कालविलास - सर्ग २
कालविलास हास्य प्रहसन का एक अत्युत्तम ग्रंथ है ।
लोभः सदा विचिन्त्यो लुब्धेभ्यः सर्वतो भयं दृष्टम् ।
कार्याकार्यविचारो लोभाकृष्टस्य नास्त्येव ॥१॥
मायाविनिमयविभ्रमनिह्नववैचित्यकूटकपटानाम् ।
सञ्चयदुर्गपिशाचः सर्वहरो मूलकारणां लोभः ॥२॥
सत्त्वप्रशमतपोभिः सत्त्वधनैः शास्त्रवेदिभिर्विजितः ।
लोभोऽवटं प्रविष्टः कुटिलं हृदयं किराटानाम् ॥३॥
क्रयविक्रयकूटतुलालाघवनिःक्षेपरक्षणव्याजैः ।
एते हि दिवसचौरा मुष्णन्ति मुदा जनं वणिजः ॥४॥
हृत्वा धनं जनानां दिनमखिलं विविधकूटमायाभिः ।
वितरति गृहे किराटः कष्टेन वराटकत्रितयम् ॥५॥
आख्यायिकानुरागी व्रजति सदा पुण्यपुस्तकं श्रोतुम् ।
दष्ट इव कृष्णसर्पैः फलायते दानधर्मेभ्यः ॥६॥
द्वादश्यां पितृदिवसे संक्रमणे सोमसूर्ययोर्ग्रहणे ।
सुचिरं स्नानं कुरुते न ददाति कपर्दिकामेकाम् ॥७॥
दत्त्वा दिशि दिशि दृष्टिं याचकचकितोऽवगुण्ठनं कृत्वा ।
चौर इव कुटिलचारी पलायते विकटरथ्याभिः ॥८॥
न ददाति प्रतिवचनं विक्रयकाले शठो वणिङ्मौनी ।
निःक्षेपपाणिपुरुषं दृष्ट्वा संभाषणां कुरुते ॥९॥
उत्तिष्ठति नमति वणिक् पृच्छति कुशलं ददाति च स्थानं ।
निःक्षेपपाणिपुरुषं दृष्ट्वा धर्म्यां कथां कुरुतेक ॥१०॥
कश्चिद्वदति तमेत्य द्रविणं निःक्षिप्य हन्त गन्तास्मि ।
भ्रातः परं प्रभाते विष्टिदिनं किं करोम्यद्य ॥११॥
तच्छ्रुत्वा विकसितदृग्वदति स मिथ्यैव नाटयन्खेदम् ।
कार्ये प्रसारिताक्षः पुनः पुनः पार्श्वमवलोक्य ॥१२॥
त्वदधीनं स्थानमिदं किं तु चिरं न्यासपालनं कठिनम् ।
विषमौ च देशकालौ साधोस्तव तदपि दासोऽहम् ॥१३॥
भद्राऌ न दूषितैषा निःक्षेपक्षेमकारिणी शस्ता ।
इत्यनुभूतं बहुशः कार्यज्ञैस्त्वं तु जानासि ॥१४॥
विष्टिदिने किमपि पुराऌन्यस्तं केनापि मित्रेण ।
तूर्णं पुनश्च शनकैर्नीतं क्षेमेण कुशलेन ॥१५॥
इत्यादि मुग्धबुद्धेरसमन्न्जसवर्णनं रहः कृत्वा ।
गृह्णाति कनकनिकरं नृत्यंस्तत्तन्मनोरथैः पापः ॥१६॥
तत्संचूर्णनजातैः क्रयविक्रयलाभराशिभिरनन्तैः ।
भाण्डप्रतिभाण्डचयैरुपहसति धनाधिनाथं सः ॥१७॥
पूर्णाः कदर्यवणिजां निःसंभोगा निधानधनकुम्भाः ।
सीदन्ति कुचतटा इव दुःखफला बालविधवानाम् ॥१८॥
दानोपभोगविरहितहिरण्यरक्षाकृतक्षणाः सततम् ।
संसारजीर्णमन्दिरविषयविषममहामूषका वणिजः ॥१९॥
अटति समुत्कटवेष्टितविकटपटस्फुटफटाटोपः ।
कुटिलः कण्टकनिचितः पुरपतिनामा विधिव्यालः ॥२०॥
अथ पुरुषः स दिगन्तं भ्रान्त्वा केनापि दैवयोगेन ।
नष्टधनो जनरहितः प्राप्तः सुचिरान्निजं देशम् ॥२१॥
पृच्छति कमपि सशङ्कः स किराटः क्व नु गतो महासत्त्वः ।
तमुपेत्य वदति कश्चित्तस्याद्य सखे विभूतिरन्यैव ॥२२॥
विविधनवांशुकमृगमदचन्दनकर्पूरमरिचपूगफलैः ।
खटिकाहस्तः स सदा गणयति कोटीर्मुहूर्तेन ॥२३॥
अस्मिन्मेरुविशाले वरभवने रुचिरभित्तिकृतचित्रे ।
पुरपतिनाप्यनुयातो वसति सुखं स हि महाजनो यत्र ॥२४॥
श्रुत्वैतदतुलविस्मयलोलितमौलिः स तद्गृहं गत्वा ।
द्वारे स्थगितस्तिष्ठति निष्प्रतिभो जीर्णकर्पटः सुचिरम् ॥२५॥
तं तुङ्गभवनवलभीजालान्तरतो वणिक्परिज्ञाय ।
नोच्छ्वसिति नष्टचेतस्ताडित इव मूर्ध्नि वज्रेण ॥२६॥
उपसृत्य मन्दमन्दं कथमपि संप्राप्तनिर्जनावसरः ।
तं याचते स पुरुषो द्रविणं स्वं प्रकटिताभिक्यः ॥२७॥
तं वदति सोऽन्यदृष्टिः सभ्रूभङ्गं विधूतहस्ताग्रः ।
वञ्चकवचनः पापो वृत्तिक्षीणः कुतोऽयमायातः ॥२८॥
कस्त्वं कस्य कुतो वा दर्शनमपि न स्मरामि किं कथनैः ।
अहह कदा कुत्र त्वं वद कस्य किमर्पितं केन ॥२९॥
पश्यत कष्ठमनिष्टः कलिकालः कीदृशोऽयमायातः ।
मत्तोऽर्थमेष वाञ्छति लोको जानाति वा सर्वम् ॥३०॥
हरगुप्तकुलेऽस्माकं निःक्षेपग्रहणमप्यसंभाव्यम् ।
किं पुनरपह्नवोद्गतघोरमहापातकस्पर्शः ॥३१॥
तदपि सतताभिशंसी प्रत्याख्येयो जनः कथं महताम् ।
कथय दिनं तद्दिवसे लिखितं सर्वं स्वयं पश्य ॥३२॥
वृद्धोऽहं न्यस्तभरः पुत्रे सर्वं ममास्ति लिखितं हि ।
इति तेन विनष्टधृतिः स विसृष्टस्तत्सुतान्तिकं प्राप्तः ॥३३॥
तातो जानाति सुतो जानाति पितैव लिखति सकलं यत् ।
इति तस्य भवति सुचिरं गतागतं कन्दुकस्येव ॥३४॥
राजकुलद्वारगते तस्मिन्प्राप्तप्रवासदत्तार्थे ।
सहते नरप्तिकोपं त्यजति किराटो न रूपकस्यांशम् ॥३५॥
परिपीडितः स राज्ञा विविधैरपि यातनौशस्त्रः ।
मम हस्ते निःक्षिप्तं किंचिन्नास्तीति वक्त्येव ॥३६॥
एवं स्वभावलुब्धास्व भवन्ति धनलवणवारिबहुतृष्णाः ।
तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य ॥३७॥
देवं धनाधिनाथं वैश्रवणं सकलसंपदां निलयम् ।
शुक्रः प्रोवाच पुरा वित्तार्थी बालमित्त्रमभ्येत्य ॥३८॥
पूर्णः सखे तवायं विभवो विजितामरासुरैश्वर्यः ।
हर्षं विदधाति परं सुहृदां शोकं च शत्रूणाम् ॥३९॥
त्वयि सुहृदि वित्तनाथे निःस्वोऽहं बहुकुटुम्बसंभारः ।
समदुःखसुखं मित्त्रं स्वाधीनतयोदितं प्रशंसन्ति ॥४०॥
यशसि विहितादराणामर्थिभिरुपजीव्यमानविभवानाम् ।
अभिजातवंशजानां सुहृदुपभोग्याः श्रियो महताम् ॥४१॥
उपनतमतिपुण्यचयैः संपूर्णं रक्षितं च यत्नेन ।
संपदि विपदि त्राणं भवति निधानं च मित्त्रं च ॥४२॥
इत्युक्तः सप्रँयं दैत्याचार्येण निर्जने धनदः ।
तमुवाच विचिन्त्य चिरं संरुद्धः स्नेहलोभाभ्याम् ॥४३॥
जानानमि बालमित्त्रं त्वामहमत्यन्तसंभृतस्नेहम् ।
किं तु न जीवितजीवं द्रविणलवं त्यक्तुमीशोऽस्मि ॥४४॥
स्नेहार्थी बन्धुजनः कार्यैर्बहुभिर्भवन्ति मित्त्राणि ।
दाराः सुताश्च सुलभा धनमेकं दुर्लभं लोके ॥४५॥
अतिसाहसमतिदुष्करम् अत्याश्चर्यं च दानमर्थानाम् ।
योऽपि ददाति शरीरं न ददाति स वित्तलेशमपि ॥४६॥
इत्याशापरिहारैः प्रत्याख्यातो धनाधिनाथेन ।
भग्नमुखो लुलितमतिर्लज्जावक्त्रो ययौ शुक्रः ॥४७॥
स विचिन्त्य गृहे सुचिरं सचिवैः सह मायया महायोगी ।
हर्तुं द्रविणमशेषं विवेश हृदयं धनेशस्य ॥४८॥
शुक्राविष्टशरीरो वैश्रवणः सकलमद्बुतत्यागः ।
तत्कृतसंकेतेभ्यः प्रददौ वित्तं द्विजातिभ्यः ॥४९॥
कौबेरं धनमखिलं हृत्वा यातेऽथ दानवाचार्ये ।
सुचिरं धनाधिनाथः शुशोच विज्ञाय तां मायाम् ॥५०॥
हस्तन्यस्तललाटः सह शङ्खमुकुन्दपद्माद्यैः ।
संचिन्त्य शुक्रविकृतिं स जगादोष्णं विनिःश्वस्य ॥५१॥
सुहृदा मर्मज्ञेन व्याजान्मायाविनातिलुब्धेन ।
धूर्तेन वञ्चितोऽहं दैत्याश्रयदुर्जयेन शुक्रेण ॥५२॥
अधुना द्रव्यविहीनः क्षणेन तृणलाघवं प्राप्तः ।
कथयामि कस्य दुःखं करोमि किं वा क्व गच्छामि ॥५३॥
धनरहितं त्यजति जनो जनरहितं परिभवाः समायान्ति ।
परिभूतस्य शरीरे व्यसनविकारो महाभारह् ॥५४॥
दयितेषु शरीरवतां बत धर्मलतालवालेषु ।
द्रविणेषु जीवितेषु च सर्वं याति प्रयातेषु ॥५५॥
विद्वान्सुभगो मानी विश्रुतकर्मा कुलोन्नतः शूरः ।
वित्तेन भवति सर्वो वित्तहीनस्तु सद्गुणोऽप्यगुणः ॥५६॥
इति दुःसहधनविरहक्लेशानलशोषिताशयो धनपः ।
सुचिरं विमृष्य सचिवैर्देवं शर्वं ययौ शरणम् ॥५७॥
प्राक्प्रतिपन्नसखोऽसौ विश्वशरण्यो महेश्वरस्तेन ।
विज्ञप्तो निजव्र्त्तं दूतं विससर्ज शुक्राय ॥५८॥
दूताहूतं सहसा प्राप्तं शुक्रं धनप्रभाशुक्रम् ।
अञ्जलिविरचितमुकुटं प्रोवाच पुरःस्थितं पुरजित् ॥५९॥
मित्त्रमयं द्रविणपतिर्भवता बत वञ्चितः कृतज्ञेन ।
मित्त्रद्रोहे प्रसरति न हि नाम जनः कृतघ्नोऽपि ॥६०॥
अगणितयशसा त्यक्तस्थितिना क्रियतेऽथ याकृतज्ञेन ।
स्निग्धे सुहृदि सरागे मित्रे तव वञ्चना न युक्ता सा ॥६१॥
एतत्किं श्रुतसदृशं त्वद्व्रतयोग्यं कुलानुरूपं वा ।
कृतवानसि यत्सुमते परिभूतगुणोदयं कर्म ॥६२॥
किमयं सुनयाभ्यासः प्रशमो वा गुरुजनोपदेशो वाऌ ।
मतिविभवः सहजो वा वञ्चकतां येन यातोऽसि ॥६३॥
कस्य न दयितं वित्तं चित्तं ह्रियते न कस्य वित्तेन ।
किं तु यशोधनलुब्धा वाञ्छन्ति न दुष्कृतैरर्थान् ॥६४॥
मा मा मलिनय विमलं भृगुकुलममलं मलेन लोभेन ।
लोभजलदो हि शत्रुर्विशदयशोराजहंसानाम् ॥६५॥
त्यक्त्वा कीर्तिमनन्तामनिलाकुलतृणलवोपमानर्थान् ।
गृह्णाति यः स मध्ये धूर्तानां कीदृशो धूर्तः ॥६६॥
उत्सृज्य साधुवृत्तं कुतिलाधिया वञ्चितः परो येन ।
आत्मैव मूढमतिना कृतसुकृतो वञ्चितस्तेन ॥६७॥
नियता दूषितयशसां बत किसलयकोमला प्रकृत्यैव ।
अपवादविषतरूत्थैरामोदैर्मूर्छिता लक्ष्मीः ॥६८॥
न हि नाम सज्जनानां शुद्धयशःस्फटिककदर्पणो विमलः ।
परिभवदुःखितजनतानिःश्वासैर्मलिनतामेति ॥६९॥
असमञ्जसमतिमलिनं मोहद्व्यक्तिं समागतं कर्म ।
तस्य विशुद्धिः क्रियतां परवित्तसमर्पणेनैव ॥७०॥
अपवादधूलिधूसरममलयशो मृज्यतां स्वहस्तेन ।
अस्मद्वचनं क्रियतां परधनमुत्सृज्यतामेतत् ॥७१॥
इत्युक्तः सानुनयं त्रिभुवनगुरूणापि देवदेवेन ।
परधननिबद्धतृष्णः प्रोवाच कृताञ्जलिः शुक्रः ॥७२॥
भगवन्भवतः शासनममरेन्द्रकिरीटकोटिविश्रान्तम् ।
लङ्घयति को नु मोहाद्दौर्गत्यं सत्त्वहारि यदि न स्यात् ॥७३॥
यस्य क्षीणस्य गृहे भृत्या दाराः सुताश्च सीदन्ति ।
कार्याकार्यविचाऋओ द्रविणादानेषु कस्तस्य ॥७४॥
मित्रमयं धननाथो विपदि त्राणं विचिन्तितः सततम् ।
वृद्धिं यातः सुमहानाशाबन्धश्च मे हृदये ॥७५॥
अभ्येत्य याचितोऽपि त्यक्त्वा लज्जां मयाऌविहतलज्जः ।
चिच्छेदैष ममाशां सहसा प्रतिषेधशस्त्रेण ॥७६॥
तेन प्रहतमशस्त्रं दाहोऽनग्निश्च निर्विषं मरणम् ।
विहितं शठेन मोहादाशाभङ्घः कृतो येन ॥७७॥
तस्मान्ममैष शत्रुः सुकृतसम शात्रुवञ्चनापापम् ।
रिक्तस्य निरपवादो व्याजेनोपार्जितोऽप्यर्थः ॥७८॥
अणु धनमपि न त्याज्यं मम भवता ज्ञापिते सत्यम् ।
वित्तं जीवितमग्र्यं जीवितहानिर्धनत्यागः ॥७९॥
इति संभाषिणमसकृद्दैत्यगुरुं प्रार्थितं पुनर्बहुशाः ।
कवलीचकार सहसा प्रतिषेधरुषा विरूपाक्षः ॥८०॥
जठरान्तरे पुरारेः प्रलयानलविपुलभीषणाबोगे ।
प्रक्वाथ्यमानकायः शुक्रश्चुक्रोश साक्रोशः ॥८१॥
त्यज धनमिति विषमदृशा पुनः पुनः प्रेरितोऽवदच्छुक्रः ।
निधनं ममास्तु भगवन्धनदधनं न त्यजामि किंचिदपि ॥८२॥
अथ धारणाप्रवृद्धज्वलनज्वालासहस्रविकराले ।
शुक्रश्चुक्रोश भृशं घोरगभीरे हरोदरे पतितः ॥८३॥
तमुवाच देवेदेवस्त्यज्य दुर्ग्रहदग्ध परवित्तम् ।
अस्मिन्नुदरमहोदधिवडवाग्नौ मा गमः प्रलयम् ॥८४॥
सोऽवददतिशयतापस्फुटितास्थिवसाप्रवाहबहलाग्नौ ।
परमिह मरणं श्रेयो द्रविणकणं न त्यजामि सोच्छ्वासः ॥८५॥
पुनरपि घोरतरोद्गतकालानलधारणानलज्वलितः ।
शुक्रश्चक्रे देव्याः स्तोत्रं क्षणलेशशेषायुः ॥८६॥
स्तोत्रपदाराधितया गौर्या प्रणयप्रसादिते रुद्रे ।
तद्वचसा लब्धधृतिः शुक्रद्वारेण निर्ययौ शुक्रः ॥८७॥
एवं स्वभावलुब्धास्तीव्रतरां यातनामपि सहन्ते ।
न तु संत्यजन्ति वित्तं कौटिल्यमिवाधमः सहजम् ॥८८॥
तस्माल्लोभसमुत्था कपटकला कुटिलवर्तिनी माया ।
लुब्धहृदयेषु निवसति नालुब्धो वञ्चनं कुरुते ॥८९॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP