप्नोति तापसायनिः साम्मितिकायनिः ।

६ - १७ - फिनः अवकाशः त्वचायनिः स्रुचायनिः ।

७ - १७ - इञः सः एव ।

८ - १७ - इह उभयम् प्राप्नोति ग्लुचुकायनिः मुलुचुकायनिः ।

९ - १७ - फिञ्फिनौ भवतः विप्रतिषेधेन ।

१० - १७ - इह कस्मात् न भवति दाक्षिः प्लाक्षिः ।

११ - १७ - बहुलवचनात् ।

१२ - १७ - तद्राजः च ।

१३ - १७ - तद्राजः च इञः भवति विप्रतिषेधेन ।

१४ - १७ - तद्राजसय अवकाशः ऐक्ष्वकः ।

१५ - १७ - इञः सः एव ।

१६ - १७ - इह उभयम् प्राप्नोति पाञ्चालः वैदेहः वैदर्भः ।

१७ - १७ - तद्राजः भवति विप्रतिषेधेन ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP