तत्रापि वेशयोषाः कुटिलतराः कूटरागहृतलोकाः ।
कपटचरितेन यासां वैश्रवणः श्रमणतामेति ॥१॥

हारिण्यश्चटुलतरा बहुलतरङ्गाश्च निम्नगामिन्यः ।
नद्य इव जलधिमध्ये वेश्याहृदये कलाश्चतुःषष्टिः ॥२॥

वेशकला नृत्यकला गीतकला वक्रवीक्षणकला च ।
कामपरिज्ञानकला ग्रहणकला मित्रवञ्चनकला च ॥३॥

पानकला केलिकला सुरतकलालिङ्गनान्तरकला च ।
चुम्बनकला परकला निर्लज्जावेगसंभ्रमकला च ॥४॥

ईर्ष्याकलिकेलिकला रुदितकला मानसंक्षयकला च ।
स्वेदभ्रमकम्पकला पुनरेकान्तप्रसाधनकला ॥५॥

नेत्रनिमीलननिःसहनिस्पन्दकला मृतोपमकला च ।
विरहासहरागकला कोपप्रतिषेधनिश्चयकला च ॥६॥

निजजननीकलहकला सद्गृहगमनोत्सवेक्षणकला च ।
हरणकला जातिकला केलिकला चौरपार्थिवकला च ॥७॥

गौरवशैथिल्यकला निष्कारणदोषभाषणकला च ।
शूलकलाभ्यङ्गकला निद्राक्षिरजस्वलाम्बरकला च ॥८॥

रूक्षकला तीक्ष्णकला गलहस्तगृहार्गलार्पणकला च ।
संत्यक्तकामुकाहृतिदर्शनयात्रास्तुतिकला च ॥९॥

तीर्थोपवनसुरालयविहरणहेलाकला गृहकला च ।
वश्यौषधमन्त्रकला वृक्षकला केशरञ्जनकला च ॥१०॥

भिक्षुकतापसबहुविधपुण्यकला द्वीपदर्शनकला च ।
खिन्ना कलात्रिषष्ट्या पर्यन्ते कुट्टनीकला वेश्या ॥११॥

अज्ञातनामवर्णेषु आत्मापि ययार्प्यते धनांशेन ।
तस्या अपि सद्भावं मृगयन्ते मोघसंकल्पाः ॥१२॥

निखिलजनवञ्चनार्जित मलिनधनं रागदग्धह्र्दयानाम् ।
खादति गुणगणभग्नो नग्नो हीनो ऽथवा कश्चित् ॥१३॥

नीचस्तुरगारोहो हस्तिपकः खलतरो ऽथवा शिल्पी ।
वञ्चितसकलजनानां तासामपि वल्लभो भवति ॥१४॥

राजा विक्रमसिंहो बलवद्भिर्भूमिपैः पुरा विजितः ।
मानी ययौ विदर्भान्गुणयशसा मन्त्रिणा सहितः ॥१५॥

तत्र स वेश्याभवनं प्रविश्य भुवि विश्रुतां विलासवतीम् ।
भेजे गणिकां बहुधनभोग्याम् अप्य् अल्पविभवो ऽपि ॥१६॥

तं राजलक्षणोचितभाजनानुभुजं विलोक्यपृथुसत्त्वम् ।
विविधमणिकनककोषं चक्रे सा तद्व्ययाधीनम् ॥१७॥

सहजमनुरागमद्रुतम् औचित्यं वीक्ष्य भूपतिस् तस्याः ।
विस्मयविवशः प्रेम्णा जगाद विजने महामात्म्यम् ॥१८॥

चित्रमियं बहु वित्तं क्षपयति वेश्यापि मत्कृते तृणवत् ।
प्रीतिपदवीविसृष्टो वेश्यानां धननिबन्धनो रागः ॥१९॥

मिथ्या धनलवलोभाद् अनुरागं दर्शयन्ति बन्धक्यः ।
तदपि धनं विसृजति या कस्तस्याः प्रेम्णि संदेहः ॥२०॥

इति वचनं भूमिपतेः श्रुत्वा विहस्य सासूयः ।
तमुवाच कस्य राजन् वेश्याचरिते ऽस्ति विश्वासः ॥२१॥

एताः सत्यविहीना धनलवलीनाः सुखक्षणाधीनाः ।
वेश्या विशन्ति हृदयं मुखमधुरा निर्विचाराणाम् ॥२२॥

प्रथमसमागमसुखदा मध्ये व्यसनप्रवासकारिण्यः ।
पर्यन्ते दुःखफलाः पुंसामाशाश्च वेश्याश्च ॥२३॥

अद्यापि हरिहरादिभिः अमरैरपि तत्त्वतो न विज्ञाताः ।
भ्रमविभ्रमबहुमोहा वेश्याः संसारमायाश्च ॥२४॥

इति सचिववचो नृपतिः श्रुत्वा कृत्वा च संविदं तेन ।
मिथ्यामृतमात्मानं चक्रे वेश्यापरीक्षायै ॥२५॥

तस्मिन्कुणपशरीरे विन्यस्ते मन्त्रिणा चित्तावह्नौ ।
सहसैव विलासवती वह्निभुवं भूषिता प्रययौ ॥२६॥

तां प्रबलज्वलितोज्ज्वलवह्निज्वालानिपातसावेगाम् ।
दोर्भ्यामालिङ्ग्य नृपो जीवामीत्यभिधान्मुदितः ॥२७॥

तत्तस्याः प्रेम दृढं सत्यं च विचार्य संभृतस्नेहः ।
राजा निनिन्द मन्त्रिणम् असकृद्वेश्यगुणाभिमुखः ॥२८॥

अथ वेश्याधनसंचयमात्माधीनं महीपतिर् विपुलम् ।
आदाय गजतुरंगमभटविकटामाददे सेनाम् ॥२९॥

सम्भृतविपुलबलौघैः जित्वा वसुधाधिपान्स भूपालः ।
निजमाससाद मण्डलम् इन्दुरिवानन्दकृत्पूर्णः ॥३०॥

सा चान्तःपुरकान्तामूर्ध्नि कृत्वा भूभुजा विलासवती ।
शुशुभे श्रीरिव चामरपवनाकुलितालका तन्वी ॥३१॥

साथ कदाचिन्नरपतिमेकान्ते विरचिताञ्जलिः प्रणता ।
ऊचे नाथ मया त्वं कल्पतरुः सेवितश्चिरं दास्या ॥३२॥

यदि नाम कुत्रचिदहं याता ते हेतुतां विभो लक्ष्म्याः ।
तन्मम सफलामाशामर्हसि कर्तुं प्रसादेन ॥३३॥

पुण्यफलप्राप्यानां हृतपररजसां स्वभावविमलानाम् ।
तीर्थानामिव महतां न हि नाम समागमो विफलः ॥३४॥

अभवन्मम कोऽपि युवा दयितो धनजीविताधिकः प्रणयी ।
बद्धः स विदर्भपुरे दैववशाच्चोररूपेण ॥३५॥

तन्मुक्तये मया त्वं शक्ततरः सेवितो महीनाथः ।
अधुना क्रियतामुचितं सत्त्वस्य कुलस्य शौर्यस्य ॥३६॥

इति वञ्चनामवाप्तो विस्मित इव तद्वचो नृपः श्रुत्वा ।
सुचिरं विलोक्य वसुधां सस्मारामात्यवचनं सः ॥३७॥

अथ तां तथैव राजाश्वास्य विदर्भेषु भूभुजं जित्वा ।
बन्धनमुक्तेनास्याश्चोरेण समागमं चक्रे ॥३८॥

इत्येवं बहुहृदया बहुजिह्वा बहुकराश्च बहुमायाः ।
तत्त्वेन सत्यरहिताः को जानाति स्फुटं वेश्याः ॥३९॥

वर्णनदयितः कश्चिद्धनदयितो दासकर्मदयितोऽन्यः ।
रक्षादयितश्चान्यो वेश्यानां नर्मदयितोऽन्यः ॥४०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP