संस्कृत सूची|संस्कृत साहित्य|कालविलास| सर्ग ८ कालविलास सर्ग १ सर्ग २ सर्ग ३ सर्ग ४ सर्ग ५ सर्ग ६ सर्ग ७ सर्ग ८ सर्ग ९ सर्ग १० कालविलास - सर्ग ८ कालविलास हास्य प्रहसन का एक अत्युत्तम ग्रंथ है । Tags : kalavilaspoemकालविलासकाव्यसंस्कृत सर्ग ८ Translation - भाषांतर तत्रापि हेमकारा हरणकलायोगिनः पृथुध्यानाः ।ये धाम्नि बहुललक्ष्म्याः शून्यत्वं दर्शयन्त्य् एव ॥१॥सारं सकलधनानां संपत्सु विभूषणं विपदि रक्षा ।एते हरन्ति पापाःॢ सततं तेजः परं हेम ॥२॥सहसैव दूषयन्ति स्पर्शेन सुवर्णमुपहतच्छायाम् ।नित्याशुचयः पापाः चण्डाला हेमकाराश् च ॥३॥मसृणकषाश्मनि निकषो मन्दरुचिक्रमगता कला तेषाम् ।येषां परुषकषाश्मनि विक्रयकालेऽपि लाभकला ॥४॥सोपस्नेहः स्वेद्यः सिक्थकमुद्रोऽपि बालुकाप्रायः ।सोष्मा च युक्तिभेदात् तुलोपलानां कलाः पञ्च ॥५॥द्विपुटा स्फोटविपाका सुवर्णरसपायिनी सुताम्रकला ।सीसमलकाचचूर्णग्रहणपरा षट्कला मूषा ॥६॥वक्रमुखी विषमपुटा सुषिरतला न्यस्तपारदा मृद्वी ।पक्षकटा ग्रन्थिमती सिक्थकला बहुगुणा पुरोनम्रा ॥७॥वातभ्रान्ता तन्वी गुर्वी वा परुषवातधृतचूर्णा ।निर्जीवना सजीवा षोडश हेम्नस्तुलासु कलाः ॥८॥मन्दः सावेगो वा मध्यच्छिन्नः सशब्द्ल्फूत्कारः ।पाती शीकरकारी फूत्कारः षट्कलास्तेषाम् ॥९॥ज्वालावलयी धूमो विस्फोटी मन्दकः स्फुलिङ्गी च ।पूर्वधृतताम्रचूर्णस् तेषां अपि षट्कलो वह्निः ॥१०॥प्रश्नः कथा विचित्रा कण्डूयनमंशुकान्तराकृष्टिः ।दिनवेलार्कनिरीक्षणमतिहासो मक्षिकाक्षेपः ॥११॥कौतुकदर्शनमसकृत्स्वजनकलिः सलिलपात्रभङ्गश्च ।बहिरपि गमनं बहुशो द्वादश चेष्टाकलास् तेषाम् ॥१२॥घटितस्योपरि पाकः कृत्रिमवर्णप्रकाशनोत्कर्षी ।तनुगोमयाग्निमध्ये लवणक्षारानुलेपेन ॥१३॥सामान्यलोहपात्राद्भूमिन्यस्तेऽपि कान्तलोहतले ।धावति वदनेन तुला रिक्तापि मुहुः सुपूर्णेव ॥१४॥प्रतिबद्धे जतुयोग्ये प्रक्षिप्तनिघूढकनककणम् ।तुलितं पूरणकाले सुखेन हर्तुं समायाति ॥१५॥उज्ज्वलनेऽपि च तेषां पातनमतिसुकरमश्मकाले च ।सदृशविचित्राभरणे परिवर्तनलाघवप्रसारश्च ॥१६॥पूर्णादाने घटने नेक्षा माषार्पणं प्रभायोगः ।कालाहरणविनाशः प्रतिपूरणयाचनं बहुश्लेषः ॥१७॥एकादश युक्तिकालस्तेषामेताः समासेन ।एकैव कला महती निशि गमनं सर्वमादाय ॥१८॥एता हेमकाराणां विचारलभ्याः कलाश्चतुःषष्टिः ।अन्या गूढाश्च कलाः सहस्रनेत्रोऽपि नो वेत्ति ॥१९॥मेरुः स्थितोऽतिदूरे मनुष्यभूमिं चिरात्परित्यज्य ।भीतोऽवश्यं चौर्याद्घोराणां हेमकाराणाम् ॥२०॥कनकशिलाशतसंधिप्रसृतमहाविवरकोटिसंघातैः ।उत्कीर्णनिखिलशिखरः पुरा कृतो मूषकैर्मेरुः ॥२१॥तत्राखिलाखुसेनानिखातनखरावलेखनोत्खातैः ।शिथिलितमूलः सहसा बभूव मेरुः पुरा नियतम् ॥२२॥मूषकनखरोत्खातः सुमेरुरुच्चैस्तरां शुशुभे ।उद्धतसुवर्णधूलीपटलैः कपिला बहुः ककुभः ॥२३॥तस्मिञ्जर्जरशिखरे विवरोदरदलितकनककूटतटे ।कल्पान्तागमशङ्काभयमाविरभूदमर्त्यानाम् ॥२४॥आह च दिव्यदृशा तद्विलोक्य सर्वं सुरानाथागस्त्यः ।एते ते ब्रह्मघ्ना निशाचारास्त्रिदशसंगरे निहताः ॥२५॥जाता मूषकरूपा मेरुनिपाते कृतारम्भाः ।वध्याः पुनरपि भवतामाश्रमभङ्गान् मुनीनां च ॥२६॥श्रुत्वैतन्मुनिवचनं धूमेन बिलावलीं समापूर्य ।शापेन पूर्वदग्धाञ्जग्धुस्त्रिदशा महामूषान् ॥२७॥एते त एव मूषाः सुवर्ण्काराः क्षितौ पुनर्जाताः ।जन्माभ्यासादनिशं काञ्चनचूर्णं निकर्षन्ति ॥२८॥तस्मान्महीपतीनामसंभवे गरदचोरदस्यूनाम् ।एकः सुवर्णकारो निग्राह्यः सर्वथा नित्यम् ॥२९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP