संस्कृत सूची|संस्कृत साहित्य|कालविलास| सर्ग ९ कालविलास सर्ग १ सर्ग २ सर्ग ३ सर्ग ४ सर्ग ५ सर्ग ६ सर्ग ७ सर्ग ८ सर्ग ९ सर्ग १० कालविलास - सर्ग ९ कालविलास हास्य प्रहसन का एक अत्युत्तम ग्रंथ है । Tags : kalavilaspoemकालविलासकाव्यसंस्कृत नानाधूर्तवर्णनम् Translation - भाषांतर वाञ्चकमाया महती महीतले जलधिमेखले निखिले ।नष्टधियां मत्स्यानां जालाली धीवरैर्विहिता ॥१॥सर्वस्वमेव परमं प्राणा येषां कृते प्रयत्नोऽयम् ।वैद्या वेद्याः सततं येषां हस्ते स्थितास्तेऽपि ॥२॥एते हि देहदाहाद् विरहा इव दुःसहा भिषजः ।ग्रीष्मदिवसा इवोग्रा बहुतृष्णः शोषयन्त्य् एव ॥३॥विविधौषधपरिवतैर्योगैः जिज्ञासया स्वविद्यायाः ।हत्वा नृणां सहस्रं पश्चाद्वैद्यो भवेत्सिद्धः ॥४॥विन्यस्य राशिचक्रं ग्रहचिन्तां नाटयर्मुखविकारैः ।अनुवदति चिरार्गणको यत् किंचित् प्राश्निकेनोक्तम् ॥५॥गणयति गगने गणकः चन्द्रेण समागमं विशाखायाः ।विविधभुजंगक्रीडासक्तां गृहिणीं न जानाति ॥६॥प्रथमं स्ववित्तमखिलं कनकार्थी भस्मसात् कृत्वा ।पश्चात् सधनान्रसिकान् विनाशयत्य् एष वर्णिकानिपुनः ॥७॥शतवेधी सिद्धो मे सहस्रवेधी रसोऽपि निर्यातः ।इति वदति धातुवादी नग्नो मलिनः कृशो रूक्षः ॥८॥ताम्रघटोपमशीर्षो धूर्तो हि रसायनी जराजीर्णः ।केशोत्पादनकथया खल्वाटानेव मुष्णाति ॥९॥प्रह्लादनशुचितारकशम्बररमणीजने ऽपि बद्धाशः ।बिल्वादिभिरतिकामी हुत्वा धूमान्धतामेति ॥१०॥खेचर्यः सुखसाध्या यत्नाद्यदि लभ्यते नभःकुसुमम् ।उक्ताः प्रयोगविद्भिः मशकास्थिषु सिद्धयो बहुधा ॥११॥कृष्णाश्वशकृद्वृत्या पश्यति गगने सुरेन्द्रभवनानि ।मण्डूकवसालिप्तो भवति पुमार्वल्लभोऽप्सरसाम् ॥१२॥इत्य् उक्त्वा पुनराशां दिशि दिशि विलसन्ति धूर्तसंघाताः ।यैर्विविधसिद्धिलुब्धाः क्षैप्ताः शतशो नराः श्वभ्रे ॥१३॥वश्याकर्षणयोगी पथि पथि रक्षां ददाति नारीणाम् ।रतिकामतन्त्रमूलं मूलं मन्त्रं न जानाति ॥१४॥बहवो रथ्यागुरवो लघुदीक्षाः स्वल्पयोगमुत्पाद्य ।व्याधा इव वर्धन्ते मुग्धानां द्रविणदारहराः ॥१५॥हस्तस्था धनरेखा विपुलतरास्या पतिश् च चलचित्तः ।मृद्नाति कुलवधूनाम् इत्य् उक्त्वा कमलकोमलं पाणिम् ॥१६॥बद्धेऽङ्गुष्ठे सलिले पश्यति विविधं जनभ्रमं कन्या ।न प्राप्यते च चोरो मोहोऽसाव् इन्द्रजालस्य ॥१७॥खादति पिबति च धूर्तः प्रलापकारी नृणां तलाघातैः ।चेटावेशं कृत्वा निर्मन्त्रक्षुद्रधूपेन ॥१८॥कक्षपुटे नागार्जुनलिखिता युक्तिर् विधीयतां धूपे ।यो हर्तुं मोहादिति धूर्तोऽग्नौ क्षिपति परवित्तम् ॥१९॥यक्षीपुत्राश् चोरा विज्ञेयाः कूटधूपकर्तारः ।येषां प्रत्यक्षफलं दारिर्द्यं राजभङ्गश् च ॥२०॥बहुतरधनेन वणिजा पुत्री सा पुत्रवर्गृहीतैव ।मदधीनेति कथाभिः कन्यार्थं भुज्यते धूर्तः ॥२१॥चिन्त्यः स्वेङितवादी मर्मज्ञो हृदयचौर एवासौ ।तिष्ठति परप्रयुक्तो मिथ्याबधिरोऽथवा मूकः ॥२२॥भस्मस्मेरा वेश्या वृद्धाः श्रमणाः सदैवता गणिकाः ।एताः कुलनारीणां चरन्ति धनशीलहारिण्यः ॥२३॥विधवा तरुणी सधना वाञ्चति दिव्यं भवद्विधं रमणम् ।धूर्तो जडमित्य् उक्त्वा सर्वस्वं तस्य भक्षयति ॥२४॥प्रत्यहवेतनयुक्ताः कर्मसु ये कार्य्शिल्पिनो धूर्ताः ।विलसन्तिकर्मविघ्नैः विज्ञेयाः कालचौरास्ते ॥२५॥अक्षव्याजैर्विविधैः गणनहस्तादिलाघवैर् निपुणाः ।धूर्ताश् चरन्ति गूढं प्रसिद्धकितवा विदेशेषु ॥२६॥भोजनमात्रोत्पत्तिः बहुव्ययो द्यूतमद्यवेश्याभिः ।विज्ञेयो गृहचौरो बन्धुजनो वेश्मदासो वा ॥२७॥कृतकं शास्त्रमसत्यं साक्षार्दृष्टश् च केन परलोकः ।इति वदति यः स शङ्क्यो निरङ्कुशो मत्तमातङ्गः ॥२८॥बहुलाभलुब्धमनसां हरन्ति ये दुःसहेन लाभेन ।ऋणधनमधिकविदग्धा विज्ञेया लाभचोरास्ते ॥२९॥अधिकरणाम्बुधिमध्ये ज्वलन्ति वडवाग्नयः सततभक्षाः ।जनधनघनमनसो ये भट्टाख्या न्यायचोरास्ते ॥३०॥विभवाम्भोरुहमधुपा दुःसहविपदनिलवेगविमुखा ये ।सुहृदस्ते सुखचौराः चरन्ति लक्ष्मीलताहूताः ॥३१॥यद्यत् किंचिरपूर्वं परिचरितं कल्पनादसंबद्धम् ।वर्णयति हर्षकारी बहुवचनः कर्णचौरोऽसौ ॥३२॥दोषेषु गुणस्तुतिभिः श्रद्धामुत्पाद्य चतुरवचना ये ।कुर्वन्त्यभिनवसृष्टिं स्थितिचौरास्ते निराचाराः ॥३३॥आत्मगुणख्यातिपराः परगुणमाच्छाद्य विपुलयत्नेन ।प्रभवन्ति परमधूर्ता गुणचौरास्ते विमूढहृदयेषु ॥३४॥वल्लभतामुपयाताः परवाल्लभ्यं विचित्रपैशुन्यैः ।ये नाशयन्ति धूर्ता मात्सर्यार्वृत्तिचौरास्ते ॥३५॥शमदमभक्तिविहीनस् तीव्रव्रतदुर्ग्रहग्रस्तः ।अभिभवति प्रतिपत्त्या साधुजनं कीर्तिचौरोऽसौ ॥३६॥देशान्तरसंभविभिः भोगवरैर्वर्णनारम्यैः ।येऽपि नयन्ति विदेशं पशुसदृशार्देशचौरास्ते ॥३७॥नानाहासविकारैः बहुवैदग्ध्यैः सनमवैचिर्त्यः ।रमयति दिवसमशेषं प्रकृतिव्यापारचौरोऽ सौ ॥३८॥भक्षैतनिजबहुविभवाः परविभवक्षपणदीक्षैताः पश्चात् ।अनिशं वेश्यावेशस्तुतिमुखरमुखा विटाश् चिन्त्याः ॥३९॥अतिशुचितया न वित्तं गृह्णाति करोति चाग्र्यमधिकारम् ।यो नियमसलिलमत्स्यः परिहार्यो निःस्पृहनियोगी ॥४०॥रथ्यावणिजः पापाः स्वयमेत्य गृहेषु यत्प्रयच्छन्ति ।तत्स्वकरार्पितमखिलं भवति परं काचशकलमपि ॥४१॥छन्दानुवर्तिनो ये श्वभ्रापातेऽपि साधुवादपराः ।सर्वस्वहारिणस्ते मधुरा विषव्द्विशन्त्यन्तः ॥४२॥तव नरपतिः प्रसादी गुणगणनपरः परं विजने ।उक्त्वेति राजदासैः सेवकलोकः सदा मुषितः ॥४३॥स्वप्ने मयाब्जहस्ताऌदृष्टा श्रीस्त्वद्गृहं प्रविष्टा सा ।मासोपविष्टतुष्टा देवी श्रीः सादरा प्राह ॥४४॥मद्भक्तस्ते दास्यति सर्वं तत्त्वं मया लब्धः ।इत्युक्त्वा सरलाणां विलसन्ति गृहे गृहे धूर्ताः ॥४५॥पुरविप्लवनगरोदययज्ञविवाहोत्सवादिजनसंघे ।प्रविशन्ति बन्धुवेषाः परेऽपि सर्वापहाराय ॥४६॥परिजनपानावसरे पिबति न मद्यं निशासु जागर्ति ।ध्यानपरः सेवार्थी किमपि च कर्तुं कृतोद्योगः ॥४७॥न ददाति प्रतिवचनं ददाति वा गद्गदाक्षरैर्विषमम् ।नष्टमुखः सोच्छ्वासः प्रवेपते तत्क्षणं चोरः ॥४८॥यश्चाधिकपरिशुद्धिं प्रार्थयते रटति यश्च साटोपह् ।घोरापह्नवकारी शङ्कायतनं स पापः स्यात् ॥४९॥प्रत्यक्षेऽपि परोक्षे कृतमकृतं कथितमप्यनुक्तं च ।यः कुरुते निर्विकृतिः स परं पुंसां भयस्थानम् ॥५०॥कृतकृतकमुग्धभावः षण्ढ इव स्त्रीस्वभावसंलापः ।विचरति यः स्त्रीमध्ये स कामदेवो गृहे धूर्तः ॥५१॥सततमधोमुखदृष्टिः कोषगृहे मूषकश्चिन्त्यः ।विलिखन्कोषनियुक्तः कोषगृहे मूषकश्चिन्त्यः ॥५२॥तिष्ठति यः सकलदिनं गृहदासः प्रीतवेश्मभवनेषु ।गृहदीर्घकथाः कथयन्स चरः सर्वात्मना त्याज्यः ॥५३॥निन्द्ये बहुदण्डार्हे कर्मणि यः सर्वथा प्रतारयति ।आजीवभीतिभोज्यस्तेन निबद्धः स्थिरो राशिह् ॥५४॥दृष्ट्वा गुह्यमशेषं तस्य रहस्यं च लीलया लब्ध्वा ।धूर्तेन मुग्ध्लोकस्तेन शिलापट्टके लिखितः ॥५५॥राजविरुद्धं द्रव्यं रूपं वा कूटलेख्यमन्यद्वा ।निःक्षिप्य यात्यलक्ष्यं धूर्तो धनिनां विनाशाय ॥५६॥क्षुद्रः क्षीनोऽपि गृहे लब्धास्वादः कृतो धनैर्येन ।शस्त्रविषपाशहस्तः स पाशहस्तो धृतस्तेन ॥५७॥लज्जाधनः कुलीनः संभावितशुद्धशीलमर्यादह् ।नारीक्रियते धूर्तैः प्रायेण सगर्भनारीभिः ॥५८॥दृष्टाभिरदृष्टाभिः क्रूराभिः कृतकवचनमुद्राभिः ।धूर्तो मुष्णाति वधूं मुग्धां विप्रोषिते पत्यौ ॥५९॥सजनेऽपि साधुवेषा विधृताभरणाश्च हेलया धूर्ताः ।धीरा हरन्ति सकलं दृष्टे हासोऽन्यथाऌलाभः ॥६०॥देशे कृत्वा स्फीते कुम्भधनो डम्बरैर्गृहं पूर्णम् ।निःक्षेपलक्षहारी वर्षेण पलायते धूर्तः ॥६१॥शुचितरकनकविभूषणतनुवस्त्राः संभ्रमेण पूज्यन्ते ।रिपुभग्नराजपुत्रव्याजेन गृहे गृहे धूर्ताः ॥६२॥आदाय देववृषभं पुण्यं छागं धूर्तविक्रीतं ।मुग्धस्य दुःखपाकः समर्घलाभोदितो हर्षः ॥६३॥साधिक्षेपत्यागो महतां संपत्सु यः कृतासूयः ।तस्मै भयेन वित्तं रिक्तो ऽपि ददाति यत्नेन ॥६४॥निःसारभूर्जसारैः कृत्वा युक्तं महासार्थम् ।धूर्तो दिशि दिशि विंचरन्धनिकसहस्राणि मुष्णाति ॥६५॥धूर्तो वसन्विदेशेषूद्दिश्य सुरापगागयायात्राम् ।मृतबन्धूनामार्थे द्रविणं गृह्णाति मुग्धेभ्यः ॥६६॥मुष्णाति सार्थरमणी शाटीमादाय निद्रया मुग्धान् ।धूर्तेन कूटरूपं दत्त्वा निशि वञ्च्यते सापि ॥६७॥बधिरं वाऌमूकं वाऌवणिजं निःक्षिप्य भाण्डशालायाम् ।धूर्तो नयति त्वरया बहुमूल्यं वर्णकद्रव्यम् ॥६८॥किंचित्परिचयमात्रैः किंचिद्धार्ष्ट्यैः सकल्पनैः किंचित् ।किंचिद्विवादकलहैः सर्वज्ञो वञ्चकश् चरति ॥६९॥मिथ्याडम्बरधनिकः पुस्तकविद्वान्कथाज्ञानी ।वर्णनशूरश्चपलः चतुर्मुखो जृम्भते धूर्तः ॥७०॥सर्वावयवविधूननकृतसंकेतान् विसृज्य गेहेषु ।भोक्तुं व्रजति दिगन्तान्स्वेच्छाचारी महाधूर्तः ॥७१॥शतवार्षिकमामलकं भुक्त्वा श्रीपर्वतादहं प्राप्तः ।धूर्तो वदति गुरूणां पुरतः शकुनं स्मरामीति ॥७२॥एता लेशेन मया कथिता मायाश्चतुःषष्टिः ।को वेद वञ्चकानां मायानां शतसहस्राणि ॥७३॥इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे नानाधूर्तवर्णनं नाम नवमः सर्गः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP