संस्कृत सूची|संस्कृत साहित्य|कालविलास| सर्ग १ कालविलास सर्ग १ सर्ग २ सर्ग ३ सर्ग ४ सर्ग ५ सर्ग ६ सर्ग ७ सर्ग ८ सर्ग ९ सर्ग १० कालविलास - सर्ग १ कालविलास हास्य प्रहसन का एक अत्युत्तम ग्रंथ है । Tags : kalavilaspoemकालविलासकाव्यसंस्कृत सर्गः १ Translation - भाषांतर अस्ति विशालं कमलालुलितपरिष्वङ्गमङ्गलायतनम् ।श्रीपतिवक्षःस्थलमिव रत्नोज्ज्वलमुज्ज्वलं नगरम् ॥१॥मणिभूबिम्बितमुक्ताप्रलम्बनिवहेन यत्र शेषाहिः ।भवनानि बिभर्ति सदा बहुधात्मानं विभज्येव ॥२॥विघ्नोऽभिसारिकाणां भवनगणः स्फाटिकप्रभाविकटः ।यत्र विराजति रजनीतिमिरपटप्रकटलुण्ठाकः ॥३॥यत्र त्रिनयननयनज्वलनज्वालावलीशलभवृत्तिः ।जीवति मानसजन्मा शशिवदनावदनकान्तिपीयूषैः ॥४॥रतिलुलितललितललनाक्लमजललववाहिनो मुहुर्यत्र ।श्लथकेशकुसुमपरिमलवासितदेहा वहन्त्यनिलाः ॥५॥नवबिसकिसलयकवलनकषायकलहंसकलरवो यत्र ।कमलवनेषु प्रसरति लक्ष्म्या इव नूपुरारावः ॥६॥नृत्यन्मुग्धमयूरा मरकतधारागृहावली सततम् ।सेन्द्रायुधधननिवहा प्रावृण्मूर्तेव यत्रास्ते ॥७॥शशिकिरणप्रावरणस्फाटिकहर्म्येषु हरिणशावाक्ष्यः ।यत्र विभान्ति सुधाम्बुधिदुग्धतरङ्गित्थिता इवाप्सरसः ॥८॥तत्राभूदभिभूतप्रभूतमायानिकायशतधूर्तः ।सकलकलानिलयानां धुर्यः श्रीमूलदेवाख्यः ॥९॥नानादिग्देशागतधूर्तैरुपजीव्यमानमतिविभवः ।स प्राप विपुलसंपदम् आत्मगुणैश्चक्रवर्तीव ॥१०॥भुक्तोत्तरं सहृदयैर् आस्थानीसंस्थितं कदाचित्तम् ।अभ्येत्य सार्थवाहो दत्तमहार्होपहारमणिकनकः ॥११॥प्रणतो हिरण्यगुप्तः सहितः पुत्रेण चन्द्रगुप्तेन ।प्राप्तासनसत्कारः प्रोवाच म्हूर्तविश्रान्तः ॥१२॥अतिपरिचयसप्रतिभा तव पुरतो मादृशामियं वाणी ।ग्राम्याङ्गनेव नगरे न तथा प्रगल्भ्यमायाति ॥१३॥पिहितबृहस्पतिधिषणो रुचिरः प्रज्ञामरीचिनिचयस्ते ।तीक्ष्णांशोरिव सहजः प्रोषिततिमिराः करोत्याशाः ॥१४॥आजन्मार्जितबहुविधमणिमौक्तिककनकपूर्णकोषस्य ।एको ममैष सूनुः संजातः पश्चिमे वयसि ॥१५॥मोहस्थानं बाल्यं यौवनमपि मदनमानसोन्मादम् ।अनिलावलोलनलिनीदलजलचपलाश्च वित्तचयाः ॥१६॥हारिण्यो हरिणदृशः सततं भोगाब्जमधुकरा धूर्ताः ।पतिता परंपरैषा दोषाणां मम सुतस्यास्य ॥१७॥धूर्तकरकन्दुकानां वारवधूचरणनूपुरमणीनाम् ।धनिकगृहोत्पन्नानां मुक्तिर्नास्त्येव मुग्धानाम् ॥१८॥अज्ञातदेशकालाश् चपलमुखाः पङ्गवोऽपि सप्लुतयः ।नवविहगा इव मुग्धा भक्ष्यन्ते धूर्तमार्जारैः ॥१९॥आश्रितजनतनयोऽयं तव विद्वन्निजसुताधिकः सत्यम् ।न यथा प्रयाति नाशं तथास्य बुद्धिं प्रयच्छ पराम् ॥२०॥इति विनयनम्रशिरसा तेन वचो युक्तमुक्तमवधार्य ।तमुवाच मूलदेवः प्रीतिप्रसरैः प्रसारितौष्ठाग्रः ॥२१॥आस्तामेष सुतस्ते मम भवने निज इव प्रयत्नपरः ।ज्ञास्यति मयोपदिष्टं शनकैः सकलं कलाहृदयम् ॥२२॥इति तस्य शासनेन स्वसुतं निःक्षैप्य तद्गृहे मतिमान् ।नत्वाथ सार्थवाहः प्रययौ निजमन्दिरं मुदितः ॥२३॥अथ शिथिलकिरणजालो धूमरकान्तिर्निरम्बरस्तरणिः ।अभवददृक्ष्यः शनकैः धूर्तैरिव निर्जितः कितवः ॥२४॥अस्तमिते दिवसकरे तिमिरभरद्विरदसंसक्ता ।सिन्दूरपटलपाटलकान्तिरिवाग्रे बभौ सन्ध्या ॥२५॥त्यक्तापि प्रतिदिवसं दिवसद्युतिरनुजगाम दिवसकरम् ।न तु रक्तापि हि सन्ध्या हृदयं जानाति कः स्त्रीणाम् ॥२६॥गगनाङ्गणकमलवने सन्ध्यारागे गते शनैः क्वापि ।अप्राप्तस्थितिविकलं बभ्राम भ्रमरविभ्रमं तिमिरम् ॥२७॥तीक्ष्णांशुविरहमोहैः तिमिरैरिव मीलिता बभूव मही ।तीव्रोऽपि जनस्य सदायातः खलु वल्लभो भवति ॥२८॥रजनी रराज सिततरतारकमुक्ताकलापकृतशोभा ।शबररमणीव परिचिततिमिरमयूरच्छदाभरणा ॥२९॥अथ पथिकवधूदहनः शनकैरुदभून्निशाकरालोकः ।कुमुदप्रबोधदूतो व्यसनगुरुश्चक्रवाकीणाम् ॥३०॥मन्मथसितातपत्रं दिग्वनितास्फटिकदर्पणो विमलः ।विरराज रजनिरमणीसिततिलको यामिनीनाथः ॥३१॥निजकरमृणालवल्लीवलयविलासी ललास सितकान्तिः ।गगनतटिनीतटान्ते रजनिकरो राजहंस इव ॥३२॥श्यामा शुशुभे शशिना तया मनोभूर्मधूत्सवस्तेन ।मदमुदितमानसानां तेनापि मृगीदृशां लीला ॥३३॥धूर्ताः समृद्धिसचिवा विच्छायां पद्मिनीं परित्यज्य ।फुल्लानि विविशुरलयः सानन्दाः कुमुदवृन्दानि ॥३४॥ज्योत्स्नाभस्मस्मेरा सुललितशशिशकलपेशलकपाला ।तारास्थिपटलहारा शुशुभे कापालिकीव निशा ॥३५॥तस्मिन्प्रौढनिशाकरकिरणप्रकरप्रकाशिताशेषे ।निजमणिभवनोद्याने निर्वर्तितभावनासमाधानः ॥३६॥स्फटिकासनोपविष्टः सह शशिना निर्विभागमित्रेण ।कन्दलिमुख्यैः शिष्यैः परिवारितपादपीठान्तः ॥३७॥प्रोवाच मूलदेवो वीक्ष्य चिरं सार्थवाहसुतमग्रे ।कुर्वन्दशनमयूखैः लज्जालीनामिव ज्योत्स्नाम् ॥३८॥शृणु पुत्र वञ्चकानां सकलकलाहृदयसारमतिकुटिलम् ।ज्ञाते भवन्ति यस्मिन् क्षणरुचिचपलाः श्रियोऽप्यचलाः ॥३९॥एकोऽस्मिन्भवगहने तृणपल्लववलयजालसंच्छन्नः ।कूपः पतन्ति यस्मिन् मुग्धकुरङ्गा निरालम्बे ॥४०॥सोऽयं निधानकुम्भो दम्भो नांअ स्वभावगम्भीरः ।कुटिलैः कुहकभुजंगैः संवृतवदनः स्थितो लोके ॥४१॥मायारहस्यमन्त्रश्चिन्तामणिरीप्सितार्थानाम् ।दम्भः प्रभावकारी धूर्तानां श्रीवशीकरणम् ॥४२॥मत्स्यास्येवाप्सु सदा दम्भस्य ज्ञायते गतिः केन ।नास्य करौ न च पादौ न शिरो दुर्लक्ष्य एवासौ ॥४३॥मन्त्रबलेन भुजंगा मुग्धकुरङ्गाश्च कूटयन्त्रेण ।स्थलजालेन विहङ्गा गृह्यन्ते मानवाश्च दम्भेन ॥४४॥जनहृदयविप्रलम्भो मायास्थम्भो जगज्जयारम्भः ।जयति सदानुपलम्भो मायारम्भोदयो दम्भः ॥४५॥सततावर्तभ्रान्ते दुःसहमायासहस्रकुटिलारे ।मूलं दम्भो नाभिर्विपुलतरे चक्रिकाचक्रे ॥४६॥नयननिमीलनमूलः सुचिरं स्नानार्द्रचूलजलसिक्तः ।दम्भतरुः शुचिकुसुमः सुखशतशाखाशतैः फलितः ॥४७॥व्रतनियमैर्बकदम्भः संवृतनियमैश्च कूर्मजो दम्भः ।निभृतगतिनयननियमैर्घोरो मार्जारजो दम्भः ॥४८॥बकदम्भो दम्भपतिर्दम्भनरेन्द्रश्च कूर्मजो दम्भः ।मार्जारदम्भ एव प्राप्तो दम्भेषु चक्रवर्तित्वम् ॥४९॥नीचनखश्मश्रुकचश्चूली जटिलः प्रलम्बकूर्चो वा ।बहुमृत्तिकापिशाचः परिमितभाषी प्रयत्नपादत्रः ॥५०॥स्थूलग्रन्थिपवित्रकपृष्ठार्पितहेमवल्लीकः ।कक्षार्पितपतपल्लवरुद्धभुजो भाण्डहस्त इव ॥५१॥अङ्गुलिभङ्गविकल्पन विविधविवादप्रवृत्तपाण्डित्यः ।जपचपलोष्ठः सजने ध्यानपरो नगररथ्यासु ॥५२॥साभिनयाञ्चितचुलकैराचमनैः सुचिरमज्जनैस्तीर्थे ।संरुद्धसकललोकः पुनः पुनः कर्णकोणसंस्पर्शी ॥५३॥सीत्कृतदन्तनिनादावेदितहेमन्तदुःसहस्नानः ।विस्तीर्णतिलकचर्चासूचितसर्वोपचारसुरपूजः ॥५४॥शिरसा बिबर्ति कुसुमं विनिपतितां काकदृष्टिम् इव रचयन् ।एवं रूपं पुरुषो यो यः स स दाम्भिको ज्ञेयः ॥५५॥निर्गुणलोकप्रणतःसगुणे स्तब्धः स्वबन्धुषु द्वेषी ।पुरजनकरुणाबन्धुः कीर्त्यार्थी दांभिको धूर्तः ॥५६॥कार्योपयोगकाले प्रणतशिराश्चाटुशतकारी ।सभ्रूभङ्गो मौनी कृतकार्यो दाम्भिकः क्रूरः ॥५७॥स्तम्भितविबुधसमृद्धिर्दैत्यो योऽभूत्पुरा जम्भः ।दम्भः सोऽयं निवसति भूमितले भूतदेहेषु ॥५८॥शुचिदम्भः शमदम्भः स्नातकदम्भः समाधिदम्भश्च ।निःस्पृहदम्भस्य तुलां यान्ति तु नैते शतांशेन ॥५९॥शौचाचारविवादी मृत्क्षयकारी स्वबान्धवस्पर्शी ।शुचिदम्भेन जनोऽयं विश्वामित्रत्वमायाति ॥६०॥संहृतबहुविधसत्त्वो निःक्षेपद्रविणवारिबहुतृष्णः ।सततमहिंसादम्भो वडवाग्निः सर्वभक्षोऽयम् ॥६१॥मुण्डो जटिलो नग्नश्छत्री दण्डी कषायचारी वा ।भस्मस्मेरशरीरो दिशि दिशि भोगी विजृम्भते दम्भः ॥६२॥खल्वाटः स्थूलवपुः शुष्कतनुर्मुनिसमानरूपो वा ।शाटकवेष्टितशीर्षश्चैत्योन्नतशिखरवेष्टनो वापि ॥६३॥लोभः पितातिवृद्धो जननी माया सहोदरः कूटः ।कुटिलाकृतिश्च गृहिणी पुत्रो दम्भस्य हुंकारः ॥६४॥भगवान्पुरा स्वयंभूः कृत्वा भुवनानि भूतसर्गं च ।विरतव्यापारतया सुचिरं चिन्तान्वितस्तस्थौ ॥६५॥दृष्ट्वा स मर्त्यलोके दिव्यदृशा मानुषान्निरालम्बान् ।आर्जवयोगविशेषादप्राप्तधनादिसंभोगान् ॥६६॥मीलितनयनः क्षैप्रं स्थित्वा मायामये समाधाने ।असृजन्नृणां (नॄणां?) विभूत्यै दम्भं संभावनाधारम् ॥६७॥बिभ्राणः कुशपूलीं पुस्तकमाले कमण्डलुं शून्यम् ।निजहृदयकुटिलशृङ्गं दण्डं कृष्णाजिनं खनित्रं च ॥६८॥स्थूलतरकुशपवित्रकलाञ्छितकर्णः पवित्रपाणिश्च ।सुव्यक्तमुण्डमस्तककुशवेष्टितचूलमूलसितकुसुमः ॥६९॥काष्ठस्तब्धग्रीवो जपचपलोष्ठः समाधिलीनाक्षः ।रुद्राक्षवलयहस्तो मृत्परिपूर्णं वहन्पात्रम् ॥७०॥नयनाञ्चलैः सकोपैर्भ्रुकुटीहुंकारवदनसंज्ञाभिः ।बहुविधकदर्थनाभिः कथिताखिलहृदयवाञ्छितो मौनी ॥७१॥रक्षन्परसंस्पर्शं शौचार्थी ब्रह्मलोकेऽपि ।दम्भः पुरोऽस्य तस्थावुत्थित एवासनाकाङ्क्षी ॥७२॥आकल्पेन सुमहता सहसास्य वशीकृताः परं तेन ।सप्तर्षयोऽपि तस्मै प्रणतास्तस्थुः कृताञ्जलयः ॥७३॥तं दृष्ट्वा परमेष्ठी लीलाकृतसकलसर्गवर्गोऽपि ।गौरवविस्मयहर्षैर्निःस्पन्दान्दोलितस्तस्थौ ॥७४॥तस्यातितीव्रनियमाद्ग्रस्तेऽगस्त्येऽतिविस्मयेनेव ।अल्पतपोव्रतलज्जाकुञ्चितपृष्ठे वसिष्ठे च ॥७५॥अतिसरलनिजमुनिव्रतपरिगतकुत्से च कूणिते कौत्से ।डम्बररहितात्मतपोनिरादरे नारदे विहिते ॥७६॥निजजानुसंधिशिखरे जमदग्नौ मग्नवदने च ।त्रस्ते विश्वामित्रे वलितगुले गालवेभृगौ मग्ने ॥७७॥सुचिरोत्थितमतिकोपादासनकमले निविष्टदृष्टिं च ।शूलप्रोतमिवाग्रे निःस्पन्दममन्दगर्वगुरुगात्रम् ॥७८॥ज्ञात्वा तमासनार्थिनमवदद्देवश्चतुर्मुखः प्रीत्या ।विकसन्निजदशानरुचा विहसन्निव वाहनं हंसं ॥७९॥उपविश पुत्र ममाङ्के नियमेन महीयसातिचित्रेण ।अर्होऽसि गुणगणोद्गतगौरवसंवादिनानेन ॥८०॥इत्युक्तो विश्वसृजा तस्याङ्कमशङ्कया ससंकोचः ।अभ्युक्ष्य वारिमुष्ट्या कृच्छ्रेणोपाविशद्दम्भः ॥८१॥दम्भ उवाच॥ नोच्चैर्वाच्यमवश्यं यदि वाच्यं हस्तपद्मेन ।आच्छाद्य वक्त्ररन्ध्रं स्पृष्टो न स्यां यथास्यवातांशैः ॥८२॥तत्तस्य शौचमतुलं दृष्ट्वा स्मेराननो ब्रह्मा ।दम्भोऽसीति जगाद प्रायो हस्ताग्रमाकम्प्य ॥८३॥उत्तिष्ठाऌसकलजलनिधिपरिखावलिमेखलां महीमखिलाम् ।अवतीर्य भुङ्क्ष्वा भोगान्विबुधैरपि तत्त्वतो न विज्ञातः ॥८४॥इत्यादराद्विसृष्टो विधिना संसारसागरगतानाम् ।कण्ट्ःे शीलां निबध्नन्मर्त्यानामवततार महीम् ॥८५॥अथ मर्त्यलोकमेत्य भ्रान्त्वा दम्भो वनानि नगराणि ।विनिवेश्य गौडविषये निजजयकेतुं जगाम दिशः ॥८६॥वचने बाह्लीकानां व्रतनियमे प्राच्यदाक्षैणात्यानां ।अधिकारे वीराणां दम्भः सर्वत्र गौडानाम् ॥८७॥एते दम्भसहायाः प्रतिग्रहश्राद्धसिद्धचूर्णेन ।कुर्वन्ति ये प्रभाते यतस्ततो भस्मना तिलकम् ॥८८॥तूर्णं सहस्रभागैर्भुवनतलए संविभज्य भूतानि ।मूर्तः सततं निवसति दम्भो वदनेऽधिकरणभट्टानाम् ॥८९॥गुरुहृदयमविशादग्रे बालकहृदयं तपस्विहृदयं च ।कुटिलं नियोगिहृदयं दीक्षैतहृदयं स्वयं दम्भः ॥९०॥तदनु च गणकचिकित्सकसेवकवणिजां सहेमकाराणाम् ।नटभटगायनवाचकचक्रचराणां च हृदयानि ॥९१॥अंशैः प्रविश्य हृदयं विविधविकारैः समस्तजन्तूनाम् ।दम्भो विवेश पश्चादन्तरमिह पक्षैवृक्षाणाम् ॥९२॥मत्स्यार्थी चरति तपः सुचिरं निःस्पन्द एकपादेन ।तीर्थेषु बकतपस्वी तेन विहङ्गान्गतो दम्भः ॥९३॥विपुलजटावल्कलिनः शीतातपवातकर्शिताः सततम् ।वृक्षा जलार्थिनो यद्दम्भस्य विजृम्भितं तदपि ॥९४॥एवं विचारणीयः सर्वगतः सर्वहृत्सदा दम्भः ।ज्ञाते तस्मिन्विविधे विफला मायाविनां माया ॥९५॥दम्भविकारः पुरतो वञ्चकचक्रस्य कल्पवृक्षोऽयम् ।वामनदम्भेन पुरा हरिणा त्रैलोक्यमाक्रान्तम् ॥९६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP